॥ श्री गणेशाय नमः ॥
॥ श्री काली एकाक्षरी बीज मंत्र (चिन्तामणि) ॥
श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । हरिः ॐ ।
॥ शुचिः ॥
अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥
॥ आचमन ॥
क्रीं । क्रीं । क्रीं । (इति त्रिवारं जलं पिबेत्)
ॐ काल्यै नमः । (ओष्ठौ प्रक्षाल्य)
ॐ कपालिन्यै नमः । (ओष्ठौ)
ॐ कुल्लयै नमः । (हस्तप्रक्षालनं)
ॐ कुरुकुल्लायै नमः । (मुखं)
ॐ विरोधिन्यै नमः । (दक्षिण नासिका)
ॐ विप्रचित्तायै नमः । (वाम नासिका)
ॐ उग्रायै नमः । (दक्षिण नेत्रं)
ॐ उग्रप्रभायै नमः । (वाम नेत्रं)
ॐ दीप्तायै नमः । (दक्षिण कर्णं)
ॐ नीलायै नमः । (वाम कर्णं)
ॐ घनायै नमः । (नाभिं)
ॐ बलाकायै नमः । (हृदयं)
ॐ मात्रायै नमः । (मस्तकं)
ॐ मुद्रायै नमः । (दक्षिण स्कन्धं)
ॐ मितायै नमः । (वाम स्कन्धं)
॥ प्रार्थना ॥
गुरु प्रार्थना –
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
श्रीगणेश प्रार्थना –
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
श्रीदक्षिणामूर्ति प्रार्थना –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्टाभिरामः ।
व्याख्यापीठेनिषण्णा मुनिवरनिकरैः सेव्यमान प्रसन्नः
सव्यालकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिमीशः ॥
श्रीमहाकालभैरव प्रार्थना –
महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकं
बिभ्रतं दण्डखट्वाङ्गौ दंष्ट्राभीममुखं शिशुम् ।
त्रिनेत्रमूर्ध्वकेशं च मुण्डमालाविभूषितं
जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥
॥ सङ्कल्पम् ॥
ॐ विष्णुर्विष्णुर्विष्णुः । ॐ तत्सत् श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य श्रीब्रह्मणोऽह्नि द्वितीय परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे, अष्टाविंशतितमे कलियुगे, कलिप्रथम चरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे पुण्यभूप्रदेशे ___ प्रदेशे ___ संवत्सरे ___ अयणे ___ ऋतुः ___ मासे ___ पक्षे ___ तिथौ, ___ वासरे ___ गोत्रोत्पन्न ___ नामधेयाहं श्रीकालिका देवी प्रीत्यर्थं क्रीमिति एकाक्षरी मन्त्रजपं करिष्ये ।
॥ प्राणायाम ॥
क्रीं (इति बीजेन त्रिवारं प्राणायामं कुर्यात्)
॥ मन्त्र विनियोगः ॥
अस्य श्री काली एकाक्षरी मन्त्रस्य भैरव ऋषिः उष्णिक् छन्दः श्री दक्षिणकालिका देवता कं बीजं ईं शक्तिः रं कीलकं सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
॥ ऋष्यादि न्यासः ॥
ॐ भैरव ऋषये नमः शिरसि ।
उष्णिक् छन्दसे नमः मुखे ।
दक्षिणकालिका देवतायै नमः हृदि ।
कं बीजाय नमः गुह्ये ।
ईं शक्तये नमः पादयोः ।
रं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
॥ करन्यासः ॥
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः ।
॥ हृदयादि न्यासः ॥
ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुम् ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवः इति दिग्बन्धः ।
॥ व्यापक न्यासः ॥
क्रीं (इति मन्त्रेण त्रिवारं व्यापकं कुर्यात्)
॥ ध्यानम् ॥
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ १ ॥
सद्यश्छिन्नशिरः खड्गवामाधोर्ध्वकराम्बुजाम् ।
अभयं वरदं चैव दक्षिणोर्ध्वाधपाणिकाम् ॥ २ ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डाली गलद्रुधिरचर्चिताम् ॥ ३ ॥
कर्णावतंसतानीत शवयुग्मभयानकाम् ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधरीम् ॥ ४ ॥
शवानां करसङ्घातैः कृतकाञ्ची हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधारा विस्फुरिताननाम् ॥ ५ ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकार लोचनत्रितयान्विताम् ॥ ६ ॥
दन्तुरां दक्षिणव्यापि मुक्तालम्बिक चोच्चयाम् ।
शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥ ७ ॥
शिवाभिर्घोररावाभिश्चतुर्दिक्षुसमन्विताम् ।
महाकालेन च समं विपरीत रतातुराम् ॥ ८ ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥ ९ ॥
॥ पञ्चपूजा ॥
ॐ क्रीं कालिकायै नमः लं पृथ्वीतत्त्वात्मकं गन्धं कालिका देवी प्रीतये समर्पयामि ।
ॐ क्रीं कालिकायै नमः हं आकाशतत्वात्मकं पुष्पं कालिका देवी प्रीतये समर्पयामि ।
ॐ क्रीं कालिकायै नमः यं वायुतत्त्वात्मकं धूपं कालिका देवी प्रीतये आघ्रापयामि ।
ॐ क्रीं कालिकायै नमः रं वह्नितत्वात्मकं दीपं कालिका देवी प्रीतये दर्शयामि ।
ॐ क्रीं कालिकायै नमः वं जलतत्त्वात्मकं नैवेद्यं कालिका देवी प्रीतये निवेदयामि ।
ॐ क्रीं कालिकायै नमः सं सर्वतत्त्वात्मकं सर्वोपचाराणि मनसा परिकल्प्य कालिका देवी प्रीतये समर्पयामि ।
॥ कुल्लुकादि मन्त्राः ॥
१। कुल्लुका – क्रीं हूं स्त्रीं ह्रीं फट् (शिखा स्थाने १२ वारं जपेत्)
२। सेतुः – ॐ (इति हृदये स्थाने १२ वारं जपेत्)
३। महासेतुः – क्रीं (इति कण्ठस्थाने १२ वारं जपेत्)
४। मुखशोधन – क्रीं क्रीं क्रीं ॐ ॐ ॐ क्रीं क्रीं क्रीं (इति ७ वारं जपेत्)
५। निर्वाण – ॐ अं क्रीं ऐम् । अं आं इं ईं उं ऊं ऋं ॠं लुं लूं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं क्षं ॐ (इति नाभिं स्पृशेत्)
६। प्राणयोग – ह्रीं क्रीं ह्रीं (इति हृदये ७ वारं जपेत्)
७। दीपनी – ॐ क्रीं ॐ (इति हृदये ७ वारं जपेत्)
८। निद्राभङ्गः – ईं क्रीं ईं (इति हृदये स्थाने १० वारं जपेत्)
९। अशौचभङ्गः – ॐ क्रीं ॐ (इति हृदये ७ वारं जपेत्)
१०। गायत्री – ॐ कालिकायै च विद्महे श्मशानवासिन्यै धीमहि तन्नोऽघोरा प्रचोदयात् । (इति हृदये ३ वारं जपेत्)
॥ एकाक्षरी मन्त्रः ॥
॥ क्रीम् ॥
॥ उत्तरन्यासः ॥
ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुम् ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
॥ जपसमर्पणं ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥
सर्वं श्रीमहाकाल्यर्पणमस्तु ।
॥ क्षमायाचना ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १ ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २ ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३ ॥
॥ विशेष मन्त्राः ॥
बलि मन्त्रः – क्रीं कालीं नारिकेल/जम्बीर बलिं समर्पयामि नमः ।
होम मन्त्रः – क्रीं स्वाहा ।
तर्पण मन्त्रः – क्रीं नमः कालिकां तर्पयामि स्वाहा ।
मार्जन मन्त्रः – क्रीं कालिका देवीं अभिषिञ्चामि नमः ।
॥ इति श्री काली एकाक्षरी बीज मंत्र (चिन्तामणि) सम्पूर्णम् ॥
संलिखित ग्रंथ
एकाक्षरी मंत्र - परिचय
"क्रीं" माँ काली का एकाक्षरी बीज मंत्र है। इसे "चिन्तामणि" (इच्छापूर्ति मणि) कहा गया है क्योंकि यह चिन्तामणि की भांति सभी इच्छाओं को पूर्ण करता है।
मंत्र विनियोग:
• ऋषि: भैरव
• छन्द: उष्णिक्
• देवता: श्री दक्षिणकालिका
• बीज: कं
• शक्ति: ईं
• कीलक: रं
• ऋषि: भैरव
• छन्द: उष्णिक्
• देवता: श्री दक्षिणकालिका
• बीज: कं
• शक्ति: ईं
• कीलक: रं
"क्रीं" बीज का रहस्य
क्रीं = क + र + ई + म् + अनुस्वार
- क - काली, काल की देवी
- र - अग्नि तत्व, ऊर्जा
- ई - महामाया, शक्ति
- म् - ब्रह्मरूप, आनंद
- अनुस्वार (बिंदु) - नाद, अनाहत ध्वनि
इस प्रकार "क्रीं" में काली, शक्ति, अग्नि और ब्रह्म का समन्वय है।
जप साधना का क्रम
| क्रम | विधि | विवरण |
|---|---|---|
| 1 | शुचि | पुण्डरीकाक्ष मंत्र से शुद्धि |
| 2 | आचमन | क्रीं से त्रि-आचमन, 15 नामों से अंग स्पर्श |
| 3 | प्रार्थना | गुरु, गणेश, दक्षिणामूर्ति, महाकाल |
| 4 | सङ्कल्प | जप का संकल्प लेना |
| 5 | प्राणायाम | क्रीं से त्रि-प्राणायाम |
| 6 | न्यास | ऋष्यादि, कर, हृदयादि न्यास |
| 7 | ध्यान | 9 श्लोक का दक्षिणकाली ध्यान |
| 8 | पञ्चपूजा | गन्ध, पुष्प, धूप, दीप, नैवेद्य |
| 9 | कुल्लुकादि | 10 सहायक मंत्र जप |
| 10 | मूल जप | "क्रीं" का जप (108/1008) |
| 11 | उत्तरन्यास | जप समाप्ति न्यास |
| 12 | समर्पण | जप समर्पण और क्षमायाचना |
कुल्लुकादि मंत्र - विवरण
मूल जप से पहले 10 सहायक मंत्रों का जप आवश्यक है:
कुल्लुका: मंत्र को जागृत करता है
सेतु: साधक और देवी में सेतु
महासेतु: गहन संबंध स्थापन
मुखशोधन: वाक् शुद्धि
निर्वाण: मातृका न्यास
प्राणयोग: प्राण शक्ति जागृति
दीपनी: मंत्र प्रज्वलन
निद्राभङ्ग: मंत्र जागरण
अशौचभङ्ग: दोष निवारण
गायत्री: काली गायत्री जप
जप संख्या और पुरश्चरण
- नित्य जप: 108 बार (1 माला)
- विशेष जप: 1008 बार (10 माला)
- पुरश्चरण: 1,00,000 (1 लाख) जप
- महापुरश्चरण: 10,00,000 (10 लाख) जप
विशेष: पुरश्चरण में 1/10 होम, 1/10 तर्पण, 1/10 मार्जन और 1/10 ब्राह्मण भोजन का विधान है।
FAQ - अक्सर पूछे जाने वाले प्रश्न
1. "चिन्तामणि" का क्या अर्थ है?
चिन्तामणि का अर्थ है "इच्छापूर्ति मणि" - वह रत्न जो सभी इच्छाओं को पूर्ण करे। इस मंत्र को चिन्तामणि कहा गया है क्योंकि यह सर्वाभीष्ट सिद्धिदायक है।
2. क्या बिना दीक्षा के जप कर सकते हैं?
श्रद्धापूर्वक जप किया जा सकता है। परंतु पुरश्चरण और तांत्रिक सिद्धि के लिए गुरु से दीक्षा लेना उचित है।
3. जप का उत्तम समय कौन सा है?
रात्रि का समय सर्वोत्तम है। अमावस्या, काली चतुर्दशी, मंगलवार और शनिवार विशेष शुभ हैं।
4. "क्रीं" का सही उच्चारण क्या है?
"क्" से शुरू, "र" ध्वनि, दीर्घ "ई" और अनुनासिक "म्" - "क्रीऽऽम्" जैसा उच्चारण करें। गहरी श्वास के साथ दीर्घ उच्चारण करें।
5. होम मंत्र का क्या उपयोग है?
"क्रीं स्वाहा" होम/हवन में प्रयुक्त होता है। प्रत्येक आहुति के साथ इस मंत्र का उच्चारण करें।
6. काली गायत्री का क्या महत्व है?
"ॐ कालिकायै च विद्महे..." - यह काली गायत्री प्रज्ञा और ज्ञान प्रदान करती है। मुख्य जप से पहले 3 बार पढ़ें।
