Logoपवित्र ग्रंथ

Sri Gayatri Samhita – श्री गायत्री संहिता (गायत्री उपासना रहस्य)

Sri Gayatri Samhita – श्री गायत्री संहिता (गायत्री उपासना रहस्य)
॥ श्री गायत्री संहिता ॥
(गायत्री उपासना रहस्य एवं मन्त्र विज्ञान)
आदि शक्तिरिति विष्णोस्तामहं प्रणमामि हि । सर्गः स्थितिर्विनाशश्च जायन्ते जगतोऽनया ॥ १॥ नाभि-पद्म-भुवा विष्णोर्ब्रह्मणा निर्मितं जगत् । स्थावरं जङ्गमं शक्त्या गायत्र्या एव वै ध्रुवम् ॥ २॥ चन्द्रशेखर केशेभ्यो निर्गता हि सुरापगा । भगीरथं ततारैव परिवारसमं यथा ॥ ३॥ जगद्धात्री समुद्भूय या हृन्मानसरोवरे । गायत्री सकुलं पारं तथा नयति साधकम् ॥ ४॥ सास्ति गङ्गैव ज्ञानाख्यसुनीरेण समाकुला । ज्ञान गङ्गा तु तां भक्त्या वारं-वारं नमाम्यहम् ॥ ५॥ ऋषयो वेद-शास्त्राणि सर्वे चैव महर्षयः । श्रद्धया हृदि गायत्रीं धारयन्ति स्तुवन्ति च ॥ ६॥ ह्रीं श्रीं क्लीं चेति रूपैस्तु त्रिभिर्वा लोकपालिनी । भासते सततं लोके गायत्री त्रिगुणात्मिका ॥ ७॥ गायत्र्यैव मता माता वेदानां शास्त्रसम्पदाम् । चत्वारोऽपि समुत्पन्ना वेदास्तस्या असंशयम् ॥ ८॥ परमात्मनस्तु या लोके ब्रह्म शक्तिर्विराजते । सूक्ष्मा च सात्त्विकी चैव गायत्रीत्यभिधीयते ॥ ९॥ प्रभावादेव गायत्र्या भूतानामभिजायते । अन्तःकरणेषु देवानां तत्त्वानां हि समुद्भवः ॥ १०॥ गायत्र्युपासनाकरणादात्मशक्तिर्विवर्धते । प्राप्यते क्रमसोंऽजस्य सामीप्यं परमात्मनः ॥ ११॥ शौचं शान्तिर्विवेकश्चैतल्लाभ त्रयमात्मिकम् । पश्चादवाप्यते नूनं सुस्थिरं तदुपासकम् ॥ १२॥ कार्येषु साहसः स्थैर्यं कर्मनिष्ठा तथैव च । एते लाभाश्च वै तस्माज्जायन्ते मानसास्त्रयः ॥ १३॥ पुष्कलं धन-संसिद्धिः सहयोगश्च सर्वतः । स्वास्थ्यं वा त्रय एते स्युस्तस्माल्लाभाश्च लौकिकाः ॥ १४॥ काठिन्यं विविधं घोरं ह्यापदां संहतिस्तथा । शीघ्रं विनाशतां यान्ति विविधा विघ्नराशयः ॥ १५॥ विनाशादुक्त शत्रूणामन्तः शक्तिर्विवर्धते । संकटानामनायासं पारं याति तया नरः ॥ १६॥ गायत्र्युपासकस्वान्ते सत्कामा उद्भवन्ति हि । तत्पूर्तयेऽभिजायन्ते सहजं साधनान्यपि ॥ १७॥ त्रुटयः सर्वथा दोषा विघ्ना यान्ति यदान्तताम् । मानवो निर्भयं याति पूर्णोन्नति पथं तदा ॥ १८॥ बाह्यंचाभ्यन्तरं त्वस्य नित्यं सन्मार्गगामिनः । उन्नतेरुभयं द्वारं यात्युन्मुक्तकपाटताम् ॥ १९॥ अतः स्वस्थेन चित्तेन श्रद्धया निष्ठया तथा । कर्तव्याविरतं काले गायत्र्याः समुपासना ॥ २०॥ दयालुः शक्ति सम्पन्ना माता बुद्धिमती यथा । कल्याणं कुरुते ह्येव प्रेम्णा बालस्य चात्मनः ॥ २१॥ तथैव माता लोकानां गायत्री भक्तवत्सला । विदधाति हितं नित्यं भक्तानां ध्रुवमात्मनः ॥ २२॥ कुर्वन्नपि त्रुटीर्लोके बालको मातरं प्रति । यथा भवति कश्चिन्न तस्या अप्रीतिभाजनः ॥ २३॥ कुर्वन्नपि त्रुटीर्भक्तः क्वचित् गायत्र्युपासने । न तथा फलमाप्नोति विपरीतं कदाचन ॥ २४॥ अक्षराणां तु गायत्र्या गुम्फनं ह्यस्ति तद्विधम् । भवन्ति जागृता येन सर्वा गुह्यास्तु ग्रन्थयः ॥ २५॥ जागृता ग्रन्थयस्त्वेताः सूक्ष्माः साधकमानसे । दिव्यशक्तिसमुद्भूतिं क्षिप्रं कुर्वन्त्यसंशयम् ॥ २६॥ जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः । विविधान् वै परिणामान् भव्यान् मङ्गलपूरितान् ॥ २७॥ मन्त्रस्योच्चारणं कार्यं शुद्धमेवाप्रमादतः । तदशक्तो जपेन्नित्यं सप्रणवास्तु व्याहृतीः ॥ २८॥ ओमिति प्रणवः पूर्वं भूर्भुवः स्वस्तदुत्तरम् । एषोक्ता लघु गायत्री विद्वद्भिर्वेदपण्डितैः ॥ २९॥ शुद्धं परिधानमाधाय शुद्धे वै वायुमण्डले । शुद्ध देहमनोभ्यां वै कार्या गायत्र्युपासना ॥ ३०॥ दीक्षामादाय गायत्र्या ब्रह्मनिष्ठाग्रजन्मना । आरभ्यतां ततः सम्यग्विधिनोपासना सता ॥ ३१॥ गायत्र्युपासनामुक्त्वा नित्यावश्यककर्मसु । उक्तस्तत्र द्विजातीनां नानध्यायो विचक्षणैः ॥ ३२॥ आराधयन्ति गायत्रीं न नित्यं ये द्विजन्मनः । जायन्ते हि स्वकर्मभ्यस्ते च्युता नात्र संशयः ॥ ३३॥ शूद्रास्तु जन्मना सर्वे पश्चाद्यान्ति द्विजन्मताम् । गायत्र्यैव जनाः साकं ह्युपवीतस्य धारणात् ॥ ३४॥ उच्चता पतितानां च पापिनां पापनाशनम् । जायेते कृपयैवास्याः वेदमातुरनन्तया ॥ ३५॥ गायत्र्या या युता सन्ध्या ब्रह्मसन्ध्या तु सा मता । कीर्तितं सर्वतः श्रेष्ठं तस्यानुष्ठानमागमैः ॥ ३६॥ आचमनं शिखाबन्धः प्राणायामोऽघमर्षणम् । न्यासश्चोपासनायां तु पञ्च कोषा मता बुधैः ॥ ३७॥ ध्यानतस्तु ततः पश्चात् सावधानेन चेतसा । जप्या सततं तुलसी मालया च मुहुर्मुहुः ॥ ३८॥ एक वारं प्रतिदिनं न्यूनतो न्यूनसङ्ख्यकम् । धीमान्मन्त्र शतं नूनं नित्यमष्टोत्तरं जपेत् ॥ ३९॥ ब्राह्मे मुहूर्ते प्राङ्मुखो मेरुदण्डं प्रतन्य हि । पद्मासनं समासीनः सन्ध्यावन्दनमाचरेत् ॥ ४०॥ दैन्यरुक् शोक चिन्तानां विरोधाक्रमणापदाम् । कार्यं गायत्र्यनुष्ठानं भयानं वारणाय च ॥ ४१॥ जायते सा स्थितिरस्मान्मनोऽभिलाषयान्विता । यतः सर्वेऽभिजायन्ते यथा कालं हि पूर्णताम् ॥ ४२॥ अनुष्ठानात्तु वै तस्माद्गुप्ताध्यात्मिक-शक्तयः । चमत्कारमया लोके प्राप्यन्तेऽनेकधा बुधैः ॥ ४३॥ सपादलक्षमन्त्राणां गायत्र्या जपनं तु वै । ध्यानेन विधिना चैव ह्यनुष्ठानं प्रचक्षते ॥ ४४ । पञ्चम्यां पूर्णिमायां वा चैकादश्यां तथैव हि । अनुष्ठानस्य कर्तव्यं आरम्भः फल-प्राप्तये ॥ ४५॥ मासद्वयेऽविरामं तु चत्वारिंषट् दिनेषु वा । पूरयेत्तदनुष्ठानं तुल्यसङ्ख्यासु वै जपन् ॥ ४६॥ तस्याः प्रतिमां सुसंस्थाप्य प्रेम्णा शोभन-आसने । गायत्र्यास्तत्र कर्तव्या सत्प्रतिष्ठा विधानतः ॥ ४७** तद्विधाय ततो दीप-धूप-नैवेद्य-चन्दनैः । नमस्कृत्याक्षतेनापि तस्याः पूजनमाचरेत् ॥ ४८॥ पूजनानन्तरं विज्ञः भक्त्या तज्जपमारभेत् । जपकाले तु मनः कार्यं श्रद्धान्वितमचञ्चलम् ॥ ४९॥ कार्यतो यदि चोत्तिष्ठेन्मध्य एव ततः पुनः । कर-प्रक्षालनं कृत्वा शुद्धैरङ्गैरुपाविशेत् ॥ ५०॥ आद्यशक्तिर्वेदमाता गायत्री तु मदन्तरे । शक्तिकल्लोलसन्दोहान् ज्ञानज्योतिश्च सन्ततम् ॥ ५१॥ उत्तरोत्तरमाकीर्य प्रेरयन्ति विराजते । इत्येवाविरतं ध्यायन् ध्यानमग्नस्तु तां जपेत् ॥ ५२॥ चतुर्विंशतिलक्षाणां सततं तदुपासकः । गायत्रीणामनुष्ठानाद्गायत्र्याः सिद्धिमाप्नुते ॥ ५३** साधनायै तु गायत्र्या निश्छलेन हि चेतसा । वरणीयः सदाचार्यः साधकेन सुभाजनः ॥ ५४॥ लघ्वनुष्ठानतो वापि महानुष्ठानतोऽथवा । सिद्धिं विन्दति वै नूनं साधकः सानुपातिकाम् ॥ ५५॥ एक एव तु संसिद्धः गायत्री मन्त्र आदिशत् । समस्त-लोकमन्त्राणां कार्यसिद्धेस्तु पूरकः ॥ ५६॥ अनुष्ठानावसाने तु अग्निहोत्रो विधीयताम् । यथाशक्ति ततो दानं ब्रह्मभोजस्ततः खलु ॥ ५७॥ महामन्त्रस्य चाप्यस्य स्थाने स्थाने पदे पदे । गूढानन्तोपदेशानां रहस्यं तत्र वर्तते ॥ ५८॥ यो दधाति नरश्चैतानुपदेशांस्तु मानसे । जायते ह्युभयं तस्य लोकमानन्दसङ्कुलम् ॥ ५९॥ समग्रामपि सामग्रीमनुष्ठानस्य पूजिताम् । स्थाने पवित्र एवैतां कुत्रचिद्धि विसर्जयेत् ॥ ६०॥ सत्पात्रो यदि वाचार्यो न चेत्संस्थापयेत्तदा । नारिकेलं शुचिं वृत्वाचार्यभावेन चासने ॥ ६१॥ प्रायश्चित्तं मतं श्रेष्ठं त्रुटीनां पापकर्मणाम् । तपश्चर्यैव गायत्र्याः नातोऽन्यद्दृश्यते क्वचित् ॥ ६२॥ सेव्याः स्वात्मसमुद्ध्यर्थं पदार्थाः सात्त्विकाः सदा । राजसाश्च प्रयोक्तव्याः मनोवाञ्छितपूर्तये ॥ ६३॥ प्रादुर्भावस्तु भावानां तामसानां विजायते । तमोगुणानामर्थानां सेवनादिति निश्चयः ॥ ६४॥ मालासन-समिध्यज्ञ-सामग्र्यर्चन-सङ्ग्रहः । गुणत्रयानुसारं हि सर्वे वै ददते फलम् ॥ ६५॥ प्रादुर्भवन्ति वै सूक्ष्माश्चतुर्विंशति शक्तयः । अक्षरेभ्यस्तु गायत्र्या मानवानां हि मानसे ॥ ६६॥ मुहूर्ता योगदोषा वा येऽप्यमङ्गलकारिणः । भस्मतां यान्ति ते सर्वे गायत्र्यास्तीव्रतेजसा ॥ ६७॥ एतस्मात्तु जपान्नूनं ध्यानमग्नेन चेतसा । जायते क्रमशः चैव षट् चक्राणां तु जागृतिः ॥ ६८॥ षट् चक्राणि यदैतानि जागृतानि भवन्ति हि । षट् सिद्धयोऽभिजायन्ते चक्रैरेतैर्नरस्य वै ॥ ६९॥ अग्निहोत्रं तु गायत्री मन्त्रेण विधिवत् कृतम् । सर्वेष्ववसरेष्वेव शुभमेव मतं बुधैः ॥ ७०॥ यदावस्थासु स्याल्लोके विपन्नासु तदा तु सः । मौनं मानसिकं चैव गायत्री-जपमाचरेत् ॥ ७१॥ तदनुष्ठानकाले तु स्वशक्तिं नियमेज्जनः । निम्नकर्मसु ताः धीमान् न व्ययेद्धि कदाचन ॥ ७२** नैवानावश्यकं कार्यमात्मोद्धारस्थितेन च । आत्मशक्तेस्तु प्राप्तायाः यत्र तत्र प्रदर्शनम् ॥ ७३॥ आहारे व्यवहारे च मस्तिष्केऽपि तथैव हि । सात्त्विकेन सदा भाव्यं साधकेन मनीषिणा ॥ ७४॥ कर्तव्यधर्मतः कर्म विपरीतं तु यद्भवेत् । तत्साधकस्तु प्रज्ञावानाचरेन्न कदाचन ॥ ७५॥ पृष्ठतोऽस्याः साधनाया राजतेऽतितरं सदा । मनस्विसाधकानां हि बहूनां साधनाबलम् ॥ ७६॥ अल्पीयस्या जगत्येवं साधनायास्तु साधकः । भगवत्याश्च गायत्र्याः कृपां प्राप्नोत्यसंशयम् ॥ ७७॥ प्राणायामे जपन् लोकः गायत्रीं ध्रुवमाप्नुते । निग्रहं मनसश्चैव इन्द्रियाणां हि सम्पदाम् ॥ ७८॥ मन्त्रं विभज्य भागेषु चतुर्षु सुबुधस्तदा । रेचकं कुम्भकं बाह्यं पूरकं कुम्भकं चरेत् ॥ ७९॥ यथा पूर्वस्थितञ्चैव न द्रव्यं कार्य-साधकम् । महासाधनतोऽप्यस्मान्नाज्ञो लाभं तथाप्नुते ॥ ८०॥ साधकः कुरुते यस्तु मन्त्रशक्तेरपव्ययः । तं विनाशयति सैव समूलं नात्र संशयः ॥ ८१॥ सततं साधनाभिर्यो याति साधकतां नरः । स्वप्नावस्थासु जायन्ते तस्य दिव्यानुभूतयः ॥ ८२॥ सफलः साधको लोके प्राप्नुतेऽनुभवान् नवान् । विचित्रान् विविधाँश्चैव साधनासिद्ध्यनन्तरम् ॥ ८३॥ भिन्नाभिर्विधिभिर्बुद्ध्या भिन्नासु कार्यपङ्क्तिषु । गायत्र्याः सिद्धमन्त्रस्य प्रयोगः क्रियते बुधैः ॥ ८४॥ चतुर्विंशतिवर्णैर्या गायत्री गुम्फिता श्रुतौ । रहस्यमुक्तं तत्रापि दिव्यैः रहस्यवादिभिः ॥ ८५॥ रहस्यमुपवीतस्य गुह्याद्गुह्यतरं हि यत् । अन्तर्हितं तु तत्सर्वं गायत्र्यां विश्वमातरि ॥ ८६॥ अयमेव गुरोर्मन्त्रः यः सर्वोपरि राजते । बिन्दौ सिन्धुरिवास्मिंस्तु ज्ञानविज्ञानमाश्रितम् ॥ ८७॥ आभ्यन्तरे तु गायत्र्या अनेके योगसञ्चयाः । अन्तर्हिता विराजन्ते कश्चिदत्र न संशयः ॥ ८८॥ धारयन् हृदि गायत्रीं साधको धौतकिल्बिषः । शक्तीरनुभवत्युग्राः स्वस्मिन्नेव ह्यलौकिकाः ॥ ८९॥ एतादृश्यस्तु वार्ता भासन्तेऽल्पप्रयासतः । यास्तु साधारणो लोको ज्ञातुमर्हति नैव हि ॥ ९०॥ एतादृश्यस्तु जायन्ते तन्मनस्यनुभूतयः । यादृश्यो न हि दृश्यन्ते मानवेषु कदाचन ॥ ९१॥ प्रसादं ब्रह्मज्ञानस्य येऽन्येभ्यो वितरन्त्यपि । आसादयन्ति ते नूनं मानवाः पुण्यमक्षयम् ॥ ९२॥ गायत्री संहिता ह्येषा परमानन्ददायिनी । सर्वेषामेव कष्टानां वारणायास्त्यलं भुवि ॥ ९३॥ श्रद्धया ये पठन्त्येनां चिन्तयन्ति च चेतसा । आचरन्त्यानुकूल्येन भवबाधां तरन्ति ते ॥ ९४॥
॥ इति श्री गायत्री संहिता सम्पूर्णा ॥

श्री गायत्री संहिता - एक आध्यात्मिक वैज्ञानिक परिचय

श्री गायत्री संहिता (Sri Gayatri Samhita) सनातन धर्म का वह दुर्लभ और वैज्ञानिक ग्रन्थ है, जो माँ गायत्री की साधना को केवल धार्मिक अनुष्ठान नहीं, बल्कि एक 'ऊर्जा विज्ञान' (Energy Science) के रूप में प्रस्तुत करता है। गायत्री मन्त्र के २४ अक्षरों की शक्ति, उनके जाग्रत होने की प्रक्रिया और मानव शरीर पर उनके सूक्ष्म प्रभाव का जितना जीवन्त वर्णन इस संहिता में मिलता है, वह अन्यत्र दुर्लभ है। यह संहिता साधक को सिखाती है कि गायत्री केवल मन्त्र नहीं, बल्कि वह साक्षात् 'आदि शक्ति' है जिससे ब्रह्माण्ड का सृजन हुआ है।

इस संहिता के ९४ श्लोकों में उपासना के तीन स्तरों—आत्मिक, मानसिक और लौकिक—का बड़ा ही तात्विक विवेचन किया गया है। यह ग्रन्थ स्पष्ट करता है कि गायत्री मन्त्र के २४ अक्षरों का गुम्फन (Arrangement) इस प्रकार किया गया है कि इसके उच्चारण मात्र से शरीर के भीतर स्थित २४ गुप्त ग्रंथियाँ (Glands) जाग्रत होने लगती हैं। इन ग्रंथियों के सक्रिय होने से साधक के भीतर दिव्य शक्तियों का प्रस्फुटन होता है, जो उसे साधारण मनुष्य से 'सिद्ध पुरुष' की ओर ले जाती हैं।

आधुनिक सन्दर्भ में देखें तो गायत्री संहिता मनुष्य के 'व्यक्तित्व विकास' का सबसे बड़ा चार्टर है। जहाँ यह एक ओर 'शौच' (पवित्रता) और 'विवेक' जैसे आध्यात्मिक लाभ प्रदान करती है, वहीं दूसरी ओर 'साहस', 'स्थैर्य' और 'धन-सम्पदा' जैसे व्यावहारिक लाभ भी सुनिश्चित करती है। यह ग्रन्थ उन सभी संशयों का निवारण करता है जो गायत्री उपासना के अनधिकृत होने या कठिन होने के सम्बन्ध में समाज में व्याप्त हैं।

ऐतिहासिक रूप से, इस संहिता का संकलन और सम्पादन २०वीं शताब्दी के महान तपस्वी और गायत्री साधक पण्डित श्रीराम शर्मा आचार्य जी के प्रयासों से हुआ, जिन्होंने प्राचीन लुप्त ऋचाओं को आधुनिक साधकों के लिए सुलभ बनाया। यह ग्रन्थ प्रत्येक उस व्यक्ति के लिए अनिवार्य है जो अपनी आत्मिक उन्नति के साथ-साथ संसार में निर्भयता और सफलता के शिखर को छूना चाहता है।

साधना का रहस्य और तात्विक महत्व

गायत्री संहिता का महत्व इसके 'मन्त्र-विज्ञान' (Mantra Science) और 'योग-तन्त्र' के अद्भुत समन्वय में निहित है:

  • पञ्चकोषों का शोधन: श्लोक ३७ में उपासना के दौरान 'पञ्च कोषों' (अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमय) के शोधन की बात कही गई है। गायत्री साधना इन पाँचों स्तरों पर साधक को शुद्ध करती है।

  • मन्त्र-वर्ण और शक्ति-जागरण: संहिता बताती है कि मन्त्र के प्रत्येक वर्ण का एक विशेष देवता और शक्ति है। २४ अक्षरों का जाप साधक के मस्तिष्क और शरीर की सूक्ष्म ग्रंथियों को झंकृत कर उनमें 'ब्रह्म-ऊर्जा' भर देता है।

  • त्रिविध लाभ का सिद्धान्त: श्लोक १२-१४ में स्पष्ट है कि गायत्री से आत्मिक शांति, मानसिक साहस और लौकिक स्वास्थ्य व समृद्धि—तीनों की प्राप्ति एक साथ होती है। यह 'पूर्ण साधना' का मार्ग है।

  • कुण्डलिनी और षट्-चक्र: श्लोक ६८-६९ में षट्-चक्रों के भेदन और कुण्डलिनी जागरण का स्पष्ट निर्देश है। यह सिद्ध करता है कि गायत्री मन्त्र जप साक्षात् कुण्डलिनी योग के समान फलदायी है।

फलश्रुति लाभ: त्रिविध उत्कर्ष

श्री गायत्री संहिता के अनुसार, इसके स्वाध्याय और तदनुकूल साधना से निम्नलिखित अमोघ लाभ प्राप्त होते हैं:
१. आत्मिक और मानसिक विकास
साधक को शौच, शांति और विवेक प्राप्त होता है। उसके कार्य करने के ढंग में अपार साहस, स्थिरता और कर्मनिष्ठा आती है, जिससे वह कठिन परिस्थितियों में भी अविचलित रहता है।
२. लौकिक और भौतिक सफलता
श्लोक १४ के अनुसार, प्रचुर धन-धान्य की प्राप्ति, समाज का पूर्ण सहयोग और उत्तम स्वास्थ्य—ये तीनों लाभ साधक को अनायास ही माँ की कृपा से प्राप्त हो जाते हैं।
३. विघ्न-बाधाओं और शत्रुओं का नाश
'विविध विघ्नराशयः' और 'उक्त शत्रूणाम्' का विनाश हो जाता है। साधक के मार्ग में आने वाले घोर संकट भी गायत्री के तीव्र तेज के प्रभाव से भस्म हो जाते हैं।
४. षट्-सिद्धियों और ब्रह्मज्ञान की प्राप्ति
अन्तिम स्तर पर, साधक के षट्-चक्र जाग्रत हो जाते हैं और उसे वे सिद्धियाँ प्राप्त होती हैं जो देवताओं के लिए भी दुर्लभ हैं। वह जीवन्मुक्त होकर 'गायत्री परमं पद' को प्राप्त करता है।

पाठ विधि और साधना के कड़े नियम (Ritual Guide)

गायत्री संहिता स्वयं साधना की विधि का विस्तृत वर्णन करती है:
  • समय और आसन: ब्रह्म-मुहूर्त (प्रातः काल) सबसे उत्तम समय है। पूर्व दिशा की ओर मुख करके 'पद्मासन' में बैठें और मेरुदण्ड (रीढ़ की हड्डी) को बिल्कुल सीधा रखें।
  • दीक्षा: अनुष्ठान प्रारंभ करने से पूर्व किसी 'ब्रह्मनिष्ठ' आचार्य से दीक्षा लेना अनिवार्य बताया गया है, जिससे मन्त्र की शक्ति का संचरण सुगम हो सके।
  • अनुष्ठान के प्रकार: २४ लाख का महापुरश्चरण (सिद्धि हेतु) या सवा लाख का लघु-अनुष्ठान (संकट निवारण हेतु) किया जाना चाहिए। इसे ४० दिन या ६० दिन की समय-सीमा में बाँट कर किया जाता है।
  • सात्त्विकता: आहार, व्यवहार और विचारों में पूर्ण सात्त्विकता आवश्यक है। मन्त्र शक्ति का अपव्यय या प्रदर्शन करने वाले साधक का विनाश सुनिश्चित है (श्लोक ८१)।
  • मानसिक जप: यदि साधक अशुद्ध अवस्था में हो या परिस्थितियाँ अनुकूल न हों, तो 'मौन' होकर मानसिक जप करना चाहिए, जो विशेष फलदायी होता है।
विशेष: अनुष्ठान की समाप्ति पर अग्निहोत्र (हवन), दान और ब्रह्मभोज अनिवार्य हैं, तभी साधना पूर्ण मानी जाती है (श्लोक ५७)।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. गायत्री संहिता के अनुसार 'लघु गायत्री' क्या है?

श्लोक २९ के अनुसार 'ॐ भूर्भुवः स्वः' को 'लघु गायत्री' कहा गया है। जो लोग पूर्ण मन्त्र के शुद्ध उच्चारण में असमर्थ हैं, वे केवल इन व्याहृतियों का जप कर सकते हैं।

2. क्या गायत्री साधना केवल द्विजों (ब्राह्मणों) के लिए है?

नहीं, श्लोक ३४ स्पष्ट कहता है कि जन्म से सभी शूद्र हैं और गायत्री साधना तथा उपवीत (जनेऊ) धारण करने के बाद ही मनुष्य 'द्विज' (दोबारा जन्म लेने वाला) बनता है। यह सार्वभौमिक है।

3. साधना में 'न्यास' का क्या महत्व है?

न्यास का अर्थ है देवता को अपने अंगों में स्थापित करना। इससे साधक का शरीर मन्त्रमय और तेजस्वी हो जाता है, जिससे नकारात्मकता वहाँ प्रवेश नहीं कर पाती।

4. क्या मंत्र की त्रुटि पर सजा मिलती है?

नहीं, श्लोक २३-२४ के अनुसार माँ गायत्री बालकों की माता के समान हैं। अनजाने में हुई त्रुटियों पर वे दण्ड नहीं देतीं, परन्तु जानबूझकर किया गया प्रमाद उचित नहीं है।

5. गायत्री साधना से क्या अकाल मृत्यु का भय टल सकता है?

हाँ, यह संहिता स्पष्ट करती है कि गायत्री 'प्राण-ऊर्जा' की शक्ति है। इसका अनुष्ठान भय और रोगों का निवारण कर आयु की वृद्धि करता है।

6. साधना के लिए 'तुलसी माला' ही क्यों अनिवार्य है?

तुलसी सात्त्विकता का प्रतीक है। गायत्री एक सात्त्विक विद्या (ब्रह्मविद्या) है, अतः तुलसी माला इसके कम्पनों के साथ सबसे बेहतर सामंजस्य बिठाती है।

7. क्या रात्रि में गायत्री मंत्र जपा जा सकता है?

यद्यपि सूर्य काल उत्तम है, परन्तु संहिता के अनुसार संकट के समय या अनुष्ठान के दौरान रात्रि (निशीथ काल) में भी जप का विधान है।

8. 'मन्त्र शक्ति का अपव्यय' करने का क्या अर्थ है?

मन्त्र से प्राप्त शक्तियों का उपयोग दूसरों को डराने, वशीकरण करने या अहंकार दिखाने के लिए करना अपव्यय है, जो साधक के पतन का कारण बनता है।

9. क्या स्त्रियाँ गायत्री अनुष्ठान कर सकती हैं?

हाँ, माँ गायत्री वेदों की माता और नारी शक्ति का साक्षात् विग्रह हैं। पूर्ण शुचिता के साथ स्त्रियाँ इसका पाठ और अनुष्ठान अवश्य कर सकती हैं।

10. 'ब्रह्मभोज' का अनुष्ठान में क्या महत्व है?

यह कृतज्ञता व्यक्त करने का एक तरीका है। अनुष्ठान से अर्जित ऊर्जा को सेवा और दान के माध्यम से समाज में प्रवाहित करना ही इसकी पूर्णता है।