Sri Tara Takaradi Sahasranamavali – श्री तारा तकारादि सहस्रनामावली

॥ श्रीतारासहस्रनामावली १ तकारादि ॥
१. विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थिताम् ।
कर्त्रीखड्गकपालनीलनलिनैः राजत्करां नीलभाम् ॥
काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरकाम् ।
आप्तैर्नागवरैर्विभूषिततनुं चारक्तनेत्रत्रयाम् ॥
पिङ्गैकाग्रजटां लसत्सुरसनां दंष्ट्राकरालाननाम् ।
हस्तैश्चापि वरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ॥
अक्षेभ्येण विराजमानशिरसं स्मेराननाम्भोरुहाम् ।
तारं शावहृदासनां दृढकुचामम्बां त्रिलोक्यां भजे ॥
२. श्वेताम्बरां शारदचन्द्रकान्तिं सद्भूषणां चन्द्रकलावतंसाम् ।
कर्त्रीकपालान्वितपादपद्मां तारां त्रिनेत्रां प्रभजेऽखिलर्द्ध्यै ॥
३. प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा ।
खड्गेन्दीवरकर्त्रिखर्परभुजा हुङ्कारबीजोद्भवा ॥
खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता ।
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥
॥ सात्त्विकमूर्तिध्यानम् ॥
४. श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् ।
चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥
वराभये पाशशक्ती अक्षस्रक्पुष्पमालिके ।
शब्दपाथोनिधेर्मध्ये तारां स्थितिकरीं भजे ॥
॥ राजसमूर्तिध्यानम् ॥
५. रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् ।
एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥
अक्षमालां पानपात्रमभयं वरमुत्तमम् ।
श्वेतद्वीपस्थितां वन्दे तारां स्थितिपरायणाम् ॥
॥ तामसमूर्तिध्यानम् ॥
६. कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् ।
नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ॥
अभयं परशुं दर्वीं खड्गं पाशुपतं हलम् ।
भिन्दिं शूलं च मुसलं कर्त्रीं शक्तिं त्रिशीर्षकम् ॥
संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह ।
॥ अथ तकारादि नामावलिः ॥
ॐ तारायै नमः ।
ॐ तारादि पञ्चार्णायै नमः ।
ॐ तारान्यावेदवीर्यजायै नमः ।
ॐ तारायै नमः ।
ॐ तारहितावर्णायै नमः ।
ॐ ताराद्यायै नमः ।
ॐ ताररूपिण्यै नमः ।
ॐ तारारात्रिसमुत्पन्नायै नमः ।
ॐ तारारात्रिवरोद्यतायै नमः ।
ॐ तारारात्रिजपासक्तायै नमः । १०
ॐ तारारात्रिस्वरूपिण्यै नमः ।
ॐ ताराराज्ञीस्वसन्तुष्टायै नमः ।
ॐ ताराराज्ञीवरप्रदायै नमः ।
ॐ ताराराज्ञीस्वरूपायै नमः ।
ॐ ताराराज्ञीप्रसिद्धिदायै नमः ।
ॐ ताराहृत्पङ्कजागारायै नमः ।
ॐ ताराहृत्पङ्कजापरायै नमः ।
ॐ ताराहृत्पङ्कजाधारायै नमः ।
ॐ ताराहृत्पङ्कजायै नमः ।
ॐ तारेश्वर्यै नमः । २०
ॐ ताराभायै नमः ।
ॐ तारागणस्वरूपिण्यै नमः ।
ॐ तारागणसमाकीर्णायै नमः ।
ॐ तारागणनिषेवितायै नमः ।
ॐ तारायै नमः ।
ॐ तारान्वितायै नमः ।
ॐ तारारत्नान्वितविभूषणायै नमः ।
ॐ तारागणरणासन्नायै नमः ।
ॐ ताराकृत्यप्रपूजितायै नमः ।
ॐ तारागणकृताहारायै नमः । ३०
ॐ तारागणकृताश्रयायै नमः ।
ॐ तारागणकृतागारायै नमः ।
ॐ तारागणनतत्परायै नमः ।
ॐ तारागुणगणाकीर्णायै नमः ।
ॐ तारागुणगणप्रदायै नमः ।
ॐ तारागुणगणासक्तायै नमः ।
ॐ तारागुणगणालयायै नमः ।
ॐ तारेश्वर्यै नमः ।
ॐ तारपूज्यायै नमः ।
ॐ ताराजप्यायै नमः । ४०
ॐ तारणायै नमः ।
ॐ तारमुख्यायै नमः ।
ॐ ताराख्यायै नमः ।
ॐ तारदक्षायै नमः ।
ॐ तारिण्यै नमः ।
ॐ तारागम्यायै नमः ।
ॐ तारस्थायै नमः ।
ॐ तारामृततरङ्गिण्यै नमः ।
ॐ तारभव्यायै नमः ।
ॐ तारार्णायै नमः । ५०
ॐ तारहव्यायै नमः ।
ॐ तारिण्यै नमः ।
ॐ तारकायै नमः ।
ॐ तारकान्तस्थायै नमः ।
ॐ तारकाराशिभूषणायै नमः ।
ॐ तारकाहारशोभाढ्यायै नमः ।
ॐ तारकावेष्टिताङ्गणायै नमः ।
ॐ तारकाहंसकाकीर्णायै नमः ।
ॐ तारकाकृतभूषणायै नमः ।
ॐ तारकाङ्गदशोभाङ्ग्यै नमः । ६०
ॐ तारकाश्रितकङ्कणायै नमः ।
ॐ तारकाञ्चितकाञ्च्यै नमः ।
ॐ तारकान्वितभक्षणायै नमः ।
ॐ तारकाचित्रवसनायै नमः ।
ॐ तारकासनमण्डलायै नमः ।
ॐ तारकाकीर्णमुकुटायै नमः ।
ॐ तारकाश्रितकुण्डलायै नमः ।
ॐ तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वलायै नमः ।
ॐ तारकाश्रितपादाब्जायै नमः ।
ॐ तारकावरदायिकायै नमः । ७०
ॐ तारकादत्तहृदयायै नमः ।
ॐ तारकाञ्चितसायकायै नमः ।
ॐ तारकान्यासकुशलायै नमः ।
ॐ तारकान्यासविग्रहायै नमः ।
ॐ तारकान्याससन्तुष्टायै नमः ।
ॐ तारकान्याससिद्धिदायै नमः ।
ॐ तारकान्यासनिलयायै नमः ।
ॐ तारकान्यासपूजितायै नमः ।
ॐ तारकान्याससंहृष्टायै नमः ।
ॐ तारकान्याससिद्धिदायै नमः । ८०
ॐ तारकान्याससम्मग्नायै नमः ।
ॐ तारकान्यासवासिन्यै नमः ।
ॐ तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिन्यै नमः ।
ॐ तारकोपासकप्राणायै नमः ।
ॐ तारकोपासकप्रियायै नमः ।
ॐ तारकोपासकासाध्यायै नमः ।
ॐ तारकोपासकेष्टदायै नमः ।
ॐ तारकोपासकासक्तायै नमः ।
ॐ तारकोपासकार्थिन्यै नमः ।
ॐ तारकोपासकाराध्यायै नमः । ९०
ॐ तारकोपासकाश्रयायै नमः ।
ॐ तारकासुरसन्तुष्टायै नमः ।
ॐ तारकासुरपूजितायै नमः ।
ॐ तारकासुरनिर्माणकर्त्र्यै नमः ।
ॐ तारकवन्दितायै नमः ।
ॐ तारकासुरसम्मान्यायै नमः ।
ॐ तारकासुरमानदायै नमः ।
ॐ तारकासुरसंसिद्धायै नमः ।
ॐ तारकासुरदेवतायै नमः ।
ॐ तारकासुरदेहस्थायै नमः । १००
ॐ तारकासुरस्वर्गदायै नमः ।
ॐ तारकासुरसंसृष्टायै नमः ।
ॐ तारकासुरगर्वदायै नमः ।
ॐ तारकासुरसंहन्त्र्यै नमः ।
ॐ तारकासुरमर्दिन्यै नमः ।
ॐ तारकासुरसङ्ग्रामनर्तक्यै नमः ।
ॐ तारकापहायै नमः ।
ॐ तारकासुरसङ्ग्रामकारिण्यै नमः ।
ॐ तारकारिभृते नमः ।
ॐ तारकासुरसङ्ग्रामकबन्धवृन्दवन्दितायै नमः । ११०
ॐ तारकारिप्रसुवे नमः ।
ॐ तारकारिमात्रे
ॐ तारिकायै नमः ।
ॐ तारकारिमनोहारिवस्त्रभूषानुशासिकायै नमः ।
ॐ तारकारिविधात्र्यै नमः ।
ॐ तारकारिनिषेवितायै नमः ।
ॐ तारकारिवचस्तुष्टायै नमः ।
ॐ तारकारिसुशिक्षितायै नमः ।
ॐ तारकारिसुसन्तुष्टायै नमः ।
ॐ तारकारिविभूषितायै नमः । १२०
ॐ तारकारिकृतोत्सङ्ग्यै नमः ।
ॐ तारकारिप्रहर्षदायै नमः ।
ॐ तमः सम्पूर्णसर्वाङ्ग्यै नमः ।
ॐ तमोलिप्तकलेवरायै नमः ।
ॐ तमोव्याप्तस्थलासङ्गायै नमः ।
ॐ तमःपटलसन्निभायै नमः ।
ॐ तमोहन्त्र्यै नमः ।
ॐ तमःकर्त्र्यै नमः ।
ॐ तमःसञ्चारकारिण्यै नमः ।
ॐ तमोगात्र्यै नमः । १३०
ॐ तमोदात्र्यै नमः ।
ॐ तमःपात्र्यै नमः ।
ॐ तमोऽपहायै नमः ।
ॐ तमोराशये नमः ।
ॐ तमोनाशायै नमः ।
ॐ तमोराशिविनाशिन्यै नमः ।
ॐ तमोराशिकृतध्वंस्यै नमः ।
ॐ तमोराशिभयङ्कर्यै नमः ।
ॐ तमोगुणप्रसन्नास्यायै नमः ।
ॐ तमोगुणसुसिद्धिदायै नमः । १४०
ॐ तमोगुणोक्तमार्गस्थायै नमः ।
ॐ तमोगुणविराजितायै नमः ।
ॐ तमोगुणस्तुतिपरायै नमः ।
ॐ तमोगुणविवर्धिन्यै नमः ।
ॐ तमोगुणाश्रितपरायै नमः ।
ॐ तमोगुणविनाशिन्यै नमः ।
ॐ तमोगुणक्षयकर्यै नमः ।
ॐ तमोगुणकलेवरायै नमः ।
ॐ तमोगुणध्वंसतुष्टायै नमः ।
ॐ तमःपारे प्रतिष्ठितायै नमः । १५०
ॐ तमोभवभवप्रीतायै नमः ।
ॐ तमोभवभवप्रियायै नमः ।
ॐ तमोभवभवश्रद्धायै नमः ।
ॐ तमोभवभवाश्रयायै नमः ।
ॐ तमोभवभवप्राणायै नमः ।
ॐ तमोभवभवार्चितायै नमः ।
ॐ तमोभवभवप्रत्यालीढकुम्भस्थलस्थितायै नमः ।
ॐ तपस्विवृन्दसन्तुष्टायै नमः ।
ॐ तपस्विवृन्दपुष्टिदायै नमः ।
ॐ तपस्विवृन्दसंस्तुत्यायै नमः । १६०
ॐ तपस्विवृन्दवन्दितायै नमः ।
ॐ तपस्विवृन्दसम्पन्नायै नमः ।
ॐ तपस्विवृन्दहर्षदायै नमः ।
ॐ तपस्विवृन्दसम्पूज्यायै नमः ।
ॐ तपस्विवृन्दभूषितायै नमः ।
ॐ तपस्विचित्ततल्पस्थायै नमः ।
ॐ तपस्विचित्तमध्यगायै नमः ।
ॐ तपस्विचित्तचित्तार्हायै नमः ।
ॐ तपस्विचित्तहारिण्यै नमः ।
ॐ तपस्विकल्पवल्याभायै नमः । १७०
ॐ तपस्विकल्पपादप्यै नमः ।
ॐ तपस्विकामधेनवे नमः ।
ॐ तपस्विकामपूर्तिदायै नमः ।
ॐ तपस्वित्राणनिरतायै नमः ।
ॐ तपस्विगृहसंस्थितायै नमः ।
ॐ तपस्विगृहराजश्रियै नमः ।
ॐ तपस्विराज्यदायिकायै नमः ।
ॐ तपस्विमानसाराध्यायै नमः ।
ॐ तपस्विमानदायिकायै नमः ।
ॐ तपस्वितापसंहर्त्र्यै नमः । १८०
ॐ तपस्वितापशान्तिकृते नमः ।
ॐ तपस्विसिद्धिविद्यायै नमः ।
ॐ तपस्विमन्त्रसिद्धिकृते नमः ।
ॐ तपस्विमन्त्रतन्त्रेश्यै नमः ।
ॐ तपस्विमन्त्ररूपिण्यै नमः ।
ॐ तपस्विमन्त्रनिपुणायै नमः ।
ॐ तपस्विकर्मकारिण्यै नमः ।
ॐ तपस्विकर्मसम्भूतायै नमः ।
ॐ तपस्विकर्मसाक्षिण्यै नमः ।
ॐ तपस्सेव्यायै नमः । १९०
ॐ तपोभव्यायै नमः ।
ॐ तपोभाव्यायै नमः ।
ॐ तपस्स्विन्यै नमः ।
ॐ तपोवश्यायै नमः ।
ॐ तपोगम्यायै नमः ।
ॐ तपोगेहनिवासिन्यै नमः ।
ॐ तपोधन्यायै नमः ।
ॐ तपोमान्यायै नमः ।
ॐ तपःकन्यायै नमः ।
ॐ तपोवृतायै नमः । २००
ॐ तपसे नमः ।
ॐ तथ्यायै नमः ।
ॐ तपोगोप्यायै नमः ।
ॐ तपोजप्यायै नमः ।
ॐ तपोऽनृतायै नमः ।
ॐ तपस्साध्यायै नमः ।
ॐ तपोऽऽराध्यायै नमः ।
ॐ तपोवन्द्यायै नमः ।
ॐ तपोमय्यै नमः ।
ॐ तपस्सन्ध्यायै नमः । २१०
ॐ तपोवन्द्यायै नमः ।
ॐ तपस्सान्निध्यकारिण्यै नमः ।
ॐ तपोध्येयायै नमः ।
ॐ तपोगेयायै नमः ।
ॐ तपस्तप्तायै नमः ।
ॐ तपोबलायै नमः ।
ॐ तपोलेयायै नमः ।
ॐ तपोदेयायै नमः ।
ॐ तपस्तत्त्वफलप्रदायै नमः ।
ॐ तपोविघ्नवरघ्न्यै नमः । २२०
ॐ तपोविघ्नविनाशिन्यै नमः ।
ॐ तपोविघ्नचयध्वंस्यै नमः ।
ॐ तपोविघ्नभयङ्कर्यै नमः ।
ॐ तपोभूमिवरप्राणायै नमः ।
ॐ तपोभूमिपतिस्तुतायै नमः ।
ॐ तपोभूमिपतिध्येयायै नमः ।
ॐ तपोभूमिपतीष्टदायै नमः ।
ॐ तपोवनकुरङ्गस्थायै नमः ।
ॐ तपोवनविनाशिन्यै नमः ।
ॐ तपोवनगतिप्रीतायै नमः । २३०
ॐ तपोवनविहारिण्यै नमः ।
ॐ तपोवनफलासक्तायै नमः ।
ॐ तपोवनफलप्रदायै नमः ।
ॐ तपोवनसुसाध्यायै नमः ।
ॐ तपोवनसुसिद्धिदायै नमः ।
ॐ तपोवनसुसेव्यायै नमः ।
ॐ तपोवननिवासिन्यै नमः ।
ॐ तपोधनसुसंसेव्यायै नमः ।
ॐ तपोधनसुसाधितायै नमः ।
ॐ तपोधनसुसंलीनायै नमः । २४०
ॐ तपोधनमनोमय्यै नमः ।
ॐ तपोधननमस्कारायै नमः ।
ॐ तपोधनविमुक्तिदायै नमः ।
ॐ तपोधनधनासाध्यायै नमः ।
ॐ तपोधनधनात्मिकायै नमः ।
ॐ तपोधनधनाराध्यायै नमः ।
ॐ तपोधनफलप्रदायै नमः ।
ॐ तपोधनधनाढ्यायै नमः ।
ॐ तपोधनधनेश्वर्यै नमः ।
ॐ तपोधनधनप्रीतायै नमः । २५०
ॐ तपोधनधनालयायै नमः ।
ॐ तपोधनजनाकीर्णायै नमः ।
ॐ तपोधनजनाश्रयायै नमः ।
ॐ तपोधनजनाराध्यायै नमः ।
ॐ तपोधनजनप्रसुवे
ॐ तपोधनजनप्राणायै नमः ।
ॐ तपोधनजनेष्टदायै नमः ।
ॐ तपोधनजनासाध्यायै नमः ।
ॐ तपोधनजनेश्वर्यै नमः ।
ॐ तरुणासृक्प्रपन्नार्तायै नमः । २६०
ॐ तरुणासृक्प्रतर्पितायै नमः ।
ॐ तरुणासृक्समुद्रस्थायै नमः ।
ॐ तरुणासृक्प्रहर्षदायै नमः ।
ॐ तरुणासृक्सुसन्तुष्टायै नमः ।
ॐ तरुणासृग्विलेपितायै नमः ।
ॐ तरुणासृङ्नदीप्राणायै नमः ।
ॐ तरुणासृग्विभूषणायै नमः ।
ॐ तरुणैणबलिप्रीतायै नमः ।
ॐ तरुणैणबलिप्रियायै नमः ।
ॐ तरुणैणबलिप्राणायै नमः । २७०
ॐ तरुणैणबलीष्टदायै नमः ।
ॐ तरुणाजबलिप्रीतायै नमः ।
ॐ तरुणाजबलिप्रियायै नमः ।
ॐ तरुणाजबलिघ्राणायै नमः ।
ॐ तरुणाजबलिप्रभुजे नमः ।
ॐ तरुणादित्यसङ्काशायै नमः ।
ॐ तरुणादित्यविग्रहायै नमः ।
ॐ तरुणादित्यरुचिरायै नमः ।
ॐ तरुणादित्यनिर्मलायै नमः ।
ॐ तरुणादित्यनिलयायै नमः । २८०
ॐ तरुणादित्यमण्डलायै नमः ।
ॐ तरुणादित्यललितायै नमः ।
ॐ तरुणादित्यकुण्डलायै नमः ।
ॐ तरुणार्कसमज्योत्स्नायै नमः ।
ॐ तरुणार्कसमप्रभायै नमः ।
ॐ तरुणार्कप्रतीकाशायै नमः ।
ॐ तरुणार्कप्रवर्धितायै नमः ।
ॐ तरुणारुणनेत्रायै नमः ।
ॐ तरुणारुणलोचनायै नमः ।
ॐ तरुणारुणगात्रायै नमः । २९०
ॐ तरुणारुणभूषणायै नमः ।
ॐ तरुणीदत्तसङ्केतायै नमः ।
ॐ तरुणीदत्तभूषणायै नमः ।
ॐ तरुणीगणसन्तुष्टायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तरुणीमण्यै नमः ।
ॐ तरुणीमणिसंसेव्यायै नमः ।
ॐ तरुणीमणिवन्दितायै नमः ।
ॐ तरुणीमणिसन्तुष्टायै नमः ।
ॐ तरुणीमणिपूजितायै नमः । ३००
ॐ तरुणीवृन्दसंवन्द्यायै नमः ।
ॐ तरुणीवृन्दवन्दितायै नमः ।
ॐ तरुणीवृन्दसंस्तुत्यायै नमः ।
ॐ तरुणीवृन्दमानदायै नमः ।
ॐ तरुणीवृन्दमध्यस्थायै नमः ।
ॐ तरुणीवृन्दवेष्टितायै नमः ।
ॐ तरुणीवृन्दसम्प्रीतायै नमः ।
ॐ तरुणीवृन्दभूषितायै नमः ।
ॐ तरुणीजपसंसिद्धायै नमः ।
ॐ तरुणीजपमोक्षदायै नमः । ३१०
ॐ तरुणीपूजकासक्तायै नमः ।
ॐ तरुणीपूजकार्थिन्यै नमः ।
ॐ तरुणीपूजकश्रीदायै नमः ।
ॐ तरुणीपूजकार्तिहायै नमः ।
ॐ तरुणीपूजकप्राणायै नमः ।
ॐ तरुणीनिन्दकार्तिदायै नमः ।
ॐ तरुणीकोटिनिलयायै नमः ।
ॐ तरुणीकोटिविग्रहायै नमः ।
ॐ तरुणीकोटिमध्यस्थायै नमः ।
ॐ तरुणीकोटिवेष्टितायै नमः । ३२०
ॐ तरुणीकोटिदुस्साध्यायै नमः ।
ॐ तरुणीकोटिविग्रहायै नमः ।
ॐ तरुणीकोटिरुचिरायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तरुणीश्वर्यै नमः ।
ॐ तरुणीमणिहाराढ्यायै नमः ।
ॐ तरुणीमणिकुण्डलायै नमः ।
ॐ तरुणीमणिसन्तुष्टायै नमः ।
ॐ तरुणीमणिमण्डितायै नमः ।
ॐ तरुणीसरणीप्रीतायै नमः । ३३०
ॐ तरुणीसरणीरतायै नमः ।
ॐ तरुणीसरणीस्थानायै नमः ।
ॐ तरुणीसरणीमतायै नमः ।
ॐ तरणीमण्डलश्रीदायै नमः ।
ॐ तरणीमण्डलेश्वर्यै नमः ।
ॐ तरणीमण्डलश्रद्धायै नमः ।
ॐ तरणीमण्डलस्थितायै नमः ।
ॐ तरणीमण्डलार्घ्याढ्यायै नमः ।
ॐ तरणीमण्डलार्चितायै नमः ।
ॐ तरणीमण्डलध्येयायै नमः । ३४०
ॐ तरणीभवसागरायै नमः ।
ॐ तरणीकारणासक्तायै नमः ।
ॐ तरणीतक्षकार्चितायै नमः ।
ॐ तरणीतक्षकश्रीदायै नमः ।
ॐ तरणीतक्षकार्थिन्यै नमः ।
ॐ तर्यै नमः ।
ॐ तरणशीलायै नमः ।
ॐ तरीतरणतारिण्यै नमः ।
ॐ तरीतरणसंवेद्यायै नमः ।
ॐ तरीतरणकारिण्यै नमः । ३५०
ॐ तरुरूपायै नमः ।
ॐ तरूपस्थायै नमः ।
ॐ तरवे नमः ।
ॐ तरुलतामय्यै नमः ।
ॐ तरुरूपायै नमः ।
ॐ तरुस्थायै नमः ।
ॐ तरुमध्यनिवासिन्यै नमः ।
ॐ तप्तकाञ्चनगेहस्थायै नमः ।
ॐ तप्तकाञ्चनभूमिकायै नमः ।
ॐ तप्तकाञ्चनप्राकारायै नमः । ३६०
ॐ तप्तकाञ्चनपादुकायै नमः ।
ॐ तप्तकाञ्चनदीप्ताङ्ग्यै नमः ।
ॐ तप्तकाञ्चनसन्निभायै नमः ।
ॐ तप्तकाञ्चनगौराङ्ग्यै नमः ।
ॐ तप्तकाञ्चनमञ्चगायै नमः ।
ॐ तप्तकाञ्चनवस्त्राढ्यायै नमः ।
ॐ तप्तकाञ्चनरूपिण्यै नमः ।
ॐ तप्तकाञ्चनमध्यस्थायै नमः ।
ॐ तप्तकाञ्चनकारिण्यै नमः ।
ॐ तप्तकाञ्चनमासार्च्यायै नमः । ३७०
ॐ तप्तकाञ्चनपात्रभुजे नमः ।
ॐ तप्तकाञ्चनशैलस्थायै नमः ।
ॐ तप्तकाञ्चनकुण्डलायै नमः ।
ॐ तप्तकाञ्चनक्षेत्राढ्यायै नमः ।
ॐ तप्तकाञ्चनदण्डधृषे नमः ।
ॐ तप्तकाञ्चनभूषाढ्यायै नमः ।
ॐ तप्तकाञ्चनदानदायै नमः ।
ॐ तप्तकाञ्चनदेवेश्यै नमः ।
ॐ तप्तकाञ्चनचापधृषे नमः ।
ॐ तप्तकाञ्चनतूणाढ्यायै नमः । ३८०
ॐ तप्तकाञ्चनबाणभृते
ॐ तलातलविधात्र्यै नमः ।
ॐ तलातलविधायिन्यै नमः ।
ॐ तलातलस्वरूपेश्यै नमः ।
ॐ तलातलविहारिण्यै नमः ।
ॐ तलातलजनासाध्यायै नमः ।
ॐ तलातलजनेश्वर्यै नमः ।
ॐ तलातलजनाराध्यायै नमः ।
ॐ तलातलजनार्थदायै नमः ।
ॐ तलातलजयाभाक्ष्यै नमः । ३९०
ॐ तलातलजचञ्चलायै नमः ।
ॐ तलातलजरत्नाढ्यायै नमः ।
ॐ तलातलजदेवतायै नमः ।
ॐ तटिनीस्थानरसिकायै नमः ।
ॐ तटिनीतटवासिन्यै नमः ।
ॐ तटिन्यै नमः ।
ॐ तटिनीतीरगामिन्यै नमः ।
ॐ तटिनीप्रियायै नमः ।
ॐ तटिनीप्लवनप्रीतायै नमः ।
ॐ तटिनीप्लवनोद्यतायै नमः । ४००
ॐ तटिनीप्लवनश्लाघ्यायै नमः ।
ॐ तटिनीप्लवनार्थदायै नमः ।
ॐ तटलास्यायै नमः ।
ॐ तटस्थानायै नमः ।
ॐ तटेश्यै नमः ।
ॐ तटवासिन्यै नमः ।
ॐ तटपूज्यायै नमः ।
ॐ तटाराध्यायै नमः ।
ॐ तटरोममुखार्थिन्यै नमः ।
ॐ तटजायै नमः । ४१०
ॐ तटरूपायै नमः ।
ॐ तटस्थायै नमः ।
ॐ तटचञ्चलायै नमः ।
ॐ तटसन्निधिगेहस्थासहितायै नमः ।
ॐ तटशायिन्यै नमः ।
ॐ तरङ्गिण्यै नमः ।
ॐ तरङ्गाभायै नमः ।
ॐ तरङ्गायतलोचनायै नमः ।
ॐ तरङ्गसमदुर्धर्षायै नमः ।
ॐ तरङ्गसमचञ्चलायै नमः । ४२०
ॐ तरङ्गसमदीर्घाङ्ग्यै नमः ।
ॐ तरङ्गसमवर्धितायै नमः ।
ॐ तरङ्गसमसंवृद्धये नमः ।
ॐ तरङ्गसमनिर्मलायै नमः ।
ॐ तडागमध्यनिलयायै नमः ।
ॐ तडागमध्यसम्भवायै नमः ।
ॐ तडागरचनश्लाघ्यायै नमः ।
ॐ तडागरचनोद्यतायै नमः ।
ॐ तडागकुमुदामोद्यै नमः ।
ॐ तडागेश्यै नमः । ४३०
ॐ तडागिन्यै नमः ।
ॐ तडागनीरसंस्नातायै नमः ।
ॐ तडागनीरनिर्मलायै नमः ।
ॐ तडागकमलागारायै नमः ।
ॐ तडागकमलालयायै नमः ।
ॐ तडागकमलान्तस्स्थायै नमः ।
ॐ तडागकमलोद्यतायै नमः ।
ॐ तडागकमलाङ्ग्यै नमः ।
ॐ तडागकमलाननायै नमः ।
ॐ तडागकमलप्राणायै नमः । ४४०
ॐ तडागकमलेक्षणायै नमः ।
ॐ तडागरक्तपद्मस्थायै नमः ।
ॐ तडागश्वेतपद्मगायै नमः ।
ॐ तडागनीलपद्माभायै नमः ।
ॐ तडागनीलपद्मभृते नमः ।
ॐ तन्वै नमः ।
ॐ तनुगतायै नमः ।
ॐ तन्व्यै नमः ।
ॐ तन्वङ्ग्यै नमः ।
ॐ तनुधारिण्यै नमः । ४५०
ॐ तनुरूपायै नमः ।
ॐ तनुगतायै नमः ।
ॐ तनुधृषे नमः ।
ॐ तनुरूपिण्यै नमः ।
ॐ तनुस्थायै नमः ।
ॐ तनुमध्याङ्ग्यै नमः ।
ॐ तनुकृते नमः ।
ॐ तनुमङ्गलायै नमः ।
ॐ तनुसेव्यायै नमः ।
ॐ तनुजायै नमः । ४६०
ॐ तनुजातनुसम्भवायै नमः ।
ॐ तनुभृते नमः ।
ॐ तनुसम्भूतायै नमः ।
ॐ तनुदायै नमः ।
ॐ तनुकारिण्यै नमः ।
ॐ तनुभृते नमः ।
ॐ तनुसंहन्त्र्यै नमः ।
ॐ तनुसञ्चारकारिण्यै नमः ।
ॐ तथ्यवाचे नमः ।
ॐ तथ्यवचनायै नमः । ४७०
ॐ तथ्यकृते नमः ।
ॐ तथ्यवादिन्यै नमः ।
ॐ तथ्यभृते नमः ।
ॐ तथ्यचरितायै नमः ।
ॐ तथ्यधर्मानुवर्तिन्यै नमः ।
ॐ तथ्यभुजे नमः ।
ॐ तथ्यगमनायै नमः ।
ॐ तथ्यभक्तिवरप्रदायै नमः ।
ॐ तथ्यनीचेश्वर्यै नमः ।
ॐ तथ्यचित्ताचाराशुसिद्धिदायै नमः । ४८०
ॐ तर्क्यायै नमः ।
ॐ तर्क्यस्वभावायै नमः ।
ॐ तर्कदायै नमः ।
ॐ तर्ककृते नमः ।
ॐ तर्काध्यापनमध्यस्थायै नमः ।
ॐ तर्काध्यापनकारिण्यै नमः ।
ॐ तर्काध्यापनसन्तुष्टायै नमः ।
ॐ तर्काध्यापनरूपिण्यै नमः ।
ॐ तर्काध्यापनसंशीलायै नमः ।
ॐ तर्कार्थप्रतिपादितायै नमः । ४९०
ॐ तर्काध्यापनसन्तृप्तायै नमः ।
ॐ तर्कार्थप्रतिपादिन्यै नमः ।
ॐ तर्कवादाश्रितपदायै नमः ।
ॐ तर्कवादविवर्धिन्यै नमः ।
ॐ तर्कवादैकनिपुणायै नमः ।
ॐ तर्कवादप्रचारिण्यै नमः ।
ॐ तमालदलश्यामाङ्ग्यै नमः ।
ॐ तमालदलमालिन्यै नमः ।
ॐ तमालवनसङ्केतायै नमः ।
ॐ तमालपुष्पपूजितायै नमः । ५००
ॐ तगर्यै नमः ।
ॐ तगराराध्यायै नमः ।
ॐ तगरार्चितपादुकायै नमः ।
ॐ तगरस्रक्सुसन्तुष्टायै नमः ।
ॐ तगरस्रग्विराजितायै नमः ।
ॐ तगराहुतिसन्तुष्टायै नमः ।
ॐ तगराहुतिकीर्तिदायै नमः ।
ॐ तगराहुतिसंसिद्धायै नमः ।
ॐ तगराहुतिमानदायै नमः ।
ॐ तडिते नमः । ५१०
ॐ तडिल्लताकारायै नमः ।
ॐ तडिच्चञ्चललोचनायै नमः ।
ॐ तडिल्लतायै नमः ।
ॐ तडित्तन्व्यै नमः ।
ॐ तडिद्दीप्तायै नमः ।
ॐ तडित्प्रभायै नमः ।
ॐ तद्रूपायै नमः ।
ॐ तत्स्वरूपेश्यै नमः ।
ॐ तन्मय्यै नमः ।
ॐ तत्त्वरूपिण्यै नमः । ५२०
ॐ तत्स्थानदाननिरतायै नमः ।
ॐ तत्कर्मफलदायिन्यै नमः ।
ॐ तत्त्वकृते नमः ।
ॐ तत्त्वदायै नमः ।
ॐ तत्त्वायै नमः ।
ॐ तत्त्वविदे नमः ।
ॐ तत्त्वतर्पितायै नमः ।
ॐ तत्त्वार्च्यायै नमः ।
ॐ तत्त्वपूज्यायै नमः ।
ॐ तत्त्वार्घ्यायै नमः । ५३०
ॐ तत्त्वरूपिण्यै नमः ।
ॐ तत्त्वज्ञानप्रदानेश्यै नमः ।
ॐ तत्त्वज्ञानसुमोक्षदायै नमः ।
ॐ त्वरितायै नमः ।
ॐ त्वरितप्रीतायै नमः ।
ॐ त्वरितार्तिविनाशिन्यै नमः ।
ॐ त्वरितासवसन्तुष्टायै नमः ।
ॐ त्वरितासवतर्पितायै नमः ।
ॐ त्वग्वस्त्रायै नमः ।
ॐ त्वक्परीधानायै नमः । ५४०
ॐ तरलायै नमः ।
ॐ तरलेक्षणायै नमः ।
ॐ तरक्षुचर्मवसनायै नमः ।
ॐ तरक्षुत्वग्विभूषणायै नमः ।
ॐ तरक्षवे नमः ।
ॐ तरक्षुप्राणायै नमः ।
ॐ तरक्षुपृष्ठगामिन्यै नमः ।
ॐ तरक्षुपृष्ठसंस्थानायै नमः ।
ॐ तरक्षुपृष्ठवासिन्यै नमः ।
ॐ उदैस्तर्पितायै नमः । ५५०
ॐ तर्पणाशायै नमः ।
ॐ तर्पणासक्तमानसायै नमः ।
ॐ तर्पणानन्दहृदयायै नमः ।
ॐ तर्पणाधिपतये नमः ।
ॐ ततये नमः ।
ॐ त्रयीमय्यै नमः ।
ॐ त्रयीसेव्यायै नमः ।
ॐ त्रयीपूज्यायै नमः ।
ॐ त्रयीकथायै नमः ।
ॐ त्रयीभव्यायै नमः । ५६०
ॐ त्रयीभाव्यायै नमः ।
ॐ त्रयीहव्यायै नमः ।
ॐ त्रयीयुतायै नमः ।
ॐ त्र्यक्षर्यै नमः ।
ॐ त्र्यक्षरेशान्यै नमः ।
ॐ त्र्यक्षरीशीघ्रसिद्धिदायै नमः ।
ॐ त्र्यक्षरेश्यै नमः ।
ॐ त्र्यक्षरीस्थायै नमः ।
ॐ त्र्यक्षरीपुरुषास्पदायै नमः ।
ॐ तपनायै नमः । ५७०
ॐ तपनेष्टायै नमः ।
ॐ तपसे नमः ।
ॐ तपनकन्यकायै नमः ।
ॐ तपनांशुसमासह्यायै नमः ।
ॐ तपनकोटिकान्तिभृते नमः ।
ॐ तपनीयायै नमः ।
ॐ तल्पगतायै नमः ।
ॐ तल्पायै नमः ।
ॐ तल्पविधायिन्यै नमः ।
ॐ तल्पकृते नमः । ५८०
ॐ तल्पगायै नमः ।
ॐ तल्पदात्र्यै नमः ।
ॐ तल्पलताश्रयायै नमः ।
ॐ तपनीयलतारात्र्यै नमः ।
ॐ तपनीयांशुप्रार्थिन्यै नमः ।
ॐ तपनीयप्रदायै नमः ।
ॐ तप्तायै नमः ।
ॐ तपनीयाद्रिसंस्थितायै नमः ।
ॐ तल्पेश्यै नमः ।
ॐ तल्पदायै नमः । ५९०
ॐ तल्पसंस्थितायै नमः ।
ॐ तल्पवल्लभायै नमः ।
ॐ तल्पप्रियायै नमः ।
ॐ तल्परतायै नमः ।
ॐ तल्पनिर्माणकारिण्यै नमः ।
ॐ तरसापूजनासक्तायै नमः ।
ॐ तरसावरदायिन्यै नमः ।
ॐ तरसासिद्धिसन्धात्र्यै नमः ।
ॐ तरसामोक्षदायिन्यै नमः ।
ॐ तापस्यै नमः । ६००
ॐ तापसाराध्यायै नमः ।
ॐ तापसार्तिविनाशिन्यै नमः ।
ॐ तापसार्तायै नमः ।
ॐ तापसश्रियै नमः ।
ॐ तापसप्रियवादिन्यै नमः ।
ॐ तापसानन्दहृदयायै नमः ।
ॐ तापसानन्ददायिन्यै नमः ।
ॐ तापसाश्रितपादाब्जायै नमः ।
ॐ तापसासक्तमानसायै नमः ।
ॐ तामस्यै नमः । ६१०
ॐ तामसीपूज्यायै नमः ।
ॐ तामसीप्रणयोत्सुकायै नमः ।
ॐ तामस्यै नमः ।
ॐ तामसीप्रीतायै नमः ।
ॐ तामसीशीघ्रसिद्धिदायै नमः ।
ॐ तालेश्यै नमः ।
ॐ तालभुजे नमः ।
ॐ तालदात्र्यै नमः ।
ॐ तालोपमस्तन्यै नमः ।
ॐ तालवृक्षस्थितायै नमः । ६२०
ॐ तालवृक्षजायै नमः ।
ॐ तालरूपिण्यै नमः ।
ॐ तार्क्ष्यायै नमः ।
ॐ तार्क्ष्यसमारूढायै नमः ।
ॐ तार्क्ष्येश्यै नमः ।
ॐ तार्क्ष्यपूजितायै नमः ।
ॐ तार्क्ष्येश्वर्यै नमः ।
ॐ तार्क्ष्यमात्रे नमः ।
ॐ तार्क्ष्येशीवरदायिन्यै नमः ।
ॐ ताप्यै नमः । ६३०
ॐ तपिन्यै नमः ।
ॐ तापसंहन्त्र्यै नमः ।
ॐ तापनाशिन्यै नमः ।
ॐ तापदात्र्यै नमः ।
ॐ तापकर्त्र्यै नमः ।
ॐ तापविध्वंसकारिण्यै नमः ।
ॐ त्रासकर्त्र्यै नमः ।
ॐ त्रासदात्र्यै नमः ।
ॐ त्रासहर्त्र्यै नमः ।
ॐ त्रासहायै नमः । ६४०
ॐ त्रासितायै नमः ।
ॐ त्रासरहितायै नमः ।
ॐ त्रासनिर्मूलकारिण्यै नमः ।
ॐ त्राणकृते नमः ।
ॐ त्राणसंशीलायै नमः ।
ॐ तानेश्यै नमः ।
ॐ तानदायिन्यै नमः ।
ॐ तानगानरतायै नमः ।
ॐ तानकारिण्यै नमः ।
ॐ तानगायिन्यै नमः । ६५०
ॐ तारुण्यामृतसम्पूर्णायै नमः ।
ॐ तारुण्यामृतवारिध्यै नमः ।
ॐ तारुण्यामृतसन्तुष्टायै नमः ।
ॐ तारुण्यामृततर्पितायै नमः ।
ॐ तारुण्यामृतपूर्णाङ्ग्यै नमः ।
ॐ तारुण्यामृतविग्रहायै नमः ।
ॐ तारुण्यगुणसम्पन्नायै नमः ।
ॐ तारुण्योक्तिविशारदायै नमः ।
ॐ ताम्बूल्यै नमः ।
ॐ ताम्बुलेशान्यै नमः । ६६०
ॐ ताम्बूलचर्वणोद्यतायै नमः ।
ॐ ताम्बूलपूरितास्यायै नमः ।
ॐ ताम्बूलारुणिताधरायै नमः ।
ॐ ताटङ्करत्नविख्यात्यै नमः ।
ॐ ताटङ्करत्नभूषिण्यै नमः ।
ॐ ताटङ्करत्नमध्यस्थायै नमः ।
ॐ ताटङ्कद्वयभूषितायै नमः ।
ॐ तिथीशायै नमः ।
ॐ तिथिसम्पूज्यायै नमः ।
ॐ तिथिस्थायै नमः । ६७०
ॐ तिथिरूपिण्यै नमः ।
ॐ तिथित्रितयवास्तव्यायै नमः ।
ॐ तिथीशवरदायिन्यै नमः ।
ॐ तिलोत्तमादिकाराध्यायै नमः ।
ॐ तिलोत्तमादिकप्रभायै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ तिलप्रेक्षायै नमः ।
ॐ तिलाराध्यायै नमः ।
ॐ तिलार्चितायै नमः ।
ॐ तिलभुजे नमः । ६८०
ॐ तिलसन्दात्र्यै नमः ।
ॐ तिलतुष्टायै नमः ।
ॐ तिलालयायै नमः ।
ॐ तिलदायै नमः ।
ॐ तिलसङ्काशायै नमः ।
ॐ तिलतैलविधायिन्यै नमः ।
ॐ तिलतैलोपलिप्ताङ्ग्यै नमः ।
ॐ तिलतैलसुगन्धिन्यै नमः ।
ॐ तिलाज्यहोमसन्तुष्टायै नमः ।
ॐ तिलाज्यहोमसिद्धिदायै नमः । ६९०
ॐ तिलपुष्पाञ्जलिप्रीतायै नमः ।
ॐ तिलपुष्पाञ्जलिप्रियायै नमः ।
ॐ तिलपुष्पाञ्जलिश्रेष्ठायै नमः ।
ॐ तिलपुष्पाभनासिन्यै नमः ।
ॐ तिलकाश्रितसिन्दूरायै नमः ।
ॐ तिलकाङ्कितचन्दनायै नमः ।
ॐ तिलकाहृतकस्तूर्यै नमः ।
ॐ तिलकामोदमोहिन्यै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ त्रिगुणाकारायै नमः । ७००
ॐ त्रिगुणान्वितविग्रहायै नमः ।
ॐ त्रिगुणाकारविख्यातायै नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मिकायै नमः ।
ॐ त्रिशिरसे नमः ।
ॐ त्रिपुरेशान्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिपुरेश्वर्यै नमः ।
ॐ त्रिपुरेश्यै नमः ।
ॐ त्रिलोकस्थायै नमः । ७१०
ॐ त्रिपुर्यै नमः ।
ॐ त्रिपुराम्बिकायै नमः ।
ॐ त्रिपुरारिसमाराध्यायै नमः ।
ॐ त्रिपुरारिवरप्रदायै नमः ।
ॐ त्रिपुरारिशिरोभूषायै नमः ।
ॐ त्रिपुरारिसुखप्रदायै नमः ।
ॐ त्रिपुरारीष्टसन्दात्र्यै नमः ।
ॐ त्रिपुरारीष्टदेवतायै नमः ।
ॐ त्रिपुरारिकृतार्धाङ्ग्यै नमः ।
ॐ त्रिपुरारिविलासिन्यै नमः । ७२०
ॐ त्रिपुरासुरसंहन्त्र्यै नमः ।
ॐ त्रिपुरासुरमर्दिन्यै नमः ।
ॐ त्रिपुरासुरसंसेव्यायै नमः ।
ॐ त्रिपुरासुरवर्यपायै नमः ।
ॐ त्रिकूटायै नमः ।
ॐ त्रिकुटाराध्यायै नमः ।
ॐ त्रिकूटार्चितविग्रहायै नमः ।
ॐ त्रिकूटाचलमध्यस्थायै नमः ।
ॐ त्रिकूटाचलवासिन्यै नमः ।
ॐ त्रिकूटाचलसञ्जातायै नमः । ७३०
ॐ त्रिकूटाचलनिर्गतायै नमः ।
ॐ त्रिजटायै नमः ।
ॐ त्रिजटेशान्यै नमः ।
ॐ त्रिजटावरदायिन्यै नमः ।
ॐ त्रिनेत्रेश्यै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ त्रिनेत्रवरवर्णिन्यै नमः ।
ॐ त्रिवल्यै नमः ।
ॐ त्रिवलीयुक्तायै नमः ।
ॐ त्रिशूलवरधारिण्यै नमः । ७४०
ॐ त्रिशूलेश्यै नमः ।
ॐ त्रिशूलीश्यै नमः ।
ॐ त्रिशूलभृते नमः ।
ॐ त्रिशूलिन्यै नमः ।
ॐ त्रिमनवे नमः ।
ॐ त्रिमनूपास्यायै नमः ।
ॐ त्रिमनूपासकेश्वर्यै नमः ।
ॐ त्रिमनुजपसन्तुष्टायै नमः ।
ॐ त्रिमनोस्तूर्णसिद्धिदायै नमः ।
ॐ त्रिमनुपूजनप्रीतायै नमः । ७५०
ॐ त्रिमनुध्यानमोक्षदायै नमः ।
ॐ त्रिविधायै नमः ।
ॐ त्रिविधाभक्त्यै नमः ।
ॐ त्रिमतायै नमः ।
ॐ त्रिमतेश्वर्यै नमः ।
ॐ त्रिभावस्थायै नमः ।
ॐ त्रिभावेश्यै नमः ।
ॐ त्रिभावपरिपूरितायै नमः ।
ॐ त्रितत्त्वात्मने नमः ।
ॐ त्रितत्त्वेश्यै नमः । ७६०
ॐ त्रितत्त्वज्ञायै नमः ।
ॐ त्रितत्त्वधृषे नमः ।
ॐ त्रितत्त्वाचमनप्रीतायै नमः ।
ॐ त्रितत्त्वाचमनेष्टदायै नमः ।
ॐ त्रिकोणस्थायै नमः ।
ॐ त्रिकोणेश्यै नमः ।
ॐ त्रिकोणचक्रवासिन्यै नमः ।
ॐ त्रिकोणचक्रमध्यस्थायै नमः ।
ॐ त्रिकोणबिन्दुरूपिण्यै नमः ।
ॐ त्रिकोणयन्त्रसंस्थानायै नमः । ७७०
ॐ त्रिकोणयन्त्ररूपिण्यै नमः ।
ॐ त्रिकोणयन्त्रसम्पूज्यायै नमः ।
ॐ त्रिकोणयन्त्रसिद्धिदायै नमः ।
ॐ त्रिवर्णाढ्यायै नमः ।
ॐ त्रिवर्णेश्यै नमः ।
ॐ त्रिवर्णोपासिरूपिण्यै नमः ।
ॐ त्रिवर्णस्थायै नमः ।
ॐ त्रिवर्णाढ्यायै नमः ।
ॐ त्रिवर्णवरदायिन्यै नमः ।
ॐ त्रिवर्णाद्यायै नमः । ७८०
ॐ त्रिवर्णार्च्यायै नमः ।
ॐ त्रिवर्गफलदायिन्यै नमः ।
ॐ त्रिवर्गाढ्यायै नमः ।
ॐ त्रिवर्गेश्यै नमः ।
ॐ त्रिवर्गाद्यफलप्रदायै नमः ।
ॐ त्रिसन्ध्यार्च्यायै नमः ।
ॐ त्रिसन्ध्येश्यै नमः ।
ॐ त्रिसन्ध्याराधनेष्टदायै नमः ।
ॐ त्रिसन्ध्यार्चनसन्तुष्टायै नमः ।
ॐ त्रिसन्ध्याजपमोक्षदायै नमः । ७९०
ॐ त्रिपदाराधितपदायै नमः ।
ॐ त्रिपदायै नमः ।
ॐ त्रिपदेश्वर्यै नमः ।
ॐ त्रिपदाप्रतिपाद्येश्यै नमः ।
ॐ त्रिपदाप्रतिपादिकायै नमः ।
ॐ त्रिशक्त्यै नमः ।
ॐ त्रिशक्तीश्यै नमः ।
ॐ त्रिशक्तेष्टफलप्रदायै नमः ।
ॐ त्रिशक्तेष्टायै नमः ।
ॐ त्रिशक्तीष्टायै नमः । ८००
ॐ त्रिशक्तिपरिवेष्टितायै नमः ।
ॐ त्रिवेण्यै नमः ।
ॐ त्रिवेणीस्त्रियै नमः ।
ॐ त्रिवेणीमाधवार्चितायै नमः ।
ॐ त्रिवेणीजलसन्तुष्टायै नमः ।
ॐ त्रिवेणीस्नानपुण्यदायै नमः ।
ॐ त्रिवेणीजलसंस्नातायै नमः ।
ॐ त्रिवेणीजलरूपिण्यै नमः ।
ॐ त्रिवेणीजलपूताङ्ग्यै नमः ।
ॐ त्रिवेणीजलपूजितायै नमः । ८१०
ॐ त्रिनाडीस्थायै नमः ।
ॐ त्रिनाडीश्यै नमः ।
ॐ त्रिनाडीमध्यगामिन्यै नमः ।
ॐ त्रिनाडीसन्ध्यसञ्छ्रेयायै नमः ।
ॐ त्रिनाड्यै नमः ।
ॐ त्रिकोटिन्यै नमः ।
ॐ त्रिपञ्चाशते नमः ।
ॐ त्रिरेखायै नमः ।
ॐ त्रिशक्तिपथगामिन्यै नमः ।
ॐ त्रिपथस्थायै नमः । ८२०
ॐ त्रिलोकेश्यै नमः ।
ॐ त्रिकोटिकुलमोक्षदायै नमः ।
ॐ त्रिरामेश्यै नमः ।
ॐ त्रिरामार्च्यायै नमः ।
ॐ त्रिरामवरदायिन्यै नमः ।
ॐ त्रिदशाश्रितपादाब्जायै नमः ।
ॐ त्रिदशालयचञ्चलायै नमः ।
ॐ त्रिदशायै नमः ।
ॐ त्रिदशप्रार्थ्यायै नमः ।
ॐ त्रिदशाशुवरप्रदायै नमः । ८३०
ॐ त्रिदशैश्वर्यसम्पन्नायै नमः ।
ॐ त्रिदशेश्वरसेवितायै नमः ।
ॐ त्रियामार्च्यायै नमः ।
ॐ त्रियामेश्यै नमः ।
ॐ त्रियामानन्तसिद्धिदायै नमः ।
ॐ त्रियामेशाधिकज्योत्स्नायै नमः ।
ॐ त्रियामेशाधिकाननायै नमः ।
ॐ त्रियामानाथवत्सौम्यायै नमः ।
ॐ त्रियामानाथभूषणायै नमः ।
ॐ त्रियामानाथलावण्यरत्नटियुताननायै नमः । ८४०
ॐ त्रिकालस्थायै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिकालज्ञत्वकारिण्यै नमः ।
ॐ त्रिकालेश्यै नमः ।
ॐ त्रिकालार्च्यायै नमः ।
ॐ त्रिकालज्ञत्वदायिन्यै नमः ।
ॐ तीरभुजे नमः ।
ॐ तीरगायै नमः ।
ॐ तीरसरितायै नमः ।
ॐ तीरवासिन्यै नमः । ८५०
ॐ तीरभुग्देशसञ्जातायै नमः ।
ॐ तीरभुग्देशसंस्थितायै नमः ।
ॐ तिग्मायै नमः ।
ॐ तिग्मांशुसङ्काशायै नमः ।
ॐ तिग्मांशुक्रोडसंस्थितायै नमः ।
ॐ तिग्मांशुकोटिदीप्ताङ्ग्यै नमः ।
ॐ तिग्मांशुकोटिविग्रहायै नमः ।
ॐ तीक्ष्णायै नमः ।
ॐ तीक्ष्णतरायै नमः ।
ॐ तीक्ष्णमहिषासुरसंस्थितायै नमः । ८६०
तीक्ष्णकर्त्रीलसत्पाणये
ॐ तीक्ष्णासिवरधारिण्यै नमः ।
ॐ तीव्रायै नमः ।
ॐ तीव्रगतये नमः ।
ॐ तीव्रासुरसङ्घविनाशिन्यै नमः ।
ॐ तीव्राष्टनागाभरणायै नमः ।
ॐ तीव्रमुण्डविभूषणायै नमः ।
ॐ तीर्थात्मिकायै नमः ।
ॐ तीर्थमय्यै नमः ।
ॐ तीर्थेश्यै नमः । ८७०
ॐ तीर्थपूजितायै नमः ।
ॐ तीर्थराजेश्वर्यै नमः ।
ॐ तीर्थफलदायै नमः ।
ॐ तीर्थदानदायै नमः ।
ॐ तुमुल्यै नमः ।
ॐ तुमुलप्राज्ञ्यै नमः ।
ॐ तुमुलासुरघातिन्यै नमः ।
ॐ तुमुलक्षतजप्रीतायै नमः ।
ॐ तुमुलाङ्गणनर्तक्यै नमः ।
ॐ तुरग्यै नमः । ८८०
ॐ तुरगारूढायै नमः ।
ॐ तुरङ्गपृष्ठगामिन्यै नमः ।
ॐ तुरङ्गगमनाह्लादायै नमः ।
ॐ तुरङ्गवेगगामिन्यै नमः ।
ॐ तुरीयायै नमः ।
ॐ तुलनायै नमः ।
ॐ तुल्यायै नमः ।
ॐ तुल्यवृत्तये नमः ।
ॐ तुल्यकृते नमः ।
ॐ तुलनेश्यै नमः । ८९०
ॐ तुलाराज्ञ्यै नमः ।
ॐ तुलाराज्ञीत्वसूक्ष्मविदे नमः ।
ॐ तुम्बिकायै नमः ।
ॐ तुम्बिकापात्रभोजनायै नमः ।
ॐ तुम्बिकार्थिन्यै नमः ।
ॐ तुलस्यै नमः ।
ॐ तुलसीवर्यायै नमः ।
ॐ तुलजायै नमः ।
ॐ तुलजेश्वर्यै नमः ।
ॐ तुषाग्निव्रतसन्तुष्टायै नमः । ९००
ॐ तुषाग्नये नमः ।
ॐ तुषराशिकृते नमः ।
ॐ तुषारकरशीताङ्ग्यै नमः ।
तुषारकरपूर्तिकृते
ॐ तुषाराद्रये नमः ।
ॐ तुषाराद्रिसुतायै नमः ।
ॐ तुहिनदीधितये नमः ।
ॐ तुहिनाचलकन्यायै नमः ।
ॐ तुहिनाचलवासिन्यै नमः ।
ॐ तुर्यवर्गेश्वर्यै नमः । ९१०
ॐ तुर्यवर्गदायै नमः ।
ॐ तुर्यवेददायै नमः ।
ॐ तुर्यवर्यात्मिकायै नमः ।
ॐ तुर्यायै नमः ।
ॐ तुर्येश्वरस्वरूपिण्यै नमः ।
ॐ तुष्टिदायै नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तुष्ट्यै नमः ।
ॐ तूणीरद्वयपृष्ठधृषे नमः ।
ॐ तुम्बुराज्ञानसन्तुष्टायै नमः । ९२०
ॐ तुष्टसंसिद्धिदायिन्यै नमः ।
ॐ तूर्णराज्यप्रदायै नमः ।
ॐ तूर्णगद्गदायै नमः ।
ॐ तूर्णपद्यदायै नमः ।
ॐ तूर्णपाण्डित्यसन्दात्र्यै नमः ।
ॐ तूर्णायै नमः ।
ॐ तूर्णबलप्रदायै नमः ।
ॐ तृतीयायै नमः ।
ॐ तृतीयेश्यै नमः ।
ॐ तृतीयातिथिपूजितायै नमः । ९३०
ॐ तृतीयाचन्द्रचूडेश्यै नमः ।
ॐ तृतीयाचन्द्रभूषणायै नमः ।
ॐ तृप्त्यै नमः ।
ॐ तृप्तिकर्यै नमः ।
ॐ तृप्तायै नमः ।
ॐ तृष्णायै नमः ।
ॐ तृष्णाविवर्धिन्यै नमः ।
ॐ तृष्णापूर्णकर्यै नमः ।
ॐ तृष्णानाशिन्यै नमः ।
ॐ तृषितायै नमः । ९४०
ॐ तृषायै नमः ।
ॐ त्रेतासंसाधितायै नमः ।
ॐ त्रेतायै नमः ।
ॐ त्रेतायुगफलप्रदायै नमः ।
ॐ त्रैलोक्यपूज्यायै नमः ।
ॐ त्रैलोक्यदात्र्यै नमः ।
ॐ त्रैलोक्यसिद्धिदायै नमः ।
ॐ त्रैलोक्येश्वरतादात्र्यै नमः ।
ॐ त्रैलोक्यपरमेश्वर्यै नमः ।
ॐ त्रैलोक्यमोहनेशान्यै नमः । ९५०
ॐ त्रैलोक्यराज्यदायिन्यै नमः ।
ॐ तैत्रिशाखेश्वर्यै नमः ।
ॐ तैत्रिशाखायै नमः ।
ॐ तैत्रविवेकविदे नमः ।
ॐ तोरणान्वितगेहस्थायै नमः ।
ॐ तोरणासक्तमानसायै नमः ।
ॐ तोलकास्वर्णसन्दात्र्यै नमः ।
ॐ तोलकास्वर्णकङ्कणायै नमः ।
ॐ तोमरायुधरूपायै नमः ।
ॐ तोमरायुधधारिण्यै नमः । ९६०
ॐ तौर्यत्रिकेश्वर्यै नमः ।
ॐ तौर्यत्रिक्यै नमः ।
ॐ तौर्यत्रिकोत्सुक्यै नमः ।
ॐ तन्त्रकृते नमः ।
ॐ तन्त्रवत्सूक्ष्मायै नमः ।
ॐ तन्त्रमन्त्रस्वरूपिण्यै नमः ।
ॐ तन्त्रकृते नमः ।
ॐ तन्त्रसम्पूज्यायै नमः ।
ॐ तन्त्रेश्यै नमः ।
ॐ तन्त्रसम्मतायै नमः । ९७०
ॐ तन्त्रज्ञायै नमः ।
ॐ तन्त्रविदे नमः ।
ॐ तन्त्रसाध्यायै नमः ।
ॐ तन्त्रस्वरूपिण्यै नमः ।
ॐ तन्त्रस्थायै नमः ।
ॐ तन्त्रजायै नमः ।
ॐ तन्त्र्यै नमः ।
ॐ तन्त्रभृते नमः ।
ॐ तन्त्रमन्त्रदायै नमः ।
ॐ तन्त्राद्यायै नमः । ९८०
ॐ तन्त्रगायै नमः ।
ॐ तन्त्रायै नमः ।
ॐ तन्त्रार्च्यायै नमः ।
ॐ तन्त्रसिद्धिदायै नमः ।
ॐ तन्त्रविज्ञायै नमः ।
ॐ तन्त्ररतायै नमः ।
ॐ तन्त्रगोप्यायै नमः ।
ॐ तान्त्रिक्यै नमः ।
ॐ तारस्वरेण महितायै नमः ।
ॐ तन्त्राचारफलप्रदायै नमः । ९९०
॥ अपूर्णा तकारादि श्रीतारासहस्रनामावली सम्पूर्णा । मार्गविद्भिः उपासकैः पूरणीया ॥
संलिखित नामावली ग्रंथ
श्री तारा तकारादि सहस्रनामावली — परिचय एवं महत्व (Introduction)
श्री तारा तकारादि सहस्रनामावली (Sri Tara Takaradi Sahasranamavali) तंत्र शास्त्र का एक अत्यंत रहस्यमय और अद्वितीय अर्चन-विधान है। "तकारादि" का अर्थ है— "त" (Ta) अक्षर से आरंभ होने वाला। इस पूरी नामावली में माता तारा के 1000 नाम दिए गए हैं और चमत्कारिक रूप से प्रत्येक नाम 'त' वर्ण (अक्षर) से ही शुरू होता है (जैसे: तारायै नमः, ताररूपिण्यै नमः, त्रिनेत्रायै नमः आदि)।
तकार का रहस्य (Secret of 'Ta' Syllable): तांत्रिक बीज मंत्रों में 'त' वर्ण को 'तारक' या 'तारने वाला' (उद्धार करने वाला) माना गया है। यह भवसागर से पार लगाने वाली ऊर्जा का प्रतीक है। जब साधक एक ही 'त' वर्ण से गुंथे हुए 1000 नामों का क्रमिक उच्चारण करते हुए भगवती को पुष्प या कुमकुम अर्पित करता है, तो एक विशिष्ट नाद-गुंजन (Sound frequency) उत्पन्न होती है, जो मूलाधार से लेकर सहस्रार चक्र तक की नाड़ियों को शुद्ध कर देती है।
त्रिविध ध्यान का समन्वय: इस नामावली की सबसे बड़ी विशेषता इसका प्रारंभिक ध्यान है। इसमें माँ उग्रतारा के तीन अलग-अलग रूपों (सात्त्विक, राजस और तामस) का ध्यान बताया गया है। साधक अपनी मनोकामना (मोक्ष, ऐश्वर्य या शत्रुनाश) के अनुसार भगवती के उस विशिष्ट रूप का मानसिक आवाहन कर सकता है और फिर अर्चन प्रारंभ कर सकता है।
माँ तारा के त्रिविध स्वरूप (The Three Dhyanas)
नामावली के आरंभ (श्लोक 4, 5, 6) में माँ तारा के तीन गुणों (सत्त्व, रज, तम) पर आधारित दिव्य ध्यान दिए गए हैं। इनका ज्ञान हर साधक के लिए परम आवश्यक है:
१. सात्त्विक मूर्ति (Sattvic Form - ज्ञान और मोक्ष के लिए): "श्वेताम्बराढ्यां हंसस्थां..." इसमें माता श्वेत वस्त्र (सफेद) धारण किए हुए हैं, हंस पर विराजमान हैं, उनके 4 मुख और 8 भुजाएं हैं। वे कमंडल, रुद्राक्ष माला, पाश आदि धारण करती हैं। यह रूप शुद्ध ज्ञान (नीलसरस्वती), वाक् सिद्धि और आध्यात्मिक शांति की प्राप्ति के लिए पूजा जाता है।
२. राजस मूर्ति (Rajasic Form - ऐश्वर्य और पालन के लिए): "रक्ताम्बरां रक्तसिंहासनस्थां..." इस रूप में भगवती लाल वस्त्र पहने हुए लाल सिंहासन पर विराजमान हैं। इनका एक मुख और चार भुजाएं हैं जिनमें अक्षमाला, पानपात्र, वर और अभय मुद्रा है। यह रूप सांसारिक समृद्धि, धन, आकर्षण और भौतिक सुखों की वृद्धि के लिए पूजित है।
३. तामस मूर्ति (Tamasic Form - शत्रुनाश और संकट निवारण के लिए): "कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम्..." यह माँ उग्रतारा का सबसे प्रचंड रूप है। वे काले वस्त्रों में नौका (नाव) पर सवार हैं। इनके 9 मुख और 18 भुजाएं हैं, जिनमें खड्ग, परशु, त्रिशूल, वज्र, खट्वांग जैसे संहारक अस्त्र हैं। यह रूप घोर संकटों के नाश, तंत्र-बाधा मुक्ति और शत्रुओं के दमन के लिए है।
तकारादि नामावली के लाभ — फलश्रुति (Benefits of Archana)
इस नामावली से भगवती का 'सहस्रार्चन' (1000 नामों से पूजा) करने से साधक को जीवन के हर क्षेत्र में असीमित लाभ प्राप्त होते हैं:
- ✦वाक् सिद्धि (Power of Eloquence): 'त' वर्ण सरस्वती का भी वाचक है। इसके अर्चन से साधक की वाणी सिद्ध हो जाती है। वह जो कहता है, सत्य हो जाता है और शास्त्रार्थ में अजेय बनता है।
- ✦भवसागर से पार (Crossing the Ocean of Samsara): 'तारा' नाम का अर्थ ही है तारने वाली। 1000 बार 'त' ध्वनि का उच्चारण जीवन के सबसे बड़े संकटों और मृत्यु भय से पार लगा देता है।
- ✦शीघ्र कार्य सिद्धि (Rapid Success): जब किसी कार्य में बार-बार बाधा आ रही हो, तो लाल कनेर के 1000 पुष्पों से इस नामावली द्वारा अर्चन करने से अटका हुआ कार्य तत्काल पूर्ण होता है।
- ✦त्रिगुणात्मक संतुलन (Balance of Three Gunas): सात्त्विक, राजस और तामस—तीनों ध्यानों के कारण साधक के भीतर सत्व (शांति), रजस (क्रियाशीलता) और तमस (दृढ़ता/शौर्य) का उत्कृष्ट संतुलन स्थापित होता है।
- ✦बुद्धि और मेधा का विकास (Intellect Growth): विद्यार्थियों और शोधकर्ताओं के लिए यह मेधावर्धक है। इसके पाठ से मस्तिष्क की सुप्त नाड़ियाँ जाग्रत होती हैं।
अर्चन विधि एवं साधना विधान (Ritual Method for Archana)
नामावली का मुख्य उपयोग 'अर्चन' (चढ़ाना/Offering) के लिए किया जाता है। इसे स्तोत्र की तरह केवल पढ़ा भी जा सकता है, परंतु अर्चन करने से इसका फल हजार गुना बढ़ जाता है।
सहस्रनाम अर्चन विधि (How to perform Archana)
- सामग्री: 1000 लाल पुष्प (जैसे गुड़हल या कनेर), या बिल्वपत्र (बेलपत्र), या कुमकुम मिश्रित अक्षत (चावल)।
- यंत्र या विग्रह: माँ तारा के श्रीयंत्र या उनके चित्र (विग्रह) को सामने लकड़ी के बाजोट पर स्थापित करें।
- ध्यान: अपनी मनोकामना के अनुसार (शांति के लिए सात्त्विक, धन के लिए राजस, या सुरक्षा के लिए तामस) ध्यान श्लोक पढ़ें।
- अर्चन: नामावली का एक नाम पढ़ें (जैसे "ॐ तारायै नमः") और एक पुष्प या कुमकुम यंत्र/चित्र पर अर्पित करें। इसी प्रकार 1000 नामों से 1000 अर्पण करें।
विशेष तांत्रिक प्रयोग
यदि कोई विशेष तांत्रिक बाधा या प्रबल शत्रु पीड़ा दे रहा हो, तो तामस ध्यान करते हुए काली मिर्च या राई (Mustard seeds) से भी भगवती के इस 'तकारादि' मंत्रों से आहुति (हवन) दी जाती है। हालांकि, यह प्रयोग केवल योग्य गुरु के निर्देशन में ही किया जाना चाहिए।
अक्सर पूछे जाने वाले प्रश्न (Frequently Asked Questions)
1. स्तोत्र और नामावली में क्या अंतर है?
स्तोत्र में देवी की स्तुति श्लोकों या छंदों में होती है जिसे लयबद्ध गाया जाता है (जैसे सहस्रनाम स्तोत्र)। जबकि नामावली में प्रत्येक नाम के आगे "ॐ" और अंत में "नमः" लगा होता है (जैसे ॐ तारायै नमः)। नामावली का मुख्य उपयोग देवी को फूल, कुमकुम या अक्षत चढ़ाते समय (अर्चन) किया जाता है।
2. 'तकारादि' का क्या अर्थ होता है?
'तकारादि' का अर्थ है जिसके आदि (शुरुआत) में 'त' वर्ण (तकार) हो। इस सहस्रनामावली के पूरे 1000 नाम 'त' अक्षर से ही शुरू होते हैं, जो इसे अत्यंत दुर्लभ और शक्तिशाली तांत्रिक मंत्र-माला बनाता है।
3. नामावली से अर्चन करते समय कौन से पुष्प चढ़ाने चाहिए?
माँ उग्रतारा को नीले और लाल पुष्प अति प्रिय हैं। नीले कमल (नीलकमल), लाल गुड़हल (जपाकुसुम) या लाल कनेर के पुष्पों से अर्चन करना सर्वोत्तम माना गया है। यदि पुष्प न मिलें तो बिल्वपत्र या लाल कुमकुम से अर्चन किया जा सकता है।
4. क्या मैं इस नामावली का केवल पाठ कर सकता हूँ?
हाँ, यदि आपके पास अर्चन के लिए समय या सामग्री नहीं है, तो आप इसका मानसिक या वाचिक पाठ भी कर सकते हैं। प्रत्येक नाम स्वयं में एक सिद्ध मंत्र है, अतः केवल पढ़ने से भी इसका पूर्ण फल प्राप्त होता है।
5. इस नामावली में तीन अलग-अलग ध्यान क्यों दिए गए हैं?
तंत्र शास्त्र में साधक की भावना और आवश्यकता के अनुसार देवता का ध्यान किया जाता है। ज्ञान और मोक्ष के लिए सात्त्विक ध्यान, धन-ऐश्वर्य के लिए राजस ध्यान, और उग्र कर्मों (शत्रु बाधा नाश) के लिए तामस ध्यान किया जाता है। यह साधक को विकल्प देता है।
6. क्या स्त्रियाँ तकारादि नामावली का अर्चन कर सकती हैं?
जी हाँ, दश महाविद्या की आराधना में स्त्री-पुरुष का कोई भेद नहीं है। स्त्रियाँ भी वाक् सिद्धि, परिवार की सुरक्षा और आध्यात्मिक उन्नति के लिए माँ तारा का सहस्रार्चन कर सकती हैं।
7. नामावली के अंत में 'मार्गविद्भिः उपासकैः पूरणीया' क्यों लिखा है?
तांत्रिक ग्रंथ अत्यंत गुप्त होते हैं। कई बार मूल हस्तलिपियों में कुछ नाम जानबूझकर गुप्त रखे जाते हैं या लुप्त हो जाते हैं। इसका अर्थ है कि गुरु परंपरा से जुड़े (मार्गविद्) उपासक गुरुमुख से शेष नामों को जानकर इसे पूर्ण करें।
8. वाक् सिद्धि के लिए इसका पाठ कैसे करें?
वाक् सिद्धि (Power of Speech) के लिए सात्त्विक ध्यान (श्वेत वस्त्र, हंस पर विराजमान माँ) का स्मरण करते हुए ब्राह्म मुहूर्त में इस नामावली का पाठ या कुमकुम से अर्चन करना चाहिए।
9. क्या इस अर्चन के लिए गुरु दीक्षा आवश्यक है?
सामान्य भक्ति और कल्याण के लिए (सौम्य भाव से) कोई भी व्यक्ति अर्चन कर सकता है। परंतु यदि आप इसका प्रयोग मारण, उच्चाटन या किसी घोर तांत्रिक सिद्धि के लिए (तामस ध्यान के साथ) कर रहे हैं, तो 'तारा दीक्षा' और गुरु का निर्देशन अनिवार्य है।
10. नामावली अर्चन का सबसे उत्तम दिन कौन सा है?
नवमी तिथि, चतुर्दशी, अमावस्या, पूर्णिमा, गुरुवार और विशेषकर 'गुप्त नवरात्रि' के दिनों में माँ तारा का अर्चन करना अनंत गुना फलदायी होता है। तारा जयंती (चैत्र शुक्ल नवमी) के दिन इसका अर्चन अवश्य करना चाहिए।
11. क्या इसे पढ़ते समय कोई विशेष वस्त्र पहनने चाहिए?
सात्त्विक ध्यान के लिए श्वेत (सफेद), राजस के लिए लाल, और तामस के लिए काले या नीले रंग के बिना सिले वस्त्र (जैसे धोती) पहनकर बैठना तांत्रिक विधान में श्रेष्ठ माना जाता है।