॥ श्री अय्यप्पा षोडशोपचार पूजा ॥
(सर्वप्रथम
पूर्वाङ्ग (शुद्धि, आचमन, संकल्प) और
गणपति पूजा सम्पन्न करें।)
(सुब्रह्मण्य पूजा के लिए
यहाँ क्लिक करें)
पुनः सङ्कल्पम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री पूर्णापुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री अय्यप्प स्वामिनः प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
ध्यानम्
आश्यामकोमल विशालतनुं विचित्र-
वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
सोमोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजैः मदगजस्कन्दाधिरूढं विभुं
शास्तारं शरणं नमामि सततं त्रैलोक्यसम्मोहनम् ॥
१. आवाहनम्
ओं श्री हरिहरपुत्राय नमः आवाहयामि ।
२. आसनम्
ओं श्री हरिहरपुत्राय नमः आसनं समर्पयामि ।
३. पाद्यम्
ओं श्री हरिहरपुत्राय नमः पादयोः पाद्यं समर्पयामि ।
४. अर्घ्यम्
ओं श्री हरिहरपुत्राय नमः हसयोः अर्घ्यं समर्पयामि ।
५. आचमनीयम्
ओं श्री हरिहरपुत्राय नमः आचमनं समर्पयामि ।
६. मधुपर्कम्
ओं श्री हरिहरपुत्राय नमः मधुपर्कं समर्पयामि ।
७. पञ्चामृत स्नानम्
ओं श्री हरिहरपुत्राय नमः क्षीरेण स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः दध्ना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः आज्येन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः मधुना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः इक्षुरसेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः नारिकेल जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः कर्पूरिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः गङ्गा जलेन स्नपयामि ।
८. शुद्धोदक स्नानम्
ओं श्री हरिहरपुत्राय नमः शुद्धोदक स्नानं समर्पयामि ।
९. वस्त्रम्
ओं श्री हरिहरपुत्राय नमः वस्त्रयुग्मं समर्पयामि ।
१०. यज्ञोपवीतम्
ओं श्री हरिहरपुत्राय नमः यज्ञोपवीतं समर्पयामि ।
११. परिमलद्रव्याणि (गन्धाक्षत)
ओं श्री हरिहरपुत्राय नमः भस्मं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः गन्धं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः हरिद्राचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिकाचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः त्रिचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः कुङ्कुमं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः अलङ्करणार्थं अक्षतान् समर्पयामि ।
अङ्गपूजा
ओं धर्मशास्त्रे नमः – पादौ पूजयामि ।
ओं शिल्पशास्त्रे नमः – गुल्फौ पूजयामि ।
ओं वीरशास्त्रे नमः – जङ्घे पूजयामि ।
ओं योगशास्त्रे नमः – जानुनीं पूजयामि ।
ओं महाशास्त्रे नमः – ऊरूं पूजयामि ।
ओं ब्रह्मशास्त्रे नमः – कटिं पूजयामि ।
ओं कालशास्त्रे नमः – गुह्यं पूजयामि ।
ओं शबरिगिरीशाय नमः – मेढ्रं पूजयामि ।
ओं सत्यरूपाय नमः – नाभिं पूजयामि ।
ओं मणिकण्ठाय नमः – उदरं पूजयामि ।
ओं विष्णुतनयाय नमः – वक्षस्थलं पूजयामि ।
ओं शिवपुत्राय नमः – पार्श्वौ पूजयामि ।
ओं हरिहरपुत्राय नमः – हृदयं पूजयामि ।
ओं त्रिनेत्राय नमः – कण्ठं पूजयामि ।
ओं ओङ्काररूपाय नमः – स्तनौ पूजयामि ।
ओं वरदहस्ताय नमः – हस्तान् पूजयामि ।
ओं भीमाय नमः – बाहून् पूजयामि ।
ओं तेजस्विने नमः – मुखं पूजयामि ।
ओं अष्टमूर्तये नमः – दन्तान् पूजयामि ।
ओं शुभवीक्षणाय नमः – नेत्रौ पूजयामि ।
ओं कोमलाङ्गाय नमः – कर्णौ पूजयामि ।
ओं पापविनाशाय नमः – ललाटं पूजयामि ।
ओं शत्रुनाशाय नमः – नासिकां पूजयामि ।
ओं पुत्रलाभाय नमः – चुबुकं पूजयामि ।
ओं हरिहरात्मजाय नमः – गण्डस्थलं पूजयामि ।
ओं गणेशपूज्याय नमः – कवचान् पूजयामि ।
ओं चिद्रूपाय नमः – शिरसान् पूजयामि ।
ओं सर्वेशाय नमः – सर्वाण्यङ्गानि पूजयामि ।
अष्टोत्तरशतनाम पूजा
(यहाँ भगवान अय्यप्पा की अष्टोत्तरशतनामावली का पाठ करें)
*
श्री अय्यप्प अष्टोत्तर शतनामावली
मूलमन्त्रम्
अस्य श्री महाशास्त्र्य महामन्त्रस्य रेवन्द ऋषिः देवी गायत्री छन्दः श्री महाशास्ता देवता श्री हरिहरपुत्र अनुग्रह सिद्ध्यर्थे पूजे विनियोगः ।
ओं ह्रीं हरिहरपुत्राय पुत्रलाभाय शत्रुनाशाय मदगजवाहाय महाशास्त्रे नमः ।
नमस्कारम्
ओं रत्नाभं सुप्रसन्नं शशिधरमकुटं रत्नभूषाभिरामं
शूलकेलं कपालं शरमुसलधनुर् बाहु सङ्केतधारम् ।
मत्तेभारूढं आद्यं हरिहरतनयं कोमलाङ्गं दयालुं
विश्वेशं भक्तवन्द्यं शतजनवरदं ग्रामपालं नमामि ॥
१२. धूपम्
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
महोजसं नमस्तुभ्यं गृहाण वरदो भव ॥
ओं श्री हरिहरपुत्राय नमः धूपं आघ्रापयामि ।
१३. दीपम्
साज्यं त्रिवर्ति सम्युक्तं वह्निना द्योतितं मया ।
गृहाण मङ्गलं दीपं ईशपुत्र नमोऽस्तु ते ॥
ओं श्री हरिहरपुत्राय नमः दीपं दर्शयामि ।
धूप दीपानन्तरं आचमनीयं समर्पयामि ।
१४. नैवेद्यम्
सुगन्धान्सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मयादत्तं महाप्रभो ॥
ओं श्री हरिहरपुत्राय नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापि धानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
१५. ताम्बूलम्
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्री हरिहरपुत्राय नमः ताम्बूलं समर्पयामि ।
१६. नीराजनम्
घृतवर्ति सहस्रैश्च कर्पूरशकलैः स्थितम् ।
नीराजनं मयादत्तं गृहाण वरदोभव ॥
ओं श्री हरिहरपुत्राय नमः आनन्द कर्पूर नीराजनं समर्पयामि ।
नीरजनानन्तरं शुद्ध आचमनीयं समर्पयामि ।
मन्त्रपुष्पम्
ओं तत्पुरुषाय विद्महे मणिकण्ठाय धीमहि तन्नो शास्ता प्रचोदयात् ।
ओं परात्मजाय विद्महे हरिपुत्राय धीमहि तन्नो शास्ता प्रचोदयात् ।
स्वामिये शरणं अय्यप्प ।
प्रदक्षिण
यानिकानिच पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष हरिहरात्मजा ॥
ओं श्री हरिहरपुत्राय नमः प्रदक्षिण नमस्कारान् समर्पयामि ।
क्षमाप्रार्थना
यस्यस्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हरात्मज ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री पूर्णपुष्कलाम्बा समेत हरिहरपुत्र अय्यप्पस्वामि सुप्रीतो सुप्रसन्नो वरदो भवतु ॥
श्री अय्यप्प स्वामि प्रसादं शिरसा गृह्णामि ॥
स्वामि शरणु घोष
(भक्त भक्तिपूर्वक निम्नलिखित नाम-घोष का उच्चारण करें)
स्वामि शरणं – अय्यप्प शरणं
भगवान् शरणं – भगवति शरणं
देवन् शरणं – देवी शरणं
देवन् पादं – देवी पादं
स्वामि पादं – अय्यप्प पादं
भगवाने – भगवतिये
ईश्वरने – ईश्वरिये
देवने – देविये
शक्तने – शक्तिये
स्वामिये – अय्यपो
पल्लिकट्टु – शबरिमलक्कु
इरुमुडिकट्टु – शबरिमलक्कु
कत्तुंकट्टु – शबरिमलक्कु
कल्लुंमुल्लुं – कालिकिमेत्तै
एत्तिविडय्या – तूकिक्कविडय्या
देहबलन्दा – पादबलन्दा
यारैकान – स्वामियैकान
स्वामियैकण्डाल् – मोक्षंकिट्टुं
स्वामिमारे – अय्यप्पमारे
नेय्याभिषेकं – स्वामिक्के
कर्पूरदीपं – स्वामिक्के
पालाभिषेकं – स्वामिक्के
भस्माभिषेकं – स्वामिक्के
तेनाभिषेकं – स्वामिक्के
चन्दनाभिषेकं – स्वामिक्के
पूलाभिषेकं – स्वामिक्के
पन्नीराभिषेकं – स्वामिक्के
पंबाशिशुवे – अय्यप्पा
काननवासा – अय्यप्पा
शबरिगिरीशा – अय्यप्पा
पन्दलराजा – अय्यप्पा
पम्बावासा – अय्यप्पा
वन्पुलिवाहन – अय्यप्पा
सुन्दररूपा – अय्यप्पा
षण्मुगसोदर – अय्यप्पा
मोहिनितनया – अय्यप्पा
गणेशसोदर – अय्यप्पा
हरिहरतनया – अय्यप्पा
अनाधरक्षक – अय्यप्पा
सद्गुरुनाथा – अय्यप्पा
स्वामिये – अय्यप्पो
अय्यप्पो – स्वामिये
स्वामि शरणं – अय्यप्प शरणं
उद्वासनम्
यज्ञेन यज्ञमयजन्त देवाः ।
तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्ते ।
यत्र पूर्वे साध्याः सन्ति देवाः ॥
श्री पूर्णपुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनं यथा स्थानं प्रवेशयामि ।
हरिवरासनम्
(रात्रि पूजा अनन्तरं
हरिवरासनम् का पाठ करें)
सर्वं श्री अय्यप्पस्वामि पादार्पणमस्तु ।
ओं शान्तिः शान्तिः शान्तिः ।