Sri Gayatri Sahasranama Stotram 2 – श्री गायत्री सहस्रनाम स्तोत्रम् २ (रुद्रयामल तन्त्र)

बद्धाञ्जलिर्नमस्कृत्वाऽभ्यर्च्य पृच्छति पार्वती ॥ १॥
पार्वत्युवाच –
किं विन्यस्तं त्वया देव स्वशरीरे निरन्तरम् ।
कथमेतादृशी कान्तिः कथं ते ऽष्टाः समृद्धयः ॥ २॥
सर्वतत्त्वप्रभुत्वं च कथङ्कार मुदाश्रयेत् ।
कृपया ब्रूहि देवेश प्रसन्नोसि यदि प्रभो ॥ ३॥
भगवन् विविधा विद्याः श्रोतुमिच्छामि ते प्रभो ।
यद्यहं प्रेयसी भार्या यद्यहं प्राणवल्लभा ॥ ४॥
इदानीं श्रोतुमिच्छामि गायत्र्या महिमोज्ज्वलम् ।
नाम्नां सहस्रं देवेश कृपया वक्तुमर्हसि ॥ ५॥
इति श्रुत्वा वचो देव्याः प्रसन्नः प्रभुरीश्वरः ।
श्रूयतामितिचाभाष्य जगाद जगदम्बिकाम् ॥ ६॥
ईश्वर उवाच –
शृणु देवि रहस्यं मे कस्याप्यग्रे न वाचयेत् ।
गोपितं सर्वतन्त्रेषु सिद्धितं स्तोत्रमुत्तमम् ॥ ७॥
सर्वसौभाग्य जनकं सर्वसम्पत्ति दायकम् ।
सर्ववश्यकरं लोके सर्व प्रत्यूहनाशनम् ॥ ८॥
सर्वव्याधि मुखस्तम्भि निग्रह अनुग्रह क्षमम् ।
त्वत्प्रीत्या कथयिष्यामि सुगोप्यमपि दुर्लभम् ॥ ९॥
सर्वपाप क्षयकरं सर्वज्ञान मयं शिवम् ।
पारायणानां परमा परब्रह्मस्वरूपिणी ॥ १०॥
परा च परमेशानी परब्रह्मात्मिका मता ।
सा देवी च वरारोहा चेतसा चिन्तयाम्यहम् ॥ ११॥
ऐश्वर्यपद निश्रेणिः वरदाखिल रूपिणी ।
गायत्र्या दिव्य साहस्रं स्वप्ने चाप्तं मम प्रियम् ॥ १२॥
॥ विनियोगः ॥ॠषिरस्य समाख्यातो महादेवो महेश्वरः ।
देवता वेदजननी छन्दः अनुष्टुप् कीर्तितम् ॥ १३॥
धर्मार्थकाममोक्षार्थे विनियोग उदाहृतः ।
॥ ध्यानम् ॥रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
रक्तारक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्री कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ १४॥
सर्वभूतन्तरीं ध्यात्वा पद्मासन गतां शुचिः ।
ततस्सहस्त्रनामेदं पठितव्यं मुमुक्षुभिः ॥ १५॥
॥ श्री गायत्री दिव्य सहस्रनाम स्तोत्रम् ॥ॐ तत्काररूपा तत्त्वज्ञा तत्पदार्थस्वरूपिणि ।
तपस्स्व्याध्यायनिरता तपस्विजननन्नुता ॥ १॥
तत्कीर्तिगुणसम्पन्ना तथ्यवाक्च तपोनिधिः ।
तत्त्वोपदेशसम्बन्धा तपोलोकनिवासिनी ॥ २॥
तरुणादित्यसङ्काशा तप्तकाञ्चनभूषणा ।
तमोपहारिणि तन्त्री तारिणि ताररूपिणि ॥ ३॥
तलादिभुवनान्तस्था तर्कशास्त्रविधायिनी ।
तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी ॥ ४॥
तत्त्वा तन्त्रविधानज्ञा तन्त्रस्था तन्त्रसाक्षिणि ।
तदेकध्याननिरता तत्त्वज्ञानप्रबोधिनी ॥ ५॥
तन्नाममन्त्रसुप्रीता तपस्विजनसेविता ।
साकाररूपा सावित्री सर्वरूपा सनातनी ॥ ६॥
संसारदुःखशमनी सर्वयागफलप्रदा ।
सकला सत्यसङ्कल्पा सत्या सत्यप्रदायिनी ॥ ७॥
सन्तोषजननी सारा सत्यलोकनिवासिनी ।
समुद्रतनयाराध्या सामगानप्रिया सती ॥ ८॥
समानी सामदेवी च समस्तसुरसेविता ।
सर्वसम्पत्तिजननी सद्गुणा सकलेष्टदा ॥ ९॥
सनकादिमुनिध्येया समानाधिकवर्जिता ।
साध्या सिद्धा सुधावासा सिद्धिस्साध्यप्रदायिनी ॥ १०॥
सद्युगाराध्यनिलया समुत्तीर्णा सदाशिवा ।
सर्ववेदान्तनिलया सर्वशास्त्रार्थगोचरा ॥ ११॥
सहस्रदलपद्मस्था सर्वज्ञा सर्वतोमुखी ।
समया समयाचारा सदसद्ग्रन्थिभेदिनी ॥ १२॥
सप्तकोटिमहामन्त्रमाता सर्वप्रदायिनी ।
सगुणा सम्भ्रमा साक्षी सर्वचैतन्यरूपिणी ॥ १३॥
सत्कीर्तिस्सात्विका साध्वी सच्चिदानन्दरूपिणी ।
सङ्कल्परूपिणी सन्ध्या सालग्रामनिवासिनी ॥ १४॥
सर्वोपाधिविनिर्मुक्ता सत्यज्ञानप्रबोधिनी ।
विकाररूपा विप्रश्रीर्विप्राराधनतत्परा ॥ १५॥
विप्रप्रीर्विप्रकल्याणी विप्रवाक्यस्वरूपिणी ।
विप्रमन्दिरमध्यस्था विप्रवादविनोदिनी ॥ १६॥
विप्रोपाधिविनिर्भेत्री विप्रहत्याविमोचनी ।
विप्रत्राता विप्रगोत्रा विप्रगोत्रविवर्धिनी ॥ १७॥
विप्रभोजनसन्तुष्टा विष्णुरूपा विनोदिनी ।
विष्णुमाया विष्णुवन्द्या विष्णुगर्भा विचित्रिणी ॥ १८॥
वैष्णवी विष्णुभगिनी विष्णुमायाविलासिनी ।
विकाररहिता विश्वविज्ञानघनरूपिणी ॥ १९॥
विबुधा विष्णुसङ्कल्पा विश्वामित्रप्रसादिनी ।
विष्णुचैतन्यनिलया विष्णुस्वा विश्वसाक्षिणी ॥ २०॥
विवेकिनी वियद्रूपा विजया विश्वमोहिनी ।
विद्याधरी विधानज्ञा वेदतत्त्वार्थरूपिणी ॥ २१॥
विरूपाक्षी विराड्रूपा विक्रमा विश्वमङ्गला ।
विश्वम्भरासमाराध्या विश्वभ्रमणकारिणी ॥ २२॥
विनायकी विनोदस्था वीरगोष्ठीविवर्धिनी ।
विवाहरहिता विन्ध्या विन्ध्याचलनिवासिनी ॥ २३॥
विद्याविद्याकरी विद्या विद्याविद्याप्रबोधिनी ।
विमला विभवा वेद्या विश्वस्था विविधोज्ज्वला ॥ २४॥
वीरमध्या वरारोहा वितन्त्रा विश्वनायिका ।
वीरहत्याप्रशमनी विनम्रजनपालिनी ॥ २५॥
वीरधीर्विविधाकारा विरोधिजननाशिनी ।
तुकाररूपा तुर्यश्रीस्तुलसीवनवासिनी ॥ २६॥
तुरङ्गी तुरगारूढा तुलादानफलप्रदा ।
तुलामाघस्नानतुष्टा तुष्टिपुष्टिप्रदायिनी ॥ २७॥
तुरङ्गमप्रसन्तुष्टा तुलिता तुल्यमध्यगा ।
तुङ्गोत्तुङ्गा तुङ्गकुचा तुहिनाचलसंस्थिता ॥ २८॥
तुम्बुरादिस्तुतिप्रीता तुषारशिखरीश्वरी ।
तुष्टा च तुष्टिजननी तुष्टलोकनिवासिनी ॥ २९॥
तुलाधारा तुलामध्या तुलस्था तुर्यरूपिणी ।
तुरीयगुणगम्भीरा तुर्यनादस्वरूपिणी ॥ ३०॥
तुर्यविद्यालास्यतुष्टा तूर्यशास्त्रार्थवादिनी ।
तुरीयशास्त्रतत्त्वज्ञा तूर्यनादविनोदिनी ॥ ३१॥
तूर्यनादान्तनिलया तूर्यानन्दस्वरूपिणी ।
तुरीयभक्तिजननी तुर्यमार्गप्रदर्शिनी ॥ ३२॥
वकाररूपा वागीशी वरेण्या वरसंविधा ।
वरा वरिष्ठा वैदेही वेदशास्त्रप्रदर्शिनी ॥ ३३॥
विकल्पशमनी वाणी वाञछितार्थफलप्रदा ।
वयस्था च वयोमध्या वयोवस्थाविवर्जिता ॥ ३४॥
वन्दिनी वादिनी वर्या वाङ्मयी वीरवन्दिता ।
वानप्रस्थाश्रमस्था च वनदुर्गा वनालया ॥ ३५॥
वनजाक्षी वनचरी वनिता विश्वमोहिनी ।
वसिष्ठावामदेवादिवन्द्या वन्द्यस्वरूपिणी ॥ ३६॥
वैद्या वैद्यचिकित्सा च वषट्कारी वसुन्धरा ।
वसुमाता वसुत्राता वसुजन्मविमोचनी ॥ ३७॥
वसुप्रदा वासुदेवी वासुदेव मनोहरी ।
वासवार्चितपादश्रीर्वासवारिविनाशिनी ॥ ३८॥
वागीशी वाङ्मनस्थायी वशिनी वनवासभूः ।
वामदेवी वरारोहा वाद्यघोषणतत्परा ॥ ३९॥
वाचस्पतिसमाराध्या वेदमाता विनोदिनी ।
रेकाररूपा रेवा च रेवातीरनिवासिनी ॥ ४०॥
राजीवलोचना रामा रागिणिरतिवन्दिता ।
रमणीरामजप्ता च राज्यपा राजताद्रिगा ॥ ४१॥
राकिणी रेवती रक्षा रुद्रजन्मा रजस्वला ।
रेणुकारमणी रम्या रतिवृद्धा रता रतिः ॥ ४२॥
रावणानन्दसन्धायी राजश्री राजशेखरी ।
रणमद्या रथारूढा रविकोटिसमप्रभा ॥ ४३॥
रविमण्डलमध्यस्था रजनी रविलोचना ।
रथाङ्गपाणि रक्षोघ्नी रागिणी रावणार्चिता ॥ ४४॥
रम्भादिकन्यकाराध्या राज्यदा राज्यवर्धिनी ।
रजताद्रीशसक्थिस्था रम्या राजीवलोचना ॥ ४५॥
रम्यवाणी रमाराध्या राज्यधात्री रतोत्सवा ।
रेवती च रतोत्साहा राजहृद्रोगहारिणी ॥ ४६॥
रङ्गप्रवृद्धमधुरा रङ्गमण्डपमध्यगा ।
रञ्जिता राजजननी रम्या राकेन्दुमध्यगा ॥ ४७॥
राविणी रागिणी रञ्ज्या राजराजेश्वरार्चिता ।
राजन्वती राजनीती रजताचलवासिनी ॥ ४८॥
राघवार्चितपादश्री राघवा राघवप्रिया ।
रत्ननूपुरमध्याढ्या रत्नद्वीपनिवासिनी ॥ ४९॥
रत्नप्राकारमध्यस्था रत्नमण्डपमध्यगा ।
रत्नाभिषेकसन्तुष्टा रत्नाङ्गी रत्नदायिनी ॥ ५०॥
णिकाररूपिणी नित्या नित्यतृप्ता निरञ्जना ।
निद्रात्ययविशेषज्ञा नीलजीमूतसन्निभा ॥ ५१॥
नीवारशूकवत्तन्वी नित्यकल्याणरूपिणी ।
नित्योत्सवा नित्यपूज्या नित्यानन्दस्वरूपिणी ॥ ५२॥
निर्विकल्पा निर्गुणस्था निश्चिन्ता निरुपद्रवा ।
निस्संशया निरीहा च निर्लोभा नीलमूर्धजा ॥ ५३॥
निखिलागममध्यस्था निखिलागमसंस्थिता ।
नित्योपाधिविनिर्मुक्ता नित्यकर्मफलप्रदा ॥ ५४॥
नीलग्रीवा निराहारा निरञ्जनवरप्रदा ।
नवनीतप्रिया नारी नरकार्णवतारिणी ॥ ५५॥
नारायणी निरीहा च निर्मला निर्गुणप्रिया ।
निश्चिन्ता निगमाचारनिखिलागम च वेदिनी ॥ ५६॥
निमेषा निमिषोत्पन्ना निमेषाण्डविधायिनी ।
निवातदीपमध्यस्था निर्विघ्ना नीचनाशिनी ॥ ५७॥
नीलवेणी नीलखण्डा निर्विषा निष्कशोभिता ।
नीलांशुकपरीधाना निन्दघ्नी च निरीश्वरी ॥ ५८॥
निश्वासोच्छ्वासमध्यस्था नित्ययानविलासिनी ।
यङ्काररूपा यन्त्रेशी यन्त्री यन्त्रयशस्विनी ॥ ५९॥
यन्त्राराधनसन्तुष्टा यजमानस्वरूपिणी ।
योगिपूज्या यकारस्था यूपस्तम्भनिवासिनी ॥ ६०॥
यमघ्नी यमकल्पा च यशःकामा यतीश्वरी ।
यमादीयोगनिरता यतिदुःखापहारिणी ॥ ६१॥
यज्ञा यज्वा यजुर्गेया यज्ञेश्वरपतिव्रता ।
यज्ञसूत्रप्रदा यष्ट्री यज्ञकर्मफलप्रदा ॥ ६२॥
यवाङ्कुरप्रिया यन्त्री यवदघ्नी यवार्चिता ।
यज्ञकर्ती यज्ञभोक्त्री यज्ञाङ्गी यज्ञवाहिनी ॥ ६३॥
यज्ञसाक्षी यज्ञमुखी यजुषी यज्ञरक्षिणी ।
भकाररूपा भद्रेशी भद्रकल्याणदायिनी ॥ ६४॥
भक्तप्रिया भक्तसखा भक्ताभीष्टस्वरूपिणी ।
भगिनी भक्तसुलभा भक्तिदा भक्तवत्सला ॥ ६५॥
भक्तचैतन्यनिलया भक्तबन्धविमोचनी ।
भक्तस्वरूपिणी भाग्या भक्तारोग्यप्रदायिनी ॥ ६६॥
भक्तमाता भक्तगम्या भक्ताभीष्टप्रदायिनी ।
भास्करी भैरवी भोग्या भवानी भयनाशिनी ॥ ६७॥
भद्रात्मिका भद्रदायी भद्रकाली भयङ्करी ।
भगनिष्यन्दिनी भूम्नी भवबन्धविमोचनी ॥ ६८॥
भीमा भवसखा भङ्गीभङ्गुरा भीमदर्शिनी ।
भल्ली भल्लीधरा भीरुर्भेरुण्डा भीमपापहा ॥ ६९॥
भावज्ञा भोगदात्री च भवघ्नी भूतिभूषणा ।
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७०॥
भ्रामरी भ्रमरी भारी भवसागरतारिणी ।
भण्डासुरवधोत्साहा भाग्यदा भावमोदिनी ॥ ७१॥
गोकाररूपा गोमाता गुरुपत्नी गुरुप्रिया ।
गोरोचनप्रिया गौरी गोविन्दगुणवर्धिनी ॥ ७२॥
गोपालचेष्टासन्तुष्टा गोवर्धनविवर्धिनी ।
गोविन्दरूपिणी गोप्त्री गोकुलानांविवर्धिनी ॥ ७३॥
गीता गीतप्रिया गेया गोदा गोरूपधारिणी ।
गोपी गोहत्यशमनी गुणिनी गुणिविग्रहा ॥ ७४॥
गोविन्दजननी गोष्ठा गोप्रदा गोकुलोत्सवा ।
गोचरी गौतमी गङ्गा गोमुखी गुणवासिनी ॥ ७५॥
गोपाली गोमया गुम्फा गोष्ठी गोपुरवासिनी ।
गरुडा गमनश्रेष्ठा गारुडा गरुडध्वजा ॥ ७६॥
गम्भीरा गण्डकी गुण्डा गरुडध्वजवल्लभा ।
गगनस्था गयावासा गुणवृत्तिर्गुणoद्भवा ॥ ७७॥
देकाररूपा देवेशी दृग्रूपा देवतार्चिता ।
देवराजेश्वरार्धाङ्गी दीनदैन्यविमोचनी ॥ ७८॥
देशकालपरिज्ञाना देशोपद्रवनाशिनी ।
देवमाता देवमोहा देवदानवमोहिनी ॥ ७९॥
देवेन्द्रार्चितपादश्री देवदेवप्रसादिनी ।
देशान्तरी देशरूपा देवालयनिवासिनी ॥ ८०॥
देशभ्रमणसन्तुष्टा देशस्वास्थ्यप्रदायिनी ।
देवयाना देवता च देवसैन्यप्रपालिनी ॥ ८१॥
वकाररूपा वाग्देवी वेदमानसगोचरा ।
वैकुण्ठदेशिका वेद्या वायुरूपा वरप्रदा ॥ ८२॥
वक्रतुण्डार्चितपदा वक्रतुण्डप्रसादिनी ।
वैचित्र्यरूपा वसुधा वसुस्थाना वसुप्रिया ॥ ८३॥
वषट्कारस्वरूपा च वरारोहा वरासना ।
वैदेही जननी वेद्या वैदेहीशोकनाशिनी ॥ ८४॥
वेदमाता वेदकन्या वेदरूपा विनोदिनी ।
वेदान्तवादिनी चैव वेदान्तनिलयप्रिया ॥ ८५॥
वेदश्रवा वेदघोषा वेदगीता विनोदिनी ।
वेदशास्त्रार्थतत्त्वज्ञा वेदमार्ग प्रदर्शिनी ॥ ८६॥
वैदिकीकर्मफलदा वेदसागरवाडवा ।
वेदवन्द्या वेदगुह्या वेदाश्वरथवाहिनी ॥ ८७॥
वेदचक्रा वेदवन्द्या वेदाङ्गी वेदवित्कविः ।
सकाररूपा सामन्ता सामगान विचक्षणा ॥ ८८॥
साम्राज्ञी नामरूपा च सदानन्दप्रदायिनी ।
सर्वदृक्सन्निविष्टा च सर्वसम्प्रेषिणीसहा ॥ ८९॥
सव्यापसव्यदा सव्यसध्रीची च सहायिनी ।
सकला सागरा सारा सार्वभौमस्वरूपिणी ॥ ९०॥
सन्तोषजननी सेव्या सर्वेशी सर्वरञ्जनी ।
सरस्वती समाराद्या सामदा सिन्धुसेविता ॥ ९१॥
सम्मोहिनी सदामोहा सर्वमाङ्गल्यदायिनी ।
समस्तभुवनेशानी सर्वकामफलप्रदा ॥ ९२॥
सर्वसिद्धिप्रदा साध्वी सर्वज्ञानप्रदायिनी ।
सर्वदारिद्र्यशमनी सर्वदुःखविमोचनी ॥ ९३॥
सर्वरोगप्रशमनी सर्वपापविमोचनी ।
समदृष्टिस्समगुणा सर्वगोप्त्री सहायिनी ॥ ९४॥
सामर्थ्यवाहिनि साङ्ख्या सान्द्रानन्दपयोधरा ।
सङ्कीर्णमन्दिरस्थाना साकेतकुलपालिनी ॥ ९५॥
संहारिणी सुधारूपा साकेतपुरवासिनी ।
सम्बोधिनी समस्तेशी सत्यज्ञानस्वरूपिणी ॥ ९६॥
सम्पत्करी समानाङ्गी सर्वभावसुसंस्थिता ।
सन्ध्यावन्दनसुप्रीता सन्मार्गकुलपालिनी ॥ ९७॥
सञजीविनी सर्वमेधा सभ्या साधुसुपूजिता ।
समिद्धा सामिघेनी च सामान्या सामवेदिनी ॥ ९८॥
समुत्तीर्णा सदाचारा संहारा सर्वपावनी ।
सर्पिणी सर्पमाता च समादानसुखप्रदा ॥ ९९॥
सर्वरोगप्रशमनी सर्वज्ञत्वफलप्रदा ।
सङ्क्रमा समदा सिन्धुः सर्गादिककरणक्षमा ॥ १००॥
सङ्कटा सङ्कटहरा सकुङ्कुमविलेपना ।
सुमुखा सुमुखप्रीता समानाधिकवर्जिता ॥ १०१॥
संस्तुता स्तुतिसुप्रीता सत्यवादी सदास्पदा ।
धीकाररूपा धीमाता धीरा धीरप्रसादिनी ॥ १०२॥
धीरोत्तमा धीरधीरा धीरस्था धीरशेखरा ।
धृतिरूपा धनाढ्या च धनपा धनदायिनी ॥ १०३॥
धीरूपा धीरवन्द्या च धीप्रभा धीरमानसा ।
धीगेया धीपदस्था च धीशाना धीप्रसादिनी ॥ १०४॥
मकाररूपा मैत्रेया महामङ्गलदेवता ।
मनोवैकल्यशमनी मलयाचलवासिनी ॥ १०५॥
मलयध्वजराजश्रीर्मायामोहविभेदिनी ।
महादेवी महारूपा महाभैरवपूजिता ॥ १०६॥
मनुप्रीता मन्त्रमूर्तिर्मन्त्रवश्या महेश्वरी ।
मत्तमातङ्गगमना मधुरा मेरुमण्टपा ॥ १०७॥
महागुप्ता महाभूता महाभयविनाशिनी ।
महाशौर्या मन्त्रिणी च महावैरिविनाशिनी ॥ १०८॥
महालक्ष्मीर्महागौरी महिषासुरमर्दिनी ।
मही च मण्डलस्था च मधुरागमपूजिता ॥ १०९॥
मेधा मेधाकरी मेध्या माधवी मधुमर्धिनी ।
मन्त्रा मन्त्रमयी मान्या माया माधवमन्त्रिणी ॥ ११०॥
मायादूरा च मायावी मायाज्ञा मानदायिनी ।
मायासङ्कल्पजननी मायामायविनोदिनी ॥ १११॥
माया प्रपञ्चशमनी मायासंहाररूपिणी ।
मायामन्त्रप्रसादा च मायाजनविमोहिनी ॥ ११२॥
महापथा महाभोगा महविघ्नविनाशिनी ।
महानुभावा मन्त्राढ्या महमङ्गलदेवता ॥ ११३ ॥
हिकाररूपा हृद्या च हितकार्यप्रवर्धिनी ।
हेयोपाधिविनिर्मुक्ता हीनलोकविनाशिनी ॥ ११४ ॥
ह्रींकारी ह्रीमती हृद्या ह्रीं देवी ह्रीं स्वभाविनी ।
ह्रीं मन्दिरा हितकरा हृष्टा च ह्रीं कुलोद्भवा ॥ ११५ ॥
हितप्रज्ञा हितप्रीता हितकारुण्यवर्धिनी ।
हितासिनी हितक्रोधा हितकर्मफलप्रदा ॥ ११६ ॥
हिमा हैमवती हैम्नी हेमाचलनिवासिनी ।
हिमागजा हितकरी हितकर्मस्वभाविनी ॥ ११७ ॥
धीकाररूपा धिषणा धर्मरूपा धनेश्वरी ।
धनुर्धरा धराधारा धर्मकर्मफलप्रदा ॥ ११८ ॥
धर्माचारा धर्मसारा धर्ममध्यनिवासिनी ।
धनुर्विद्या धनुर्वेदा धन्या धूर्तविनाशिनी ॥ ११९ ॥
धनधान्या धेनुरूपा धनाढ्या धनदायिनी ।
धनेशी धर्मनिरता धर्मराजप्रसादिनी ॥ १२० ॥
धर्मस्वरूपा धर्मेशी धर्माधर्मविचारिणी ।
धर्मसूक्षमा धर्मगेहा धर्मिष्ठा धर्मगोचरा ॥ १२१ ॥
योकाररूपा योगेशी योगस्था योगरूपिणी ।
योग्या योगीशवरदा योगमार्गनिवासिनी ॥ १२२ ॥
योगासनस्था योगेशी योगमायाविलासिनी ।
योगिनी योगरक्ता च योगाङ्गी योगविग्रहा ॥ १२३ ॥
योगवासा योगभाग्या योगमार्गप्रदर्शिनी ।
योकाररूपा योधाढ्यायोध्री योधसुतत्पर ॥ १२४ ॥
योगिनी योगिनीसेव्या योगज्ञानप्रबोधिनी ।
योगेश्वरप्राणानाथा योगीश्वरहृदिस्थिता ॥ १२५ ॥
योगा योगक्षेमकर्त्री योगक्षेमविधायिनी ।
योगराजेश्वराराध्या योगानन्दस्वरूपिणी ॥ १२६ ॥
नकाररूपा नादेशी नामपारायणप्रिया ।
नवसिद्धिसमाराध्या नारायणमनोहरी ॥ १२७ ॥
नारायणी नवाधारा navब्रह्मार्चिताङ्घ्रिका ।
नगेन्द्रतनयाराध्या नामरूपविवर्जिता ॥ १२८ ॥
नरसिंहार्चितपदा नवबन्धविमोचनी ।
नवग्रहार्चितपदा नवमीपूजनप्रिया ॥ १२९ ॥
नैमित्तिकार्थफलदा नन्दितारिविनाशिनी ।
नवपीठस्थिता नादा नवर्षिगणसेविता ॥ १३० ॥
नवसूत्राविधानज्ञा नैमिशारण्यवासिनी ।
नवचन्दनदिग्धाङ्गी नवकुङ्कुमधारिणी ॥ १३१ ॥
नववस्त्रपरीधाना नवरत्नविभूषणा ।
नव्यभस्मविदग्धाङ्गी नवचन्द्रकलाधरा ॥ १३२ ॥
प्रकाररूपा प्राणेशी प्राणसंरक्षणीपरा ।
प्राणसञजीविनी प्राच्या प्राणिप्राणप्रबोधिनी ॥ १३३ ॥
प्रज्ञा प्राज्ञा प्रभापुष्पा प्रतीची प्रभुदा प्रिया ।
प्राचीना प्राणिचित्तस्था प्रभा प्रज्ञानरूपिणी ॥ १३४ ॥
प्रभातकर्मसन्तुष्टा प्राणायामपरायणा ।
प्रायज्ञा प्रणवा प्राणा प्रवृत्तिः प्रकृतिः परा ॥ १३५ ॥
प्रबन्धा प्रथमा चैव प्रगा प्रारब्धनाशिनी ।
प्रबोधनिरता प्रेक्ष्या प्रबन्धा प्राणसाक्षिणी ॥ १३६ ॥
प्रयागतीर्थनिलया प्रत्यक्षपरमेश्वरी ।
प्रणवाद्यन्तनिलया प्रणवादिः प्रजेश्वरी ॥ १३७ ॥
चोकाररूपा चोरघ्नी चोरबाधाविनाशिनी ।
चैतन्यचेतनस्था च चतुरा च चमत्कृतिः ॥ १३८ ॥
चक्रवर्तिकुलाधारा चक्रिणी चक्रधारिणी ।
चित्तचेया चिदानन्दा चिद्रूपा चिद्विलासिनी ॥ १३९ ॥
चिन्ताचित्तप्रशमनी चिन्तितार्थफलप्रदा ।
चाम्पेयी चम्पकप्रीता चण्डी चण्डाट्टहासिनी ॥ १४० ॥
चण्डेश्वरी चण्डमाता चण्डमुण्डविनाशिनी ।
चकोराक्षी चिरप्रीता चिकुरा चिकुरालका ॥ १४१ ॥
चैतन्यरूपिणी चैत्री चेतना चित्तसाक्षिणी ।
चित्रा चित्रविचित्राङ्गी चित्रगुप्तप्रसादिनी ॥ १४२ ॥
चलना चक्रसंस्था च चाम्पेयी चलचित्रिणी ।
चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला ॥ १४३ ॥
चन्द्रानुजसमाराध्या चन्द्रा चण्डमहोदरी ।
चर्चितारिश्चन्द्रमाता चन्द्रकान्ता चलेश्वरी ॥ १४४ ॥
चराचरनिवासी च चक्रपाणिसहोदरी ।
दकाररूपा दत्तश्रीदारिद्र्यच्छेदकारिणी ॥ १४५ ॥
दत्तात्रेयस्य वरदा दर्या च दीनवत्सला ।
दक्षाराध्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ १४६ ॥
दक्षा दाक्षायणी दीक्षा दृष्टा दक्षवरप्रदा ।
दक्षिणा दक्षिणाराध्या दक्षिणामूर्तिरूपिणी ॥ १४७ ॥
दयावती दमस्वान्ता दनुजारिर्दयानिधिः ।
दन्तशोभनिभा देवी दमना दाडिमस्तना ॥ १४८ ॥
दण्डा च दमयत्री च दण्डिनी दमनप्रिया ।
दण्डकारण्यनिलया दण्डकारिविनाशिनी ॥ १४९ ॥
दंष्ट्राकरालवदना दण्डशोभा दरोदरी ।
दरिद्रारिष्टशमनी दम्या दमनपूजिता ॥ १५० ॥
दानवार्चित पादश्रीर्द्रविणा द्राविणी दया ।
दामोदरी दानवारिर्दामोदरसहोदरी ॥ १५१ ॥
दात्री दानप्रिया दाम्नी दानश्रीर्द्विजवन्दिता ।
दन्तिगा दण्डिनी दूर्वा दधिदुग्धस्वरूपिणी ॥ १५२ ॥
दाडिमीबीजसन्दोहा दन्तपङ्क्तिविराजिता ।
दर्पण दर्पणस्वच्छा द्रुममण्डलवासिनी ॥ १५३ ॥
दशावतारजननी दशदिग्दैवपूजिता ।
दमा दशदिशा दृश्या दशदासी दयानिधिः ॥ १५४ ॥
देशकालपरिज्ञाना देशकालविशोधिनी ।
दशम्यादिकलाराध्या दशकालविरोधिनी ॥ १५५ ॥
दशापराधशमनी दशवृत्तिफलप्रदा ।
यात्काररूपिणी याज्ञी यादवी यादवार्चिता ॥ १५६ ॥
ययातिपूजनप्रीता याज्ञिकी याजकप्रिया ।
यजमाना यदुप्रीता यामपूजाफलप्रदा ॥ १५७ ॥
यशस्विनी यमाराध्या यमकन्या यतीश्वरी ।
यमादियोगसन्तुष्टा योगीन्द्रहृदया यमा ॥ १५८ ॥
यमोपाधिविनिर्मुक्ता यशस्यविधिसन्नुता ।
यवीयसी युवप्रीता यात्रानन्दा यतीश्वरी ॥ १५९ ॥
योगप्रिया योगगम्या योगध्येया यथेच्छगा ।
योगप्रिया यज्ञसेनी योगरूपा यथेष्टदा ॥ १६० ॥
॥ फलश्रुति ॥यमोपाधिविनिर्मुक्ता यशस्य विधिच्युता ।
यातनायातनादेहा यात्रा पापादि वर्जिता ॥ १६१ ॥
इत्येतत्कथितं देवि रहस्यं सर्वकामदम् ।
सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् ॥ १६२ ॥
सर्वरोगहरं पुण्यं सर्वज्ञानमयं शिवम् ।
सर्वसिद्धिप्रदं देवि सर्वसौभाग्यवर्द्धनम् ॥ १६३ ॥
आयुष्यं वर्द्धते नित्यं विहितं यत्र तिष्ठति ।
न नोराग्निभयं तस्य न च भूतभयं क्वचित् ॥ १६४ ॥
सकृत् श्रवण मात्रेण कोटि जन्माघनाशनम् ॥ १६५ ॥
महापातक कोटीनां यज्ञं स्मृतिमात्रतः ।
अपवादक दौर्भाग्यशमनं भुक्तिमुक्तिदम् ॥ १६६ ॥
विषरोगादिदारिद्र्यमृत्युसंहारकारणम् ।
सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ १६७ ॥
शतरुद्रीयकोटीनां जपयज्ञफलप्रदम् ।
चतुःसमुद्रपर्यन्त भूतानां तत्फलं शिवो ॥ १६८ ॥
सहस्रकोटिगोदानफलदं स्मृतिमात्रतः ।
कोट्यश्वमेधफलदं जरामृत्युनिवारणम् ॥ १६९ ॥
कन्याकोटिप्रदानेन यत्फलं लभते नरः ।
तत्फलं लभते सम्यक् नाम्नां दशशती जपात् ॥ १७० ॥
यः शृणोति महाविद्यां श्रावयेत् वा समाहितः ।
सोपि मुक्तिमवाप्नोति यत्र गत्वा न शोचति ॥ १७१ ॥
ब्रह्महत्यादि पापानां नाशःस्यात् श्रवणेन च ।
किं पुनः पठनादस्य मुक्तिः स्यादनपायिनी ॥ १७२ ॥
इदं रहस्यं परमं पुरा स्वस्त्ययनं महत् ।
यः सकृद्वा पठेत् स्तोत्रं शृणुयाद् वा समाहितः ॥ १७३ ॥
लभते च ततः कामानन्ते ब्रह्मपदं व्रजेत् ।
स च शत्रूञ्जयेत् सद्यो मातङ्गानिव केसरी ॥ १७४ ॥
श्री गायत्री सहस्रनाम स्तोत्रम् (रुद्रयामल तन्त्र) - विस्तृत परिचय
श्री गायत्री सहस्रनाम स्तोत्रम् २ (Sri Gayatri Sahasranama Stotram 2) तन्त्र शास्त्र के महानतम ग्रन्थों में से एक 'रुद्रयामल तन्त्र' (Rudrayamala Tantra) से उद्धृत है। यह स्तोत्र मात्र नामों का संग्रह नहीं है, बल्कि यह शब्द-शक्ति और मन्त्र-विज्ञान का एक अनूठा संगम है। इसकी पूर्वपीठिका में एक अत्यंत रोचक संवाद है—माता पार्वती भगवान शिव को कैलाश पर शान्त मुद्रा में देखकर उनसे उनके दिव्य तेज, अपार ऐश्वर्य और अष्ट सिद्धियों का रहस्य पूछती हैं। माता पार्वती का प्रश्न है कि ऐसा कौन सा तत्व है जिसे शिव जी ने अपने शरीर में निरन्तर स्थापित कर रखा है।
उत्तर में भगवान शिव माँ गायत्री की महिमा का बखान करते हुए इस 'दिव्य सहस्रनाम' को प्रकट करते हैं। शिव जी स्पष्ट कहते हैं कि यह स्तोत्र 'सर्वतन्त्रेषु गोपितं' अर्थात् सभी तन्त्रों में अत्यंत गोपनीय रखा गया है। इस सहस्रनाम की सबसे बड़ी विशेषता इसकी 'मन्त्र-वर्णात्मक' (Syllable-based) संरचना है। गायत्री महामन्त्र के २४ अक्षर ही इस स्तोत्र के आधार हैं। प्रत्येक वर्ण से माँ के दिव्य नामों की उत्पत्ति होती है, जो साधक को मन्त्र की सूक्ष्म ऊर्जा के साथ एकीकार कर देती है।
तान्त्रिक दृष्टिकोण से यह स्तोत्र कुण्डलिनी जागरण और नाद-ब्रह्म की साधना के लिए अनिवार्य माना गया है। जहाँ देवी भागवत वाला सहस्रनाम पौराणिक शैली में है, वहीं रुद्रयामल का यह संस्करण ऊर्जा के प्रवाह और मन्त्रों के कीलन (Unlocking) पर आधारित है। यह उन साधकों के लिए वरदान है जो गायत्री साधना के माध्यम से आध्यात्मिक और भौतिक दोनों क्षेत्रों में पूर्णता प्राप्त करना चाहते हैं।
विशिष्ट महत्व और तान्त्रिक दार्शनिक आधार
रुद्रयामल तन्त्र के इस गायत्री सहस्रनाम का महत्व इसके तान्त्रिक रहस्यों और मन्त्र वर्णों की शक्ति में निहित है:
अक्षर-शक्ति का प्रस्फुटन: गायत्री के २४ अक्षर ब्रह्मांड के २४ मूलभूत तत्वों का प्रतिनिधित्व करते हैं। नामों के माध्यम से जब इन वर्णों का उच्चारण होता है, तो साधक के शरीर की २४ सूक्ष्म ग्रंथियाँ जाग्रत होने लगती हैं।
स्वप्न लब्ध ज्ञान: भगवान शिव कहते हैं कि यह स्तोत्र उन्हें स्वप्न में साक्षात् पराशक्ति द्वारा प्राप्त हुआ था (स्वप्ने चाप्तं मम प्रियम्), जो इसकी दिव्यता और साक्षात् ईश्वरीय आशीर्वाद को सिद्ध करता है।
सर्ववश्यकर और शत्रु नाशक: यह स्तोत्र केवल आध्यात्मिक नहीं, बल्कि व्यावहारिक जीवन के संकटों—जैसे ऋण, शत्रु, व्याधि और राजकीय आपदाओं—को दूर करने का अमोघ साधन बताया गया है।
ब्रह्मपद प्राप्ति: यह स्तोत्र साधक को 'ऐश्वर्यपद निश्रेणिः' (ऐश्वर्य की सीढ़ी) प्रदान करता है और अन्त में जीव को परम ब्रह्म में लीन कर देता है।
फलश्रुति: दिव्य लाभ और सिद्धियाँ
पाठ विधि और तान्त्रिक अनुशासन
- समय: ब्रह्म-मुहूर्त या सायंकाल सन्ध्या के समय पाठ करना ऊर्जा के संचरण के लिए सबसे अधिक प्रभावी है।
- शुद्धि: पूर्ण शारीरिक और मानसिक शुद्धि अनिवार्य है। सफ़ेद या पीले रेशमी/सूती वस्त्र धारण करें।
- न्यास: पाठ से पूर्व 'करन्यास' और 'हृदयादिन्यास' अवश्य करें। यह शरीर के 'ऑरा' को मन्त्र की प्रचंड ऊर्जा को सहन करने हेतु तैयार करता है।
- ध्यान: हंसाधिरूढ़ा, पञ्चमुखी और दशभुजा धारी माँ गायत्री का हृदय-कमल में स्थिर ध्यान करें।
- पूर्णता: सहस्रनाम पाठ के उपरान्त गायत्री मन्त्र की कम से कम १०८ बार माला जपना अनिवार्य है ताकि जाग्रत हुई शक्तियाँ स्थायी हो सकें।