॥ श्री लक्ष्मीनृसिंह षोडशोपचार पूजा ॥
पुनः सङ्कल्पम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री लक्ष्मी समेत नृसिंह स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री लक्ष्मीनृसिंह स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ।
प्राणप्रतिष्ठा
ओं असुनीते पुनरस्मासु चक्षुः
पुनः प्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरन्त
मनुमते मृडया नः स्वस्ति ॥
अमृतं वै प्राणा अमृतमापः
प्राणानेव यथास्थानमुपह्वयते ॥
साङ्गं सायुधं सवाहनं सशक्तिं सपरिवारसमेतं श्रीलक्ष्मी सहित नृसिंह स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥
स्थिरो भव वरदो भव सुमुखो भव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
ध्यानम्
लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ।
सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं
वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः ध्यायामि ध्यानम् समर्पयामि ।
१. आवाहनम्
सहस्रशीर्षा पुरुषः ।
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा ।
अत्यतिष्ठद्दशाङ्गुलम् ॥
आगच्छ देवदेवेश तेजोराशे जगत्पते ।
क्रियमाणां मया पूजां गृहाण सुरसत्तमे ॥
ओं श्री लक्ष्मीनृसिंहाय नमः आवाहयामि ।
२. आसनम्
पुरुष एवेदं सर्वम् ।
यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानः ।
यदन्नेनातिरोहति ॥
नाना रत्नसमायुक्तं कार्तस्वरविभूषितम् ।
आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
३. पाद्यम्
एतावानस्य महिमा ।
अतो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि ।
त्रिपादस्यामृतं दिवि ॥
गङ्गादि सर्वतीर्थेभ्यः मया प्रार्थनयाहृतम् ।
लक्ष्मीनृसिंह पाद्यर्थं इदं तोयं गृहाण भोः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः पादयोः पाद्यं समर्पयामि ।
४. अर्घ्यम्
त्रिपादूर्ध्व उदैत्पुरुषः ।
पादोऽस्येहाऽऽभवात्पुनः ।
ततो विष्वङ्व्यक्रामत् ।
साशनानशने अभि ॥
नमस्ते देवदेवेश नमस्ते धरणीधर ।
नमस्ते कमलाकान्त गृहाणार्घ्यं नमोऽस्तु ते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः हस्तयोः अर्घ्यं समर्पयामि ।
५. आचमनीयम्
तस्माद्विराडजायत ।
विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत ।
पश्चाद्भूमिमथो पुरः ॥
कर्पूरवासितं तोयं मन्दाकिन्यः समाहृतम् ।
आचम्य तां जगन्नाथ मया दत्तं हि भक्तितः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम्
नमः श्री वासुदेवाय तत्त्वज्ञानस्वरूपिणे ।
मधुपर्कं गृहाणेदं श्रीलक्ष्मीपतये नमः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः मधुपर्कं समर्पयामि ।
पञ्चामृत स्नानम्
दधि क्षीराज्य मधुभिः शर्करा फलमिश्रितम् ।
पञ्चामृतस्नानमिदं गृहाण पुरुषोत्तम ॥
ओं श्री लक्ष्मीनृसिंहाय नमः पञ्चामृत स्नानं समर्पयामि ।
६. शुद्धोदक स्नानम्
यत्पुरुषेण हविषा ।
देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यम् ।
ग्रीष्म इध्मश्शरद्धविः ॥
सुगन्धपुष्पसम्युक्तं पवित्रं विमलं जलम् ।
स्नानार्थं हि मयानीतं स्वीकुरुष्व महामते ॥
आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महेरणाय चक्षसे ।
यो वः शिवतमो रसस्तस्य भाजयते ह नः ।
उशतीरिव मातरः ।
तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ।
ओं श्री लक्ष्मीनृसिंहाय नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
७. वस्त्रम्
सप्तास्यासन्परिधयः ।
त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वानाः ।
अबध्नन्पुरुषं पशुम् ॥
तप्तकाञ्चनसङ्काशं पीताम्बरमिदं हरे ।
सङ्गृहाण जगन्नाथ नारायण नमोऽस्तु ते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः वस्त्रयुग्मं समर्पयामि ।
८. यज्ञोपवीतम्
तं यज्ञं बर्हिषि प्रौक्षन् ।
पुरुषं जातमग्रतः ।
तेन देवा अयजन्त ।
साध्या ऋषयश्च ये ॥
ब्रह्मविष्णुमहेशश्च निर्मितं ब्रह्मसूत्रकम् ।
उपवीतं मया दत्तं गृहाण कमलापतिः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः यज्ञोपवीतं समर्पयामि ।
९. गन्धम्
तस्माद्यज्ञात्सर्वहुतः ।
सम्भृतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यान् ।
आरण्यान्ग्राम्याश्च ये ॥
चन्दनं शीतलं दिव्यं कस्तूरी कुङ्कुमं तथा ।
ददामि तव प्रीत्यर्थं नृसिंह परमेश्वरः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः दिव्य श्री चन्दनं समर्पयामि ।
१०. आभरणम्
तस्माद्यज्ञात्सर्वहुतः ।
ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् ।
यजुस्तस्मादजायत ॥
भूषणानि विचित्रानि हेमरत्नमयानि च ।
गृहाण भुवनाधार भुक्तिमुक्तिफलप्रद ॥
ओं श्री लक्ष्मीनृसिंहाय नमः सर्वाभरणानि समर्पयामि ।
११. पुष्पाणि
तस्मादश्वा अजायन्त ।
ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् ।
तस्माज्जाता अजावयः ॥
माल्यादीनि सुगन्धानि माल्यतादीनि वै प्रभो ।
मयाहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
१२. अथाङ्ग पूजा
ओं नृसिंहाय नमः – पादौ पूजयामि ।
ओं करालाय नमः – गुल्फौ पूजयामि ।
ओं विकृताय नमः – जानुनी पूजयामि ।
ओं नखाङ्कुराय नमः – जङ्घैः पूजयामि ।
ओं प्रह्लादवरदाय नमः – ऊरूं पूजयामि ।
ओं श्रीमते नमः – गुह्यं पूजयामि ।
ओं अप्रमेयपराक्रमाय नमः – जघनं पूजयामि ।
ओं भक्तानामभयप्रदाय नमः – कटिं पूजयामि ।
ओं कुक्षिस्थाखिलभुवनाय नमः – उदरं पूजयामि ।
ओं सर्वरक्षाय नमः – हृदयं पूजयामि ।
ओं कपिलाय नमः – पृष्ठदेहं पूजयामि ।
ओं शङ्खचक्रगदाशार्ङ्गपाणये नमः – बाहून् पूजयामि ।
ओं स्थूलग्रीवाय नमः – कण्ठं पूजयामि ।
ओं ज्वालामुखाय नमः – वक्त्रं पूजयामि ।
ओं तीक्ष्णदंष्ट्राय नमः – दन्तान् पूजयामि ।
ओं ब्रह्मण्याय नमः – नासिकां पूजयामि ।
ओं भक्तवत्सलाय नमः – श्रोत्रे पूजयामि ।
ओं सोमसूर्याग्निलोचनाय नमः – नेत्रौ पूजयामि ।
ओं उग्राय नमः – ललाटं पूजयामि ।
ओं हृषीकेशाय नमः – शिरः पूजयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः – सर्वाण्यङ्गानि पूजयामि ॥
१३. अष्टोत्तरशतनामावली
श्री नृसिंह अष्टोत्तरशतनाम स्तोत्रम् पश्यतु ।
ओं श्री लक्ष्मीनृसिंहाय नमः अष्टोत्तरशतनाम पूजां समर्पयामि ।
१४. धूपम्
यत्पुरुषं व्यदधुः ।
कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू ।
कावूरू पादावुच्येते ॥
वनस्पत्युद्भवो दिव्यो गन्धाद्यो गन्ध उत्तमः ।
नरसिंह महीपालो धुपोऽयं प्रतिगृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः धूपं समर्पयामि ।
१५. दीपम्
ब्राह्मणोऽस्य मुखमासीत् ।
बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः ।
पद्भ्यां शूद्रो अजायत ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः दीपं समर्पयामि ।
१६. नैवेद्यम्
चन्द्रमा मनसो जातः ।
चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च ।
प्राणाद्वायुरजायत ॥
नैवेद्यं गृह्यतां देव भक्तिं मे अचलां कुरु ।
ईप्सितं मे वरं देहि इहत्र च परां गतिम् ॥
श्रीनृसिंह नमस्तुभ्यं महानैवेद्यमुत्तमम् ।
सङ्गृहाण सुरश्रेष्ठ भुक्तिमुक्तिप्रदायकम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
१७. ताम्बूलम्
नाभ्या आसीदन्तरिक्षम् ।
शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् ।
तथा लोकां अकल्पयन् ॥
पूगीफल समायुक्तं नागवल्लीदलैर्युतम् ।
येला लवङ्ग सम्युक्तं ताम्बूलं देव गृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः ताम्बूलं समर्पयामि ।
१८. नीराजनम्
वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः ।
नामानि कृत्वाऽभिवदन् यदास्ते ॥
कर्पूरकं महाराज रम्भोद्भूतं च दीपकम् ।
मङ्गलार्थं महीपाल सङ्गृहाण जगत्पते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
१९. मन्त्रपुष्पम्
धाता पुरस्ताद्यमुदाजहार ।
शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति ।
नान्यः पन्था अयनाय विद्यते ॥
ओं वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि ।
तन्नो नारसिंहः प्रचोदयात् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
२०. आत्मप्रदक्षिण नमस्कारम्
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सला ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष रमापते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
२१. साष्टाङ्ग नमस्कारम्
नमः सर्वहितार्थाय जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मयाकृतः ॥
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
२२. सर्वोपचाराः
ओं श्री लक्ष्मीनृसिंहाय नमः छत्रं आच्छादयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः चामरैर्वीजयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः नृत्यं दर्शयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः गीतं श्रावयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः आन्दोलिकान्नारोहयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः अश्वानारोहयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
२३. क्षमा प्रार्थना
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तमा ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व कमलापते ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥
२४. समर्पणम्
अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री लक्ष्मीनृसिंह स्वामी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
२५. तीर्थप्रसाद ग्रहणम्
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री लक्ष्मीनृसिंह पादोदकं पावनं शुभम् ॥
श्री लक्ष्मीनृसिंहाय नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ॥