Logoपवित्र ग्रंथ

Devi Chatushasti Upachara Puja Stotram – देवी चतुःषष्ट्युपचारपूजा स्तोत्रम्

Devi Chatushasti Upachara Puja Stotram – देवी चतुःषष्ट्युपचारपूजा स्तोत्रम्
॥ अथ देवी चतुःषष्ट्युपचारपूजा स्तोत्रम् ॥ उषसि मागधमङ्गलगायनै- र्झटिति जागृहि जागृहि जागृहि । अतिकृपार्द्रकटाक्षनिरीक्षणै- र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयमण्टपमध्यमेहि मात- र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहेतो- र्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥ तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा । नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मि- न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ दूर्वया सरसिजान्वितविष्णु- क्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुष्पयवसर्षपदूर्वा- सम्युतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नै- रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥ जलजद्युतिना करेण जाती- फलतक्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतै- र्भगवत्याचमनं विधीयताम् ॥ ९ ॥ निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२ ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादरा- ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै- र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा- त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ १४ ॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥ १६ ॥ बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशाङ्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥ सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् । तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥ मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ २१ ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतैलमिदं पुरो मृगमदोपयुतं पटवासकम् । सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेत- त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती- रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि सन्ततमहं परिपूजयामि । जातीजपावकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीवकुलहेमपुष्पिका- काञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलै- र्मल्लिकावकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ ३० ॥ सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि । शाकोल्लसन्मरिचिजीरकबाह्लिकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ ३२ ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥ जम्ब्वाम्ररम्भाफलसम्युतानि द्राक्षाफलक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥ कूश्माण्डकोशातकिसम्युतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ३६ ॥ कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि । ताम्बूलवल्लीदलसम्युतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥ ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् । सौवर्णपात्रनिहितं खदिरेन सार्धं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान् । बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥ अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥ मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् । भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३ ॥ शरदिन्दुमरीचिगौरवर्णै- र्मणिमुक्ताविलसत्सुवर्णदण्डैः । जगदम्ब विचित्रचामरैस्त्वा- महमानन्दभरेण वीजयामि ॥ ४४ ॥ मार्ताण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥ इन्द्रादयो नतिनतैर्मकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम् । तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥ प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः । भगवति कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरङ्गः ॥ ४७ ॥ मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः कनककलितघण्टाकिङ्कणीशोभिकण्ठः । श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥ द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् । कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥ हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम् । अतिबहु चतुरङ्गसैन्यमेत- द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥ परिघीकृतसप्तसागरं बहुसम्पत्सहितं मयाम्ब ते विपुलम् । प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥ शतपत्रयुतैः स्वभावशीतै- रतिसौरभ्ययुतैः परागपीतैः । भ्रमरीमुखरीकृतैरनन्तै- र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥ भ्रमरलुलितलोलकुन्तलाली- विगलितमाल्यविकीर्णरङ्गभूमिः । इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥ मुखनयनविलासलोलवेणी- विलसितनिर्जितलोलभृङ्गमालाः । युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥ भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः । अनुपमितसुवेषा वारयोषा नटन्ति परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥ डमरुडिण्डिमजर्झरझल्लरी- मृदुरवद्रगडद्द्रगडादयः । झटिति झाङ्कृतझाङ्कृतझाङ्कृतै- र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥ विपञ्चीषु सप्तस्वरान्वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः । क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥ ५७ ॥ अभिनयकमनीयैर्नर्तनैर्नर्तकीनां क्षणमपि रमयित्वा चेत एतत्त्वदीयम् । स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै- र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥ तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥ पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥ रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् । अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥ अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मि- न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ । विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि- न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ॥ तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः । अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥ अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् । तपनीयमये हि पट्‍टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥ क्षणमथ जगदम्ब मञ्चकेऽस्मि- न्मृदुतलतूलिकया विराजमाने । अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥ मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६८ ॥ ॥ क्षमा प्रार्थना और समर्पण (Forgiveness & Surrender) ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥ ॥ फलश्रुतिः (Benefits) ॥ पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवभावमेति ॥ ७० ॥ पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥ प्रत्यहं भक्तिसम्युक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ देवी चतुःषष्ट्युपचारपूजा स्तोत्रम् सम्पूर्णम् ॥

देवी चतुःषष्ट्युपचार पूजा - परिचय (Introduction)

देवी चतुःषष्ट्युपचारपूजा स्तोत्रम् आदि शंकराचार्य की भक्ति और काव्य प्रतिभा का अनूठा संगम है। यह 'मानस पूजा' का सर्वश्रेष्ठ उदाहरण है। मानस पूजा का अर्थ है - मन ही मन इष्ट देवता को सब कुछ अर्पित करना।

इस स्तोत्र में शंकराचार्य जी ने देवी को साधारण पत्र-पुष्प नहीं, बल्कि राजराजेश्वरी (Emperess of the Universe) के रूप में प्रतिष्ठित किया है। उन्हें स्वर्ण सिंहासन, हीरे-मोती, चतुरंगिणी सेना, और वाद्य वृन्द जैसे 64 राजसी उपचार अर्पित किए गए हैं।

विशेषता:
जो भक्त आर्थिक रूप से संपन्न नहीं हैं या जिन्हें विस्तृत कर्मकांड का ज्ञान नहीं है, वे केवल इस स्तोत्र के पाठ से ही 'महापूजा' का फल प्राप्त कर सकते हैं।

प्रमुख उपचारों की सूची (List of Major Offerings)

श्लोक (Verse)उपचार (Offering)विवरण (Description)
1सुप्रभातम् (Suprabhatam)देवी को जगाना (Waking up with songs).
2आवाहन (Avahana)मणिमय मंडप में पधारने का आग्रह।
3मंदिर समर्पणस्वर्ण कलश वाला भव्य मंदिर देना।
5सिंहासन (Asana)रत्नजड़ित स्वर्ण सिंहासन।
7, 8, 9, 10पाद्य, अर्घ्य, आचमनपैर धोने, हाथ धोने और पीने का जल।
12, 13स्नान (Snana)केसर, दूध, दही, और गंगाजल से स्नान।
15वस्त्र (Vastra)सूर्य जैसी आभा वाले दिव्य वस्त्र।
19-21अलंकार (Alankara)नूपुर, करधनी, हार, चूड़ामणि आदि आभूषण।
29नीराजन (Deepam)रत्नदीपों से आरती उतारना।
30-32नैवेद्य (Naivedyam)खीर, फल, पूरी, शाक और अमृत भोजन।
40महा-आरती (Maha Arati)गेहूं के आटे के विशाल दीपकों से आरती।
43छत्र (Chatram)मोतियों की झालर वाला राजसी छाता।
44चामर (Chamara)सफेद चंवर डुलाना (Royal fanning).
47-49वाहन (Vahana)घोड़ा, हाथी और रथ समर्पण।
50सैन्य (Army)चतुरंगिणी सेना (हाथी-घोड़े-रथ-पैदल)।
56-58नृत्य-गीत (Dance/Music)वीणा वादन और गंधर्व कन्याओं का नर्तन।
64पर्यंक (Bed)विश्राम के लिए कोमल शैया।
69आत्म-समर्पणक्षमा प्रार्थना और हृदय में निवास की विनती।

पाठ विधि और लाभ (Method & Benefits)

  • ध्यान (Visualization): पाठ करते समय आँखें बंद करके कल्पना करें कि आप स्वयं ये सभी वस्तुएं देवी को अर्पित कर रहे हैं।

  • धर्म-अर्थ-काम-मोक्ष: श्लोक 70 के अनुसार, इसका पाठ करने वाला चारों पुरुषार्थ प्राप्त करता है और अंत में शिव-भाव (मोक्ष) पाता है।

  • वाक सिद्धि (Power of Speech): श्लोक 72 कहता है कि जो प्रतिदिन इसका पाठ करता है, वह वाग्वादिनी (सरस्वती) की कृपा से एक वर्ष के भीतर महाकवि (ज्ञानी) बन जाता है।

  • दरिद्रता नाश: मानसिक रूप से स्वर्ण-रत्न दान करने का संस्कार मन की दरिद्रता मिटाता है और वास्तविक समृद्धि को आकर्षित करता है।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. देवी चतुःषष्ट्युपचार पूजा क्या है?

यह आदि शंकराचार्य द्वारा रचित एक स्तोत्र है जिसमें देवी को 64 प्रकार की सेवाएँ (उपचार) मानसिक रूप से अर्पित की जाती हैं। इसे 'मानस पूजा' कहा जाता है, जहाँ भक्त बिना बाहरी सामग्री के केवल भावों से पूजा करता है।

2. 64 उपचार (Upacharas) का क्या महत्व है?

सामान्य पूजा में 5 या 16 उपचार होते हैं, लेकिन 'चतुःषष्टि' (64) उपचार 'राजोपचार' (Royal Worship) माने जाते हैं। इसमें देवी को एक महारानी की तरह सिंहासन, छत्र, चंवर, हाथी, घोड़े और सेना तक अर्पित की जाती है।

3. इस स्तोत्र की रचना किसने की?

इसकी रचना जगतगुरु आदि शंकराचार्य ने की है। यह उनकी देवी के प्रति अनन्य भक्ति और 'अद्वैत' भाव का परिचायक है, जहाँ भक्त और भगवान एक हो जाते हैं।

4. मानस पूजा (Mental Worship) श्रेष्ठ क्यों है?

बाहरी पूजा में धन या सामग्री की कमी हो सकती है, लेकिन मानस पूजा में भक्त स्वर्ण, रत्न और अमृत जैसी दुर्लभ वस्तुएं भी मानसिक रूप से अर्पित कर सकता है। यह एकाग्रता और शुद्ध भाव पर आधारित है।

5. इस पाठ का मुख्य फल क्या है?

फलश्रुति (श्लोक 70) के अनुसार, इसका पाठ करने वाला 'धर्म, अर्थ, काम' प्राप्त करता है और अंत में 'शिव-भाव' (मोक्ष) को प्राप्त होता है।

6. क्या इसे प्रतिदिन पढ़ना चाहिए?

हाँ, प्रातःकाल, मध्याह्न या प्रदोष काल में इसका नित्य पाठ करने से देवी की विशेष कृपा मिलती है। यदि विस्तृत पूजा का समय न हो, तो केवल यह पाठ ही महापूजा का फल देता है।

7. श्लोक 50 में 'चतुरंग सेना' क्यों अर्पित की गई है?

देवी 'राजराजेश्वरी' (भुवनेश्वरी) हैं। एक साम्राज्ञी की भांति, उन्हें सुरक्षा और शक्ति के प्रतीक के रूप में हाथी, घोड़े, रथ और पैदल सेना (चतुरंगिणी सेना) अर्पित की जाती है।

8. क्या स्त्रियाँ और पुरुष दोनों इसे कर सकते हैं?

हाँ, यह स्तोत्र सभी के लिए है। शंकराचार्य ने इसे भक्ति प्रधान रखा है, इसलिए बिना किसी भेदभाव के कोई भी इसे पढ़ सकता है।

9. नैवेद्य (भोग) में क्या वर्णित है?

श्लोक 30-32 में देवी को खीर (पायस), घी, शहद, विभिन्न फल, और अमृत के समान स्वादिष्ट भोजन मानसिक रूप से परोसा गया है।

10. क्या यह पाठ वाक-सिद्धि देता है?

जी हाँ, अंतिम श्लोक (72) में कहा गया है कि इसका प्रतिदिन भक्तिपूर्वक पाठ करने वाला 'वाग्वादिनी' (सरस्वती) की कृपा से एक वर्ष में महाकवि बन जाता है।