Logoपवित्र ग्रंथ

Sri Tripurasundari Manasa Pujana Stotram (Samaraja Dikshita) – श्रीत्रिपुरसुन्दरीमानसपूजनस्तोत्रम्

Sri Tripurasundari Manasa Pujana Stotram (Samaraja Dikshita) – श्रीत्रिपुरसुन्दरीमानसपूजनस्तोत्रम्
॥ श्रीत्रिपुरसुन्दरीमानसपूजनस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ अमृतजलधिमध्योल्लासिरत्नान्तरीप- प्रसृमरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्चलदलिपटलीभिः कॢप्तधूपादिकृत्ये ॥ १॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी । तदुपरिकृतवासं दत्तबालार्कहासं दिशतु शुभमनन्ते देवि सिंहासनं ते ॥ २॥ तदुपरि धृतनानाहेतिभूषाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गीं भावये ज्ञानभङ्गीम् ॥ ३॥ द्रुहिणहरिहराणां मौलिसञ्चारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिदृषदाहं भक्तिगङ्गापयोभिः पदयुगममलं ते देवि निर्णेजयामि ॥ ४॥ गरुडमणिमयूखस्पर्धिदूर्वासनाथैः कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसार्थैः । उपहितसितगन्धैः साक्षतैर्वारिभिस्ते जननि चरणपद्मे पाद्यमाद्यं ददामि ॥ ५॥ फलकुसुमसनाथं नूत्नरत्नप्ररोहं मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरुहेऽस्मिन्नर्ध्यमर्घ्ये ददामि ॥ ६॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तकक्कोलगन्धम् । शिशिरममलमेतद्बद्धपीयूवसख्यं सलिलमखिलमातस्त्वं प्रसन्नाऽऽचमेथाः ॥ ७॥ नवमणिहयपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि । दधिमधुघृतमिश्रं त्रिर्विराजोपनीतं शशिमुखि मधुपर्कं त्वं मुखान्तर्नयेथाः ॥ ८॥ पुनराचमनं कार्यं जगज्जननि सुव्रते । त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥ ९॥ त्वरितसहचरीभिर्दत्तहस्तावलम्बं चरणनलिनमेतत्पादुकास्थं विधाय । प्रविश विविधशालं स्नानगेहान्तरालं पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १०॥ अपि रसिकविगीतं भक्तचित्तानुमत्यै सदयहृदयभावे स्नाहि पञ्चामृतेन । शशिमृगमदमुस्तागारसिद्धार्थचूर्णैः कुसुमजलविमिश्चैः स्वैरमुद्वर्तयाङ्गम् ॥ ११॥ परिजनपरिमृष्टे त्वच्छरीरे न याव- च्छिशिरसलिलधारां कापि चिक्षप तावत् । उदयिनि जनमातः सीत्कृते बद्धभावै- स्त्रिपुरमथनहासैर्व्रीडितं क्रीडितं ते ॥ १२॥ अथ विमलितरत्नस्वर्णदुर्वर्णकुम्भै- स्त्रिभुवनगततीर्थानीतपानीयपूर्णैः । स्नपयति सुरनारीवृन्दमेतत्तथापि प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३॥ विमलधवलचीनप्रच्छदप्रावृताङ्ग्या- स्तव शिरसिरुहेभ्यो निर्हरेऽम्बाम्बुबिन्दुन् । अगरुशकलधूपैर्धूप्यतां चाङ्गमङ्गं सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४॥ नवविमलविचित्रे वाससी नूत्नरत्न- द्युतिकृतपुनरुक्तायामसंशोभिनी ते । अथ कुचपरिणाहाच्छादिनीं शुम्भनेत्र- त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५॥ नहनमपि कचनां कङ्कतीभिर्विधाय ग्रथितमणिविभूषां देवि वेणीं करोमि । निहितनवकिरीटालम्बिमुत्तबालताभि- स्ततबहलमयूखां चन्द्रलेखा विदध्याम् ॥ १६॥ अलिकतलविलम्बिस्फीतसीमन्तमुक्ता- सरणिधटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा श्रवणयुगविभूषा देवि तोषाय भूयात् ॥ १७॥ विविधविरचनाभिर्भिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेपदत्तान्तरायं कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८॥ दरतरलविलम्बिस्वर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसम्भिन्नमुद्रां जनयतु पुनरुक्तां श‍ृङ्खलामन्तरीणाम् ॥ १९॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मञ्जुमञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ॥ २०॥ अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुस्रैर्लाक्षया रञ्जितं ते । मृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् । अथ नसि कुरु मुक्तां दन्तवासोऽनुषक्तां स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगतानां मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्दं मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शम्भोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो जनयतु मुदमुच्चैः कुङ्कुमं रङ्कुनेत्रे ॥ २४॥ युगपदुपगतेन्द्रोपेन्द्ररुद्रादिमौलि- स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूषा प्रेतपद्मासनस्य ॥ २५॥ अहमहमिकयाधः पातुकानां सुराणां प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६॥ अगरुघुसृणचोरीशीरगोरोचनाभिः मलयजमृगनाभिस्फीतकर्पूरपूरैः । कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं पटुतरपटवासैर्वासये तेऽङ्गकानि ॥ २७॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुबकतुलसीभिः केतकीबिल्वपत्रैः दमनकशतपत्रैरर्चये त्वत्पदाब्जम् ॥ २८॥ हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुखैः । मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलुं सर्जखण्डान् घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३०॥ धूपवर्तितरमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः । आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥ सुरसुरभिजसर्पिःपूरिते रत्नपात्रे हिमकिरणरजोभिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेयं निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ॥ ३२॥ रजतकनकहीराद्यश्मपात्रेषु मातः विविधरससनाथैश्चोष्यलेह्यप्रपेयैः । उपाहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यैः जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४॥ पनसकदलजम्बूकर्कटीहारहूरामलक- बदरनिम्बूदुम्बरैर्बीजपूरैः । अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचितफलैस्ते वर्धतां बद्धरागा ॥ ३५॥ शशिकरधवलानां नागवल्लीदलानां क्रमुककदरजातीचन्द्रसंयोगभाजाम् । मृगमदसुरसूनुस्फीतचूर्णावृतानां भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ॥ ३६॥ कनकभरितपृथ्वीं मानुषानन्दमाहु- स्तदुपरि शतकोटिक्रामुकानन्दमाहुः । जननि तव ददेयं दक्षिणां कां तथापि प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७॥ त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा- पटुपटहकझिल्लीतालघण्टानिनादैः । उरगसुरवधूभिर्गीयमानं समन्तात् जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८॥ प्राणेषु पञ्चसु निधाय षडात्मवृत्ति- वर्तीश्चिदग्निपरिचुम्बितजातशोभाः । नीराजयामि भवतीं भवतीव्रताप- निर्वापहेतुमधुना मधुनाऽलसाक्षि ॥ ३९॥ उरगतुरगहंसकेकिशालूरभृङ्गी- मदकलकलविङ्कीश्येनपारावतानाम् । गतिभिरुपचितोऽयं मौलितः पादमूलं हरतु दुरितजातं देवि कर्पूरदीपः ॥ ४0॥ जय देवि जय देवि जय विश्वाधारे दीनानाथोद्धरणप्रवणे जनसारे । त्वत्पदपद्मे पद्मे विधृतव्यापारे मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१॥ अमृतोदधिमध्यस्थितनवरत्नद्वीपे विष्वग्विकसितसुरतरुनवचम्पकनीपे । नानाकुसुमामोदिनि विधुतागरुधूपे चिन्तामणिभवनेऽङ्गनतिष्ठत्सुरभूपे ॥ ४२॥ माणिक्योज्ज्वलचत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भे ॥ ४३॥ दलितजपाकुसुमोपमवसनच्छन्नाङ्गीं तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधतीं रचनां नयने यमुनातारङ्गीं कलयन्तीं कुचकोशे सुषमां नारङ्गीम् ॥ ४४॥ शरपञ्चकबाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमीहतां ज्योतिस्त्रितयालङ्कृतनयनत्रयसहिताम् ॥ ४५॥ पशुपतियन्त्रणपटुतररोमावलियूपां मन्मथतस्करगुप्तिक्षमनाभीकूपाम् । प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनहरिहरमुखचिन्त्यामितरूपाम् ॥ ४६॥ काली बगला बाला तारा भुवनेशी वाराही मातङ्गी कमला वचनेशी । छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किञ्चित्त्वं चिद्रसपेशी ॥ ४७॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८॥ कुलकुण्डे त्वं कुरुषे शयने प्रस्वापं स्वाधिष्ठाने मिहिरायुतदीधितितापम् । नीला नाभौ कण्ठे शशिभा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४९॥ त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं मौलिर्मे नमताम् । यातायातक्लेशः सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५०॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ॥ ५१॥ मिलदलिपटलीभिः केवलं घ्रातपूर्वः स्फुटितकुसुमगर्भः स्वैरसञ्चारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ॥ ५२॥ सकृदपि विनताङ्घ्रिस्त्वां परिक्रम्य मातः भवति मखफलेषु क्षीणलोभं मनो नः । सरसिजमकरन्दास्वादतृप्तो मिलिन्दः क्वचिदपि पिचुमन्दे चित्तवृत्तिं तनोति ॥ ५३॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः क्वानतिर्मे न लसति पुनरुच्चेः स्वैरमुद्ग्रीविका चेत् ॥ ५४॥ विमलमुकुरबिम्बं पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्बं शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५॥ अथ कृतपरिवाराभ्यर्चनं ते समर्प्य स्तुतिभिरनुपमाभिः पावये स्वां रसज्ञाम् । यदपि न रविरश्मिः स्वोपकारं विधत्ते तदपि कमलमालाम्लानहानिं तनोति ॥ ५६॥ श्रवसि विशति यस्य त्वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्त्रिवर्गाश्रयत्वं परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ॥ ५७॥ हृदयकमलमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः । दधति परमधन्याः कुण्डलीस्पर्शहृष्य- च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८॥ वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चित् त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ॥ ५९॥ कदा तव पदाम्बुजस्मरणजातरोमोद्गमः सदाशिवमदालसे जननि मातरित्युद्गिरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वङ्कषा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६०॥ त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्देन्दिरे । प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्मरहरान्तरे धृतमतिर्भवं सन्तरे ॥ ६१॥ त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्त्रिदिवपतितामाप सुरपः । इदं को जानीते क्षणमपि हरार्धं प्रजपतां हसार्धं व्यालम्ब्य प्रतिफलति हंसः परिणतिः ॥ ६२॥ जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः । स्मरणविषये येन स्वैरं स्वरेण विजृम्भता त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ॥ ६३॥ ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः । हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा- स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतु ॥ ६४॥ त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनीं माद्यतो जीवञ्जीवकुलस्य भृङ्गपटलीन्यक्कारबद्धव्रताम् । रङ्कूच्छङ्कुविधायिनीं च नलिनश्रीगर्वसर्वङ्कषां कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनाङ्मोटय ॥ ६५॥ रिङ्गद्भृङ्गकदम्बडम्बरपरिष्वङ्गप्रसङ्गाकुल- प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वङ्कषः । दृक्कोणः करुणाङ्कुराङ्क्षिततनुः कोऽप्यद्रिजे मद्वपुः- पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥ ६६॥ समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया । ललल्लीलाभाजा परशिवपरिष्वङ्गपरया धिया चेतः कालं नय गतनय त्वं क्षणमपि ॥ ६७॥ वेदैरङ्घ्रिभिरुज्ज्वलोपनिषदां वृन्दैरधःकल्पितैः शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोङ्कारमार्गेण च । विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥ ६८॥ तरुणारुणप्रतिमरम्यरुचिं कुसुमेषुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९॥ इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७०॥ ॥ इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते पूजारत्नवर्ति त्रिपुरसुन्दरीमानसपूजनस्तोत्रं सम्पूर्णम् ॥

श्रीत्रिपुरसुन्दरीमानसपूजनस्तोत्रम् का परिचय (Introduction)

शाक्त परम्परा और श्री विद्या साधना में बाह्य कर्मकांड (यंत्र, मूर्ति, सामग्री आदि द्वारा पूजा) से कहीं अधिक महत्व 'मानस पूजा' (Mental Worship) को दिया गया है। मानस पूजा का अर्थ है— बिना किसी भौतिक सामग्री के, अपनी शुद्ध भावना, कल्पना और ध्यान के माध्यम से अपने हृदय रूपी सिंहासन पर इष्ट देवता की विस्तृत राजोपचार पूजा संपन्न करना। श्रीत्रिपुरसुन्दरीमानसपूजनस्तोत्रम् इसी मानसिक आराधना का एक अत्यंत भव्य, काव्यात्मक और विस्तृत स्वरूप है।

यह ७० श्लोकों का एक अत्यंत दुर्लभ स्तोत्र है, जिसकी रचना प्रसिद्ध श्री विद्या साधक और कवि सामराज दीक्षित (Samaraja Dikshita) ने की है, जिन्हें दीक्षा के उपरांत 'सत्यानन्दनाथ' (Satyanandanatha) के नाम से जाना जाता था (जैसा कि अंतिम श्लोक ७० और फलश्रुति में स्पष्ट उल्लेख है: "इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते...")। यह स्तोत्र आदि शंकराचार्य जी द्वारा रचित मानस पूजा स्तोत्र से भिन्न और अधिक विस्तृत है।

इस स्तोत्र की काव्यात्मक सुंदरता (Poetic beauty) अद्वितीय है। यह स्तोत्र मणिद्वीप (माता का निवास स्थान) के वर्णन से आरंभ होता है (श्लोक १-२)। इसके बाद साधक मानसिक रूप से माता ललिता त्रिपुरसुन्दरी के श्रीचरणों को अपने भक्ति रूपी आंसुओं (भक्तिगङ्गापयोभिः) से धोता है, उन्हें पाद्य, अर्घ्य और आचमन अर्पित करता है। श्लोक १० से १५ तक माता के दिव्य स्नान, वस्त्र धारण और शृंगार का अत्यंत सजीव चित्रण है। श्लोक २८ में विविध पुष्पों से अर्चना, श्लोक ३३ में छप्पन भोगों (नैवेद्य) का अर्पण और श्लोक ३८-४० में भव्य आरती (नीराजन) का मानसिक दृश्य उपस्थित किया गया है।

स्तोत्र के उत्तरार्ध (श्लोक ४७-४९) में अद्वैत वेदांत और कुंडलिनी योग का अत्यंत गूढ़ रहस्य पिरोया गया है। यहाँ साधक यह अनुभव करता है कि काली, तारा, भुवनेश्वरी आदि सभी महाविद्याएं त्रिपुरसुन्दरी का ही रूप हैं और मूलाधार (कुलकुण्ड) से लेकर सहस्रार (बिन्दु) तक माता ही कुंडलिनी शक्ति के रूप में जाग्रत होकर परमानंद की वर्षा करती हैं।

मानस पूजा का विशिष्ट महत्व (Significance of Manasa Puja)

तंत्र शास्त्रों में स्पष्ट कहा गया है— "बाह्य पूजा तु कनिष्ठा, उत्तमा मानस पूजा" (बाहरी पूजा सबसे निम्न स्तर की है, मानसिक पूजा सर्वोत्तम है)। इसका कारण यह है कि बाह्य सामग्री में त्रुटि, अशुद्धि या अभाव हो सकता है, लेकिन मन की भावना अनंत और सर्वदा शुद्ध होती है।

सामराज दीक्षित जी ने इस स्तोत्र में इसी तत्व को दर्शाया है। श्लोक ५६ में साधक कहता है— "अथ कृतपरिवाराभ्यर्चनं ते समर्प्य..." अर्थात् इस मानसिक पूजा से मैंने आपके पूरे परिवार (नव आवरणों के देवताओं) की पूजा संपन्न कर दी है। मानस पूजा के माध्यम से गरीब से गरीब साधक भी मानसिक रूप से माता को बहुमूल्य रत्न, स्वर्ण सिंहासन और ब्रह्मांड की सभी दुर्लभ वस्तुएं अर्पित कर सकता है, जिसे माता उसी प्रेम से स्वीकार करती हैं जिस प्रेम से एक राजा की भेंट।

यह स्तोत्र साधक को एकाग्रता (Concentration) के चरम शिखर पर ले जाता है। जब साधक श्लोक दर श्लोक माता के शृंगार (जैसे श्लोक २३ में आँखों में अंजन लगाना, श्लोक २४ में कुमकुम लगाना) का मानसिक चित्रण करता है, तो उसका मन बाहरी संसार से पूरी तरह कटकर आज्ञा चक्र या हृदय चक्र में स्थिर हो जाता है। यही ध्यान (Meditation) की वास्तविक अवस्था है।

फलश्रुति और लाभ (Benefits)

इस ७० श्लोकों के विस्तृत मानस पूजन स्तोत्र का पाठ करने से साधक को तंत्र और योग दोनों के लाभ प्राप्त होते हैं:

  • श्री विद्या राजोपचार का फल: जो साधक किसी कारणवश श्रीयंत्र की विस्तृत नव-आवरण पूजा नहीं कर सकते, वे केवल इस स्तोत्र का पाठ करके पूर्ण बाह्य पूजा का फल प्राप्त कर सकते हैं।
  • कुंडलिनी जागरण में सहायक: श्लोक ४९ (कुलकुण्डे त्वं कुरुषे शयने प्रस्वापं...) में कुंडलिनी योग का स्पष्ट वर्णन है। इस स्तोत्र का ध्यानपूर्वक पाठ मूलाधार से आज्ञा चक्र तक ऊर्जा के ऊर्ध्वगमन (upward flow) में सहायता करता है।
  • त्रिवर्ग और मोक्ष की प्राप्ति: श्लोक ५७ में स्पष्ट वर्णन है कि जिसके कानों में एक बार भी यह स्मरण पड़ता है, उसे धर्म, अर्थ और काम (त्रिवर्ग) तो सरलता से मिल जाते हैं, और चौथा पुरुषार्थ (मोक्ष) स्वयं उसके पीछे चलता है।
  • आवागमन से मुक्ति: श्लोक ५३ (सकृदपि विनताङ्घ्रिस्त्वां परिक्रम्य...) के अनुसार, जो एक बार भी माता की इस प्रकार मानसिक परिक्रमा कर लेता है, उसका मन सांसारिक यज्ञों और कर्मकांडों के फलों से विरक्त हो जाता है और वह परम तृप्ति को प्राप्त होता है।
  • रोग और ताप का शमन: श्लोक ३९ में वर्णन है कि यह मानसिक आरती (नीराजन) भव-ताप (जन्म-मरण के क्लेश, शारीरिक और मानसिक दुःख) को शांत करने वाली है।
  • अद्वैत बोध: श्लोक ४८ के अनुसार साधक को यह बोध हो जाता है कि पृथ्वी, जल, अग्नि, वायु, आकाश, ब्रह्मा और ईश्वर सब कुछ माता का ही स्वरूप हैं। यह बोध भय और द्वेष का नाश करता है।

पाठ विधि और ध्यान (Ritual Method)

मानस पूजा स्तोत्र का पाठ अन्य सामान्य स्तोत्रों की तरह केवल 'पढ़ने' के लिए नहीं होता, बल्कि इसे 'जीने' और 'दृश्यमान' (Visualize) करने के लिए होता है।

साधना विधि:
  • समय और स्थान: प्रातःकाल या रात्रि के शांत प्रहर में एकांत स्थान पर बैठें।
  • आसन: पद्मासन या सुखासन में मेरुदंड (रीढ़ की हड्डी) सीधा करके बैठें।
  • प्रारंभिक ध्यान: आँखें बंद करें। कुछ गहरी साँसें लें। अपने हृदय के मध्य (अनाहत चक्र) में एक अत्यंत सुंदर, प्रकाशमय मणिद्वीप और उसमें रत्नों से जड़े हुए एक भव्य सिंहासन की कल्पना करें।
  • स्तोत्र पाठ: शांत स्वर में या मानसिक रूप से स्तोत्र का पाठ आरंभ करें।
  • मानसिक चित्रण (Visualization): जैसे-जैसे श्लोकों में वर्णन आए (जैसे— पाद्य अर्पण, स्नान, वस्त्र पहनाना, आभूषण पहनाना, नैवेद्य खिलाना), बंद आँखों से स्पष्ट रूप से देखें कि आप स्वयं अपने हाथों से माता ललिता को ये वस्तुएं अर्पित कर रहे हैं और माता प्रसन्नतापूर्वक उन्हें स्वीकार कर रही हैं।
  • पूर्णता: ७०वें श्लोक के बाद दोनों हाथ जोड़कर मानसिक साष्टांग प्रणाम करें। महसूस करें कि माता ने आपके हृदय में स्थायी रूप से निवास कर लिया है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. मानस पूजा स्तोत्र का क्या अर्थ है?

मानस पूजा का अर्थ है मन के द्वारा की गई पूजा। इस स्तोत्र में साधक बिना किसी भौतिक वस्तु के (जैसे असली फूल या नैवेद्य के बिना), केवल अपनी भावना और कल्पना से माता की पूरी राजशाही पूजा करता है।

2. इस विशेष स्तोत्र की रचना किसने की है?

इस 70 श्लोकों वाले विस्तृत स्तोत्र की रचना महान कवि और श्री विद्या के सिद्ध साधक सामराज दीक्षित ने की है, जिन्हें साधना क्षेत्र में सत्यानन्दनाथ के नाम से जाना जाता था।

3. क्या मानस पूजा बाह्य पूजा से अधिक फलदायी है?

जी हाँ, तंत्र शास्त्रों के अनुसार बाह्य पूजा में अशुद्धि या कमी रह सकती है, लेकिन भावपूर्ण मानस पूजा सर्वोच्च और दोषरहित मानी गई है। यह सीधे मन की एकाग्रता और ध्यान (Meditation) से जुड़ी है।

4. क्या मैं इस स्तोत्र का पाठ करते समय सच में फूल या धूप अर्पित कर सकता हूँ?

आप चाहें तो कर सकते हैं, लेकिन इस स्तोत्र का मुख्य उद्देश्य आपको कर्मकांड से उठाकर ध्यान की गहराइयों में ले जाना है। इसलिए आँखें बंद करके मानसिक रूप से अर्पण करना अधिक प्रभावशाली होता है।

5. श्लोक 47 में काली, तारा आदि का नाम क्यों लिया गया है?

श्लोक 47 (काली बगला बाला तारा...) यह अद्वैत रहस्य स्पष्ट करता है कि दश महाविद्याएं या ब्रह्मांड की कोई भी शक्ति अलग नहीं है, बल्कि वे सब एक ही परम शक्ति 'त्रिपुरसुन्दरी' के ही भिन्न-भिन्न रूप हैं।

6. 'प्रेतपद्मासन' का क्या अर्थ है जो स्तोत्र में आया है?

देवी ललिता को 'पञ्चप्रेतासनासीना' कहा जाता है। ब्रह्मा, विष्णु, रुद्र, ईश्वर और सदाशिव—ये पांच देवता जब तक शक्ति (देवी) से युक्त नहीं होते, तब तक वे क्रियाहीन (प्रेत समान) माने जाते हैं। देवी इन्हीं पर आसन ग्रहण कर सृष्टि का संचालन करती हैं (श्लोक 25)।

7. क्या इस पाठ से कुंडलिनी जागरण में मदद मिलती है?

हाँ। श्लोक 49 में कुंडलिनी का स्पष्ट वर्णन है। इस स्तोत्र का ध्यानपूर्वक पाठ मूलाधार चक्र (कुलकुण्ड) से लेकर सहस्रार तक ऊर्जा के प्रवाह को सक्रिय करने में बहुत सहायक है।

8. 'त्रिवर्ग' और 'चतुर्थ पुरुषार्थ' क्या हैं? (संदर्भ श्लोक 57)

त्रिवर्ग का अर्थ है जीवन के तीन लक्ष्य: धर्म, अर्थ (धन) और काम (इच्छाएं)। चतुर्थ पुरुषार्थ 'मोक्ष' (मुक्ति) है। स्तोत्र कहता है कि इसका पाठ करने वाले को मोक्ष तो बिना मांगे ही मिल जाता है।

9. क्या इस स्तोत्र के पाठ के लिए गुरु दीक्षा आवश्यक है?

यह एक भक्ति और भाव प्रधान ध्यान स्तोत्र है। कोई भी श्रद्धालु जो ध्यान का अभ्यास करना चाहता है, वह पवित्र मन से इसका पाठ कर सकता है, इसके लिए तांत्रिक दीक्षा की बाध्यता नहीं है।

10. पाठ का सर्वोत्तम समय क्या है?

मानस पूजा के लिए सर्वोत्तम समय वह है जब आपका मन शांत हो। यह प्रातः ब्रह्म मुहूर्त में या रात्रि को सोने से ठीक पहले किया जा सकता है, ताकि मन देवी के विचारों में लीन होकर निद्रा में जाए।