Logoपवित्र ग्रंथ

नाग पञ्चमी पूजा पद्धतिः - Naga Panchami Puja Vidhi

नाग पञ्चमी पूजा पद्धतिः - Naga Panchami Puja Vidhi

नाग पञ्चमी पूजा पद्धतिः

Naga Panchami Puja Vidhi

नाग पञ्चमी पूजा पद्धतिः (Naga Panchami Puja Vidhi) नाग देवता को समर्पित एक विशेष पूजा विधि है। श्रावण मास की नाग पंचमी पर इनका पूजन विशेष फलदायी होता है। यह कालसर्प दोष निवारण, वंश वृद्धि और सर्प भय से मुक्ति के लिए अत्यंत प्रभावशाली मानी जाती है।

इस विधि में अनन्त, वासुकि, शेष, पद्म, कम्बल आदि अष्टनागों का आह्वान और षोडशोपचार पूजन किया जाता है।

संकल्प और ध्यान :

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायं शुभ तिथौ मम सकुटुम्बस्य सपरिवारस्य सर्वदा सर्पभय निवृतिद्वारा सर्वाभीष्टसिद्ध्यर्थं नागदेवताप्रीत्यर्थं नागराजस्य षोडशोपचारपूजां करिष्ये ।

अस्मिन् नागप्रतिमे नागराजान् आवाहयामि स्थापयामि पूजयामि ।

ध्यानम् –

अनन्तं वासुकिं शेषं पद्मकम्बलकौ तथा । तथा कार्कोटकं नागं भुजङ्गाश्वतरौ तथा ॥ धृतराष्ट्रं शङ्खपालं कालीयं तक्षकं तथा । पिङ्गलं च महानागं सपत्नीकान्प्रपूजयेत् ॥ ब्रह्माण्डाधारभूतं च भुवनान्तरवासिनम् । फणयुक्तमहं ध्याये नागराजं हरिप्रियम् ॥ ओं नागराजेभ्यो नमः ध्यायामि ।

आवाहन :

आगच्छानन्त देवेश काल पन्नगनायक । अनन्तशयनीयं त्वां भक्त्या ह्यावाहयाम्यहम् ॥

ओं अनन्ताय नमः अनन्तं आवाहयामि । ओं वासुकये नमः वासुकीं आवाहयामि । ओं शेषाय नमः शेषं आवाहयामि । ओं पद्माय नमः पद्मं आवाहयामि । ओं कम्बलाय नमः कम्बलं आवाहयामि । ओं कार्कोटकाय नमः कार्कोटकं आवाहयामि । ओं भुजङ्गाय नमः भुजङ्गं आवाहयामि । ओं अश्वतराय नमः अश्वतरं आवाहयामि । ओं धृतराष्ट्राय नमः धृतराष्ट्रं आवाहयामि । ओं शङ्खपालाय नमः शङ्खपालं आवाहयामि । ओं कालियाय नमः कालियं आवाहयामि । ओं तक्षकाय नमः तक्षकं आवाहयामि । ओं पिङ्गलाय नमः पिङ्गलं आवाहयामि । नागपत्नीभ्यो नमः नागपत्नीः आवाहयामि ॥ ओं नागराजेभ्यो नमः आवाहयामि ।

आसन, पाद्य, अर्घ्य, आचमन :

आसनम् –

नवनागकुलाधीश शेषोद्धारक काश्यप । नानारत्नसमायुक्तमासनं प्रतिगृह्यताम् ॥ ओं नागराजेभ्यो नमः आसनं समर्पयामि ।

पाद्यम् –

अनन्तप्रिय शेषेश जगदाधारविग्रह । पाद्यं गृहाण मद्दत्तं काद्रवेय नमोऽस्तु ते ॥ ओं नागराजेभ्यो नमः पाद्यं समर्पयामि ।

अर्घ्यम् –

कश्यपानन्दजनक मुनिवन्दित भोः प्रभो । अर्घ्यं गृहाण सर्वज्ञ सादरं शङ्करप्रिय ॥ ओं नागराजेभ्यो नमः अर्घ्यं समर्पयामि ।

आचमनम् –

सहस्रफणिरूपेण वसुधोद्धारक प्रभो । गृहाणाचमनं देव पावनं च सुशीतलम् ॥ ओं नागराजेभ्यो नमः आचमनं समर्पयामि ।

मधुपर्क और स्नान :

मधुपर्कम् –

कुमाररूपिणे तुभ्यं दधिमध्वाज्यसम्युतम् । मधुपर्कं प्रदास्यामि सर्पराज नमोऽस्तु ते ॥ ओं नागराजेभ्यो नमः मधुपर्कं समर्पयामि ।

पञ्चामृतस्नानम् –

पयोदधिघृतं चैव मधुशर्करयान्वितम् । पञ्चामृतस्नानमिदं स्वीकुरुष्व दयानिधे ॥ ओं नागराजेभ्यो नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नानम् –

गङ्गादिपुण्यतीर्थैस्त्वामभिषिञ्चेयमादरात् । बलभद्रावतारेश नागेश श्रीपतेस्सखे ॥ ओं नागराजेभ्यो नमः स्नानं समर्पयामि । स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्र और आभूषण :

वस्त्रम् –

कौशेययुग्मं देवेश प्रीत्या तव मयार्पितम् । पन्नगाधीश नागेश तार्क्ष्यशत्रो नमोऽस्तु ते ॥ ओं नागराजेभ्यो नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –

सुवर्णनिर्मितं सूत्रं ग्रथितकण्ठहारकम् । अनेकरत्नैः खचितं सर्पराज नमोऽस्तु ते ॥ ओं नागराजेभ्यो नमः यज्ञोपवीतं समर्पयामि ।

आभरणम् –

अनेकरत्नान्वितहेमकुण्डले माणिक्यसङ्काशित कङ्कणद्वयम् । हैमाङ्गुलीयं कृतरत्नमुद्रिकं हैमं किरीटं फणिराज तेऽर्पितम् । ओं नागराजेभ्यो नमः आभरणानि समर्पयामि ।

गन्ध, अक्षत, पुष्प :

गन्धम् –

चन्दनागरुकस्तूरीघनसारसमन्वितम् । गन्धं गृहाण देवेश सर्वगन्धमनोहर ॥ ओं नागराजेभ्यो नमः गन्धं समर्पयामि ।

अक्षतान् –

अक्षतांश्च सुरश्रेष्ठ कुङ्कुमाक्तान्सुशोभितान् । मया निवेदितान्भक्त्या गृहाण पवनाशन ॥ ओं नागराजेभ्यो नमः अक्षतान् समर्पयामि । नागपत्नीभ्यो नमः हरिद्राकुङ्कुमादि दिव्यालङ्कारांश्च समर्पयामि ।

पुष्पम् –

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मया हृतानि पूजार्थं पुष्पाणि स्वीकुरुष्व भो ॥ ओं नागराजेभ्यो नमः पुष्पाणि समर्पयामि ।

अंग पूजा :

अथाङ्गपूजा –

ओं सहस्रपादाय नमः पादौ पूजयामि । ओं गूढगुल्फाय नमः गुल्फौ पूजयामि । ओं हेमजङ्घाय नमः जङ्घे पूजयामि । ओं मन्दगतये नमः जानुनी पूजयामि । ओं पीताम्बरधराय नमः कटिं पूजयामि । ओं गम्भीरनाभये नमः नाभिं पूजयामि । ओं पवनाशनाय नमः उदरं पूजयामि । ओं उरगाय नमः हस्तौ पूजयामि । ओं कालियाय नमः भुजौ पूजयामि । ओं कम्बुकण्ठाय नमः कण्ठं पूजयामि । ओं विषवक्त्राय नमः वक्त्रं पूजयामि । ओं फणभूषणाय नमः ललाटं पूजयामि । ओं लक्ष्मणाय नमः शिरं पूजयामि । ओं नागराजाय नमः सर्वाङ्गं पूजयामि ।

(यहाँ "श्री मानसादेवी अष्टोत्तरशतनामावली" या नाग देवता की अन्य नामावली का पाठ करें)

धूप, दीप, नैवेद्य :

धूपम् –

दशाङ्गं गुग्गुलुं धूपं सुगन्धं च मनोहरम् । धूपं दास्यामि नागेश कृपया त्वं गृहाण तम् ॥ ओं नागराजेभ्यो नमः धूपमाघ्रापयामि ।

दीपम् –

घृताक्तवर्तिसम्युक्तमन्धकारविनाशकम् । दीपं दास्यामि ते देव गृहाण मुदितो भव ॥ ओं नागराजेभ्यो नमः दीपं दर्शयामि ।

नैवेद्यम् –

नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसम्युतम् । नानाभक्ष्यफलोपेतं गृहाणाभीष्टदायक ॥ [क्षीरदधिघृतशर्करापायसलाजन् समर्प्य] ओं नागराजेभ्यो नमः नैवेद्यं समर्पयामि ।

घनसारसुगन्धेन मिश्रितं पुष्पवासितम् । पानीयं गृह्यतां देव शीतलं सुमनोहरम् ॥ मध्ये मध्ये पानीयं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । आचमनीयं समर्पयामि ।

फलम् –

बीजपूराम्रपनसखर्जूरी कदलीफलम् । नाारिकेलफलं दिव्यं गृहाण सुरपूजित ॥ ओं नागराजेभ्यो नमः नानाविधफलानि समर्पयामि ।

ताम्बूल और दक्षिणा :

ताम्बूलम् –

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ओं नागराजेभ्यो नमः ताम्बूलं समर्पयामि ।

दक्षिणम् –

सुवर्णं सर्वधातूनां श्रेष्ठं देयं च तत्सदा । भक्त्या ददामि वरद स्वर्णवृद्धिं च देहि मे ॥ ओं नागराजेभ्यो नमः सुवर्णपुष्पदक्षिणां समर्पयामि ।

नीराजन और पुष्पांजलि :

नीराजनम् –

नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम् । वह्निचन्द्रार्कसदृशं गृहाण दुरितापह ॥ ओं नागराजेभ्यो नमः कर्पूरनीराजनं समर्पयामि ।

मन्त्रपुष्पम् –

नानाकुसुमसम्युक्तं पुष्पाञ्जलिमिमं प्रभो । कश्यपानन्दजनक सर्पराज गृहाण मे ॥ ओं नागराजेभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।

छत्र-चामर-दर्पण-नृत्त-गीत-वाद्यान्दोलिकादि समस्तराजोपचारान् समर्पयामि ॥

प्रदक्षिणा और नमस्कार :

प्रदक्षिण –

यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्तु प्रदक्षिण पदे पदे ॥ ओं नागराजेभ्यो नमः प्रदक्षिणनमस्कारान् समर्पयामि ।

नमस्कारम् –

नमस्ते सर्वलोकेश नमस्ते लोकवन्दित । नमस्तेऽस्तु सदा नाग त्राहि मां दुःखसागरात् ॥ ओं नागराजेभ्यो नमः नमस्कारान् समर्पयामि ।

प्रार्थना और समर्पण :

प्रार्थना –

अज्ञानात् ज्ञानतो वापि यन्मया पूजनं कृतम् । न्यूनातिरिक्तं तत्सर्वं भो नागाः क्षन्तुमर्हथ ॥ युष्मत्प्रसादात्सफला मम सन्तु मनोरथाः । सर्वदा मत्कृते मास्तु भयं सर्पविषोद्भवम् ॥

समर्पणम् –

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

अनया मया कृत षोडशोपचार पूजया नागराजाः सुप्रीतो सुप्रसन्नो वरदो भवतु ।

वायनदान मन्त्र :

वायनदान मन्त्रः –

नागेशः प्रतिगृह्णाति नागेशो वै ददाति च । नागेशस्तारको द्वाभ्यां नागेशाय नमो नमः ॥

ओं शान्तिः शान्तिः शान्तिः ।

इति नागपञ्चमी पूजा समाप्ता ॥

पाठ के लाभ (Benefits)

  • सर्प भय मुक्ति: जातक को सर्प भय और विष बाधा से मुक्ति मिलती है।
  • दोष निवारण: कालसर्प दोष और राहु-केतु जनित कष्ट दूर होते हैं।
  • वंश वृद्धि: नाग देवता की कृपा से संतान सुख और वंश वृद्धि होती है।
  • धन संपत्ति: पाताल के स्वामी नाग देव धन-धान्य की रक्षा करते हैं।

पाठ विधि (Recitation Method)

  • समय: नाग पंचमी, सोमवार या चतुर्थी तिथि पर पाठ करना श्रेष्ठ है।
  • आसन: शुद्ध आसन पर बैठकर, पूर्वाभिमुख होकर पाठ करें।
  • अर्पण: दूध, लावा (खील) और गंध-पुष्प अर्पित करें।
  • संकल्प: 'ॐ कुरुकुल्ये हुं फट् स्वाहा' मंत्र का स्मरण कर पाठ आरंभ करें।

संबंधित ग्रंथ पढ़ें

नाग पञ्चमी पूजा पद्धतिः का पाठ किस दिन करना चाहिए?

नाग पंचमी (श्रावण शुक्ल पंचमी) का दिन इसके लिए सर्वोत्तम है। इसके अलावा शुक्ल पक्ष की चतुर्थी या पंचमी को भी किया जा सकता है।

क्या महिलाएं इसका पाठ कर सकती हैं?

जी हाँ, सभी श्रद्धालु अपनी श्रद्धा और भक्ति भाव से नाग देवता का पूजन और स्तोत्र पाठ कर सकते हैं।

इस पूजा में कौन से नागों का ध्यान किया जाता है?

इस पूजा में मुख्य रूप से आठ नागों (अष्टनाग) - अनन्त, वासुकि, शेष, पद्म, कम्बल, कार्कोटक, अश्वतर और धृतराष्ट्र का ध्यान किया जाता है।

नाग देवता को क्या नैवेद्य प्रिय है?

नाग देवता को कच्चा दूध, लावा (खील), और पंचामृत विशेष प्रिय है।

।। ॐ महालक्ष्म्यै नमः ।।