Logoपवित्र ग्रंथ

Sri Lalitha Sahasranama Stotram – श्री ललिता सहस्रनाम स्तोत्रम् (सम्पूर्ण १८३ श्लोक)

Sri Lalitha Sahasranama Stotram – श्री ललिता सहस्रनाम स्तोत्रम् (सम्पूर्ण १८३ श्लोक)
॥ श्री ललिता सहस्रनाम स्तोत्रम् ॥ ॥ पूर्वपीठिका ॥ अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः, अनुष्टुप् छन्दः, श्रीललितापरमेश्वरी देवता, श्रीमद्वाग्भवकूटेति बीजं, मध्यकूटेति शक्तिः, शक्तिकूटेति कीलकं, मूलप्रकृतिरिति ध्यानम्, मूलमन्त्रेणाङ्गन्यासं करन्यासं च कुर्यात् । मम श्रीललितामहात्रिपुरसुन्दरी प्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः । ॥ ध्यानम् ॥ सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर- त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखै- -रहमित्येव विभावये भवानीम् ॥ ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ॥ पञ्चपूजा ॥ लं – पृथिवीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि । हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि । यं – वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि । रं – वह्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि । वं – अमृततत्त्वात्मिकायै श्रीललितादेव्यै अमृतनैवेद्यं परिकल्पयामि । सं – सर्वतत्त्वात्मिकायै श्रीललितादेव्यै सर्वोपचारान् परिकल्पयामि । ॥ अथ स्तोत्रम् ॥ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १ ॥ उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता । रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥ मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३ ॥ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा । कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४ ॥ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता । मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५ ॥ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका । वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६ ॥ नवचम्पकपुष्पाभनासादण्डविराजिता । ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७ ॥ कदम्बमञ्जरीक्लुप्तकर्णपूरमनोहरा । ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८ ॥ पद्मरागशिलादर्शपरिभाविकपोलभूः । नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९ ॥ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला । कर्पूरवीटिकामोदसमाकर्षद्दिगन्तरा ॥ १० ॥ निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी । मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११ ॥ अनाकलितसादृश्यचुबुकश्रीविराजिता । कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२ ॥ कनकाङ्गदकेयूरकमनीयभुजान्विता । रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३ ॥ कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी । नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४ ॥ लक्ष्यरोमलताधारतासमुन्नेयमध्यमा । स्तनभारदलन्मध्यपट्‍टबन्धवलित्रया ॥ १५ ॥ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी । रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६ ॥ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता । माणिक्यमकुटाकारजानुद्वयविराजिता ॥ १७ ॥ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका । गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८ ॥ नखदीधितिसञ्छन्ननमज्जनतमोगुणा । पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९ ॥ शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा । मरालीमन्दगमना महालावण्यशेवधिः ॥ २० ॥ सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता । शिवा कामेश्वराङ्कस्था शिवस्वाधीनवल्लभा ॥ २१ ॥ सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका । चिन्तामणिगृहान्तःस्था पञ्चब्रह्मासनस्थिता ॥ २२ ॥ महापद्माटवीसंस्था कदम्बवनवासिनी । सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३ ॥ देवर्षिगणसङ्घातस्तूयमानात्मवैभवा । भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४ ॥ सम्पत्करीसमारूढसिन्धुरव्रजसेविता । अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५ ॥ चक्रराजरथारूढसर्वायुधपरिष्कृता । गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६ ॥ किरिचक्ररथारूढदण्डनाथापुरस्कृता । ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७ ॥ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता । नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८ ॥ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता । मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९ ॥ विशुक्रप्राणहरणवाराहीवीर्यनन्दिता । कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३० ॥ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता । भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१ ॥ कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः । महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२ ॥ कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका । ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३ ॥ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः । श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४ ॥ कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी । शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५ ॥ मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा । कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ३६ ॥ कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी । अकुला समयान्तःस्था समयाचारतत्पर ॥ ३७ ॥ मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी । मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८ ॥ आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी । सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९ ॥ तटिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता । महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४० ॥ भवानी भावनागम्या भवारण्यकुठारिका । भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१ ॥ भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥ शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना । शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥ निर्लेपा निर्मला नित्या निराकारा निराकुला । निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४ ॥ नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया । नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५ ॥ निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा । नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥ निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी । निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥ निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी । निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८ ॥ निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥ निस्तुला नीलचिकुरा निरपाया निरत्यया । दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥ दुष्टदूरा दुराचारशमनी दोषवर्जिता । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१ ॥ सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा । सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२ ॥ सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी । माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३ ॥ महारूपा महापूज्या महापातकनाशिनी । महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४ ॥ महाभोगा महैश्वर्या महावीर्या महाबला । महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५ ॥ महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६ ॥ महेश्वरमहाकल्पमहाताण्डवसाक्षिणी । महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७ ॥ चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी । महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८ ॥ मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा । चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९ ॥ चराचरजगन्नाथा चक्रराजनिकेतना । पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६० ॥ पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी । चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१ ॥ ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता । विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२ ॥ सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता । सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३ ॥ संहारिणी रुद्ररूपा तिरोधानकरीश्वरी । सदाशिवानुग्रहदा पञ्चकृत्यपरायणा ॥ ६४ ॥ भानुमण्डलमध्यस्था भैरवी भगमालिनी । पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५ ॥ उन्मेषनिमिषोत्पन्नविपन्नभुवनावलिः । सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥ आब्रह्मकीटजननी वर्णाश्रमविधायिनी । निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७ ॥ श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका । सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८ ॥ पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी । अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९ ॥ नारायणी नादरूपा नामरूपविवर्जिता । ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७० ॥ राजराजार्चिता राज्ञी रम्या राजीवलोचना । रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१ ॥ रमा राकेन्दुवदना रतिरूपा रतिप्रिया । रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२ ॥ काम्या कामकलारूपा कदम्बकुसुमप्रिया । कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३ ॥ कल्याणी जगतीकन्दा करुणारससागरा । कलावती कलालापा कान्ता कादम्बरीप्रिया ॥ ७४ ॥ वरदा वामनयना वारुणीमदविह्वला । विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ॥ ७५ ॥ विधात्री वेदजननी विष्णुमाया विलासिनी । क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ॥ ७६ ॥ क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता । विजया विमला वन्द्या वन्दारुजनवत्सला ॥ ७७ ॥ वाग्वादिनी वामकेशी वह्निमण्डलवासिनी । भक्तिमत्कल्पलतिका पशुपाशविमोचनी ॥ ७८ ॥ संहृताशेषपाषण्डा सदाचारप्रवर्तिका । तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ॥ ७९ ॥ तरुणी तापसाराध्या तनुमध्या तमोऽपहा । चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ॥ ८० ॥ स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः । परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ॥ ८१ ॥ मध्यमा वैखरीरूपा भक्तमानसहंसिका । कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ॥ ८२ ॥ शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता । ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ॥ ८३ ॥ रहोयागक्रमाराध्या रहस्तर्पणतर्पिता । सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ॥ ८४ ॥ षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता । नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ॥ ८५ ॥ नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी । प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ॥ ८६ ॥ मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी । व्यापिनी विविधाकारा विद्याऽविद्यास्वरूपिणी ॥ ८७ ॥ महाकामेशनयकुमुदाह्लादकौमुदी । भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ॥ ८८ ॥ शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी । शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ॥ ८९ ॥ अप्रमेया स्वप्रकाशा मनोवाचामगोचरा । चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ॥ ९० ॥ गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता । तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ॥ ९१ ॥ निःसीममहिमा नित्ययौवना मदशालिनी । मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ॥ ९२ ॥ चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया । कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ॥ ९३ ॥ कुलकुण्डालया कौलमार्गतत्परसेविता । कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ॥ ९४ ॥ शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी । तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ॥ ९५ ॥ मालिनी हंसिनी माता मलयाचलवासिनी । सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ॥ ९६ ॥ कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी । वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता ॥ ९७ ॥ सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी । विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ॥ ९८ ॥ खट्वाङ्गादिप्रहरणा वदनैकसमन्विता । पायसान्नप्रिया त्वक्‍स्था पशुलोकभयङ्करी ॥ ९९ ॥ अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी । अनाहताब्जनिलया श्यामाभा वदनद्वया ॥ १०० ॥ दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता । कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ॥ १०१ ॥ महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी । मणिपूराब्जनिलया वदनत्रयसम्युता ॥ १०२ ॥ वज्रादिकायुधोपेता डामर्यादिभिरावृता । रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ॥ १०३ ॥ समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी । स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ॥ १०४ ॥ शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता । मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ॥ १०५ ॥ दध्यन्नासक्तहृदया काकिनीरूपधारिणी । मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ॥ १०६ ॥ अङ्कुशादिप्रहरणा वरदादिनिषेविता । मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ॥ १०७ ॥ आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना । मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ॥ १०८ ॥ हरिद्रान्नैकरसिका हाकिनीरूपधारिणी । सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ॥ १०९ ॥ सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी । सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ॥ ११० ॥ स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा । पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ॥ १११ ॥ पुलोमजार्चिता बन्धमोचनी बर्बरालका । विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ॥ ११२ ॥ सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी । अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ॥ ११३ ॥ कात्यायनी कालहन्त्री कमलाक्षनिषेविता । ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ॥ ११४ ॥ मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी । नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ॥ ११५ ॥ मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी । पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ॥ ११६ ॥ माध्वीपानालसा मत्ता मातृकावर्णरूपिणी । महाकैलासनिलया मृणालमृदुदोर्लता ॥ ११७ ॥ महनीया दयामूर्तिर्महासाम्राज्यशालिनी । आत्मविद्या महाविद्या श्रीविद्या कामसेविता ॥ ११८ ॥ श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका । कटाक्षकिङ्करीभूतकमलाकोटिसेविता ॥ ११९ ॥ शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा । हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ॥ १२० ॥ दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी । दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ॥ १२१ ॥ गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः । देवेशी दण्डनीतिस्था दहराकाशरूपिणी ॥ १२२ ॥ प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता । कलात्मिका कलानाथा काव्यालापविनोदिनी ॥ १२३ ॥ सचामररमावाणीसव्यदक्षिणसेविता । आदिशक्तिरमेयात्मा परमा पावनाकृतिः ॥ १२४ ॥ अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा । क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ॥ १२५ ॥ त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी । त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ॥ १२६ ॥ उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता । विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ॥ १२७ ॥ ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा । सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ॥ १२८ ॥ लोपामुद्रार्चिता लीलाक्लुप्तब्रह्माण्डमण्डला । अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ॥ १२९ ॥ योगिनी योगदा योग्या योगानन्दा युगन्धरा । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ॥ १३० ॥ सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी । अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी ॥ १३१ ॥ एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता । अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ॥ १३२ ॥ बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया । भाषारूपा बृहत्सेना भावाभावविवर्जिता ॥ १३३ ॥ सुखाराध्या शुभकरी शोभना सुलभा गतिः । राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ॥ १३४ ॥ राजत्कृपा राजपीठनिवेशितनिजाश्रिता । राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ॥ १३५ ॥ साम्राज्यदायिनी सत्यसन्धा सागरमेखला । दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ॥ १३६ ॥ सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी । देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ॥ १३७ ॥ सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी । सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ॥ १३८ ॥ सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी । कुलोत्तीर्णा भगाराध्या माया मधुमती मही ॥ १३९ ॥ गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया । स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ॥ १४० ॥ सनकादिसमाराध्या शिवज्ञानप्रदायिनी । चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ॥ १४१ ॥ नामपारायणप्रीता नन्दिविद्या नटेश्वरी । मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ॥ १४२ ॥ लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता । भवदावसुधावृष्टिः पापारण्यदवानला ॥ १४३ ॥ दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा । भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ॥ १४४ ॥ रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका । महेश्वरी महाकाली महाग्रासा महाशना ॥ १४५ ॥ अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी । क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ॥ १४६ ॥ त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका । स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ॥ १४७ ॥ ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता । दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ॥ १४८ ॥ महती मेरुनिलया मन्दारकुसुमप्रिया । वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ॥ १४९ ॥ प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी । मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ॥ १५० ॥ त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा । सत्यज्ञानानन्दरूपा सामरस्यपरायणा ॥ १५१ ॥ कपर्दिनी कलामाला कामधुक्कामरूपिणी । कलानिधिः काव्यकला रसज्ञा रसशेवधिः ॥ १५२ ॥ पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा । परञ्ज्योतिः परन्धाम परमाणुः परात्परा ॥ १५३ ॥ पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी । मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ॥ १५४ ॥ सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती । ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ॥ १५५ ॥ प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः । प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ॥ १५६ ॥ विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः । मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ॥ १५७ ॥ भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी । छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ॥ १५८ ॥ उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी । जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ॥ १५९ ॥ सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका । गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ॥ १६० ॥ कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा । कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ॥ १६१ ॥ कनत्कनकताटङ्का लीलाविग्रहधारिणी । अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ॥ १६२ ॥ अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा । त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ॥ १६३ ॥ निरामया निरालम्बा स्वात्मारामा सुधासृतिः । संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ॥ १६४ ॥ यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी । धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ॥ १६५ ॥ विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी । विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ॥ १६६ ॥ अयोनिर्योनिनिलया कूटस्था कुलरूपिणी । वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ॥ १६७ ॥ विज्ञानकलना कल्या विदग्धा बैन्दवासना । तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ॥ १६८ ॥ सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी । सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ॥ १६९ ॥ स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता । चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ॥ १७० ॥ सदोदिता सदातुष्टा तरुणादित्यपाटला । दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ॥ १७१ ॥ कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी । स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ॥ १७२ ॥ मनस्विनी मानवती महेशी मङ्गलाकृतिः । विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ॥ १७३ ॥ प्रगल्भा परमोदारा परामोदा मनोमयी । व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ॥ १७४ ॥ पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी । पञ्चमी पञ्चभूतशी पञ्चसङ्ख्योपचारिणी ॥ १७५ ॥ शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी । धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ॥ १७६ ॥ लोकातीता गुणातीता सर्वातीता शमात्मिका । बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ॥ १७७ ॥ सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी । सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ॥ १७८ ॥ बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका । दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ॥ १७९ ॥ ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी । योनिमुद्रा त्रिखण्डेशी त्रिगुणाऽम्बा त्रिकोणगा ॥ १८० ॥ अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी । अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ॥ १८१ ॥ अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका । आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ॥ १८२ ॥ श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी । श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ॥ १८३ ॥ ॥ फलश्रुति ॥ एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः । यः पठेत् प्रत्यहं भक्त्या ललिताम्बिकाया इदम् ॥ १८४ ॥ तस्य सिद्धिर्भवेच्छीघ्रं सर्वकामप्रदायिनी । न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥ १८५ ॥ ॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललिता रहस्यनामसाहस्र स्तोत्रकथनं सम्पूर्णम् ॥

श्री ललिता सहस्रनाम: श्रीविद्या का परमोच्च रहस्य (Introduction)

श्री ललिता सहस्रनाम स्तोत्रम् (Sri Lalitha Sahasranama Stotram) सनातन धर्म के शाक्त संप्रदाय का सबसे दिव्य और चैतन्यमयी पाठ है। यह स्तोत्र ब्रह्माण्ड पुराण के उत्तरखण्ड में स्थित 'ललितोपाख्यान' से लिया गया है। यह भगवान विष्णु के अवतार भगवान हयग्रीव और महान ऋषि अगस्त्य के बीच हुए एक परम गोपनीय संवाद का परिणाम है। इस स्तोत्र की अद्वितीयता यह है कि इसमें माँ ललिता के १००० नामों में से एक भी नाम दोबारा नहीं आता, जिसे तकनीकी भाषा में 'अपुनरुक्त' कहा जाता है।

'ललिता' शब्द का अर्थ है—"वह जो अत्यंत सुकुमार और लीलापूर्ण है"। माँ ललिता केवल एक देवी नहीं, बल्कि वह पराशक्ति हैं जो संपूर्ण ब्रह्मांड के सृजन, पालन और संहार का आधार हैं। उन्हें 'राजराजेश्वरी' कहा जाता है क्योंकि वे समस्त ब्रह्मांडीय शक्तियों और शासन व्यवस्था की अधिष्ठात्री हैं। यह स्तोत्र श्रीविद्या साधना (Sri Vidya) का मूलाधार है। जो साधक श्रीविद्या के गूढ़ रहस्यों को जानना चाहता है, उसके लिए ललिता सहस्रनाम का पाठ अनिवार्य माना गया है।

ऐतिहासिक पृष्ठभूमि के अनुसार, जब भण्डासुर नामक दैत्य ने देवताओं को त्रस्त किया, तब महादेव और महाशक्ति के मिलन से माँ ललिता का प्राकट्य हुआ। इस स्तोत्र के १००० नाम माँ के उसी पराक्रम, सौंदर्य, और उनकी असीम करुणा का वर्णन करते हैं। 'चिदग्निकुण्डसम्भूत' जैसे नाम यह बताते हैं कि माँ का प्राकट्य चैतन्य की अग्नि से हुआ है। यह स्तोत्र साधक को सगुण भक्ति से निर्गुण ब्रह्म-साक्षात्कार की ओर ले जाने वाला एक आध्यात्मिक सोपान है।

विशिष्ट आध्यात्मिक एवं तांत्रिक महत्व (Significance)

ललिता सहस्रनाम का महत्व केवल धार्मिक नहीं, बल्कि तात्विक और वैज्ञानिक भी है। इसके १००० नाम माँ के स्वरूप, उनकी शक्तियों (शक्तयः), उनके निवास स्थान (मणिद्वीप) और उनके द्वारा रचित ब्रह्मांडीय लीलाओं का वर्णन करते हैं। आध्यात्मिक रूप से, यह स्तोत्र कुण्डलिनी योग का सार है। इसमें माँ को 'मूलाधारैकनिलया' (मूलाधार में रहने वाली) से लेकर 'सहस्राराम्बुजारूढा' (सहस्रार चक्र में स्थित) तक के विभिन्न रूपों में वर्णित किया गया है।

श्रीचक्र और सहस्रनाम: यह स्तोत्र श्रीचक्र (Sri Chakra) का वाचक रूप है। जिस प्रकार श्रीचक्र ब्रह्मांड का रेखाचित्र है, उसी प्रकार सहस्रनाम माँ का शब्द-विग्रह है। इसके पाठ से साधक के भीतर के सात चक्र जाग्रत होते हैं और चित्त की अशुद्धियों का नाश होता है। तंत्र शास्त्र में माना जाता है कि जो साधक श्रीविद्या महामन्त्र का जप करता है, उसके लिए ललिता सहस्रनाम का पाठ अनिवार्य है, क्योंकि यह मन्त्र की शक्ति को सिद्ध करने में सहायक होता है।

फलश्रुति: ललिता सहस्रनाम पाठ के अमोघ लाभ (Benefits)

ब्रह्माण्ड पुराण में इस स्तोत्र की फलश्रुति का विस्तार से वर्णन है। इसके नित्य पाठ से निम्नलिखित फल प्राप्त होते हैं:

  • अक्षय ऐश्वर्य और सौभाग्य: माँ ललिता 'साम्राज्यदायिनी' हैं। जो भक्त इसका पाठ करते हैं, उन्हें समाज में मान-सम्मान, पद-प्रतिष्ठा और भौतिक समृद्धि की प्राप्ति होती है।
  • पाप मुक्ति: सहस्रनाम का एक बार पाठ करने से करोड़ों जन्मों के संचित पाप भस्म हो जाते हैं। यह गंगा स्नान से भी अधिक पवित्र माना गया है।
  • रोग और अकाल मृत्यु से रक्षा: 'सर्वरोगप्रशमनी' होने के कारण यह स्तोत्र असाध्य रोगों को दूर करता है और साधक को दीर्घायु प्रदान करता है।
  • ग्रह शांति और सुरक्षा: शनि, राहु और अन्य ग्रहों के प्रतिकूल प्रभाव को कम करने के लिए यह अमोघ पाठ है। यह घर की नकारात्मक ऊर्जा को नष्ट करता है।
  • मोक्ष की प्राप्ति: यह स्तोत्र केवल 'भोग' नहीं, बल्कि 'मोक्ष' का भी द्वार है। अंततः साधक माँ के चरणों में विलीन होकर परम पद को प्राप्त करता है।

पाठ विधि एवं साधना के नियम (Ritual Method)

माँ ललिता की उपासना अत्यंत सात्विक और प्रभावशाली है। पूर्ण लाभ हेतु निम्नलिखित विधि का पालन करना श्रेष्ठ माना जाता है:

१. श्रेष्ठ समय और दिन:

पाठ के लिए ब्रह्म मुहूर्त सर्वोत्तम है। शुक्रवार, पूर्णिमा तिथि, और नवरात्रि के नौ दिन इसके लिए महामुहूर्त माने जाते हैं।

२. वस्त्र एवं आसन:

स्नान के उपरांत स्वच्छ श्वेत या लाल वस्त्र धारण करें। लाल रंग का ऊनी या रेशमी आसन शक्ति साधना के लिए सर्वोत्तम है। पाठ के समय मुख पूर्व दिशा की ओर रखें।

३. पूजन एवं अर्पण:

सामने श्रीयंत्र या माँ ललिता की प्रतिमा स्थापित करें। घी का दीपक जलाएं और माँ को लाल फूल (गुड़हल या गुलाब) अर्पित करें। कुमकुम से माँ के चरणों में अर्चना करना अत्यंत फलदायी होता है।

४. मानसिक स्थिति:

पाठ के पूर्व 'विनियोग' और 'ध्यान' अवश्य करें। नामों का उच्चारण स्पष्ट और मधुर होना चाहिए। जल्दबाजी के स्थान पर प्रत्येक नाम के अर्थ का चिंतन करते हुए पाठ करना महासिद्धि प्रदान करता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्री ललिता सहस्रनाम स्तोत्रम् किस ग्रंथ से लिया गया है?

यह स्तोत्र ब्रह्माण्ड पुराण के उत्तरखण्ड में स्थित 'ललितोपाख्यान' से लिया गया है। यह भगवान हयग्रीव और ऋषि अगस्त्य के संवाद के रूप में है।

2. क्या महिलाएं इसका पाठ कर सकती हैं?

हाँ, माँ ललिता स्वयं जगत-जननी हैं। महिलाएं अपने सौभाग्य, परिवार की सुख-शांति और आध्यात्मिक उन्नति के लिए इस स्तोत्र का पाठ पूरी श्रद्धा के साथ कर सकती हैं।

3. क्या इसके पाठ के लिए गुरु दीक्षा अनिवार्य है?

भक्ति भाव से स्तोत्र पाठ करने के लिए दीक्षा अनिवार्य नहीं है। कोई भी श्रद्धालु माँ को अपनी माता मानकर पाठ कर सकता है। परंतु श्रीविद्या के तांत्रिक अनुष्ठान हेतु गुरु मार्गदर्शन आवश्यक है।

4. ललिता सहस्रनाम और ललिता त्रिशती में क्या अंतर है?

सहस्रनाम में माँ के १००० नामों का वर्णन है, जबकि त्रिशती में ३०० नामों का। त्रिशती को और भी अधिक गोपनीय और 'पञ्चदशी' मन्त्र का विस्तार माना जाता है।

5. पाठ के दौरान श्रीयंत्र का क्या महत्व है?

श्रीयंत्र माँ ललिता का निवास स्थान है। श्रीयंत्र के सामने पाठ करने से मंत्रों की ऊर्जा कई गुना बढ़ जाती है और घर का वास्तु दोष दूर होता है।

6. क्या इस स्तोत्र के पाठ से आर्थिक कष्ट दूर होते हैं?

जी हाँ, माँ ललिता को 'साम्राज्यदायिनी' और 'महालक्ष्मी' स्वरूप माना गया है। इसके पाठ से दरिद्रता का नाश होता है और आय के नए स्रोत खुलते हैं।

7. 'चिदग्निकुण्डसम्भूता' नाम का क्या अर्थ है?

इसका अर्थ है—वह देवी जो 'चित्त' (चेतना) की अग्नि से प्रकट हुई हैं। यह माँ के उस दिव्य स्वरूप को दर्शाता है जो साधक के भीतर के अज्ञान को जलाकर भस्म कर देता है।

8. पाठ के लिए कौन सी माला सर्वोत्तम है?

शक्ति साधना में रुद्राक्ष या स्फटिक की माला सर्वोत्तम मानी जाती है। यदि आप नाम जप कर रहे हैं, तो इनका उपयोग करें।

9. क्या इस पाठ से अकाल मृत्यु का भय दूर होता है?

हाँ, भगवान हयग्रीव के अनुसार, जो व्यक्ति श्रद्धापूर्वक ललिता सहस्रनाम का पाठ करता है, मृत्यु के देवता भी उसे प्रणाम करते हैं।

10. पाठ का फल कितने दिनों में प्राप्त होता है?

यह साधक की श्रद्धा और निरंतरता पर निर्भर है। ४१ दिनों तक नित्य कुमकुम अर्चना के साथ पाठ करने से जीवन में अलौकिक परिवर्तन महसूस होने लगते हैं।