॥ श्री अनघा लक्ष्मी व्रत पूजा कल्प ॥
ये पूजा कल्प (विधि) भगवान दत्तात्रेय (अनघ स्वामी) और अनघा लक्ष्मी की विशेष अष्ट-सिद्धि पूजा है। इसे श्रद्धापूर्वक करने से समस्त पापों का नाश होता है।
१. आचमनम् (Sipping Water)
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।
ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः ।
२. प्राणायाम (Breathing Exercise)
दत्तात्रेयाय विद्महे अत्रिपुत्राय धीमहि । तन्नो दत्तः प्रचोदयात् ॥
३. संकल्प (Vow)
ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं... (अपना नाम, गोत्र, नक्षत्र बोलें)... मम श्री अनघादेवी समेत श्री अनघस्वामि प्रसाद सिद्ध्यर्थं, भक्ति ज्ञान वैराग्य योगानान्निरन्तराभि वृद्ध्यर्थं - आत्मज्ञान सिद्धर्थं - अस्माकं सहकुटुम्बानां क्षेम स्थैर्य आयुरारोग्य ऐश्वर्याभिवृध्यर्थं - धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं श्री अनघादेवी समेत श्री अनघ स्वामि पूजां यावच्छक्ति ध्यानावाहनादि षोडशोपचार विधानेन करिष्ये ।
४. कलश पूजा (Worship of Kalash)
कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृ गणाः स्मृताः ॥
गङ्गे च यमुने कृष्णे गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
५. श्री गणपति प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटी समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
महागणपतये नमः ।
॥ अष्ट सिद्धि (पुत्र) पूजा ॥
भगवान दत्तात्रेय के ८ पुत्रों (अष्ट सिद्धियों) का आवाहन कलश के अष्ट दलों पर करें:
१. अणिमा (ईशान्य दल)
अणो रणीयसः पुत्र ईशानाशा व्यवस्थितः ।
अनघास्याणिमाभिख्यः पुत्रश्चित्रस्यनोऽवतु ॥
भावार्थ: सूक्ष्मातिसूक्ष्म अनघ स्वामी के पुत्र 'अणिमा', जो विचित्र स्वभाव के हैं और ईशान्य में स्थित हैं, हमारी रक्षा करें।
२. लघिमा (आग्नेय दल)
अनघानघयोः पुत्रो लघिमाख्यः कृपाऽलघुः ।
देवस्याग्नेय कोणस्थो लघुबुद्धिस्सनोऽवतु ॥
भावार्थ: अनघ दम्पति के दयावान पुत्र 'लघिमा', जो आग्नेय कोण में स्थित हैं, हमारी रक्षा करें।
३. प्राप्ति (नैऋत्य दल)
भक्ताभीष्ट फलप्राप्तिकारकोऽनघयोस्सुतः ।
देवस्य नैरृत्य कोणे स्थितः प्राप्तिस्सनोऽवतु ॥
भावार्थ: भक्तों को अभीष्ट फल देने वाले नैऋत्य कोण निवासी पुत्र 'प्राप्ति' हमारी रक्षा करें।
४. प्राकाम्य (वायव्य दल)
अवधूत गुरोस्स्वेच्छा सञ्चारस्यानघस्य यः ।
वायुकोण स्थितः पुत्र प्राकाम्याख्यस्सनोऽवतु ॥
भावार्थ: स्वेच्छाचारी अवधूत अनघ के पुत्र 'प्राकाम्य', जो वायव्य कोण में स्थित हैं, हमारी रक्षा करें।
५. ईशित्व (दक्षिण दल)
सर्वातिशायितां देवस्यानघस्य देवस्या जगद्गुरोः ।
ख्यापयन् दक्ष भागस्थ ईशित्वाख्यस्सनोऽवतु ॥
भावार्थ: जगद्गुरु की सर्वोपरिता प्रकट करने वाले दक्षिण दिशा स्थित पुत्र 'ईशित्व' हमारी रक्षा करें।
६. वशित्व (वाम/उत्तर दल)
जगद्यस्य वशे तिष्ठत्यनघस्य महात्मनः ।
आत्मजो वाम भागस्थो वशित्वाख्यस्सनोऽवतु ॥
भावार्थ: जिनके वश में पूरा संसार है, उन अनघ महात्मा के वाम भाग स्थित पुत्र 'वशित्व' हमारी रक्षा करें।
७. कामावसायिता (पश्चिम दल)
कामावसायिताभिख्यो ह्ययनघस्याङ्गरक्षवत् ।
पश्चाद् भागस्थितः पुत्रः कमनीयस्सनोवतु ॥
भावार्थ: रक्षक की भांति पीछे (पश्चिम) रहने वाले अतिसुंदर पुत्र 'कामावसायिता' हमारी रक्षा करें।
८. महिमा (पूर्व दल)
पुरस्तादनघ द्वन्द्व पाद सीम्नि व्यवस्थितः ।
महिमाख्यो महा कार्यकारी पुत्रस्सनोवतु ॥
भावार्थ: स्वामी के चरणों के पास (पूर्व/सामने) स्थित महाकार्यकारी पुत्र 'महिमा' हमारी रक्षा करें।
॥ प्रधान देवता आवाहन (Main Deity Invocation) ॥
९. श्री अनघ स्वामी (दत्तात्रेय) आवाहन
समासीनः प्रशान्तात्मा कृपाब्धिरनघाह्वयः
दत्तात्रेयो गुरुर्विष्णु ब्रह्मोशात्मा सनोऽवतु ॥
अष्टदल पद्मे मध्ये कर्णिकायां प्रधान कलशे श्रीमदनघस्वामिनमावाहयामि स्थापयामि पूजयामि ।
भावार्थ: कमल के मध्य भाग (कर्णिका) में शांत, कृपालु, ब्रह्मा-विष्णु-शिवात्मक अनघ स्वामी (दत्तात्रेय) का मैं आवाहन और स्थापन करता हूँ।
१०. श्री अनघा लक्ष्मी (देवी) आवाहन
अनघस्वामिनः पार्श्वे समासीन कृपालया ।
सर्वैर्बाह्म्य गुणैर्युक्ता योगाधीश जगत्प्रसूः ॥
पद्मासना पद्मकरा भक्ताधीना पतिव्रता ।
अनघाम्बा महालक्ष्मीर्महाभागा च नोऽवतु ॥
कर्णिकायां अनघ स्वामिनः पार्श्वे श्रीमती अनघादेवीं आवाहयामि स्थापयामि पूजयामि ॥
भावार्थ: अनघ स्वामी के वाम भाग में स्थित, योगेश्वरी, जगन्माता, पद्मासना, पतिव्रता महालक्ष्मी स्वरूपा अनघा माता का मैं आवाहन करता हूँ।
११. प्राण प्रतिष्ठा
अनघश्चानघादेवी प्राणचेष्टाविराजितौ ।
चरतां मम हृत्पद्मे गुरु मार्ग प्रवर्तकौ ॥
अणिमादि, अङ्ग देवता परिवृत श्री अनघालक्ष्मी समेत श्री अनघस्वामिने नमः ।
स्वामिन् स्थिरो भव । वरदो भव । सुमुखो भव । सुप्रसन्नो भव ।
॥ षोडशोपचार पूजा (16 Steps Worship) ॥
१. ध्यानं (Meditation)
पद्मासनोत्तान मनोज्ञ पादं पद्मं दधानं नभयं च पाण्योः ।
योग स्थिरं निर्भर कान्ति पुञ्जं दत्तं प्रपद्येऽनघ नामधेयम् ॥
श्री अनघालक्ष्मी समेत श्री अनघ स्वामिने नमः । ध्यायामि ॥
२. आसनं (Seat)
सौवर्णपीठं कृष्णत्वक् चित्रासन कुशासनैः ।
आस्तृतं गृह्यतां देवावनघा वर्पितं मया ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । आसनं समर्पयामि ।
३. पाद्यं (Foot Wash)
योगिशीर्षेऽमृतासारौ जम्भशीर्षेऽग्नि वर्षकौ ।
पादौ पाद्येन हृद्येन क्षालयेऽनघया रहम् ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । पादयोः पाद्यं समर्पयामि ।
४. अर्घ्यं (Hand Wash)
पद्मेन मालया चात्तौ भक्ताभीती प्रदायकौ ।
अर्घ्येण शीतलीकुर्यामनघानघयोः करौ ॥
श्री अनघादेवी समेत श्री अनघ स्वामिने नमः । हस्तयोः अर्घ्यं समर्पयामि ।
५. आचमनं (Water for Sipping)
ज्ञानज्योतिर्विनितानां वेदज्योतिश्च वेधसः ।
यतोऽनघ मुखाद्वयक्तं तत्राचमनमर्पितम् ।
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । शुद्ध आचमनं समर्पयामि ।
६. मधुपर्कं (Honey Mixture)
अनघौ यौ सित परीक्षार्थ माया मधुस्पृशौ ।
मधुपर्क ददे ताभ्यां तत्पादाब्ज मधुव्रतः ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । मधुपर्कं समर्पयामि ।
७. स्नानं (Bath)
मातृतीर्थात्पद्मतीर्थात्सर्वतीर्थादनेकतः ।
समानीतैश्शीतलोदैस्स्नपयाम्यनघावुभौ ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । स्नानं समर्पयामि ।
८. वस्त्रं (Clothing)
वल्कले रुचिरे सूक्ष्मे चित्र चित्र दशाञ्चिते ।
मायावृतिच्छेदकाभ्यामनघान्यां ददे मुदा ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । वस्त्रं समर्पयामि ।
९. उपवीतं (Sacred Thread)
उपवीतं पवित्रञ्च सहजं यत्प्रजापतेः ।
समर्पितं मया शुभ्र मनघौ प्रतिमुञ्चतम् ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । उपवीतं समर्पयामि ।
१०. गन्धः (Sandalwood Paste)
मिलत्कर्पूर सद्गन्धै-रनुलिप्याऽनघाऽनघौ ।
मुखयो रलिके कुर्या लसत्फालाक्षि सन्निभे ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । गन्धान् धारयामि ।
११. हरिद्रा-कुंकुम (Turmeric & Kumkum)
आर्द्रा हरिद्रां पद्योः मुखेपुष्परजोऽनघे ।
सीमन्त सीम्नि सिन्दूरं तेऽर्पये मङ्गलप्रदे ॥
श्री अनघादेव्यै नमः । हरिद्रा-कुंकुमं समर्पयामि ।
१२. आभरणं (Jewelry)
शीर्षे कण्ठे बाहुयुग्मे मणिबन्ध द्वये तथा ।
विविधा अक्षमालास्ते भूषार्थं कल्पयेनघ ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । नानाविध आभरणानि समर्पयामि ।
१३. पुष्पाणि (Flowers & Anga Puja)
तत्तत्कालोन्थ पुष्पौघ मालाभिरनघानघौ ।
आपाद शीर्षं सम्भूष्य पुनः पुष्पै समर्चये ॥
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । पुष्पाणि समर्पयामि ।
॥ अथ अनघ स्वामिनः अङ्ग पूजा ॥
१. श्री अनघदेवाय नमः पादौ पूजयामि ।
२. त्रिजगत्सञ्चाराय नमः जङ्घे पूजयामि ।
३. आजानुबाहवे नमः जानुनी पूजयामि ।
४. पद्मासनस्थाय नमः उरु पूजयामि ।
५. त्रिगुणेशाय नमः वलित्रयं पूजयामि ।
६. शातोदराय नमः उदरं पूजयामि ।
७. करुणाकराय नमः हृदयं पूजयामि ।
८. भक्तालम्बनाय नमः बाहू पूजयामि ।
९. सङ्गीतरसिकाय नमः कण्ठं पूजयामि ।
१०. जगन्मोहनाय नमः मन्दस्मितं पूजयामि ।
११. जगत्प्राणाय नमः नासिकां पूजयामि ।
१२. श्रुतिसंवेद्याय नमः श्रोत्रे पूजयामि ।
१३. ध्यानगोचराय नमः नेत्रद्वयं पूजयामि ।
१४. तिलकाञ्चितभालाय नमः भालं पूजयामि ।
१५. सहस्रशीर्षाय नमः शिरः पूजयामि ।
१६. सच्चिदानन्दाय नमः सर्वाण्यङ्गानि पूजयामि ।
॥ अथ अनघालक्ष्म्याः अङ्ग पूजा ॥
१. श्री अनघादेव्यै नमः पादौ पूजयामि ।
२. त्रिजगत्सञ्चारायै नमः जङ्घे पूजयामि ।
३. आजानुबाहवे नमः जानुनी पूजयामि ।
४. पद्मासनस्थायै नमः उरु पूजयामि ।
५. त्रिगुणेशायै नमः वलित्रयं पूजयामि ।
६. शातोदरायै नमः उदरं पूजयामि ।
७. करुणाकरायै नमः हृदयं पूजयामि ।
८. भक्तालम्बनायै नमः बाहू पूजयामि ।
९. सङ्गीतरसिकायै नमः कण्ठं पूजयामि ।
१०. जगन्मोहनायै नमः मन्दस्मितं पूजयामि ।
११. जगत्प्राणायै नमः नासिकां पूजयामि ।
१२. श्रुतिसंवेद्यायै नमः श्रोत्रे पूजयामि ।
१३. ध्यानगोचरायै नमः नेत्रद्वयं पूजयामि ।
१४. तिलकाञ्चित भालायै नमः भालं पूजयामि ।
१५. सहस्रशीर्षायै नमः शिरः पूजयामि ।
१६. सच्चिदानन्दायै नमः सर्वाण्यङ्गानि पूजयामि ।
॥ नामार्चना (108 Names Worship) ॥
दल या अक्षत से अर्चन करें
॥ श्री अनघदेवाष्टोत्तरशतनामावलिः (Swami) ॥
ॐ दत्तात्रेयाय नमः ।
ॐ अनघाय नमः ।
ॐ त्रिविधाघविदारिणे नमः ।
ॐ लक्ष्मीरूपानघेशाय नमः ।
ॐ योगाधीशाय नमः ।
ॐ द्रांबीजध्यानगम्याय नमः ।
ॐ विज्ञेयाय नमः ।
ॐ गर्भादितारणाय नमः ।
ॐ बीजस्थवटतुल्याय नमः ।
ॐ एकार्णमनुगामिने नमः । (१०)
ॐ योगसन्त्पकराय नमः ।
ॐ षडर्णमनुपालाय नमः ।
ॐ अष्टार्णमनुगम्यान नमः ।
ॐ पूर्णानन्दवपुष्मते नमः ।
ॐ द्वादशाक्षरमन्त्रस्थाय नमः ।
ॐ आत्मसायुज्यदायिने नमः ।
ॐ षोडशार्णमनुस्थाय नमः ।
ॐ सच्चिदानन्दशालिने नमः ।
ॐ हरये नमः ।
ॐ कृष्णाय नमः । (२०)
ॐ उन्मत्ताय नमः ।
ॐ आनन्ददायकाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ मुनये नमः ।
ॐ बालाय नमः ।
ॐ पिशाचाय नमः ।
ॐ ज्ञानसागराय नमः ।
ॐ आब्रह्मजन्मदोषौघप्रणाशाय नमः ।
ॐ सर्वोपकारिणे नमः ।
ॐ मोक्षदायिने नमः । (३०)
ॐ ॐरूपिणे नमः ।
ॐ भगवते नमः ।
ॐ स्मृतिमात्रसुतुष्टाय नमः ।
ॐ महाभयनिवारणाय नमः ।
ॐ महाज्ञानप्रदाय नमः ।
ॐ चिदानन्दात्मने नमः ।
ॐ बलोन्मत्तपिशाचादिवेषाय नमः ।
ॐ महायोगिने नमः ।
ॐ अवधूताय नमः ।
ॐ अनुसूयानन्दनाय नमः । (४०)
ॐ अत्रिपुत्राय नमः ।
ॐ सर्वकामफलानीकप्रदात्रे नमः ।
ॐ प्रणवाक्षरवेद्याय नमः ।
ॐ भवबन्धविमोचिने नमः ।
ॐ ह्रींबीजाक्षरपालाय नमः ।
ॐ सर्वेश्वर्यप्रदायिने नमः ।
ॐ क्रोंबीजजपतुष्टाय नमः ।
ॐ साध्याकर्षणदायिने नमः ।
ॐ सौर्बीजप्रीतमनसे नमः ।
ॐ मनस्सङ्क्षोभहारिणे नमः । (५०)
ॐ ऐंबीजपरितुष्टाय नमः ।
ॐ वाक्प्रदाय नमः ।
ॐ क्लींबीजसमुपास्याय नमः ।
ॐ त्रिजगद्वश्यकारिणे नमः ।
ॐ श्रीमुपासनतुष्टाय नमः ।
ॐ महासम्पत्प्रदाय नमः ।
ॐ ग्लौमक्षरसुवेद्याय नमः ।
ॐ भूसाम्राज्यप्रदायिने नमः ।
ॐ द्रांबीजाक्षरवासाय नमः ।
ॐ महते नमः । (६०)
ॐ चिरञ्जीविने नमः ।
ॐ नानाबीजाक्षरोपास्यनानाशक्तियुजे नमः ।
ॐ समस्तगुणसम्पन्नाय नमः ।
ॐ अन्तश्शत्रुविदाहिने नमः ।
ॐ भूतग्रहोच्चटनाय नमः ।
ॐ सर्वव्याधिहराय नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ आधिव्याधिनिवारिणे नमः ।
ॐ दुःखत्रयहराय नमः ।
ॐ दारिद्र्यद्राविणे नमः । (७०)
ॐ देहादार्ढ्यायापोषाय नमः ।
ॐ चित्तसंशोषकारिणे नमः ।
ॐ सर्वमन्त्रस्वरूपाय नमः ।
ॐ सर्वयन्त्रस्वरूपिणे नमः ।
ॐ सर्वतन्त्रात्मकाय नमः ।
ॐ सर्वपल्लवरूपिणे नमः ।
ॐ शिवाय नमः ।
ॐ उपनिषदवेद्याय नमः ।
ॐ दत्ताय नमः ।
ॐ महागम्भीररूपाय नमः । (८०)
ॐ वैकुण्ठवासिने नमः ।
ॐ शङ्खचक्रगदाशूलधारिणे नमः ।
ॐ वेणुनादिने नमः ।
ॐ दुष्टसंहारकाय नमः ।
ॐ शिष्टसम्पालकाय नमः ।
ॐ नारायणाय नमः ।
ॐ अस्त्रधराय नमः ।
ॐ चिद्रूपिणे नमः ।
ॐ प्रज्ञारूपाय नमः ।
ॐ आनन्दरूपिणे नमः । (९०)
ॐ ब्रह्मरूपिणे नमः ।
ॐ महावाक्यप्रबोधाय नमः ।
ॐ तत्त्वाय नमः ।
ॐ सकलकर्मौघनिर्मिताय नमः ।
ॐ सच्चिदानन्दरूपाय नमः ।
ॐ सकललोकौघसञ्चाराय नमः ।
ॐ सकलदेवौघवशीकृतिकराय नमः ।
ॐ कुटूम्बवृद्धिदाय नमः ।
ॐ गुडपानकतोषिणं नमः ।
ॐ पञ्चकर्जायसुप्रीताय नमः । (१००)
ॐ कन्दफलादिने नमः ।
ॐ सद्गुरवे नमः ।
ॐ श्रीमद्दत्तात्रेयाय नमः ।
॥ इति अनघस्वामि अष्टोत्तरशतनामार्चनं समर्पयामि ॥
॥ अथ श्री अनघादेव्यष्टोत्तरशतनामावलिः (Devi) ॥
ॐ श्री अनघायै नमः ।
ॐ महादेव्यै नमः ।
ॐ महालक्ष्मै नमः ।
ॐ अनघास्वामिपत्न्यै नमः ।
ॐ योगेशायै नमः ।
ॐ त्रिविधाघविदारिण्यै नमः ।
ॐ त्रिगुणेशायै नमः ।
ॐ अष्टपुत्रकुटुम्बिन्यै नमः ।
ॐ सिद्धसेव्यपदे नमः ।
ॐ आत्रेयगृहदीपायै नमः । (१०)
ॐ विनीतायै नमः ।
ॐ अनुसूयाप्रीतिदायै नमः ।
ॐ मनोज्ञायै नमः ।
ॐ योगशक्तिस्वरूपिण्यै नमः ।
ॐ योगातीतहृदे नमः ।
ॐ चित्रासनोपविष्टायै नमः ।
ॐ पद्मासनयुजे नमः ।
ॐ रत्नागुलीयकलसत्पदाङ्गुल्यै नमः ।
ॐ पद्मगर्भोममानाङ्घ्रितलायै नमः ।
ॐ भर्तृशुश्रूषणोत्कायै नमः । (२०)
ॐ मतिमत्यै नमः ।
ॐ तापसीवेषधारिण्यै नमः ।
ॐ तापत्रयनुदे नमः ।
ॐ हरिद्रां चत्प्रपादायै नमः ।
ॐ मञ्जीरकलजत्रवे नमः ।
ॐ शुचिवल्कलधारिण्यै नमः ।
ॐ काञ्चीदामयुजे नमः ।
ॐ गले माङ्गल्यसूत्रायै नमः ।
ॐ ग्रैवेयाली धृते नमः ।
ॐ क्वणत्कङ्कणयुक्तायै नमः । (३०)
ॐ पुष्पालङ्कृतायै नमः ।
ॐ अभीतिमुद्राहस्तायै नमः ।
ॐ लीलाम्भोजधृते नमः ।
ॐ ताटङ्कयुगदीप्तायै नमः ।
ॐ नानारत्नदीप्तये नमः ।
ॐ ध्यानस्थिराक्ष्यै नमः ।
ॐ फालांचत्तिलकायै नमः ।
ॐ मूर्धाबद्धजटाराजत्सुमदामालये नमः ।
ॐ भर्त्राज्ञा पालनायै नमः ।
ॐ नानावेषधृते नमः । (४०)
ॐ पञ्चपर्वान्वितविद्यारूपिकायै नमः ।
ॐ सर्वावरणशीलायै नमः ।
ॐ स्वबलावृतवेधसे नमः ।
ॐ विष्णुपत्न्यै नमः ।
ॐ वेदमात्रे नमः ।
ॐ स्वच्छशङ्खधृते नमः ।
ॐ मन्दहासमनोज्ञायै नमः ।
ॐ मन्त्रतत्त्वविदे नमः ।
ॐ दत्तपार्श्वनिवासायै नमः ।
ॐ रेणुकेष्टकृते नमः । (५०)
ॐ मुखनिस्सृतशम्पाभत्रयी दीप्त्यै नमः ।
ॐ विधातृवेदसन्धात्र्यै नमः ।
ॐ सृष्टि शक्त्यै नमः ।
ॐ शान्तिलक्ष्मै नमः ।
ॐ गायिकायै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ योगचर्यारतायै नमः ।
ॐ नर्तिकायै नमः ।
ॐ दत्तवामाङ्कसंस्थायै नमः ।
ॐ जगदिष्टकृते नमः । (६०)
ॐ शुभायै नमः ।
ॐ चारु सर्वाङ्ग्यै नमः ।
ॐ चन्द्रास्यायै नमः ।
ॐ दुर्मानसक्षोभकर्यै नमः ।
ॐ साधु हृच्छान्तये नमः ।
ॐ सर्वान्तस्संस्थितायै नमः ।
ॐ सर्वान्तगण्यै नमः ।
ॐ पादस्थितायै नमः ।
ॐ पद्मायै नमः ।
ॐ गृहदायै नमः । (७०)
ॐ सक्थिस्थितायै नमः ।
ॐ सद्रत्नवस्त्रदायै नमः ।
ॐ गुह्यस्थानस्थित्यै नमः ।
ॐ पत्नीदायै नमः ।
ॐ क्रोडस्थायै नमः ।
ॐ पुत्रदायै नमः ।
ॐ वंशवृद्धिकृते नमः ।
ॐ हृद्गतायै नमः ।
ॐ सर्वकामपूरणायै नमः ।
ॐ कण्ठस्थितायै नमः । (८०)
ॐ हारादिभूषादात्र्यै नमः ।
ॐ प्रवासबन्धुसंयोगदायिकायै नमः ।
ॐ मृष्टान्नदायै नमः ।
ॐ वाक्छक्तिदायै नमः ।
ॐ ब्राह्मयै नमः ।
ॐ आज्ञाबलप्रदात्र्यै नमः ।
ॐ सर्वैश्वर्यकृते नमः ।
ॐ मुखस्थितायै नमः ।
ॐ कविताशक्तिदायै नमः ।
ॐ शिरोगतायै नमः । (९०)
ॐ निर्दाहकयै नमः ।
ॐ रौद्रयि नमः ।
ॐ जम्भासुरविदाहिन्यै नमः ।
ॐ जम्भवंशहृते नमः ।
ॐ दत्तांकसंस्थितायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ ऐन्द्रराज्यप्रदायिन्यै नमः ।
ॐ देवप्रीतिकृते नमः ।
ॐ नहुषात्मजदात्र्यै नमः ।
ॐ लोकमात्रे नमः । (१००)
ॐ धर्मकीर्तिसुबोधिन्यै नमः ।
ॐ शास्त्रमात्रे नमः ।
ॐ भार्गवक्षिप्रतुष्टायै नमः ।
ॐ कालत्रयविदे नमः ।
ॐ कार्तवीर्यव्रतप्रीतमतये नमः ।
ॐ शुचये नमः ।
ॐ कार्तवीर्यप्रसन्नायै नमः ।
ॐ सर्वसिद्धिकृते नमः । (१०८)
ॐ श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।
॥ इति श्री अनघादेव्यष्टोत्तरशतनामार्चनं समर्पयामि ॥
१४. धूपं (Incense)
नानापरिमल द्रव्य सम्मेलन मनोहरः ।
धूपस्समर्पितो देवावनघौ प्रति गृह्यताम् ॥
श्री अनघादेवी समेत श्री अनघास्वामीने नमः । धूप माघ्रापयामि ।
१५. दीपं (Lamp)
यद्भासेदं जगद्भाति न दृश्येते तथापि यौ
तावुभौ तत्त्वसन्दीप्त्यै दीपैरुद्दीपयाम्यहम् ।
श्री अनघादेवी समेत श्री अनघस्वामिने नमः । दीपं दर्शयामि ।
१६. नैवेद्यं (Food Offering)
राजान्नं बहु भक्ष्यान्नं नानोपस्कार पुष्कलम् ।
नैवेद्यं श्रुति संवेद्यौ गृह्यता मनघौ मुदा ॥
श्री अनघा देवी समेत श्री अनघ स्वामिने नमः । नैवेद्यं समर्पयामि ।
१७. ताम्बूलं (Betel Nut)
अनघस्वामिजनक प्रोद्धृतायुष्यतन्त्रके ।
प्रोक्तैस्सुलक्षणैर्युक्तं ताम्बूलं प्रददे नद्यौ ।
श्री अनघादेवी समेत श्री अनघा स्वामिने नमः । ताम्बूलं समर्पयामि ।
१८. नीराजनं (Aarti)
प्रभो समन्तात्परिवर्तितै श्री कर्पूर नीराजन दीप माल्यैः ।
युष्मन्महार्चिः परिवेष पङ्क्तिः किम्मीरिताभा स्त्वनघेऽनघप्रभो ॥
श्री अनघादेवी समेत श्री अनघ स्वामिने नमः । नीराञ्जन समर्पयामि ।
१९. मन्त्र पुष्पं (Mantra Pushpam)
यौ वेधसे प्रबल मानस दोषजाल मुन्मूल्य सत्त्वरमभासयतां दि वेदान् ।
तावद्य केलिशुनकीकृत वेदजातैः श्री मन्त्र पुष्प निचयै रनघौ निषेवे ॥
श्री अनघा देवी समेत श्री अनघ स्वामिने नमः । मन्त्र पुष्पं समर्पयामि ।
२०. प्रदक्षिणं (Circumambulation)
कार्तवीर्याज नहुष भार्गवेन्द्रादि रक्षकौ
अनघौ लोकपितरौ तुष्येतां मे प्रदक्षिणैः ॥
श्री अनघादेवी समेत श्री अनघ स्वामिने नमः । प्रदक्षिण नमस्कारान् समर्पयामि ।
२१. प्रार्थना (Prayer)
मनोवाक्कायोत्थं क्षपितमघ मात्मीय विततेः
धृतं नूनं याभ्यां विमलमिह दाम्पत्य लसनम् ।
तयोः पाद द्वन्द्वं महिम मुख पुत्राष्टक लस-
त्परीवारं वन्दे सततमनघाख्या कलितयोः ॥
विष्णो अनघ दत्तेश्वरानघे लक्ष्मि मङ्गले ।
उभौहि सच्चिदान्दविग्रहौ भक्त रक्षकौ ॥
युवां मे तुष्यता मद्य पूजया सुप्रसीदताम् ।
ज्ञाताऽज्ञातापराधान्मे क्षमेथां करुणाकरौ ॥
आयुरारोग्यमैश्वर्यं सत्कुटुम्ब प्रवर्धनम् ।
सौमङ्गल्यं यशो विद्यां ज्ञानञ्च दिशतां मुदा ॥
२२. तोरण बन्धन (Tying Sacred Thread)
ब्रह्म विष्णु महेशान रूपिन त्रिगुण नायक ।
त्रैवर्णिक नमस्तुभं तोरदेवाऽनघात्मक ॥
(यह मंत्र बोलकर तोरण को कलाई पर बांधें)