Logoपवित्र ग्रंथ

श्री हरिद्रा गणपति पूजा (Sri Haridra Ganapati Puja)

श्री हरिद्रा गणपति पूजा (Sri Haridra Ganapati Puja)

श्री हरिद्रा गणपति पूजा

Sri Haridra Ganapati Puja

हरिद्रा गणपति (हल्दी गणेश) भगवान गणेश का एक विशिष्ट तांत्रिक रूप है। "हरिद्रा" का अर्थ है हल्दी। वे स्वयं सुवर्ण आभा वाले हैं और पीले वस्त्र धारण करते हैं।

इनकी पूजा विशेष रूप से विवाह बाधा निवारण, शत्रु विजय, और संतान प्राप्ति के लिए की जाती है। यह पूजा पद्धति शुद्ध वैदिक और पौराणिक मंत्रों का संयोजन है, जिसमें पहले प्राण प्रतिष्ठा (मूर्ति में प्राण संचार) और फिर षोडशोपचार पूजन (16 प्रकार की सेवा) का विधान है।

॥ श्री हरिद्रा गणपति पूजा विधानम् ॥ पूर्वाङ्गं पश्यतु ॥ अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥ प्राणप्रतिष्ठा - ओं असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्त मनुमते मृडया नः स्वस्ति ॥ अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ॥ श्री महागणपतये नमः । स्थिरो भव वरदो भव । सुमुखो भव सुप्रसन्नो भव । स्थिरासनं कुरु । ध्यानम् - हरिद्राभं चतुर्बाहुं हरिद्रावदनं प्रभुम् । पाशाङ्कुशधरं देवं मोदकं दन्तमेव च । भक्ताऽभयप्रदातारं वन्दे विघ्नविनाशनम् । ओं हरिद्रा गणपतये नमः । अगजानन पद्मार्कं गजाननमहर्निशं अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ ओं गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ ओं महागणपतये नमः । ध्यायामि । ध्यानम् समर्पयामि । १ ॥ ओं महागणपतये नमः । आवाहयामि । आवाहनं समर्पयामि । २ ॥ ओं महागणपतये नमः । नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । ३ ॥ ओं महागणपतये नमः । पादयोः पाद्यं समर्पयामि । ४ ॥ ओं महागणपतये नमः । हस्तयोः अर्घ्यं समर्पयामि । ५ ॥ ओं महागणपतये नमः । मुखे आचमनीयं समर्पयामि । ६ ॥ स्नानम् - आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ओं महागणपतये नमः । शुद्धोदक स्नानं समर्पयामि । ७ ॥ स्नानानन्तरं आचमनीयं समर्पयामि । वस्त्रम् - अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ ओं महागणपतये नमः । वस्त्रं समर्पयामि । ८ ॥ यज्ञोपवीतम् - ओं यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रति मुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ ओं महागणपतये नमः । यज्ञोपवीतार्थं अक्षतान् समर्पयामि । । गन्धम् - गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ओं महागणपतये नमः । दिव्य श्री गन्धं समर्पयामि । ९ ॥ ओं महागणपतये नमः । आभरणं समर्पयामि । १० ॥ पुष्पैः पूजयामि । ओं सुमुखाय नमः । ओं एकदन्ताय नमः । ओं कपिलाय नमः । ओं गजकर्णकाय नमः । ओं लम्बोदराय नमः । ओं विकटाय नमः । ओं विघ्नराजाय नमः । ओं गणाधिपाय नमः । ओं धूमकेतवे नमः । ओं गणाध्यक्षाय नमः । ओं फालचन्द्राय नमः । ओं गजाननाय नमः । ओं वक्रतुण्डाय नमः । ओं शूर्पकर्णाय नमः । ओं हेरम्बाय नमः । ओं स्कन्दपूर्वजाय नमः । ओं सर्वसिद्धिप्रदाय नमः । ओं महागणपतये नमः । नानाविध परिमल पत्र पुष्पाणि समर्पयामि । ११ ॥ धूपम् - वनस्पत्युद्भवैर्दिव्यैः नाना गन्धैः सुसम्युतः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ओं महागणपतये नमः । धूपं आघ्रापयामि । १२ ॥ दीपम् - साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं प्रियम् । गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापह ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहिमां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥ ओं महागणपतये नमः । प्रत्यक्ष दीपं समर्पयामि । १३ ॥ धूप दीपानन्तरं आचमनीयं समर्पयामि । नैवेद्यम् - ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । श्री महागणपतये नमः ______ समर्पयामि । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ओं महागणपतये नमः । नैवेद्यं समर्पयामि । १४ ॥ ताम्बूलम् - पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् । मुक्ताचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ओं महागणपतये नमः । ताम्बूलं समर्पयामि । १५ ॥ नीराजनम् - वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन, यदास्ते ॥ ओं महागणपतये नमः । नीराजनं समर्पयामि । १६ ॥ मन्त्रपुष्पम् - सुमुखाश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ॥ षोडशैतानि नामानि यः पठेच्छृणुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ ओं महागणपतये नमः । सुवर्ण मन्त्रपुष्पं समर्पयामि । प्रदक्षिणम् - यानिकानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागतवत्सल ॥ अन्यधा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥ ओं महागणपतये नमः । प्रदक्षिणा नमस्कारान् समर्पयामि । ओं महागणपतये नमः । छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥ क्षमाप्रार्थन - यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप । यत्पूजितं मयादेव परिपूर्णं तदस्तु ते ॥ ओं वक्रतुण्ड महाकाय सूर्य कोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥ अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री महागणपति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥ उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवन्तो ब्रुवन्तु । उत्तरे शुभकर्मणि अविघ्नमस्तु ॥ तीर्थम् - अकालमृत्युहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्री महागणपति पादोदकं पावनं शुभम् ॥ श्री महागणपति प्रसादं शिरसा गृह्णामि ॥ उद्वासनम् - ओं यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः ॥ ओं श्री महागणपति नमः यथास्थानं उद्वासयामि ॥ शोभनार्थे क्षेमाय पुनरागमनाय च । ओं शान्तिः शान्तिः शान्तिः ।

लाभ

  • शीघ्र विवाह: जिन युवक-युवतियों के विवाह में विलंब हो रहा हो, उनके लिए यह पूजा रामबाण मानी जाती है।

  • शत्रु शमन: यह पूजा शत्रुओं के बुरे इरादों को विफल कर उन्हें मित्रवत बनाती है (स्तम्भन कार्य)।

  • आर्थिक समृद्धि: हल्दी को धन का कारक (बृहस्पति) माना जाता है, इसलिए यह पूजा व्यापार और धन वृद्धि में सहायक है।

प्रश्नोत्तरी (FAQ)

हरिद्रा गणपति (Haridra Ganapati) कौन हैं?
हरिद्रा गणपति भगवान गणेश के 32 मुख्य रूपों में से एक हैं। "हरिद्रा" का अर्थ हल्दी है। इस रूप में वे सुनहरे रंग के (हल्दी समान) होते हैं और पीते वस्त्र धारण करते हैं। इनकी साधना विशेष मनोकामना पूर्ति, विवाह बाधा निवारण और शत्रु विजय के लिए की जाती है।

इस पूजा में "प्राण प्रतिष्ठा" क्यों महत्वपूर्ण है?
चूँकि हरिद्रा गणपति की प्रतिमा अक्सर हल्दी की गांठों या हल्दी के लेप से बनाई जाती है, इसलिए पूजा शुरू करने से पहले उस जड़ वस्तु में देवता का आह्वान (Life Force Infusion) करना आवश्यक होता है। प्राण प्रतिष्ठा मंत्र ("असुनीते पुनरस्मासु...") इसी उद्देश्य के लिए है।

क्या इसे सामान्य मूर्ति पर भी किया जा सकता है?
जी हाँ, यदि हल्दी की प्रतिमा न हो, तो आप अपनी सामान्य गणेश मूर्ति पर भी यह विधान कर सकते हैं। बस भावना (Sankalpa) हरिद्रा गणपति की होनी चाहिए और पीली वस्तुओं (पीले फूल, पीला वस्त्र, हल्दी) का अधिक प्रयोग करें।

हरिद्रा गणपति का मूल मंत्र क्या है?
उनका मूल मंत्र है: "ॐ हुं गं ग्लौं हरिद्रा गणपतये वर वरद सर्व जन हृदयं स्तम्भय स्तम्भय स्वाहा" (Om Hum Gam Glaum Haridra Ganapataye Vara Varada Sarva Jana Hridayam Stambhaya Stambhaya Svaha)।

मंत्रपुष्प में 16 नाम (Shodasha Namani) क्यों बोले जाते हैं?
पूजा के अंत में 16 नामों (सुमुख, एकदंत, कपिल आदि) का पाठ कवच का काम करता है। फलश्रुति के अनुसार, इन नामों के पाठ से विद्या, विवाह, यात्रा और युद्ध (संघर्ष) में कभी विघ्न नहीं आता।

।। ॐ महालक्ष्म्यै नमः ।।