Logoपवित्र ग्रंथ

Sri Dattatreya Shodasopachara Puja – श्री दत्तात्रेय षोडशोपचार पूजा

Sri Dattatreya Shodasopachara Puja – श्री दत्तात्रेय षोडशोपचार पूजा

श्री दत्तात्रेय षोडशोपचार पूजा

Sri Dattatreya Shodasopachara Puja

श्री दत्तात्रेय षोडशोपचार पूजा (Sri Dattatreya Shodasopachara Puja) भगवान दत्तात्रेय की उपासना की एक अत्यंत प्रभावशाली विधि है। भगवान दत्तात्रेय को त्रिदेवों (ब्रह्मा, विष्णु, महेश) का संयुक्त अवतार माना जाता है। वे 'गुरुओं के गुरु' हैं और अपने भक्तों को भोग (भौतिक सुख) और मोक्ष (आध्यात्मिक मुक्ति) दोनों प्रदान करते हैं। यह पूजा विधि विशेष रूप से गुरुवार, पूर्णिमा और दत्त जयंती के पावन अवसर पर की जाती है।

भगवान दत्तात्रेय कौन हैं? (Who is Lord Dattatreya)

महर्षि अत्रि और माता अनुसूया के पुत्र, भगवान दत्तात्रेय आवधूत (Avadhuta) शिरोमणि हैं। उनके तीन मुख तीनों गुणों (सत, रज, तम) और शक्तियों (सृष्टि, पालन, संहार) का प्रतीक हैं। उनके साथ चार कुत्ते चार वेदों का प्रतिनिधित्व करते हैं और पीछे खड़ी गाय (कामधेनु) पृथ्वी तत्व और धर्म का प्रतीक है। नाथ संप्रदाय और श्री विद्या परंपरा में उनकी उपासना का विशेष महत्त्व है।

पूजा का महत्त्व (Significance of Puja)

षोडशोपचार पूजा का अर्थ है - १६ चरणों में राजसी उपचार। यह केवल कर्मकांड नहीं, बल्कि ईश्वर के प्रति कृतज्ञता प्रकट करने का माध्यम है।

  1. पितृ दोष निवारण: दत्तात्रेय पूजा से पितृ दोष और कालसर्प दोष जैसी बाधाएं शांत होती हैं।
  2. ग्रह शांति: गुरु (Jupiter) ग्रह को मजबूत करने के लिए यह पूजा सर्वश्रेष्ठ उपाय है।
  3. सिद्धि प्राप्ति: साधकों को मंत्र सिद्धि और उच्च आध्यात्मिक अवस्था प्राप्त करने में सहायता मिलती है।

पाठ के लाभ (Benefits)

  • गुरु कृपा: यह पूजा गुरु-शिष्य परंपरा का सम्मान करती है, जिससे जीवन में सही मार्गदर्शन प्राप्त होता है।
  • भय और शत्रु नाश: 'दिगंबरा दिगंबरा' का जाप और यह पूजा न केवल शत्रुओं (Enemies) का नाश करती है, बल्कि मन के आंतरिक शत्रुओं (काम, क्रोध, लोभ) पर भी विजय दिलाती है।
  • ज्ञान और विवेक: विद्यार्थियों और ज्ञान पिपासुओं के लिए दत्त उपासना स्मरण शक्ति और बुद्धि को तीक्ष्ण करती है।
  • पाप नाश: विधिपूर्वक की गई पूजा से पूर्व जन्मों के संचित पापों का क्षय होता है और चित्त शुद्ध होता है।

पाठ विधि (Recitation Method)

  • समय: ब्रह्म मुहूर्त (सूर्योदय से पूर्व) या प्रदोष काल (सूर्यास्त के समय) सर्वोत्तम है। गुरुवार (Thursday) और पूर्णिमा विशेष फलदायी हैं।
  • आसन: शुद्ध पीले या सफेद रंग के आसन पर पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • वस्त्र: पूजा के समय बिना सिले हुए वस्त्र (जैसे धोती) या पीले वस्त्र धारण करना शुभ होता है।
  • ध्यान: भगवान दत्तात्रेय के सौम्य रूप का ध्यान करें और मन में 'ॐ द्रां दत्तात्रेयाय नमः' मंत्र का मानसिक जाप करते रहें।
  • उच्चारण: पूजा के श्लोकों का उच्चारण शुद्ध और स्पष्ट होना चाहिए। यदि संस्कृत कठिन लगे, तो भावपूर्वक हिंदी अर्थ का मनन करें।
पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री दत्तात्रेय स्वामि षोडशोपचार पूजां करिष्ये ॥ प्राणप्रतिष्ठा – ओं असुनीते पुनरस्मासु चक्षु: पुन: प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्त मनुमते मृडया नः स्वस्ति । अमृतं वै प्राणा अमृतमाप: प्राणानेव यथास्थानमुपह्वयते ॥ अस्मिन् बिम्बे श्रीदत्तात्रेय स्वामिनं आवाहयामि स्थापयामि पूजयामि । स्थिरोभव वरदोभव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद । ध्यानम् – माला कमण्डलुरधःकरपद्मयुग्मे मध्यस्थपाणियुगले डमरुत्रिशूले । यन्न्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥ बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् । ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥ ओं श्रीदत्तात्रेयाय नमः ध्यायामि । आवाहनम् – सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । ज्योतिः शान्तिं सर्वलोकान्तरस्थं ओङ्काराख्यं योगिहृद्ध्यानगम्यम् । साङ्गं शक्तिं सायुधं भक्तिसेव्यं सर्वाकारं दत्तमावाहयामि ॥ ओं श्रीदत्तात्रेयाय नमः आवाहयामि । आसनम् – पुरुष एवेदग्ं सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति । नवरत्नखचितं चापि मृदुतूल परिच्छदम् । सिंहासनमिदं स्वामिन् स्वीकुरुष्व सुखासनम् ॥ ओं श्रीदत्तात्रेयाय नमः नवरत्नखचित सिंहासनं समर्पयामि । पाद्यम् – एतावानस्य महिमा । अतो ज्यायाग्श्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । गुरुदेव नमस्तेऽस्तु नरकार्णवतारक । पाद्यं गृहाण दत्तेश मम सौख्यं विवर्धय ॥ ओं श्रीदत्तात्रेयाय नमः पादयोः पाद्यं समर्पयामि । अर्घ्यम् – त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुन: । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि । व्यक्ताऽव्यक्तस्वरूपाय भक्ताभीष्टप्रदायक । मया निवेदितं भक्त्या अर्घ्योऽयं प्रतिगृह्यताम् ॥ ओं श्रीदत्तात्रेयाय नमः हस्तयोरर्घ्यं समर्पयामि । आचमनीयम् – तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः । गोदावर्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देव सम्यगाचम्यतां प्रभो ॥ ओं श्रीदत्तात्रेयाय नमः मुखे आचमनीयं समर्पयामि । पञ्चामृतस्नानम् – स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम । अनाथनाथ सर्वज्ञ गीर्वाण प्रणति प्रिय ॥ ओं श्रीदत्तात्रेयाय नमः पञ्चामृतस्नानं समर्पयामि । शुद्धोदकस्नानम् – यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः । गङ्गादि सर्वतीर्थेभ्यः आनीतं निर्मलं जलम् । स्नानं कुरुष्व देवेश मया दत्तं महात्मने ॥ ओं श्रीदत्तात्रेयाय नमः शुद्धोदक स्नानं समर्पयामि । वस्त्रम् – सप्तास्यासन्परिधय: । त्रिः सप्त समिध: कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । वेदसूक्तसमायुक्ते यज्ञसामसमन्विते । स्वर्गवर्गप्रदे देव वाससी तौ विनिर्मितौ ॥ ओं श्रीदत्तात्रेयाय नमः वस्त्रयुग्मं समर्पयामि । यज्ञोपवीतम् – तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये । उपवीतं भवेन्नित्यं विधिरेष सनातनः । गृहाण भगवन् दत्तः सर्वेष्टफलदो भव ॥ ओं श्रीदत्तात्रेयाय नमः यज्ञोपवीतं समर्पयामि । गन्धम् – तस्माद्यज्ञात्सर्वहुत: । सम्भृतं पृषदाज्यम् । पशूग्‍स्ताग्‍श्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये । श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं गुरुश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥ ओं श्रीदत्तात्रेयाय नमः दिव्य श्रीचन्दनं समर्पयामि । आभरणम् – तस्माद्यज्ञात्सर्वहुत: । ऋच: सामानि जज्ञिरे । छन्दाग्ंसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । रुद्राक्षहार नागेन्द्र मणिकङ्कण मुख्यानि । सर्वोत्तम भूषणानि गृहाण गुरुसत्तम ॥ ओं श्रीदत्तात्रेयाय नमः नानाभरणानि समर्पयामि । अक्षतान् – अक्षतान् धवलान् दिव्यान् तापसोत्तमपूजित । अर्पयामि महाभक्त्या प्रसीद त्वं महामुने ॥ ओं श्रीदत्तात्रेयाय नमः अक्षतान् समर्पयामि । पुष्पम् – तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावय: । मल्लिकादि सुगन्धीनि मालत्यादीनि वै प्रभो । सर्वं पुष्पमाल्यादिकं परात्मन् प्रतिगृह्यताम् ॥ ओं श्रीदत्तात्रेयाय नमः पुष्पं समर्पयामि । अथाङ्गपूज – ओं अनसूयागर्भसम्भूताय नमः – पादौ पूजयामि । ओं अत्रिपुत्राय नमः – गुल्फौ पूजयामि । ओं त्रिमूर्त्यात्मकमूर्तये नमः – जङ्घे पूजयामि । ओं अनघाय नमः – जानुनी पूजयामि । ओं अवधूताय नमः – ऊरू पूजयामि । ओं सामगाय नमः – कटिं पूजयामि । ओं आदिमध्यान्तरहिताय नमः – उदरं पूजयामि । ओं महोरस्काय नमः – वक्षःस्थलं पूजयामि । ओं शङ्खचक्रडमरुत्रिशूलकमण्डलुधारिणे नमः – पाणिं पूजयामि । ओं षड्भुजाय नमः – बाहू पूजयामि । ओं कम्बुकण्ठाय नमः – कण्ठं पूजयामि । ओं सर्वतत्त्वप्रबोधकाय नमः – वक्त्राणि पूजयामि । ओं नित्यानुग्रहदृष्टये नमः – नेत्राणि पूजयामि । ओं सहस्रशिरसे नमः – शिरसां पूजयामि । ओं सदसत्संशयविच्छेदकाय नमः – सर्वाण्यङ्गानि पूजयामि । अथ अष्टोत्तरशतनाम पूजा (Ashtottara Shatanam Puja)
श्री दत्तात्रेय अष्टोत्तरशतनाम (108 नाम) द्वारा अर्चना करें: श्री दत्तात्रेय अष्टोत्तरशतनामावली (यहाँ क्लिक करें)
धूपम् – यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते । दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् । धूपमाघ्राण दत्तेश सर्वदेवनमस्कृत ॥ ओं श्रीदत्तात्रेयाय नमः धूपमाघ्रापयामि । दीपम् – ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्य: कृतः । ऊरू तदस्य यद्वैश्य: । पद्भ्याग्ं शूद्रो अजायत । घृतत्रिवर्तिसम्युक्तं वह्निनायोजितं प्रियम् । दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥ ओं श्रीदत्तात्रेयाय नमः दीपं दर्शयामि । धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि । नैवेद्यम् – चन्द्रमा मनसो जातः । चक्षो: सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । भवदीय कृपायुक्तं सम्भावित निवेदितम् । त्वमेव भोजनं भोक्ता सुरसोऽपि त्वमेव च ॥ ओं श्रीदत्तात्रेयाय नमः नैवेद्यं समर्पयामि । ओं भूर्भुवस्सुव: । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ताम्बूलम् – नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिश: श्रोत्रात् । तथा लोकाग्ं अकल्पयन् । फूगीफलैश्च कर्पूरैः नागवल्लीदलैर्युतम् । मुक्ताचूर्णसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ओं श्रीदत्तात्रेयाय नमः ताम्बूलं समर्पयामि । नीराजनम् – वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीर: । नामानि कृत्वाऽभिवदन् यदास्ते । स्वस्तिरस्तु शुभमस्तु सर्वत्र मङ्गलानि च । नित्यश्रीरस्तु दत्तेश नीराजनं प्रगृह्यताम् ॥ ओं श्रीदत्तात्रेयाय नमः आनन्दमङ्गल नीराजनं दर्शयामि । मन्त्रपुष्पम् – धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥ ओं दिगम्बराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥ अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः । इदं दिव्यं मन्त्रपुष्पं स्वीकुरुष्व नरोत्तम ॥ भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः । पुष्पाञ्जलिं गृहाणेदं निगमागमवन्दित ॥ ओं श्रीदत्तात्रेयाय नमः मन्त्रपुष्पाणि समर्पयामि । प्रदक्षिण – यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागतवत्सल ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष श्रीदत्तेश ॥ ओं श्रीदत्तात्रेयाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि । उपचार पूजा – ओं श्रीदत्तात्रेयाय नमः । छत्रमाच्छादयामि । चामरैर्वीजयामि । नृत्यं दर्शयामि । गीतं श्रावयामि । वाद्यं घोषयामि । आन्दोलिकानारोहयामि । अश्वानारोहयामि । गजानारोहयामि । समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजाः समर्पयामि ॥ प्रार्थना – दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् । आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥ नमो नमस्ते जगदेकनाथ नमो नमस्ते सुपवित्रगाथ । नमो नमस्ते जगतामधीश नमो नमस्तेऽस्तु परावरेश ॥ जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो । सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ क्षमा प्रार्थना – यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीदत्तात्रेय स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥ तीर्थम् – अकालमृत्युहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्रीदत्तात्रेय पादोदकं पावनं शुभम् ॥ श्रीदत्तात्रेय स्वामि प्रसादं शिरसा गृह्णामि ॥ ओं शान्तिः शान्तिः शान्तिः ॥

भगवान दत्तात्रेय के प्रमुख अवतार कौन से हैं?

श्रीपाद श्रीवल्लभ, श्री नृसिंह सरस्वती और स्वामी समर्थ महाराज उनके प्रमुख अवतार माने जाते हैं।

अवधूत किसे कहते हैं?

जो द्वैत-अद्वैत से परे हो, जिसे कोई बंधन न हो और जो सदैव परमानंद में लीन रहे, उसे अवधूत कहते हैं।

दत्त जयंती पर इस पूजा का क्या महत्त्व है?

दत्त जयंती भगवान दत्तात्रेय का जन्मोत्सव है। इस दिन षोडशोपचार पूजा करने से सहस्त्र गुना पुण्य मिलता है और विशेष मनोकामनाएं पूर्ण होती हैं।

क्या स्त्रियाँ यह पूजा कर सकती हैं?

जी हाँ, स्त्रियाँ पूर्ण भक्तिभाव से यह पूजा कर सकती हैं। कुछ परंपराओं में स्पर्श वर्जित हो सकता है, लेकिन मानसिक पूजा और स्तोत्र पाठ करने में कोई निषेध नहीं है।

इस पूजा का मूल मंत्र क्या है?

इस पूजा के दौरान आप 'ॐ द्रां दत्तात्रेयाय नमः' या 'ॐ दिगंबराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात्' (दत्तात्रेय गायत्री) का जाप कर सकते हैं।

।। ॐ महालक्ष्म्यै नमः ।।