Logoपवित्र ग्रंथ

Sri Maha Lakshmi Visesha Shodasopachara Puja

Sri Maha Lakshmi Visesha Shodasopachara Puja

श्री महालक्ष्मि विशेष षोडशोपचार पूजा

Sri Maha Lakshmi Visesha Shodasopachara Puja

श्री महालक्ष्मि विशेष षोडशोपचार पूजा
यह धन और समृद्धि की देवी के स्वागत की 'राजसी विधि' (Royal Protocol) है। 'षोडशोपचार' का अर्थ है '16 प्रकार की सेवा'।

जैसे हम किसी विशेष अतिथि का स्वागत करते हैं, वैसे ही इस पूजा में देवी को आसन, स्नान, वस्त्र, और भोजन (नैवेद्य) अर्पित किया जाता है। यह विधि विशेष रूप से दीपावली और वरलक्ष्मी व्रत पर की जाती है।

॥ श्री महालक्ष्मि विशेष षोडशोपचार पूजा ॥ पुनः सङ्कल्पम् पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री महालक्ष्मी अनुग्रहप्रसाद सिद्ध्यर्थं श्री महालक्ष्मी प्रीत्यर्थं श्री सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥ ध्यानम् या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः । नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् । दासीभूतसमस्त देव वनितां लोकैक दीपाङ्कुराम् । श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् । त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् । रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥ सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् । ध्यानेनानेन तां ध्यात्वा चोपचारैः सुसम्युतः ॥ ॐ श्री महालक्ष्मै नमः ध्यायामि । १. आवाहनम् हिरण्यवर्णाम् हरिणीं सुवर्ण रजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥ सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् । शान्तां च श्रीहरेः कान्तां तां भजे जगतां प्रसूम् ॥ ॐ श्री महालक्ष्मै नमः आवाहयामि । २. आसनम् तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ अमूल्यरत्नखचितं निर्मितं विश्वकर्मणा । आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि । ३. पाद्यम् अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥ पुष्पचन्दनदूर्वादिसम्युतं जाह्नवीजलम् । शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥ ॐ श्री महालक्ष्मै नमः पादयोः पाद्यं समर्पयामि । ४. अर्घ्यम् कां सोस्मितां हिरण्यप्राकारामाद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् । पापेध्मवह्निरूपं च गृह्यतां कमलालये ॥ ॐ श्री महालक्ष्मै नमः हस्तयोः अर्घ्यं समर्पयामि । ५. आचमनीयम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीim शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा । गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ॥ ॐ श्री महालक्ष्मै नमः मुखे आचमनीयं समर्पयामि । ६. मधुपर्कम् कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् । स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥ ॐ श्री महालक्ष्मै नमः मधुपर्कं समर्पयामि । ७. पञ्चामृत स्नानम् ॐ श्री महालक्ष्मै नमः पञ्चामृत स्नानं समर्पयामि । ८. शुद्धोदक स्नानम् आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ पञ्चामृत समायुक्तं जाह्नवीसलिलं शुभम् । गृहाण विश्वजननि स्नानार्थं भक्तवत्सले ॥ ॐ श्री महालक्ष्मै नमः शुद्धोदक स्नानं समर्पयामि । स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि । ९. वस्त्रम् उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् । कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः वस्त्रयुग्मं समर्पयामि । १०. व्यजनचामरम् क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वान् निर्णुद मे गृहात् ॥ शीतवायुप्रदं चैव दाहे च सुखदं परम् । कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ॥ ॐ श्री महालक्ष्मै नमः व्यजनचामरैर्वीजयामि । ११. गन्धादि परिमलद्रव्याणि गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् । गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः श्रीगन्धं समर्पयामि । मलयाचलसम्भूतं वृक्षसारं मनोहरम् । सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः रक्तचन्दनं समर्पयामि । सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये । भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः सिन्दूरं समर्पयामि । कुङ्कुमं कामदं दिव्यं कुङ्कुमं कामरूपिणम् । अखण्डकामसौभाग्यं कुङ्कुमं प्रतिगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः कुङ्कुमं समर्पयामि । सुगन्धियुक्तं तैलं च सुगन्धामलकीजलम् । देहसौन्दर्यबीजं च गृह्यतां श्रीहरिप्रिये ॥ ॐ श्री महालक्ष्मै नमः सुगन्धि तैलं समर्पयामि । १२. आभरणम् मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ रत्नस्वर्णविकारं च देहसौख्यविवर्धनम् । शोभाधानं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः आभरणानि समर्पयामि । १३. पुष्पमाला कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ नानाकुसुमनिर्माणं बहुशोभाप्रदं परम् । सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः पुष्पमालाम् समर्पयामि । १४. पुष्पाणि मन्दारपारिजातादीन्पाटलीं केतकीं तथा । मरुवामोगरं चैव गृहाणाशु नमोऽस्तु ते ॥ ॐ श्री महालक्ष्मै नमः पुष्पाणि समर्पयामि । १५. अथाङ्ग पूजा ॐ चपलायै नमः – पादौ पूजयामि । ॐ चञ्चलायै नमः – जानुनी पूजयामि । ॐ कमलायै नमः – कटिं पूजयामि । ॐ कात्यायन्यै नमः – नाभिं पूजयामि । ॐ जगन्मात्रे नमः – जठरं पूजयामि । ॐ विश्ववल्लभायै नमः – वक्षस्स्थलं पूजयामि । ॐ कमलवासिन्यै नमः – नेत्रत्रयं पूजयामि । ॐ श्रियै नमः – शिरः पूजयामि । ॐ महालक्ष्मै नमः – सर्वाण्यङ्गानि पूजयामि । १६. अष्ट सिद्धि एवं अष्टलक्ष्मी पूजनम् (पूर्वादिक्रमेणाष्टदिक्ष्वष्टसिद्धीः पूजयेत्) ॐ अणिम्ने नमः। ॐ महिम्ने नमः। ॐ गरिम्णे नमः। ॐ लघिम्ने नमः। ॐ प्राप्त्यै नमः। ॐ प्राकाम्यायै नमः। ॐ ईशितायै नमः। ॐ वशितायै नमः। (पूर्वादिक्रमेणाष्टलक्ष्मी पूजनम्) ॐ आद्यलक्ष्मै नमः। ॐ विद्यालक्ष्मै नमः। ॐ सौभाग्यलक्ष्मै नमः। ॐ अमृतलक्ष्मै नमः। ॐ कामलक्ष्मै नमः। ॐ सत्यलक्ष्मै नमः। ॐ भोगलक्ष्मै नमः। ॐ योगलक्ष्मै नमः। १७. अष्टोत्तरशतनाम पूजा श्री लक्ष्मी अष्टोत्तरशतनामावली पश्यतु । श्री महालक्ष्मी अष्टोत्तरशतनामावली पश्यतु । १८. धूपम् आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥ वृक्षनिर्यासरूपं च गन्धद्रव्यादिसम्युतम् । कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः धूपं समर्पयामि । १९. दीपम् आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥ जगच्चक्षुः स्वरूपं च ध्वान्तप्रध्वंसकारणम् । प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥ ॐ श्री महालक्ष्मै नमः दीपं समर्पयामि । २०. नैवेद्यम् आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥ नानोपहाररूपं च नानारससमन्वितम् । नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः नैवेद्यं समर्पयामि । (प्राणहुति:) ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । २१. आचमनम् शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् । आचम्यतां मम जलं प्रसीद त्वं महेश्वरि ॥ ॐ श्री महालक्ष्मै नमः आचमनीयं समर्पयामि । २२. ताम्बूलम् तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् । जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः ताम्बूलं समर्पयामि । २३. फलम् नानाविधानि रम्याणि पक्वानि च फलानि तु । स्वादुरस्यानि कमले गृह्यतां फलदानि च ॥ ॐ श्री महालक्ष्मै नमः फलानि समर्पयामि । २४. दक्षिणाम् हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदं अतः शान्तिं प्रयच्छ मे ॥ ॐ श्री महालक्ष्मै नमः दक्षिणां समर्पयामि । २५. नीराजनम् सम्राजं च विराजं चाभिश्रीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सं सृजामसि ॥ चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् । आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि । सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु । नित्य श्रीरस्तु नित्यमङ्गलानि भवन्तु ॥ ॐ श्री महालक्ष्मै नमः नीराजनं समर्पयामि । नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि । २६. मन्त्रपुष्पम् ॥ श्रीसूक्तं पश्यतु ॥ ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे । लोकमात्रे ददाम्यद्य प्रीत्या सङ्गृह्यतां सदा ॥ ॐ श्री महालक्ष्मै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि । २७. प्रदक्षिणा नमस्कारम् यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे । पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव । त्राहिमां कृपया देवी शरणागतवत्सले । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष मां परमेश्वरि ॥ उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥ ॐ श्री महालक्ष्मै नमः आत्मप्रदक्षिण साष्टाङ्ग नमस्कारान् समर्पयामि । साष्टाङ्ग नमस्कारम् उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥ ॐ श्री महालक्ष्मै नमः साष्टाङ्ग नमस्कारान् समर्पयामि । २८. सर्वोपचाराः ॐ श्री महालक्ष्मै नमः छत्रं आच्छादयामि । ॐ श्री महालक्ष्मै नमः चामरैर्वीजयामि । ॐ श्री महालक्ष्मै नमः नृत्यं दर्शयामि । ॐ श्री महालक्ष्मै नमः गीतं श्रावयामि । ॐ श्री महालक्ष्मै नमः आन्दोलिकान्नारोहयामि । ॐ श्री महालक्ष्मै नमः अश्वानारोहयामि । ॐ श्री महालक्ष्मै नमः गजानारोहयामि । समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि । यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् । देवभूषाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥ २९. प्रार्थना सुरासुरेन्द्रादिकिरीटमौक्तिकै- -र्युक्तं सदा यत्तवपाद कञ्जनम् । परावरं पातु वरं सुमङ्गलं नमामि भक्त्या तव कामसिद्धये ॥ भवानि त्वं महालक्ष्मि सर्वकामप्रदायिनी । सुपूजिता प्रसन्ना स्यान्महालक्ष्मै नमोऽस्तु ते ॥ नमस्ते सर्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ ॐ श्री महालक्ष्मै नमः प्रार्थना नमस्कारान् समर्पयामि । ३०. दीप पूजनम् भो दीप त्वं ब्रह्मरूप अन्धकारनिवारक । इमां मया कृतां पूजां गृह्णंस्तेजः प्रवर्धय ॥ ॐ दीपाय नमः इति गन्धक्षतपुष्पैः सम्पूज्य श्रीमहालक्ष्म्यै निवेदयेत् । ३१. दीपमाला पूजनम् दीपावली मया दत्तं गृहाण त्वं सुरेश्वरि । आरार्तिकप्रदानेन ज्ञानदृष्टिप्रदा भव ॥ अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च । उत्तमः सर्वतेजस्तु दीपोऽयं प्रतिगृह्यताम् ॥ ॐ श्री महालक्ष्मै नमः आरार्तिकं समर्पयामि । ३२. दीपावलि रात्रि प्रार्थना नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये । या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ १ ॥ विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे । महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ २ ॥ वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् । सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥ ३ ॥ या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता । संवत्सरप्रिया या च सा ममास्तु सुमङ्गलम् ॥ ४ ॥ माता त्वं सर्वभूतानां देवानां सृष्टिसम्भवाम् । आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥ ५ ॥ दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके । नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥ ६ ॥ शङ्खचक्रगदाहस्ते शुभ्रवर्णे शुभानने । मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥ ७ ॥ नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि । सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥ ८ ॥ धनं धान्यं धरां हर्षं कीर्तिमायुर्यशः श्रियः । तुरगान् दन्तिनः पुत्रान् महालक्ष्मि प्रयच्छ मे ॥ ९ ॥ यन्मया वाञ्छितं देवि तत्सर्वं सफलं कुरु । न बाधन्तां कुकर्माणि सङ्कटान्मे निवारय ॥ १० ॥ न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् । सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि ॥ ११ ॥ ३३. क्षमा प्रार्थना यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी । यत्पूजितं मयादेवी परिपूर्णं तदस्तुते ॥ अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री महालक्ष्मी देवता सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥ ३४. तीर्थप्रसाद ग्रहणम् अकालमृत्यहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्री महालक्ष्मी पादोदकं पावनं शुभम् ॥ श्री महालक्ष्मै नमः प्रसादं शिरसा गृह्णामि । ॐ शान्तिः शान्तिः शान्तिः ।

षोडशोपचार पूजा का विज्ञान (Science of Shodasopachara)

हिंदू धर्म में पूजा केवल 'प्रार्थना' नहीं है; यह एक 'आतिथ्य' (Hospitality) है। जब कोई राजा या विशिष्ट अतिथि घर आता है, तो हम उनका स्वागत करते हैं, पैर धोते हैं, आसन देते हैं, भोजन कराते हैं और उपहार देते हैं। ठीक यही भावना हम ईश्वर के प्रति रखते हैं।

'षोडश' (16) + 'उपचार' (सेवाएं) - यह पूर्णता का प्रतीक है। इस विशेष पूजा में, हम महालक्ष्मी को केवल एक मूर्ति नहीं, बल्कि 'जीवंत चेतना' (Living Consciousness) मानकर उन्हें अपने घर में आमंत्रित करते हैं। हर उपचार का एक मनोवैज्ञानिक और आध्यात्मिक अर्थ होता है जो भक्त को देवी के करीब लाता है।

मुख्य उपचारों का रहस्य (Secrets of Key Steps)

1. आवाहनम् (Invitation)

मंत्र: "हिरण्यवर्णाम् हरिणीम्..." (श्री सूक्तम श्लोक 1)। आवाहन का अर्थ है 'पुकारना'। हम देवी को बैकुंठ से अपने पूजा स्थल पर बुलाते हैं। यहाँ 'अक्षत' (चावल) का प्रयोग होता है क्योंकि चावल 'प्राण' का प्रतीक है。

2. पञ्चामृत स्नानम् (The 5 Nectars)

देवी का अभिषेक 5 द्रव्यों से किया जाता है, जो हमारे जीवन के 5 तत्वों का शुद्धिकरण करते हैं:

  • दूध (Milk): पवित्रता और पोषण।
  • दही (Curd): समृद्धि और संतान वृद्धि।
  • घी (Ghee): ओज, तेज और स्नेह।
  • शहद (Honey): मधुर वाणी और एकता।
  • शक्कर (Sugar): जीवन में मिठास और सुख।

3. अथाङ्ग पूजा (Worship of Limbs)

हम देवी के 'चरणों' से लेकर 'सिर' तक एक-एक अंग की पूजा करते हैं। "ओं चपलायै नमः - पादौ पूजयामि" - यहाँ हम प्रार्थना करते हैं कि 'चपला' (चंचल लक्ष्मी) हमारे घर में स्थिर हो जाएं। इससे साधक का अपना शरीर भी दिव्य बन जाता है (न्यास योग)।

4. दीपमाला पूजन (Worship of Lights)

हम केवल एक दीपक नहीं, बल्कि दीपों की पूरी पंक्ति (Row of Lights) जलाते हैं। हम प्रार्थना करते हैं कि यह बाहरी प्रकाश हमारे भीतर 'ज्ञान की दृष्टि' (Vision of Wisdom) को भी जगा दे।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. षोडशोपचार (Shodasopachara) और पंचोपचार (Panchopachara) में क्या अंतर है?

'पंचोपचार' (5 Steps) प्रतिदिन की पूजा विधि है (गंध, पुष्प, धूप, दीप, नैवेद्य)। 'षोडशोपचार' (16 Steps) विशेष अवसरों पर देवी को 'राजसी सम्मान' (Royal Hospitality) देने के लिए है।

2. क्या यह पूजा बिना पंडित के की जा सकती है?

बिल्कुल। यदि आप संस्कृत नहीं जानते, तो आप मानसिक रूप से 'श्री महालक्ष्म्यै नमः' बोलकर हर वस्तु अर्पित कर सकते हैं। मुख्य बात श्रद्धा (Faith) है।

3. श्री सूक्त (Sri Suktam) का इसमें क्या महत्व है?

यह पूजा 'श्री सूक्त विधान' पर आधारित है। वेदों में सबसे शक्तिशाली लक्ष्मी मंत्र 'श्री सूक्त' ही है। हर उपचार के साथ श्री सूक्त का एक मंत्र जोड़ने से पूजा 'वैदिक' और अत्यंत शक्तिशाली बन जाती है।

4. यदि पंचामृत (Panchamrita) न हो तो क्या करें?

यदि सामग्री उपलब्ध न हो, तो आप 'शुद्धोदक' (Pure Water) में थोड़ी सी शक्कर या गंगाजल मिलाकर भी स्नान करा सकते हैं। आप मानसिक रूप से (Manas Puja) भी पंचामृत अर्पित कर सकते हैं।

5. अंग पूजा (Anga Puja) का क्या उद्देश्य है?

अंग पूजा में हम देवी के शरीर के एक-एक अंग की वंदना करते हैं। यह 'न्यास' की प्रक्रिया है। इसका उद्देश्य यह अनुभव करना है कि देवी हमारे सामने 'साक्षात' उपस्थित हैं।

6. पूजा में किस दिशा की ओर मुख करना चाहिए?

साधक को पूर्व (East) या उत्तर (North) दिशा की ओर मुख करना चाहिए। मूर्ति का मुख पश्चिम या दक्षिण की ओर हो सकता है, लेकिन साधक का मुख दक्षिण की ओर नहीं होना चाहिए।

7. रक्त चंदन (Red Sandalwood) का क्या महत्व है?

लक्ष्मी जी को 'लाल' रंग प्रिय है। श्लोक 107 में 'रक्तचन्दनं' का विधान है। श्वेत चंदन विष्णु/शिव के लिए है, लेकिन शक्ति पूजा में रक्त चंदन और कुमकुम श्रेष्ठ हैं।

8. मंत्र पुष्पम (Mantra Pushpam) क्या है?

यह पूजा का 'अंतिम मुकुट' है। इसका अर्थ है - वेदों के मंत्रों के साथ फूल अर्पित करना। हम केवल भौतिक फूल नहीं, बल्कि 'शब्दों के फूल' भी चढ़ाते हैं।

9. निर्माल्या (Leftover offerings) का क्या करें?

चढ़ाए गए फूल और अक्षत 'निर्माल्या' हैं। इन्हें किसी पवित्र नदी, तालाब में विसर्जित करें या गमले की मिट्टी में दबा दें। इन्हें पैरों के नीचे न आने दें।

।। ॐ महालक्ष्म्यै नमः ।।