ॐ
॥ श्रीमातङ्गी स्तुतिः ॥
मातङ्गीं नवयावकार्द्र चरणामुल्लासि कृष्णांशुकां
वीणापुस्तक धारिणीं नतकुचां मुक्ताप्रवालावलिम् ।
श्यामाङ्गीं शशिशङ्खकुण्डलधरां दन्तप्रभासुस्मितां
आकर्णालक-वेणि-कञ्ज-नयनां ध्यायेच्छुक श्यामलाम् ॥ १॥
कर्पूर शोभि कर्णाभरणाभिरामां माणिक्यभूषां सुमुखारविन्दाम् ।
हालामदाघूर्णित लोचनाभां बालां भजे बालतमाल नीलाम् ॥ २॥
कस्तूरी तिलकाभिराम रचिता कर्पूर ताटङ्किनी
बाला नीलविशालचारुवदना प्रालम्बिधम्मिल्लका ।
हारोदञ्चित पीवरस्तनतटी हालामदोल्लासिनी
श्यामा काचन मोहिनी विजयते चञ्चत्प्रपञ्चीकृता ॥ ३॥
अंशे वेणीं चिकुरकुसुमां चूलिकां नीलचेलां
मुक्ताभूषाङ्करयुगलतां वल्लकीं वादयन्तीम् ।
माध्वीमत्तां मधुकर निनदां श्यामलां कोमलाङ्गीं
मातङ्गीं तां सकलफलदां सन्ततं भावयामि ॥ ४॥
वीणा पुस्तक धारिणीं स्मितमुखीं तालीदलाकल्पित
स्फायत्कुण्डलभूषणां कुवलयश्यामां कुरङ्गीदृशीम् ।
उत्तुङ्गस्तनकुम्भयुग्म विलसत्काश्मीरपत्रावलीं
मातङ्गीं पदकैरवं नवचरच्चन्द्रातपत्राम्भजे ॥ ५॥
ध्यायेहं रत्नपीठेशुककुलरणितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाघ्रिं सरोजे शशिशकलधरां वल्लकींवादयन्तीम् ।
कल्ह्नाराबद्धमालां नियमितविलसच्चूलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुमदविवशां चित्रकोद्भासिभालाम् ॥ ६॥
आराध्यमानाश्चरणां पिबन्तोब्रह्मादयो विश्रुत कीर्तिमापुः ।
अन्येपरं वाग्विभवं मुनीन्द्रा परांश्रियं भक्तिभरेण चान्ये ॥ ७॥
नमामि देवीं नवचन्द्रमौलिं मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नाय वाक्यैः प्रतिपादनार्थे प्रबोधयन्तीं शुकमादरेण ॥ ८॥
मातङ्गलीला गमनेऽपि भक्त्या शिञ्जानमञ्जीरमिषाद्भजन्ति ।
मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचसां निरिच्छाः ॥ ९॥
पराधिकाशिञ्जितनूपुराभ्यां कृतागमां पदवीं तां पदाभ्याम् ।
आस्फोटयन्तीं करवल्लकीं तां मातङ्गिनीं मद्धृदये भजामि ॥ १०॥
नीलांशुकाबद्धनितम्बबिम्बां नालीदलेनानतकर्णभूषाम् ।
मध्ये मदाघूर्णित नेत्रपद्मां मातङ्गिनीं शम्भुवधूं नमामि ॥ ११॥
नीलोत्पलानां श्रियमावहन्तीं काञ्च्या कटाक्षैकशुभां कराणाम् ।
कदम्ब मालाङ्कितकेशपाशां मातङ्गकन्यां हृदिभावयामि ॥ १२॥
स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गिनीं वागधिदेवतां ताम् ।
स्वर्गंगतिं भक्तजना मनुष्याः परां श्रियं भक्ति भरेण चान्ये ॥ १३॥
कुचकुम्भ तटन्यस्त मणिवीणामदालसाम् ।
श्यामां वामाङ्क विन्यस्त मालिकां बालिकाम्भजे ॥ १४॥
अब्धौयाति सरोजचामरमरुद्दोधूयमानालका
चूलीचुम्बित चारुचम्पक दलागौरी मदोल्लासिनी ।
नाली बाल पलाश कर्णविलसत्कल्लोल कालिच्छटा
काली साचलकन्यका विजयते मच्चित्त पद्मासना ॥ १५॥
वीणानर्तित पाणि पङ्कजयुगामाशोणबिम्बाधरां
वेणी बद्ध कदम्ब पुष्प कलिकामेणी विलोलेक्षणाम् ।
श्रोणी लम्ब विराजमान सुजपा शोणाम्बरालङ्कृतां
एणाङ्कार्क विभूषणां कलयतां भिल्लीं पुरन्ध्रीम्भजे ॥ १६॥
तमाल श्यामाङ्गीमतिमधुर सङ्गीत निरतां
कृपापूर्णापाङ्गीं कुचभर नताङ्गीं स्मितमुखीम् ।
भ्रमद्भ्रूभङ्गे ते विविध कुसुमैस्तैरिवयुतां
भजेऽहं मातङ्गीं मदपरवशाङ्गीमनुदिनम् ॥ १७॥
सुकश्यामां श्यामां शुकरणित कल्लोल निरतां
विपञ्ची सञ्चारारुण करसरोजां भगवतीम् ।
मदासक्तामुक्ता फलगुणितहारस्तनतटां
कृपावासामीशामतिरुचिरहासां भजशिवाम् ॥ १८॥
रक्तारविन्द मकरन्द रसानुलेपां
पानप्रमत्त चलितालि कुलालकान्ताम् ।
वीणामनोहरनिनादविनोदशीलां
वाणीं भजे शुकनिभां मधुपान लोलाम् ॥ १९॥
सङ्गीत नाद रसपानघनार्द्रदेहां
नेत्रारविन्द करुणामृतवाहिनीं ताम् ।
रक्तारविन्द विनिवेशितवामपादां
श्यामां मतङ्गतनयां मनसा स्मरामि ॥ २०॥
कस्तूरिका श्यामल कोमलाङ्गीं
कादम्बरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां
मातङ्गकन्यां मनसास्मरामि ॥ २१॥
स्मरेत्प्रथम पुष्पिणीं रुधिरबिन्दु नीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्ण नेत्रोज्वलाम् ।
घनस्तनभरानतां गलित चूलिकां श्यामलां
करस्फुरित वल्लकीं विमलशङ्ख ताटङ्किनीम् ॥ २२॥
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुल वाग्विलासाम् ।
माहेन्द्र नीलोत्पल कोमलाङ्गीं मातङ्ग कन्यां मनसास्मरामि ॥ २३॥
कुवलय दलनीलाङ्गीं कुवलय चारुचञ्चलापाङ्गीम् ।
कुवलय समोत्तमाङ्गीं कुवलय चूलीं नमामि मातङ्गीम् ॥ २४॥
श्यामा कुवलयश्यामा नामकलाधाम भागस्था ।
मधुपानरतारतापायाद्वाणी वीणाविनोदविश्रान्ता ॥ २५॥
तमालपत्राञ्चितनीलगात्रीं तालीदलेनार्पित कर्णपत्राम् ।
सप्तस्वरालापविशेषतन्त्रीं बालाम्भजे भव्यमतङ्गपुत्रीम् ॥ २६॥
नित्यानुपात्रार्पितसत्कलाभां नीलाम्बरोद्भासिनितम्बबिम्बाम् ।
भक्तोपरिन्यस्तकृपावलम्बां बालां भजे भव्यगुणां मदम्बाम् ॥ २७॥
शिवतनुभवसङ्गं शिवचूली लोल चञ्चलोत्सङ्गम् ।
कलिमल तनुमङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ २८॥
कलाधीशोत्तंसां करकलित वीणाहितरसां
कलिन्दापत्याभां करकलित हृदयां रक्तवसनाम् ।
पुराणीं कल्याणीं पुरमथनपुण्योदयकला-
मधीराक्षीं वन्दे बहुकुसुमसन्नद्धकबरीम् ॥ २९॥
कलोदञ्चद्वेणीं कनकदलताटङ्कमहितां
स्तनाभ्यामानम्रां तरुणमिहिरां रक्तवसनाम् ।
महाकल्याणीं तन्मधुमदभरां ताम्रनयनां
तमालश्यामां नस्तवकयतु सौख्यानिसततम् ॥ ३०॥
कराञ्चितविपञ्चिकां कलितचन्द्रचूडामणिं
कपोलविलसन्महाकनकपत्र ताटङ्किनीम् ।
तपः फलमिहाश्रितां तरुणभासरक्ताम्बरां
तमालदलमेचकां तरुणलोचनामाश्रये ॥ ३१॥
माता मरकतश्यामा मातङ्गी मधुशालिनी ।
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ ३२॥
जगदानन्दकलङ्ककण्ठमाला कबरी वेष्टन काङ्क्षणीय गुञ्जा ।
कुरुतां दुरिताद्विमोक्षणं मे तुहिना भिल्लिकुटुम्बिनी भवानी ॥ ३३॥
वामे विस्मृतशालिनी स्तनतटे विन्यस्त वीणामुखं
तन्त्रीताल विराविणीमसकलैरास्फालयन्ती नखैः ।
अर्धोन्मीलित लोचनं सविलसद्ग्रीवं मुखंविभ्रती
श्यामा काचन मोहिनी विजयते मातङ्गकन्यामयि ॥ ३४॥
प्रतिष्ठा पयोधर प्रसार करपङ्कजं बलभिदः ।
कदम्ब वनमालिकं शशिकला समुद्भासितम् ॥ ३५॥
मतङ्ग कुलनन्दिनी मनसि मे मुहुजृम्भताम् ।
समस्त सुखदायिनी तरुणपत्र ताटङ्किनी ॥ ३६॥
लाक्षाराग कपोलपल्लवरतामापीन तुङ्गस्तनीं
कर्पूरोज्वलचारुशङ्खवलयां काश्मीररक्तांशुकाम् ।
तन्त्रीतालसपाटलां गुलिदलां वन्दामहे मातरं
मातङ्गीं मदमन्थरां मरकतश्यामां मनोहारिणीम् ॥ ३७॥
स्रस्तं केतकिदामभिर्वलयितं धम्मिल्लमाबिभ्रती
तालीपत्र पुटान्तरैः समनतैस्ताटङ्किनी मौक्तिकैः ।
भाले कल्पतरोः प्रसूनविलसदृष्ट्वैव सम्मोहिनी
काञ्ची दामवती विजयते वीणासवादानना ॥ ३८॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां घूर्णमानाक्षियुग्मां
स्विद्यद्वक्त्रां कदम्ब प्रविलसद्वेणिकामत्त वीणाम् ।
बिम्बोष्ठीं रक्तवस्त्रां मृगमद तिलकामिन्दुरेखावतंसां
कर्णोद्यच्छङ्खपत्रां करकलितशुकां नौमि तुङ्गस्तनीं ताम् ॥ ३९॥
उन्मीलिद्यावकाद्यान्निविडमदभरोद्विग्नभालालकाशां
रत्नगैवेयहाराङ्गद कटिलसत्सूत्र मञ्जीरघोषाम् ।
आनीयार्थानभीष्टान् स्मितमधुरदृशा साधिकं तर्पयन्तीं
ध्यायेद्देवीं शुकाभांशुकमखिलकलारूपमस्याश्चपार्श्वे ॥ ४0॥
वेणीमूल विलासितेन्दु शकलां वीणानिनादप्रियां
क्षोणीपाल सुरेन्द्र पन्नगगणै राराधिताङ्घ्रिद्वयाम् ।
एणीचञ्चललोचनां सुवदनां वाणीं पुराणोज्वलां
श्रोणीभारभरालसामनिमिषां पश्यामि विश्वेश्वरीम् ॥ ४१॥
कुचकलशनिषण्णवीणां कलमधुरध्वनि कम्पितोत्तमाङ्गीम् ।
मरकतमणिभागमेचकाभांमदमविरोधमनस्विनीमुपासे ॥ ४२॥
तालीदलोल्लसितकोमलकर्णपालीं फालान्तराचिकुरामतिनीलवेणीम् ।
वक्षोजपीठनिहितोज्वलचारुवीणां श्यामां नमामि मदिरारुणनेत्रयुग्माम् ॥ ४३॥
मध्येबद्धमयूखपिच्छनिकरां श्यामाम्प्रबालाधरां
भृङ्गीवादनतत्परां सुनयनां मूर्धालकैर्बर्बराम् ।
गुञ्जाहारधरां समुन्नतकुचां चन्द्राननां शाम्भवीं
भिल्ली वेषधरां नमामि शबरी तामेकवीरां पराम् ॥ ४४॥
लसत्गुञ्जाहार स्तनभर समुन्मध्यलतिका
मुदञ्चत्स्वेदाम्भः क्षणगणित फेनोद्गम रुचिम् ।
शिवं शान्तं पात्रप्रवणमृगयाकारकरणं
शिवामम्बज्ञातिं चरणमहमन्वेमिशरणम् ॥ ४५॥
नटदगुञ्जा पञ्जाभरणकिरणां रक्तवसनां
जपाकर्णाभूषां शिखिवरक्षकलापाम्बरवतीम् ।
नदज्झल्ली वल्लीनवकिसलयैस्तां परिवृतां
नवामोहारूढां कुटिलकबरीं मोहशबरीम् ॥ ४६॥
गले गुञ्जा पुञ्जावलि मपि च कर्णे शिखिशिखां
शिरो रङ्गे नृत्यत्कनकदल दूब मञ्जुलदलम् ।
धनुर्वामे चापे शरमपरपाणौ निदधतीं
नितम्बे बर्हालिं कुटिलकबरीं नौमि शबरीम् ॥ ४७॥
वीणावादन निरतं तल्लीला बद्धगीत वामकुचम् ।
श्यामल कोमल गात्रं पाटलनयनं परं भजेधाम ॥ ४८॥
अङ्कित पाणिचतुष्ट्यमङ्कुशपाशेक्षु चापशकलम् ।
शङ्कर जितेत्यमित्रं पङ्कजनेत्रं परं भजेधाम ॥ ४९॥
करकलित केसारालानुकारेयं कुचकलशा जयते जगताम् ।
मातामातङ्गी मङ्गेस्वायतना ॥ ५०॥
मुदाकरकदम्ब कानने कनकमष्टपात्रस्थिते
लसन्मणिमयासने सहचरीभिराराधिताम् ।
लसत्कनककङ्कणां रजतमञ्जुमञ्जीरकां
जगज्जनविमोहिनीं जपविधौ स्मरेदम्बिकाम् ॥ ५१॥
अकृशा कुचयोर्विलग्ने विपुलं वक्षसि विस्तृतं नितम्बे ।
अरुणाधरमाविरस्तुचित्ते करुणाशालि कपालि भागधेयम् ॥ ५२॥
वीणाताल विनोदगीत निरतां नीलांशुकोल्लासिनीम् ।
बिम्बोष्ठीं नवयावकार्द्र चरणामाकीर्ण केशोज्वलाम् ॥ ५३॥
हृद्यावेशित शङ्खकुण्डलधरां माणिक्यभूषोज्वलां
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखां देवींशुकश्यामलाम् ॥ ५४॥
दिव्यहालामदोन्मत्तां दिव्यभूषणभूषिताम् ।
दिव्यगन्धर्वकन्याभिस्समाराधितपादुकाम् ॥ ५५॥
दिव्यसिंहासनासीनां शुकवीणालसत्कराम् ।
सङ्गीत मातृकां वन्दे वरदां सुस्मिताननाम् ॥ ५६॥
स्तुतिषु नवदेव देवि विविध कवि विलोहितमतिर्भवति ।
निहितमतिर्यद्यपि मामपेतचेतीभवति स्तोतुं विलोभयति ॥ ५७॥
साध्याक्षरगर्भित पञ्चनव इत्यक्षरात्मिके जगन्मातः ।
भगवति मातङ्गेश्वरि नमस्तुभ्यं महादेवि ॥ ५८॥
॥ इत्युमा साहचर्या भगवान्मातङ्गऋषिप्रणीता इयं स्तुतिः समाप्ता ॥
|| śrīmātaṅgī stutiḥ ||
mātaṅgīṁ navayāvakārdra caraṇāmullāsi kṛṣṇāṁśukāṁ
vīṇāpustaka dhāriṇīṁ natakucāṁ muktāpravālāvalim |
śyāmāṅgīṁ śaśiśaṅkhakuṇḍaladharāṁ dantaprabhāsusmitāṁ
ākarṇālaka-veṇi-kañja-nayanāṁ dhyāyecchuka śyāmalām || 1||
karpūra śobhi karṇābharaṇābhirāmāṁ māṇikyabhūṣāṁ sumukhāravindām |
hālāmadāghūrṇita locanābhāṁ bālāṁ bhaje bālatamāla nīlām || 2||
kastūrī tilakābhirāma racitā karpūra tāṭaṅkinī
bālā nīlaviśālacāruvadanā prālambidhammillakā |
hārodañcita pīvarastanataṭī hālāmadollāsinī
śyāmā kācana mohinī vijayate cañcatprapañcīkṛtā || 3||
aṁśe veṇīṁ cikurakusumāṁ cūlikāṁ nīlacelāṁ
muktābhūṣāṅkarayugalatāṁ vallakīṁ vādayantīm |
mādhvīmattāṁ madhukara ninadāṁ śyāmalāṁ komalāṅgīṁ
mātaṅgīṁ tāṁ sakalaphaladāṁ santataṁ bhāvayāmi || 4||
vīṇā pustaka dhāriṇīṁ smitamukhīṁ tālīdalākalpita
sphāyatkuṇḍalabhūṣaṇāṁ kuvalayaśyāmāṁ kuraṅgīdṛśīm |
uttuṅgastanakumbhayugma vilasatkāśmīrapatrāvalīṁ
mātaṅgīṁ padakairavaṁ navacaraccandrātapatrāmbhaje || 5||
dhyāyehaṁ ratnapīṭheśukakularaṇitaṁ śṛṇvatīṁ śyāmalāṅgīṁ
nyastaikāghriṁ saroje śaśiśakaladharāṁ vallakīṁvādayantīm |
kalhnārābaddhamālāṁ niyamitavilasaccūlikāṁ raktavastrāṁ
mātaṅgīṁ śaṅkhapātrāṁ madhumadavivaśāṁ citrakodbhāsibhālām || 6||
ārādhyamānāścaraṇāṁ pibantobrahmādayo viśruta kīrtimāpuḥ |
anyeparaṁ vāgvibhavaṁ munīndrā parāṁśriyaṁ bhaktibhareṇa cānye || 7||
namāmi devīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām |
āmnāya vākyaiḥ pratipādanārthe prabodhayantīṁ śukamādareṇa || 8||
mātaṅgalīlā gamane'pi bhaktyā śiñjānamañjīramiṣādbhajanti |
mātastvadīyaṁ caraṇāravindamakṛtrimāṇāṁ vacasāṁ niricchāḥ || 9||
parādhikāśiñjitanūpurābhyāṁ kṛtāgamāṁ padavīṁ tāṁ padābhyām |
āsphoṭayantīṁ karavallakīṁ tāṁ mātaṅginīṁ maddhṛdaye bhajāmi || 10||
nīlāṁśukābaddhanitambabimbāṁ nālīdalenānatakarṇabhūṣām |
madhye madāghūrṇita netrapadmāṁ mātaṅginīṁ śambhuvadhūṁ namāmi || 11||
nīlotpalānāṁ śriyamāvahantīṁ kāñcyā kaṭākṣaikaśubhāṁ karāṇām |
kadamba mālāṅkitakeśapāśāṁ mātaṅgakanyāṁ hṛdibhāvayāmi || 12||
stutyānayā śaṅkaradharmapatnīṁ mātaṅginīṁ vāgadhidevatāṁ tām |
svargaṁgatiṁ bhaktajanā manuṣyāḥ parāṁ śriyaṁ bhakti bhareṇa cānye || 13||
kucakumbha taṭanyasta maṇivīṇāmadālasām |
śyāmāṁ vāmāṅka vinyasta mālikāṁ bālikāmbhaje || 14||
abdhauyāti sarojacāmaramaruddodhūyamānālakā
cūlīcumbita cārucampaka dalāgaurī madollāsinī |
nālī bāla palāśa karṇavilasatkallola kālicchaṭā
kālī sācalakanyakā vijayate maccitta padmāsanā || 15||
vīṇānartita pāṇi paṅkajayugāmāśoṇabimbādharāṁ
veṇī baddha kadamba puṣpa kalikāmeṇī vilolekṣaṇām |
śroṇī lamba virājamāna sujapā śoṇāmbarālaṅkṛtāṁ
eṇāṅkārka vibhūṣaṇāṁ kalayatāṁ bhillīṁ purandhrīmbhaje || 16||
tamāla śyāmāṅgīmatimadhura saṅgīta niratāṁ
kṛpāpūrṇāpāṅgīṁ kucabhara natāṅgīṁ smitamukhīm |
bhramadbhrūbhaṅge te vividha kusumaistairivayutāṁ
bhaje'haṁ mātaṅgīṁ madaparavaśāṅgīmanudinam || 17||
sukaśyāmāṁ śyāmāṁ śukaraṇita kallola niratāṁ
vipañcī sañcārāruṇa karasarojāṁ bhagavatīm |
madāsaktāmuktā phalaguṇitahārastanataṭāṁ
kṛpāvāsāmīśāmatirucirahāsāṁ bhajaśivām || 18||
raktāravinda makaranda rasānulepāṁ
pānapramatta calitāli kulālakāntām |
vīṇāmanoharaninādavinodaśīlāṁ
vāṇīṁ bhaje śukanibhāṁ madhupāna lolām || 19||
saṅgīta nāda rasapānaghanārdradehāṁ
netrāravinda karuṇāmṛtavāhinīṁ tām |
raktāravinda viniveśitavāmapādāṁ
śyāmāṁ mataṅgatanayāṁ manasā smarāmi || 20||
kastūrikā śyāmala komalāṅgīṁ
kādambarīpānamadālasāṅgīm |
vāmastanāliṅgitaratnavīṇāṁ
mātaṅgakanyāṁ manasāsmarāmi || 21||
smaretprathama puṣpiṇīṁ rudhirabindu nīlāmbarāṁ
gṛhītamadhupātrikāṁ madavighūrṇa netrojvalām |
ghanastanabharānatāṁ galita cūlikāṁ śyāmalāṁ
karasphurita vallakīṁ vimalaśaṅkha tāṭaṅkinīm || 22||
māṇikyavīṇāmupalālayantīṁ madālasāṁ mañjula vāgvilāsām |
māhendra nīlotpala komalāṅgīṁ mātaṅga kanyāṁ manasāsmarāmi || 23||
kuvalaya dalanīlāṅgīṁ kuvalaya cārucañcalāpāṅgīm |
kuvalaya samottamāṅgīṁ kuvalaya cūlīṁ namāmi mātaṅgīm || 24||
śyāmā kuvalayaśyāmā nāmakalādhāma bhāgasthā |
madhupānaratāratāpāyādvāṇī vīṇāvinodaviśrāntā || 25||
tamālapatrāñcitanīlagātrīṁ tālīdalenārpita karṇapatrām |
saptasvarālāpaviśeṣatantrīṁ bālāmbhaje bhavyamataṅgaputrīm || 26||
nityānupātrārpitasatkalābhāṁ nīlāmbarodbhāsinitambabimbām |
bhaktoparinyastakṛpāvalambāṁ bālāṁ bhaje bhavyaguṇāṁ madambām || 27||
śivatanubhavasaṅgaṁ śivacūlī lola cañcalotsaṅgam |
kalimala tanumaṅgaṁ kalaye mātaṅgakanyakāpāṅgam || 28||
kalādhīśottaṁsāṁ karakalita vīṇāhitarasāṁ
kalindāpatyābhāṁ karakalita hṛdayāṁ raktavasanām |
purāṇīṁ kalyāṇīṁ puramathanapuṇyodayakalā-
madhīrākṣīṁ vande bahukusumasannaddhakabarīm || 29||
kalodañcadveṇīṁ kanakadalatāṭaṅkamahitāṁ
stanābhyāmānamrāṁ taruṇamihirāṁ raktavasanām |
mahākalyāṇīṁ tanmadhumadabharāṁ tāmranayanāṁ
tamālaśyāmāṁ nastavakayatu saukhyānisatatam || 30||
karāñcitavipañcikāṁ kalitacandracūḍāmaṇiṁ
kapolavilasanmahākanakapatra tāṭaṅkinīm |
tapaḥ phalamihāśritāṁ taruṇabhāsaraktāmbarāṁ
tamāladalamecakāṁ taruṇalocanāmāśraye || 31||
mātā marakataśyāmā mātaṅgī madhuśālinī |
kaṭākṣayatu kalyāṇī kadambavanavāsinī || 32||
jagadānandakalaṅkakaṇṭhamālā kabarī veṣṭana kāṅkṣaṇīya guñjā |
kurutāṁ duritādvimokṣaṇaṁ me tuhinā bhillikuṭumbinī bhavānī || 33||
vāme vismṛtaśālinī stanataṭe vinyasta vīṇāmukhaṁ
tantrītāla virāviṇīmasakalairāsphālayantī nakhaiḥ |
ardhonmīlita locanaṁ savilasadgrīvaṁ mukhaṁvibhratī
śyāmā kācana mohinī vijayate mātaṅgakanyāmayi || 34||
pratiṣṭhā payodhara prasāra karapaṅkajaṁ balabhidaḥ |
kadamba vanamālikaṁ śaśikalā samudbhāsitam || 35||
mataṅga kulanandinī manasi me muhujṛmbhatām |
samasta sukhadāyinī taruṇapatra tāṭaṅkinī || 36||
lākṣārāga kapolapallavaratāmāpīna tuṅgastanīṁ
karpūrojvalacāruśaṅkhavalayāṁ kāśmīraraktāṁśukām |
tantrītālasapāṭalāṁ gulidalāṁ vandāmahe mātaraṁ
mātaṅgīṁ madamantharāṁ marakataśyāmāṁ manohāriṇīm || 37||
srastaṁ ketakidāmabhirvalayitaṁ dhammillamābibhratī
tālīpatra puṭāntaraiḥ samanataistāṭaṅkinī mauktikaiḥ |
bhāle kalpataroḥ prasūnavilasadṛṣṭvaiva sammohinī
kāñcī dāmavatī vijayate vīṇāsavādānanā || 38||
mātaṅgīṁ bhūṣitāṅgīṁ madhumadamuditāṁ ghūrṇamānākṣiyugmāṁ
svidyadvaktrāṁ kadamba pravilasadveṇikāmatta vīṇām |
bimboṣṭhīṁ raktavastrāṁ mṛgamada tilakāmindurekhāvataṁsāṁ
karṇodyacchaṅkhapatrāṁ karakalitaśukāṁ naumi tuṅgastanīṁ tām || 39||
unmīlidyāvakādyānniviḍamadabharodvignabhālālakāśāṁ
ratnagaiveyahārāṅgada kaṭilasatsūtra mañjīraghoṣām |
ānīyārthānabhīṣṭān smitamadhuradṛśā sādhikaṁ tarpayantīṁ
dhyāyeddevīṁ śukābhāṁśukamakhilakalārūpamasyāścapārśve || 40||
veṇīmūla vilāsitendu śakalāṁ vīṇāninādapriyāṁ
kṣoṇīpāla surendra pannagagaṇai rārādhitāṅghridvayām |
eṇīcañcalalocanāṁ suvadanāṁ vāṇīṁ purāṇojvalāṁ
śroṇībhārabharālasāmanimiṣāṁ paśyāmi viśveśvarīm || 41||
kucakalaśaniṣaṇṇavīṇāṁ kalamadhuradhvani kampitottamāṅgīm |
marakatamaṇibhāgamecakābhāṁmadamavirodhamanasvinīmupāse || 42||
tālīdalollasitakomalakarṇapālīṁ phālāntarācikurāmatinīlaveṇīm |
vakṣojapīṭhanihitojvalacāruvīṇāṁ śyāmāṁ namāmi madirāruṇanetrayugmām || 43||
madhyebaddhamayūkhapicchanikarāṁ śyāmāmprabālādharāṁ
bhṛṅgīvādanatatparāṁ sunayanāṁ mūrdhālakairbarbarām |
guñjāhāradharāṁ samunnatakucāṁ candrānanāṁ śāmbhavīṁ
bhillī veṣadharāṁ namāmi śabarī tāmekavīrāṁ parām || 44||
lasatguñjāhāra stanabhara samunmadhyalatikā
mudañcatsvedāmbhaḥ kṣaṇagaṇita phenodgama rucim |
śivaṁ śāntaṁ pātrapravaṇamṛgayākārakaraṇaṁ
śivāmambajñātiṁ caraṇamahamanvemiśaraṇam || 45||
naṭadaguñjā pañjābharaṇakiraṇāṁ raktavasanāṁ
japākarṇābhūṣāṁ śikhivarakṣakalāpāmbaravatīm |
nadajjhallī vallīnavakisalayaistāṁ parivṛtāṁ
navāmohārūḍhāṁ kuṭilakabarīṁ mohaśabarīm || 46||
gale guñjā puñjāvali mapi ca karṇe śikhiśikhāṁ
śiro raṅge nṛtyatkanakadala dūba mañjuladalam |
dhanurvāme cāpe śaramaparapāṇau nidadhatīṁ
nitambe barhāliṁ kuṭilakabarīṁ naumi śabarīm || 47||
vīṇāvādana nirataṁ tallīlā baddhagīta vāmakucam |
śyāmala komala gātraṁ pāṭalanayanaṁ paraṁ bhajedhāma || 48||
aṅkita pāṇicatuṣṭyamaṅkuśapāśekṣu cāpaśakalam |
śaṅkara jitetyamitraṁ paṅkajanetraṁ paraṁ bhajedhāma || 49||
karakalita kesārālānukāreyaṁ kucakalaśā jayate jagatām |
mātāmātaṅgī maṅgesvāyatanā || 50||
mudākarakadamba kānane kanakamaṣṭapātrasthite
lasanmaṇimayāsane sahacarībhirārādhitām |
lasatkanakakaṅkaṇāṁ rajatamañjumañjīrakāṁ
jagajjanavimohinīṁ japavidhau smaredambikām || 51||
akṛśā kucayorvilagne vipulaṁ vakṣasi vistṛtaṁ nitambe |
aruṇādharamāvirastucitte karuṇāśāli kapāli bhāgadheyam || 52||
vīṇātāla vinodagīta niratāṁ nīlāṁśukollāsinīm |
bimboṣṭhīṁ navayāvakārdra caraṇāmākīrṇa keśojvalām || 53||
hṛdyāveśita śaṅkhakuṇḍaladharāṁ māṇikyabhūṣojvalāṁ
mātaṅgīṁ praṇato'smi susmitamukhāṁ devīṁśukaśyāmalām || 54||
divyahālāmadonmattāṁ divyabhūṣaṇabhūṣitām |
divyagandharvakanyābhissamārādhitapādukām || 55||
divyasiṁhāsanāsīnāṁ śukavīṇālasatkarām |
saṅgīta mātṛkāṁ vande varadāṁ susmitānanām || 56||
stutiṣu navadeva devi vividha kavi vilohitamatirbhavati |
nihitamatiryadyapi māmapetacetībhavati stotuṁ vilobhayati || 57||
sādhyākṣaragarbhita pañcanava ityakṣarātmike jaganmātaḥ |
bhagavati mātaṅgeśvari namastubhyaṁ mahādevi || 58||
|| ityumā sāhacaryā bhagavānmātaṅgaṛṣipraṇītā iyaṁ stutiḥ samāptā ||
ॐ
धर्म प्रचार में सहयोग करें - इसे साझा करें