॥ श्री महालक्ष्मि विशेष षोडशोपचार पूजा ॥
पुनः सङ्कल्पम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री महालक्ष्मी अनुग्रहप्रसाद सिद्ध्यर्थं श्री महालक्ष्मी प्रीत्यर्थं श्री सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
ध्यानम्
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ।
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।
ध्यानेनानेन तां ध्यात्वा चोपचारैः सुसम्युतः ॥
ॐ श्री महालक्ष्मै नमः ध्यायामि ।
१. आवाहनम्
हिरण्यवर्णाम् हरिणीं सुवर्ण रजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।
शान्तां च श्रीहरेः कान्तां तां भजे जगतां प्रसूम् ॥
ॐ श्री महालक्ष्मै नमः आवाहयामि ।
२. आसनम्
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
अमूल्यरत्नखचितं निर्मितं विश्वकर्मणा ।
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
३. पाद्यम्
अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥
पुष्पचन्दनदूर्वादिसम्युतं जाह्नवीजलम् ।
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥
ॐ श्री महालक्ष्मै नमः पादयोः पाद्यं समर्पयामि ।
४. अर्घ्यम्
कां सोस्मितां हिरण्यप्राकारामाद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।
पापेध्मवह्निरूपं च गृह्यतां कमलालये ॥
ॐ श्री महालक्ष्मै नमः हस्तयोः अर्घ्यं समर्पयामि ।
५. आचमनीयम्
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीim शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ।
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ॥
ॐ श्री महालक्ष्मै नमः मुखे आचमनीयं समर्पयामि ।
६. मधुपर्कम्
कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥
ॐ श्री महालक्ष्मै नमः मधुपर्कं समर्पयामि ।
७. पञ्चामृत स्नानम्
ॐ श्री महालक्ष्मै नमः पञ्चामृत स्नानं समर्पयामि ।
८. शुद्धोदक स्नानम्
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
पञ्चामृत समायुक्तं जाह्नवीसलिलं शुभम् ।
गृहाण विश्वजननि स्नानार्थं भक्तवत्सले ॥
ॐ श्री महालक्ष्मै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
९. वस्त्रम्
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥
देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः वस्त्रयुग्मं समर्पयामि ।
१०. व्यजनचामरम्
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वान् निर्णुद मे गृहात् ॥
शीतवायुप्रदं चैव दाहे च सुखदं परम् ।
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ॥
ॐ श्री महालक्ष्मै नमः व्यजनचामरैर्वीजयामि ।
११. गन्धादि परिमलद्रव्याणि
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् ।
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः श्रीगन्धं समर्पयामि ।
मलयाचलसम्भूतं वृक्षसारं मनोहरम् ।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः रक्तचन्दनं समर्पयामि ।
सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः सिन्दूरं समर्पयामि ।
कुङ्कुमं कामदं दिव्यं कुङ्कुमं कामरूपिणम् ।
अखण्डकामसौभाग्यं कुङ्कुमं प्रतिगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः कुङ्कुमं समर्पयामि ।
सुगन्धियुक्तं तैलं च सुगन्धामलकीजलम् ।
देहसौन्दर्यबीजं च गृह्यतां श्रीहरिप्रिये ॥
ॐ श्री महालक्ष्मै नमः सुगन्धि तैलं समर्पयामि ।
१२. आभरणम्
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥
रत्नस्वर्णविकारं च देहसौख्यविवर्धनम् ।
शोभाधानं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः आभरणानि समर्पयामि ।
१३. पुष्पमाला
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
नानाकुसुमनिर्माणं बहुशोभाप्रदं परम् ।
सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः पुष्पमालाम् समर्पयामि ।
१४. पुष्पाणि
मन्दारपारिजातादीन्पाटलीं केतकीं तथा ।
मरुवामोगरं चैव गृहाणाशु नमोऽस्तु ते ॥
ॐ श्री महालक्ष्मै नमः पुष्पाणि समर्पयामि ।
१५. अथाङ्ग पूजा
ॐ चपलायै नमः – पादौ पूजयामि ।
ॐ चञ्चलायै नमः – जानुनी पूजयामि ।
ॐ कमलायै नमः – कटिं पूजयामि ।
ॐ कात्यायन्यै नमः – नाभिं पूजयामि ।
ॐ जगन्मात्रे नमः – जठरं पूजयामि ।
ॐ विश्ववल्लभायै नमः – वक्षस्स्थलं पूजयामि ।
ॐ कमलवासिन्यै नमः – नेत्रत्रयं पूजयामि ।
ॐ श्रियै नमः – शिरः पूजयामि ।
ॐ महालक्ष्मै नमः – सर्वाण्यङ्गानि पूजयामि ।
१६. अष्ट सिद्धि एवं अष्टलक्ष्मी पूजनम्
(पूर्वादिक्रमेणाष्टदिक्ष्वष्टसिद्धीः पूजयेत्)
ॐ अणिम्ने नमः।
ॐ महिम्ने नमः।
ॐ गरिम्णे नमः।
ॐ लघिम्ने नमः।
ॐ प्राप्त्यै नमः।
ॐ प्राकाम्यायै नमः।
ॐ ईशितायै नमः।
ॐ वशितायै नमः।
(पूर्वादिक्रमेणाष्टलक्ष्मी पूजनम्)
ॐ आद्यलक्ष्मै नमः।
ॐ विद्यालक्ष्मै नमः।
ॐ सौभाग्यलक्ष्मै नमः।
ॐ अमृतलक्ष्मै नमः।
ॐ कामलक्ष्मै नमः।
ॐ सत्यलक्ष्मै नमः।
ॐ भोगलक्ष्मै नमः।
ॐ योगलक्ष्मै नमः।
१७. अष्टोत्तरशतनाम पूजा
श्री लक्ष्मी अष्टोत्तरशतनामावली पश्यतु ।
श्री महालक्ष्मी अष्टोत्तरशतनामावली पश्यतु ।
१८. धूपम्
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसम्युतम् ।
कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः धूपं समर्पयामि ।
१९. दीपम्
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥
जगच्चक्षुः स्वरूपं च ध्वान्तप्रध्वंसकारणम् ।
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥
ॐ श्री महालक्ष्मै नमः दीपं समर्पयामि ।
२०. नैवेद्यम्
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥
नानोपहाररूपं च नानारससमन्वितम् ।
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः नैवेद्यं समर्पयामि ।
(प्राणहुति:)
ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
२१. आचमनम्
शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।
आचम्यतां मम जलं प्रसीद त्वं महेश्वरि ॥
ॐ श्री महालक्ष्मै नमः आचमनीयं समर्पयामि ।
२२. ताम्बूलम्
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः ताम्बूलं समर्पयामि ।
२३. फलम्
नानाविधानि रम्याणि पक्वानि च फलानि तु ।
स्वादुरस्यानि कमले गृह्यतां फलदानि च ॥
ॐ श्री महालक्ष्मै नमः फलानि समर्पयामि ।
२४. दक्षिणाम्
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदं अतः शान्तिं प्रयच्छ मे ॥
ॐ श्री महालक्ष्मै नमः दक्षिणां समर्पयामि ।
२५. नीराजनम्
सम्राजं च विराजं चाभिश्रीर्या च नो गृहे ।
लक्ष्मी राष्ट्रस्य या मुखे तया मा सं सृजामसि ॥
चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।
आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ।
सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु ।
नित्य श्रीरस्तु नित्यमङ्गलानि भवन्तु ॥
ॐ श्री महालक्ष्मै नमः नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
२६. मन्त्रपुष्पम्
॥ श्रीसूक्तं पश्यतु ॥
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥
सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे ।
लोकमात्रे ददाम्यद्य प्रीत्या सङ्गृह्यतां सदा ॥
ॐ श्री महालक्ष्मै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।
२७. प्रदक्षिणा नमस्कारम्
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष मां परमेश्वरि ॥
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥
ॐ श्री महालक्ष्मै नमः आत्मप्रदक्षिण साष्टाङ्ग नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम्
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥
ॐ श्री महालक्ष्मै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
२८. सर्वोपचाराः
ॐ श्री महालक्ष्मै नमः छत्रं आच्छादयामि ।
ॐ श्री महालक्ष्मै नमः चामरैर्वीजयामि ।
ॐ श्री महालक्ष्मै नमः नृत्यं दर्शयामि ।
ॐ श्री महालक्ष्मै नमः गीतं श्रावयामि ।
ॐ श्री महालक्ष्मै नमः आन्दोलिकान्नारोहयामि ।
ॐ श्री महालक्ष्मै नमः अश्वानारोहयामि ।
ॐ श्री महालक्ष्मै नमः गजानारोहयामि ।
समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।
यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूषाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥
२९. प्रार्थना
सुरासुरेन्द्रादिकिरीटमौक्तिकै-
-र्युक्तं सदा यत्तवपाद कञ्जनम् ।
परावरं पातु वरं सुमङ्गलं
नमामि भक्त्या तव कामसिद्धये ॥
भवानि त्वं महालक्ष्मि सर्वकामप्रदायिनी ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्मै नमोऽस्तु ते ॥
नमस्ते सर्वदेवानां वरदासि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥
ॐ श्री महालक्ष्मै नमः प्रार्थना नमस्कारान् समर्पयामि ।
३०. दीप पूजनम्
भो दीप त्वं ब्रह्मरूप अन्धकारनिवारक ।
इमां मया कृतां पूजां गृह्णंस्तेजः प्रवर्धय ॥
ॐ दीपाय नमः इति गन्धक्षतपुष्पैः सम्पूज्य श्रीमहालक्ष्म्यै निवेदयेत् ।
३१. दीपमाला पूजनम्
दीपावली मया दत्तं गृहाण त्वं सुरेश्वरि ।
आरार्तिकप्रदानेन ज्ञानदृष्टिप्रदा भव ॥
अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्वतेजस्तु दीपोऽयं प्रतिगृह्यताम् ॥
ॐ श्री महालक्ष्मै नमः आरार्तिकं समर्पयामि ।
३२. दीपावलि रात्रि प्रार्थना
नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ १ ॥
विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे ।
महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ २ ॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥ ३ ॥
या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता ।
संवत्सरप्रिया या च सा ममास्तु सुमङ्गलम् ॥ ४ ॥
माता त्वं सर्वभूतानां देवानां सृष्टिसम्भवाम् ।
आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥ ५ ॥
दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके ।
नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥ ६ ॥
शङ्खचक्रगदाहस्ते शुभ्रवर्णे शुभानने ।
मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥ ७ ॥
नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि ।
सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥ ८ ॥
धनं धान्यं धरां हर्षं कीर्तिमायुर्यशः श्रियः ।
तुरगान् दन्तिनः पुत्रान् महालक्ष्मि प्रयच्छ मे ॥ ९ ॥
यन्मया वाञ्छितं देवि तत्सर्वं सफलं कुरु ।
न बाधन्तां कुकर्माणि सङ्कटान्मे निवारय ॥ १० ॥
न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् ।
सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि ॥ ११ ॥
३३. क्षमा प्रार्थना
यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्पूजितं मयादेवी परिपूर्णं तदस्तुते ॥
अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री महालक्ष्मी देवता सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
३४. तीर्थप्रसाद ग्रहणम्
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महालक्ष्मी पादोदकं पावनं शुभम् ॥
श्री महालक्ष्मै नमः प्रसादं शिरसा गृह्णामि ।
ॐ शान्तिः शान्तिः शान्तिः ।