श्री बालात्रिपुरसुन्दरी षोडशोपचार पूजा
Sri Bala Tripura Sundari Shodasopachara Puja
श्री बालात्रिपुरसुन्दरी षोडशोपचार पूजा
बाला त्रिपुरसुन्दरी माँ ललिता का ही बाल रूप हैं। वे श्री विद्या साधना में प्रथम देवता मानी जाती हैं। इनकी साधना से साधक को वाक सिद्धि, बुद्धि कुशाग्रता और शीघ्र फल की प्राप्ति होती है।
यह षोडशोपचार पूजा (16 Steps) देवी को महारानी के रूप में सम्मानित करने की पूर्ण वैदिक विधि है।
पुनः सङ्कल्पम् :
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री बाला त्रिपुरसुन्दरी देवतामुद्दिश्य श्री बाला त्रिपुरसुन्दरी देवता प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भविता नियमेन सम्भविता प्रकारेण श्रीसूक्त प्रकारेण यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥
१. प्राणप्रतिष्ठा (Prana Pratishtha) :
ओं असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्त मनुमते मृडया नः स्वस्ति । अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ॥
आवाहिता भव स्थापिता भव । सुप्रसन्नो भव वरदा भव । स्थिरासनं कुरु प्रसीद प्रसीद । देवि सर्वजगन्नाथे यावत्पूजावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
२. ध्यानम् (Dhyanam) :
ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कला बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौताङ्गरङ्गोज्ज्वलाम् ।
वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां
तां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः ध्यायामि ।
३. आवाहनम् (Avahanam) :
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
सर्वमङ्गलमाङ्गल्ये भक्ताभीष्टप्रदायिनि ।
आवाहयामि देवि त्वां सुप्रीता भव सर्वदा ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः आवाहयामि ।
४. आसनम् (Asanam) :
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
बालाम्बिके महादेवि पूर्णचन्द्रनिभानने ।
सिंहासनमिदं देवि गृहाण सुरवन्दिते ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः रत्नसिंहासनं समर्पयामि ।
५. पाद्यम् (Padyam) :
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥
सूर्यायुतनिभस्फूर्ते स्फुरद्रत्नविभूषिते ।
पाद्यं गृहाण देवेशि सर्वकल्याणकारिणि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः पादयोः पाद्यं समर्पयामि ।
६. अर्घ्यम् (Arghyam) :
कां सोस्मितां हिरण्यप्राकारामार्द्रां
ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
सुवासितजलं रम्यं कस्तूरीपङ्कमिश्रितम् ।
गन्धपुष्पाक्षतैर्युक्तं अर्घ्यं दास्यामि सुन्दरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः हस्तयोरर्घ्यं समर्पयामि ।
७. आचमनीयम् (Achamaniyam) :
चन्द्रां प्रभासां यशसा ज्वलन्तीं
श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्ये-
ऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
सुवर्णकलशानीतं चन्दनागरुसम्युतम् ।
गृहाणाचमनं देवि मया दत्तं सुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः मुखे आचमनीयं समर्पयामि ।
८. पञ्चामृतस्नानम् (Panchamrita Snanam) :
मध्वाज्य दधि सम्युक्तं शर्करा क्षीर मिश्रितम् ।
पञ्चामृतस्नानमिदं गृहाण परमेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः पञ्चामृतस्नानं समर्पयामि ।
९. शुद्धोदकस्नानम् (Shuddhodaka Snanam) :
आदित्यवर्णे तपसोऽधिजातो
वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु
मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
गङ्गाजलं मयानीतं महादेवशिरःस्थितम् ।
शुद्धोदकस्नानमिदं गृहाण परमेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः शुद्धोदकस्नानं समर्पयामि ।
स्नानानन्तरं आचमनं समर्पयामि ।
१०. वस्त्रम् (Vastram) :
उपैतु मां देवसखः
कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्
कीर्तिमृद्धिं ददातु मे ॥
सुरार्चिताङ्घ्रियुगले दुकूलवसनप्रिये ।
वस्त्रयुग्मं प्रदास्यामि गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः वस्त्रद्वयं समर्पयामि ।
११. कञ्चुकम् (Kanchukam) :
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
स्वर्णतन्तु समुद्भूतं रक्तवर्णेन शोभितम् ।
भक्त्या दत्तं मया देवि कञ्चुकं परिगृह्यताम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः कञ्चुकं समर्पयामि ।
१२. गन्धम् (Gandham) :
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
कर्पूरागरुकस्तूरीरोचनादिसुसम्युतम् ।
अष्टगन्धं प्रदास्यामि स्वीकुरुष्व शुभप्रदे ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः गन्धं समर्पयामि ।
१३. हरिद्राकुङ्कुमम् (Haridra Kumkumam) :
हरिद्रा शुभदा चैव स्त्रीणां सौभाग्यदायिनी ।
कुङ्कुमं च मया दत्तं गृहाण सुरवन्दिते ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः हरिद्राकुङ्कुमं समर्पयामि ।
१४. माङ्गल्यम् (Mangalyam) :
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥
शुद्धस्वर्णकृतं देवि माङ्गल्यं मङ्गलप्रदम् ।
सर्वमङ्गलमाङ्गल्यं गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः मङ्गलसूत्रं समर्पयामि ।
१५. पुष्पाणि (Pushpani) :
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
मल्लिकाजातिकुसुमैश्चम्पकैर्वकुलैरपि ।
शतपत्रैश्च कल्हारैः पूजयामि वरप्रदे ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः पुष्पाणि समर्पयामि ।
अष्टोत्तरशतनाम पूजा (Ashtottara Shatanamavali) :
श्री बाला त्रिपुरसुन्दरी अष्टोत्तरशतनामावली पश्यतु ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः अष्टोत्तरशतनामपूजां समर्पयामि ।
१६. धूपम् (Dhupam) :
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् ।
धूपं दास्यामि देवेशि गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः धूपं आघ्रापयामि ।
१७. दीपम् (Deepam) :
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
घृतवर्तिसमायुक्तं अन्धकारविनाशकम् ।
दीपं दास्यामि वरदे गृहाण मुदिता भव ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः दीपं दर्शयामि ।
धूपदीपानन्तरं आचमनीयं समर्पयामि ।
१८. नैवेद्यम् (Naivedyam) :
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसम्युतम् ।
नानाभक्ष्यफलोपेतं गृहाण त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।
१९. ताम्बूलम् (Tambulam) :
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
एलालवङ्ग सम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः ताम्बूलं समर्पयामि ।
२०. नीराजनम् (Nirajanam) :
सम्राजं च विराजं चाभिश्रीर्या च नो गृहे ।
लक्ष्मी राष्ट्रस्य या मुखे तया मा सं सृजामसि ।
नीराजनं मयानीतं कर्पूरेण समन्वितम् ।
तुभ्यं दास्याम्यहं देवि गृह्यतां त्रिपुरेश्वरि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः कर्पूरनीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
२१. मन्त्रपुष्पम् (Mantra Pushpam) :
ओं ऐं ह्रीं श्रीं बालायै नमः ।
क्लीं त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ने प्रचोदयात् ॥
वाग्देवि वरदे देवि चन्द्ररेखासमन्विते ।
मन्त्रपुष्पमिदं भक्त्या स्वीकुरुष्व मयार्पितम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः मन्त्रपुष्पं समर्पयामि ।
२२. प्रदक्षिणा (Pradakshina) :
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष दयामयि ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः प्रदक्षिणनमस्कारान् समर्पयामि ।
२३. सर्वोपचाराः (Sarvopachara) :
ओं श्रीबालात्रिपुरसुन्दर्यै नमः छत्रं आच्छादयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः चामरैर्वीजयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः नृत्यं दर्शयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः गीतं श्रावयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः आन्दोलिकानारोहयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः अश्वानारोहयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः गजानारोहयामि ।
ओं श्रीबालात्रिपुरसुन्दर्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।
२४. प्रार्थना (Prarthana) :
अरूणकिरणजालैरञ्चिताशावकाशा विधृतजपपटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकल्हारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥
२५. क्षमा प्रार्थना (Kshama Prarthana) :
ज्ञानतोऽज्ञानतो वाऽपि यन्मयाऽऽचरितं शिवे ।
बाल कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि ।
यत्पूजितं मया देवी परिपूर्णं तदस्तुते ॥
अनया ध्यानावाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री बाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
२६. तीर्थप्रसाद ग्रहणम् (Teertha Prasad) :
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री बाला देवी पादोदकं पावनं शुभम् ॥
ओं श्रीबालात्रिपुरसुन्दर्यै नमः प्रसादं शिरसा गृह्णामि ।
समापन :
॥ ओं शान्तिः शान्तिः शान्तिः ॥ ॥ श्री बालात्रिपुरसुन्दर्यर्पणमस्तु ॥
महत्व एवं लाभ (Significance and Benefits)
- वाक सिद्धि: बाला देवी की पूजा से वाणी में ओज, मधुरता और प्रभाव आता है।
- बुद्धि कुशाग्रता: विद्यार्थियों और शोधार्थियों के लिए यह पूजा अत्यंत लाभकारी है।
- शीघ्र फल: बाला देवी 'बाल' रूप में होने से भक्तों पर शीघ्र कृपा करती हैं।
- मनोकामना पूर्ति: साधक की समस्त मनोकामनाएं पूर्ण होती हैं।
- शत्रु विजय: गुप्त शत्रुओं और बाधाओं का नाश होता है।
FAQ - अक्सर पूछे जाने वाले प्रश्न
बाला त्रिपुरसुन्दरी कौन हैं?
बाला त्रिपुरसुन्दरी महात्रिपुरसुन्दरी (ललिता देवी) का ही बाल रूप हैं। वे सदा 9 वर्ष की कन्या के रूप में रहती हैं और श्री विद्या साधना में प्रथम देवता मानी जाती हैं।
यह पूजा कब करनी चाहिए?
यह पूजा शुक्रवार, नवमी तिथि, या किसी भी शुभ मुहूर्त में की जा सकती है। नवरात्रि में इसका विशेष फल है।
क्या यह पूजा सभी कर सकते हैं?
हाँ, श्रद्धा और विश्वास के साथ कोई भी साधक (पुरुष या स्त्री) इस पूजा को कर सकता है।
बाला मंत्र क्या है?
बाला का त्र्यक्षरी मंत्र है: ऐं क्लीं सौः – यह तीन बीज मंत्रों का संयोजन है।
