Logoपवित्र ग्रंथ

Sri Tripura Stavarajah – श्रीत्रिपुरास्तवराजः (रुद्रयामल तंत्र)

Sri Tripura Stavarajah – श्रीत्रिपुरास्तवराजः (रुद्रयामल तंत्र)
॥ श्रीगणेशाय नमः ॥ ॥ श्रीत्रिपुरास्तवराजः ॥ श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ १ ॥ सेवे सिन्दूरसन्दोहसुन्दरस्वाङ्गभासुराम् । करुणापूरपीयूषकटाक्षां कुलनायिकाम् ॥ २ ॥ द्विनेत्रं द्विभुजं शान्तं गुरुं पद्मासनस्थितम् । योगपीठे समासीनं नमामि शिरसिस्थितम् ॥ ३ ॥ नमामि सद्गुरुं शान्तं प्रत्यक्षशिवरूपिणम् । शिरसा योगपीठस्थं मुक्तिकामार्थसिद्धये ॥ ४ ॥ या नित्या परमा शक्तिर्जगच्चैतन्यरूपिणी । तां नमामि महादेवीं पञ्चमीं मातृरूपिणीम् ॥ ५ ॥ यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति । लयमेष्यति यस्यां तां पञ्चमीं प्रणमाम्यहम् ॥ ६॥ श्रीमत्कल्पतरोर्मूले भवान्या रत्नमन्दिरे । रत्नसिंहासने देव्याः श्रीचक्रं प्रणमाम्यहम् ॥ ७॥ भूगृहं गुणरेखाढ्यं वेदद्वारोपशोभितम् । त्रिवृत्तं षोडशदलं तथाष्टदलकर्णिकम् ॥ ८॥ मनुकोणं द्विदिक्कोणं वसुकोणं त्रिकोणकम् । मध्ये बिन्दुमहाचक्रं नित्यं श्रीत्रिपुरामयम् ॥ ९॥ ब्रह्माण्डाधारशक्तिश्च कलास्मरपुरन्दराः । एताः संयोज्य पुरत ईश्वरीं योजयेच्छिवे ॥ १०॥ चन्द्रबीजं बिन्दुसंस्थं शिवबीजं नियोजयेत् । मादनं शक्रबीजस्थं योजयेद्भुवनेश्वरीम् ॥ ११॥ शिवबीजं मादनस्थं शक्रषष्टिसमन्वितम् । सप्तमं तच्च शक्रस्थं मायाबीजं समुद्धरेत् ॥ १२॥ तुङ्गाक्षरं शिवादिस्थं मरुदिन्द्रसमन्वितम् । धरन्धरसुताबीजमेकत्रापि नियोजयेत् ॥ १३॥ बगलातुरीयबीजाधः षोडशं च नियोजयेत् । वाक्स्थं तुरीयकं बीजं शाक्रबीजं नियोजयेत् ॥ १४॥ पिनाकेशं चन्द्रसंस्थमाकाशं रससंस्थितम् । चतुर्थस्वरसंयुक्तं नादबिन्दुसमन्वितम् ॥ १५॥ सर्वमेकत्र संयोज्य पञ्चपञ्चाक्षरी भवेत् । पञ्चकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता ॥ १६॥ कलह्रीं हसकलह्रीं हकहलह्रीं हकलह्रीं हकलसह्रीं विद्याचूडामणिर्देवी प्रोक्ता सर्वोत्तमोत्तमा । तव स्नेहान्मयाख्याता नाख्येया यस्य कस्यचित् ॥ १७॥ इन्द्रो मां रक्षयेत्प्राच्यामाग्नेय्यामग्निदेवता । याम्ये यमः सदा पातु नैरृते निरृतिश्च माम् ॥ १८॥ पश्चिमे वरुणः पातु वायव्ये वायुदेवता । धनदश्चेत्तरे पातु ऐशान्यामीश्वरोऽवतु ॥ १९॥ ऊर्ध्वं प्रजापतिः पायादधश्चानन्तदेवता । एवं दश दिशो रक्षां कुर्वन्त्वाशाधिदेवताः ॥ २०॥ गणेशः सर्वदा पातु क्षेत्रेशो रक्षयेत्सदा । द्वारश्रीः सर्वदा पातु देहली पातु सर्वदा ॥ २१॥ गणनाथः सदा पातु दुर्गा मां परिरक्षतु । वटुको भैरवश्चान्ते क्षेत्रपालोऽभिरक्षतु ॥ २२॥ सह रत्या स्वपत्न्या च कामदेवश्च सर्वदा । प्रीत्या सह वसन्तोऽपि पातु मां नन्दने वने ॥ २३॥ चक्रस्य पश्चिमे द्वारे भवान्या रत्नमन्दिरे । शङ्खपद्म निधी रक्षां कुरुतां कामसिद्धये ॥ २४॥ पातु मां रत्नसोपानं परमैश्वर्यशोभितम् । रक्षयेत्पश्चिमद्वारे भवान्या रत्नमन्दिरे ॥ २५॥ सरस्वती महालक्ष्मीर्माया दुर्गा विभूतये । भद्रकाली तथा स्वस्ती स्वाहा चैव शुभङ्करी ॥ २६॥ गौरी च लोकधात्री च वागीश्वर्यादयो मम । एताश्चात्र स्थिताः सर्वा रक्षां कुर्वन्तु सर्वदा ॥ २७॥ पाषण्डाचारिणो भूता भूमौ ये चान्तरिक्षगाः । दिवि लोके स्थिता ये च ते गच्छन्तु शिवाज्ञया ॥ २८॥ वास्तूनामधिपो ब्रह्मा स्रष्टा रक्षतु सर्वदा । कुलनाथः सदा पातु द्वीपनाथोऽपि सर्वदा ॥ शिवं कुर्वन्तु ताः सर्वा आसने पञ्च देवताः ॥ २९॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ ३०॥ चक्रस्य दक्षिणे भागे श्रीमत्पात्रस्य मण्डले । पञ्चरत्नानि मे पान्तु पूजकानां च सिद्धये ॥ ३१॥ तत्र पात्रासने पुण्ये सर्वदा वह्निमण्डले । वह्नेश्च मण्डलं पातु कुलदेव्याश्च पूजने ॥ ३२॥ धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे दश ॥ ३३॥ वह्नेर्दशकला ज्ञेयाः सर्वधर्मफलप्रदाः । एताभिः सहितो रक्षां कुर्याद्वैश्वानरो मम ॥ ३४॥ तत्र पात्रवरे दिव्ये श्रीमदादित्यमण्डले । सूर्यस्य मण्डलं पातु मम सर्वार्थसिद्धये ॥ ३५॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३६॥ कभाद्यर्णयुता भानोष्ठडान्ता द्वादशेरिताः । एताः कलास्तु सूर्यस्य सूर्यमण्डलसंस्थिताः ॥ एताभिः सहितो रक्षामादित्यः प्रकरोतु मे ॥ ३७॥ तत्र पात्रामृते दिव्ये सोमस्यामृतमण्डले । अमृतं सर्वदा पातु भैरवानन्दहेतुकम् ॥ ३८॥ अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३९॥ पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः । सोममण्डलमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥ ४०॥ रविवेदकलापूर्णे सुधासम्पूर्णमण्डले । नक्षत्राधिपती रक्षां करोतु मम भूतये ॥ ४१॥ सूर्याग्निमण्डले दिव्ये सम्पूर्णे शशिमण्डले । पातु मां खेचरीबीजं दोषैकादशनाशकृत् ॥ ४२॥ शक्तियुक्ते सुरानन्दे भैरवाद्यैः सशक्तिभिः । आनन्दभैरवो रक्षां करोतु मम सर्वदा ॥ ४३॥ तत्र पूर्णामृते पुण्ये शक्तिर्या वारणी कला । आनन्दरूपिणी रक्षां करोतु मम सर्वदा ॥ ४४॥ सृष्टिर्बुद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा । स्थितिः सिद्धिरिति ख्याताः कचवर्गकला दश ॥ ४५॥ अकाराद्ब्रह्मणोत्पन्नाः सृष्टिकर्मणि तत्पराः । एताभिः सहितः पायाद्ब्रह्मा मां वाक्प्रदः सदा ॥ ४६॥ जरा च पालिनी शान्तिरीश्वरी रतिकामिके । वरदा ह्लादीनी प्रीतिर्दीर्घा च टतवर्गगाः ॥ ४७॥ उकाराद्विष्णुसम्भूताः स्थितिकर्मणि तत्पराः । एताभिः सहितः पायान्मां विष्णुः पुष्टिदायकः ॥ ४८॥ तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत् क्रोधिनी क्रिया । उद्गारा मृत्युरूपा च पयवर्गकला दश ॥ ४९॥ मकाराद्रुद्रसम्भूताः संहारनिरताः सदा । एताभिः सहितो रुद्रो मां पायान्मृत्युनाशकः ॥ ५०॥ तिरस्करिण्यः पशुहृत्पञ्चेन्द्रियविमोहनाः । अनन्तान्तास्तु ताः पञ्च पीता श्वेतारुणासिता ॥ ५१॥ बिन्दोरीश्वरसम्भूताः षलवर्गकलास्तथा । तिरोधानपराभिर्मां पायादेताभिरीश्वरः ॥ ५२॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चेति रेचिका मोचिका परा ॥ ५३॥ सूक्ष्मा सूक्ष्मामृता ज्ञानामृता आप्यायिनी तथा । व्यापिनी व्योमरूपा च अनन्ता चेति षोडश ॥ ५४॥ एताः स्वरकला नादात्सदाशिवसमुद्भवाः ॥ ५५॥ अनुग्रहप्रदा नित्यं सर्वसिद्धिप्रदायिकाः । एताभिः सहितः पायात्सदापूर्वः शिवस्तु माम् ॥ ५६॥ मातृका पातु मां नित्यं सर्वमन्त्रस्वरूपिणी । अखण्डैकरसानन्दकरी मां पातु सर्वदा ॥ ५७॥ अमृतेशी सदा पातु दीपिनी पातु सर्वदा । मूलविद्या च मां पातु श्रीमत्त्रिपुरसुन्दरी ॥ कामेश्वर्यादिभिर्युक्ता नित्याभिः पातु मां सदा ॥ ५८॥ सर्वाधो मण्डुकाकारे रुद्रः कालानलो विभुः ॥ ५९॥ रक्षां करोतु मे नित्यं या मूलप्रकृतिः सदा । ततश्चाधारशक्तिर्या मम रक्षां करोतु सा ॥ ६०॥ कूर्मस्तु सततं पायादनन्तो रक्षयेत्सदा । तस्य मूर्ध्नि स्थितः श्वेतवराहः परिरक्षतु ॥ ६१॥ दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा । समुद्रः सर्वदा पातु सुरत्नैरमृतैर्जलैः ॥ ६२॥ रत्नदीपं च मे रक्षां करोतु स्वर्णपर्वतः । पातु मां नन्दनोद्यानं पान्तु मां कल्पभूरुहः ॥ ६३॥ अधस्तेषां सदा पातु विचित्रा रत्नभूमिका । वालुकाः पञ्च मां पान्तु पान्तु देवमहीरुहः ॥ ६४॥ नवरत्नमयास्तत्र प्राकाराः पान्तु मां नव । श्रीरत्नमन्दिरं दिव्यचिन्तामणिविभूषितम् ॥ ६५॥ तत्र पद्मे महादिव्ये प्रभामण्डलवेदिका । श्वेतच्छत्रं सदा पातु रत्नमुक्तामणिप्रभम् ॥ ६६॥ प्रभामध्यस्थितं पातु रत्नसिंहासनं च माम् । सिंहासनस्य पार्श्वस्थं धर्मो ज्ञानं च रक्षतु ॥ ६७॥ वैराग्यं रक्षयेन्नित्यमैश्वर्यं रक्षयेत्सदा । अधर्मो रक्षयेन्नित्यमज्ञानं परिरक्षतु ॥ ६८॥ अवैराग्यं तु मां पायादनैश्वर्यं तु सर्वदा । सिंहासनस्य मध्यस्था दुर्गा मां परिरक्षतु ॥ ६९॥ माया मां पातु तत्रैव विद्या मां परिरक्षतु । श्रीविद्या शुद्धविद्या च मातङ्गी भुवनेश्वरी ॥ ७०॥ वाराही च समाख्याताः पञ्चविद्याश्च पान्तु माम् । अनन्तो रक्षयेन्नित्यं फणपञ्चदशान्वितः ॥ ७१॥ तन्मध्यफणमध्यस्थं महापद्मं च रक्षतु । पातु चानन्दकन्दं मां ज्ञाननालं च सर्वदा ॥ ७२॥ दला प्रकृतिरूपा मां प्रकृत्याकारकेसरैः । पातु मां पातु नित्यं सा तत्त्वरूपा च कर्णिका ॥ ७३॥ सूर्यस्य मण्डलं पातु पातु मां सोममण्डलम् । वह्नेश्च मण्डलं पातु सत्त्वं रक्षतु सर्वदा ॥ रजश्च पातु मां नित्यं पातु नित्यं तमोगुणः ॥ ७४॥ आत्मा चैवान्तरात्मा च परमात्मा च रक्षतु । ज्ञानात्मा च तथा रक्षां करोतु मम सर्वदा ॥ ७५॥ आत्मतत्त्वं शक्तितत्त्वं विद्यातत्त्वं तथैव च । सदाशिवस्य यत्तत्त्वं तत्सर्वं पातु मां सदा ॥ ७६॥ ज्ञानं मायाकलाविद्यातत्त्वात्मानो विभूतयः । रत्नसिंहासने देव्या रक्षां कुर्वन्तु सर्वदा ॥ ७७॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेता रक्षां कुर्वन्तु सर्वदा ॥ ७८॥ सुधार्णवासनं पातु पातु पोताम्बुजासनम् । देव्यासनं सदा पातु पातु चक्रासनं च माम् ॥ ७९॥ सर्वमन्त्रासनं पातु साध्यसिद्धासनं तथा । नवयोन्यासनं पातु सर्वदा मम रक्षणम् ॥ ८०॥ करोतु कुलसुन्दर्यः कामरूपं शिवासनम् । तत्रैव संस्थिता देव्यो रक्षां कुर्वन्तु सर्वदा ॥ ८१॥ त्रिपुरा त्रिपुरेशी च त्रिपुराद्या च सुन्दरी । त्रिपुरावासिनी पश्चात् त्रिपुराश्रीश्च मालिनी ॥ ८२॥ सिद्धाम्बा भैरवीत्येतास्त्रिपुराद्याश्च पान्तु माम् । गुरवो दिव्यसिद्धौघमानवौघास्त्रिधा स्थिताः ॥ ८३॥ मुनिवेदनागसङ्ख्या रक्षां कुर्वन्तु सर्वदा । समस्तप्रकटा गुप्तास्तथा गुप्ततराश्च याः ॥ ८४॥ सम्प्रदायाः कुलोत्तीर्णा निगर्भाश्च रहस्यकाः । तथैवातिरहस्याश्च परापररहस्यकाः ॥ ८५॥ नवधा पूजनं तत्र योगिनीनां विधीयते । एतास्तु सततं रक्षां कुर्वतां योगिनीगणाः ॥ ८६॥ त्रैलोक्यमोहनं चक्रं प्रथमं परिरक्षतु । अणिमा पश्चिमे पातु लघिमा चोत्तरे तथा ॥ ८७॥ पूर्वद्वारे च महिमा ईशिता पातु दक्षिणे । वशिता मारुते पातु प्राकाम्या त्वीशके तथा ॥ ८८॥ भुक्तिसिद्धिस्तथाग्नेय्यामिच्छा रक्षतु नैरृते । अधः पातु सदा प्राप्तिः सर्वकामप्रदायिनी ॥ ८९॥ सर्वकामा सदा पातु ऊर्ध्वे चोर्ध्वनिवासिनी । एताः प्रथमरेखायां सर्वाः प्रकटपूरिताः ॥ ९०॥ भैरवश्चासिताङ्गो यः कामरूपस्य पीठके । ब्रह्माणीसहितः पूर्वे द्वारे मां परिरक्षतु ॥ ९१॥ मलये चाग्निदिग्भागे संस्थितो रुरुभैरवः । माहेशीसहितः पातु कुलाचारस्य सिद्धये ॥ ९२॥ चण्डः कोलगिरौ रक्षां कौमारीसहितो यमे । करोतु भैरवो नित्यं पूजकानां च सिद्धये ॥ ९३॥ वैष्णवीसहितः क्रोधः कुलान्ते पीठराजके । नैरृते सर्वदा पातु भोगमोक्षार्थसिद्धये ॥ ९४॥ चौहार्ये पश्चिमे पीठे वाराहीसहितः सदा । उन्मत्तभैरवो रक्षां करोतु मम सिद्धये ॥ ९५॥ जालन्धरे महापीठे कपाली भैरवः सदा । इन्द्राणीसहितो रक्षां वायव्ये प्रकरोतु मे ॥ ९६॥ ओड्याणे चोत्तरे पीठे चामुण्डासहितः सदा । भीषणो भैरवः पातु साधकानां च सिद्धये ॥ ९७॥ संहारश्चण्डिकायुक्तो देवीकोष्ठे च पीठके । ऐशान्यां रक्षयेन्नित्यं कुलाचारस्य सिद्धये ॥ ९८॥ एते द्वितीयरेखायां संस्थिताश्चतुरश्रगाः । सर्वसङ्क्षेभिणी मुद्रा पश्चिमे पातु सर्वदा ॥ ९९॥ द्राविणी चोत्तरे पातु पूर्वे चाकर्षणी सदा । याम्ये वश्या सदा पातु उन्मादा मारुते सदा ॥ १००॥ ईशे महाङ्कुशा पातु त्रिखण्डा पातु चानले । नैरृते बीजमुद्रा च ऊर्ध्वे रक्षतु खेचरी ॥ १०१॥ महामुद्रा त्वधः पातु योगिनी योनिरूपिणी । सुसिद्धयो मुद्रिकाश्च भैरवाः सह मातृभिः ॥ १०२॥ एताश्चक्रस्थिता नित्यं सर्वकामफलप्रदाः । चतुरश्रे त्रिरेखासु रक्षां कुर्वन्तु सर्वदा ॥ १०३॥ सर्वाशापूरकं चक्रं द्वितीयं परिरक्षतु । कामाकर्षणरूपा च बुद्ध्याकर्षणरूपिणी ॥ १०४॥ अहङ्काराकर्षणी च शब्दाकर्षणरूपिणी । स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ॥ १०५॥ रसाकर्षणरूपा च गन्धाकर्षणरूपिणी । चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ॥ १०६॥ स्मृत्याकर्षणरूपा च नामाकर्षणरूपिणी । बीजाकर्षणरूपा च आत्माकर्षणरूपिणी ॥ १०७॥ अमृताकर्षणी देवी शरीराकर्षणी तथा । एताश्चक्रस्थिता नित्यं स्वरार्णा षोडशे दले ॥ १०८॥ सर्वाभीष्टप्रदा देव्यो रक्षां कुर्वन्तु सर्वदा । सर्वसङ्क्षोभणं चक्रं तृतीयं परिरक्षतु ॥ १०९॥ अनङ्गकुसुमा पूर्वे दक्षिणेऽनङ्गमेखला । पश्चिमेऽनङ्गमदना उत्तरे मदनातुरा ॥ ११०॥ अनङ्गरेखा चाग्नेय्यां नैरृतेऽनङ्गवेगिनी । वातेऽनङ्गाङ्कुशा चैव ईशे चानङ्गमालिनी ॥ १११॥ कवर्गाद्यष्टवर्गस्था अष्टौ चानङ्गशक्तयः । रक्षां कुर्वन्तु ताः सर्वा देव्याश्चाष्टदले स्थिताः ॥ ११२॥ सर्वसौभाग्यदं चक्रं चतुर्थं परिरक्षतु । सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ॥ ११३॥ सर्वाकर्षणशक्तिश्च सर्वाह्लादस्वरूपिणी । सर्वसम्मोहिनी शक्तिः सर्वस्तम्भनरूपिणी ॥ ११४॥ सर्वजृम्भणशक्तिश्च सर्वतोवश्यरूपिणी । सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी ॥ ११५॥ सर्वार्थसाधिनी शक्तिः सर्वसम्पत्तिपूरणी । सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ११६॥ चतुर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा । सर्वार्थसाधकं चक्रं पञ्चमं परिरक्षतु ॥ ११७॥ सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदायिनी । सर्वप्रियङ्करी शक्तिः सर्वमङ्गलकारिणी ॥ ११८॥ सर्वकामप्रदा देवी सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ॥ ११९॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । बहिर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा ॥ १२०॥ सर्वरक्षाकरं चक्रं षष्ठं रक्षतु सर्वदा । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ॥ १२१॥ सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १२२॥ सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी । तथैव हि महादेवी सर्वेप्सितफलप्रदा ॥ १२३॥ अन्तर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा । सर्वरोगहरं चक्रं सप्तमं परिरक्षतु ॥ १२४॥ वाग्देवी वशिनी पातु पातु कामेश्वरी च माम् । मोदिनी विमला पातु अरुणा जयिनी च माम् ॥ १२५॥ सर्वेश्वरी च मे रक्षां कुरुतां कौलिनी तथा । वाग्देव्यो वरदाः सन्तु सर्वास्तुष्यन्तु पूजिताः ॥ १२६॥ अष्टकोणान्तरे वाण्यो रक्षां कुर्वन्तु सर्वदा । सर्वसिद्धिप्रदं चक्रमष्टमं परिरक्षतु ॥ १२७॥ अष्टकोणान्तरस्थाने त्रिकोणे बहिरायुधाः । श्रीमत्पाशाङ्कुशधनुर्बाणाश्चायुधदेवताः ॥ १२८॥ षडङ्गदेवताः पान्तु अङ्गस्थाश्चाङ्गदेवताः । महादेव्यश्चक्रसंस्था रक्षां कुर्वन्तु सर्वदा ॥ १२९॥ श्रीमत्त्रिकोणमध्ये तु तत्र कोणत्रयेषु च । मध्ये च सर्वदा पान्तु चतस्रः पीठदेवताः ॥ १३०॥ कामे कामेश्वरी पातु पूर्णे वज्रेश्वरी तथा । जालन्धरे महापीठे पातु मां भगमालिनी ॥ १३१॥ ओड्याणके महापीठे महात्रिपुरसुन्दरी । सर्वानन्दमयं चक्रं नवमं परिरक्षतु ॥ १३२॥ सूर्येन्दुवह्निपीठे तु बिन्दुचक्रनिवासिनी । ब्रह्मस्वरूपिणी पातु श्रीमत्त्रिपुरसुन्दरी ॥ १३३॥ योनिमध्ये तु परितो नित्या षोडशशक्तयः । देव्याः श्रीचक्रमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥ १३४॥ त्रैलोक्यमोहने चक्रे चतुरश्रे सुशोभने । पातु मामनिशं देवी त्रिपुरा परमेश्वरी ॥ १३५॥ सर्वाशापूरके चक्रे षोडशारे मनोहरे । तत्र चक्रेश्वरी नित्यं पातु मां त्रिपुरेश्वरी ॥ १३६॥ तथाष्टदलचक्रे तु सर्वसङ्क्षोभकारके । तत्र चक्रेश्वरी नित्यं पायात्त्रिपुरसुन्दरी ॥ १३७॥ चतुर्दशारचक्रे तु शुभे सौभाग्यदायके । तत्र चक्रेश्वरी नित्यं पायात्त्रिपुरवासिनी ॥ १३८॥ सर्वार्थसाधके बाह्ये दशारे चक्रराजके । त्रिपुराश्रीः सदा पातु मम कल्याणहेतवे ॥ १३९॥ अन्तर्दशारचक्रे तु सर्वरक्षाकरे परे । नित्यं चक्रेश्वरी देवी पायात्त्रिपुरमालिनी ॥ १४०॥ अथाष्टकोणचक्रे तु सर्वरोगहरे परे । पातु मां त्रिपुरा सिद्धा देवी चक्रेश्वरी सदा ॥ १४१॥ सर्वसिद्धि प्रदे चक्रे गुणकोणे मनोहरे । चक्रेश्वरी च मे रक्षां करोतु त्रिपुराम्बिका ॥ १४२॥ सर्वानन्दमये चक्रे मध्ये बिन्दौ सुशोभने । महाचक्रेश्वरी पातु श्रीमत्त्रिपुरभैरवी ॥ १४३॥ नित्या कामेश्वरी पातु पातु मां भगमालिनी । नित्यक्लिन्ना च मां पातु भेरुण्डा पातु सर्वदा ॥ १४४॥ मां वह्निवासिनी पातु महावज्रेश्वरी तथा । पातु मां शिवदूती च त्वरिता रक्षयेत्सदा ॥ १४५॥ कुलसुन्दरी मां पातु नित्यानित्या च पातु माम् । नित्या नीलपताका च विजया पातु सर्वदा ॥ १४६॥ श्रीसर्वमङ्गला पातु नित्या ज्वालांशुमालिनी । विचित्रा सर्वदा पातु षोडशी पातु सुन्दरी ॥ १४७॥ षोडशी प्रथमा नित्या त्रिपञ्चतिथिगामिनी । अनुलोमविलोमेन श्रीमत्त्रिपुरसुन्दरी ॥ १४८॥ महाविद्या तुरीया तु पातु मां बहुरूपिणी । महासप्तदशी नित्या नित्यमानन्दरूपिणी ॥ १४९॥ पूर्वं दक्षिणपश्चाच्च उत्तरोर्ध्वमनुत्तमम् । बौद्धवैदिकशैवाश्च सौरवैष्णवशाक्तकाः ॥ १५०॥ सृष्टिस्थितिलयाख्यानां वासो रक्षतु सर्वदा । चतस्रः समयादेव्यो योगिन्यः पान्तु सर्वदा ॥ १५१॥ चतुरस्रे महाचक्रे तारा मां परिरक्षतु । डाकिनी राकिणी पातु लाकिनी काकिनी तथा ॥ साकिनी हाकिनी पातु याकिनी सर्वरूपिणी ॥ १५२॥ वर्णस्था मातृकाः सर्वा देहस्था मातृकाश्च याः । रक्षां कुर्वन्तु ताः सर्वाश्चक्रराजे तु पूजिताः ॥ १५३॥ श्रीचक्रे पूजिता या याः पूजिता या न पूजिताः । सर्वास्ताः पूजिताः सन्तु श्रीमत्त्रिपुरसुन्दरी ॥ १५४॥ चतुरश्रे महाचक्रे बुद्धो मां परिरक्षतु । पातु मामनिशं देवः षोडशारे प्रजापतिः ॥ १५५॥ तथाष्टदलचक्रे तु शिवो मां परिरक्षतु । चतुर्दशारचक्रे तु भास्करो रक्षयेत्सदा ॥ १५६॥ द्विदशारे तथा पातु प्रभुर्नारायणो हरिः । अष्टारे मध्यचक्रे तु पातु मां भुवनेश्वरी ॥ १५७॥ अष्टारान्तस्त्रिकोणे तु कालिका पातु सर्वदा । त्रिकोणान्तरचक्रे तु पातु कात्यायनी च माम् ॥ १५८॥ नवचक्रेश्वरी नित्या या नित्या परमा कला । पातु मामनिशं देवी श्रीमत्त्रिपुरसुन्दरी ॥ १५९॥ महात्रिपुरसुन्दर्याश्चिन्तनीया च या परा । ब्रह्मस्वरूपिणी पातु पञ्चमी परदेवता ॥ १६०॥ पञ्चमी पातु सततं नित्यं रक्षतु पञ्चमी । शान्तिं करोतु सा नित्या पञ्चमी परदेवता ॥ १६१॥ सा पुनः पञ्चमी शक्तिर्नित्यचैतन्यरूपिणी । कारणानन्दमध्यस्था पातु मां पञ्चमी सदा ॥ १६२॥ पञ्चतत्त्वं तथा पञ्च यत्किञ्चित् पञ्चमं स्मृतम् । नित्यं पञ्चगुणैः पातु पञ्चमी परदेवता ॥ १६३॥ पञ्चपञ्चाक्षरैर्मन्त्रैः पञ्चकूटैश्च पञ्चभिः । पञ्चमी पातु सततं नित्यं रक्षतु पञ्चमी ॥ १६४॥ श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च । त्रिशक्तिः सर्वसाम्राज्यलक्ष्मीः पञ्च प्रकीर्तिताः ॥ १६५॥ श्रीविद्या च परञ्ज्योतिः परा निष्कलशाम्भवी । अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ॥ १६६॥ श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा । त्रिपुटा पञ्चबाणेशी पञ्चकल्पलताः स्मृताः ॥ १६७॥ श्रीविद्याऽमृतपीठेशी सुधासूरमृतेश्वरी । अन्नपूर्णेति विख्याता पञ्च कामदुघाः स्मृताः ॥ १६८॥ श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी । वाराही पञ्चरत्नानामीश्वर्यश्च प्रकीर्तिताः ॥ १६९॥ गणेशो वटुकश्चैव क्षेत्रेशो योगिनीगणाः । तर्पिता बलिपात्राणि सर्वे रक्षन्तु पूजिताः ॥ १७०॥ ऐशान्यां सर्वदा पातु नित्यं निर्माल्यवासिनी । शेषिका सुन्दरी पातु बिन्दुचक्रनिवासिनी ॥ १७१॥ नित्यं कामकला पातु मुद्रा मां पातु खेचरी । शक्तिर्मां सर्वदा पातु या मूलाधारवासिनी ॥ १७२॥ मुद्रामन्त्रोपचारैस्तु समस्ता देवताश्च याः । ताः श्रीश्च पूजिता चास्तु श्रीमत्त्रिपुरसुन्दरी ॥ १७३॥ श्रीमत्त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् । पूजाक्रमेण कथितं साधकानां सुखावहम् ॥ १७४॥ क्रमेणानेन विधिना श्रीमत्त्रिपुरसुन्दरीम् । सम्पूज्य साधकश्रेष्ठो रक्षामन्त्रं सदा पठेत् ॥ १७५॥ प्रातः काले शुचिर्भूत्वा निशायामर्धरात्रके । अथवा सङ्कटे प्राप्ते राजस्थाने सुदुर्गमे ॥ १७६॥ जले वाथ स्थले वापि श्मशाने दुर्गमे गिरौ । यत्र यत्र भये प्राप्ते स तत्रैव पठेन्नरः ॥ १७७॥ सर्वावयवभावेन देवीं सञ्चिन्त्य साधकः । रक्षां कुर्वीत यत्नेन सर्वाशुभविनाशिनीम् ॥ १७८॥ स्तोत्रं चाद्भुतमेवेदं त्रैलोक्ये चापि दुर्लभम् । गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् ॥ १७९॥ यस्मै कस्मै न दातव्यं न वक्तव्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ १८०॥ भ्रष्टेभ्यः साधकेभ्योऽपि बान्धवेभ्यो न दर्शयेत् । दत्ते चसिद्धिहानिः स्यादित्याज्ञा शाङ्करी कृता ॥ १८१॥ मन्त्राः पराङ्मुखा यान्ति क्रुद्धा भवति सुन्दरी । अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥ १८२॥ यद्गृहे विद्यते स्तोत्रं ग्रन्थे लिखितमुत्तमम् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्टति ॥ १८३॥ तस्माद्यत्नादि मं ग्रन्थं पूजयेद्गन्धपुष्पकैः । पूजाफलं लभेन्नित्यं सुन्दरीसन्निधिर्भवेत् ॥ १८४॥ ॥ फलश्रुति ॥ स्तवराजमिमं पुण्यं यः पठेत्सुसमाहितः । यत्फलं लभते तस्माच्छृणुध्वं साधकोत्तमाः ॥ १८५ ॥ वारमेकं तु योऽधीयात् स पूजाफलमश्नुते । वेदिता मातृचक्रस्य साधको भुवि जायते ॥ १८६ ॥ मासमेतत्क्रमेणैव पठेद्भक्तिपरायणः । स्वर्गेऽपि विदितो भूत्वा देवीभक्तस्तु भूतले ॥ १८७ ॥ भक्त्या च धारयेद्यस्तु लिखित्वा स्तोत्रमुत्तमम् । शिखायामथवा कण्ठे बाहौ वा भक्तिसंयुतः ॥ १८८ ॥ स भवेत्साधकश्रेष्ठो मातॄणां च सदा प्रियः । लभते सर्वकामान्वै परं स्वस्त्ययनं भवेत् ॥ १८९ ॥ तस्मादिदं प्रयत्नेन धारयेद्विधिना तथा । पठित्वा पूजयित्वा च त्रैलोक्यं वशमानयेत् ॥ १९० ॥ भक्ताय ददते तस्मै मन्त्रं रक्षाकरं परम् । धृत्वा सौवर्णमध्यस्थां सर्वकामान्नरो लभेत् ॥ १९१ ॥ यानि वाञ्छति कामानि भुक्तिमुक्तिकराणि च । लभते नात्र सन्देहो भुवि स्वर्गे रसातले ॥ १९२ ॥ दृष्ट्वा च साधकश्रेष्ठं ग्रहराक्षसहिंसकाः । दूरादेव पलायन्ते न समर्थाश्च हिंसितुम् ॥ १९३ ॥ विषं निर्विषतां याति पापं निर्याति सङ्क्षयम् । देववन्मानवो भूत्वा भुनक्ति बहुलं सुखम् ॥ १९४ ॥ तस्मान्नित्यं पठेद्धीमान्मुक्तिकामार्थसिद्धये । भक्त्या च धारयेद्देवीं स्वरक्षां सर्वदाऽऽचरेत् ॥ १९५ ॥ पूर्वजातिपरिज्ञानवेद्यं जन्मसहस्रकम् । न पुनर्जायते योनौ मरणं नास्ति चापरम् ॥ १९६ ॥ गन्धर्वरूपवान् भूत्वा सम्पूज्य परमेश्वरीम् । रक्षामन्त्रं पठित्वा च देवत्वं लभते ध्रुवम् ॥ १९७ ॥ अपुत्रे लभते पुत्रं दरिद्रो लभते धनम् । यं यं वापि स्मरेन्नित्यं तं तमाप्नोति निश्चितम् ॥ १९८ ॥ अतिदुःखालये कष्टे भीमे निगडबन्धने । सकृत्पाठे कृते नित्यं निगडान्मुच्यते ध्रुवम् ॥ १९९ ॥ दुष्कृतैरभिचारैश्च रोगैर्यक्ष्मादिभिश्च यः । परप्रयुक्तैर्ग्रस्तोऽपि पठनान्मुच्यते नरः ॥ २०० ॥ इमं त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् । रक्षामन्त्रं च शुभदं शिवेन परिकीर्तितम् । यः पठेत्प्रयतो भक्त्या सद्यो रोगात्स मुच्यते ॥ २०१ ॥ आयुरारोग्यमैश्वर्यं भुक्तिं मुक्तिं च विन्दति । सर्वान्कामानवाप्नोति देवेन्द्रस्यापि दुर्लभान् ॥ २०२ ॥ ॥ इति श्रीरुद्रयामले श्रीत्रिपुरास्तवराजः समाप्तः ॥

श्रीत्रिपुरास्तवराजः — विस्तृत परिचय एवं दार्शनिक महत्व (Introduction & Significance)

श्रीत्रिपुरास्तवराजः (Sri Tripura Stavarajah) हिंदू तांत्रिक वांग्मय के सबसे महत्वपूर्ण और प्रामाणिक ग्रंथ 'रुद्रयामल तंत्र' (Rudrayamala Tantra) से उद्धृत एक अलौकिक स्तोत्र है। शाक्त परंपरा और विशेषकर 'श्री विद्या' (Sri Vidya) के साधकों के लिए यह पाठ किसी संजीवनी से कम नहीं है। 'स्तवराज' का अर्थ है स्तोत्रों का राजा (The King of Hymns)। इस स्तोत्र में 202 श्लोक हैं, जो इसे अत्यंत विस्तृत और रहस्यात्मक बनाते हैं।

इस स्तोत्र की सबसे बड़ी विशेषता यह है कि यह केवल भगवती ललिता त्रिपुरसुन्दरी की स्तुति नहीं है, बल्कि यह संपूर्ण 'श्रीचक्र' (Sri Chakra / Sri Yantra) का शाब्दिक स्वरूप है। स्तोत्र के प्रथम श्लोक में ही "श्रीनाथादि गुरुत्रयं..." कहकर संपूर्ण गुरु मण्डल (Guru Mandala) की वंदना की गई है, क्योंकि तंत्र शास्त्र में गुरु के बिना श्री विद्या में प्रवेश वर्जित है। इसके बाद श्लोक 5 और 6 में माता को 'पंचमी' (Panchami) कहकर संबोधित किया गया है।

पंचमी का रहस्य: उपनिषदों में मनुष्य की चार अवस्थाएं बताई गई हैं — जाग्रत (Waking), स्वप्न (Dreaming), सुषुप्ति (Deep Sleep) और तुरीय (The Fourth State / Pure Consciousness)। परंतु माँ त्रिपुरसुन्दरी इन चारों से भी परे हैं, वे 'पंचमी' (The Fifth State) हैं — जो तुरीयातीत हैं, जिनमें संपूर्ण ब्रह्मांड उत्पन्न होता है और लय (विलीन) हो जाता है ("यस्याः सर्वं समुत्पन्नं... लयमेष्यति")।

श्रीचक्र का वर्णन: इस स्तोत्र के मध्य भाग में श्रीचक्र के नौ आवरणों (त्रैलोक्यमोहन चक्र से लेकर सर्वानन्दमय चक्र तक) और उनमें निवास करने वाली समस्त देवियों (योगिनियों, अष्ट-शक्तियों, मातृकाओं) का क्रमबद्ध आह्वाहन और उनसे रक्षा की प्रार्थना की गई है। यह स्तोत्र साधक के शरीर में संपूर्ण ब्रह्मांड और देव मंडल को स्थापित कर देता है (Nyasa)।

स्तोत्र के अलौकिक लाभ — फलश्रुति (Benefits from Phala Shruti)

श्लोक 185 से 202 तक इस स्तोत्र की 'फलश्रुति' का विस्तृत वर्णन किया गया है। शिव जी स्वयं बताते हैं कि जो साधक पूर्ण एकाग्रता (सुसमाहितः) से इसका पाठ करता है, उसे धर्म, अर्थ, काम और मोक्ष चारों पुरुषार्थों की स्वतः प्राप्ति हो जाती है:

  • श्रीचक्र पूजा का फल: जो एक बार भी इसका पाठ करता है, उसे संपूर्ण श्रीचक्र के विधिवत पूजन का फल प्राप्त हो जाता है (श्लोक 186)।
  • अभिचार और काले जादू का नाश: "दुष्कृतैरभिचारैश्च..." (श्लोक 200) — यदि किसी शत्रु ने तंत्र-मंत्र (Black Magic) या अभिचार कर्म किया है, तो इस पाठ के प्रभाव से वह तत्काल नष्ट हो जाता है।
  • कारागार और संकट मुक्ति: "भीमे निगडबन्धने" (श्लोक 199) — यदि कोई व्यक्ति निर्दोष होते हुए भी भयंकर कारागार (जेल) या बेड़ियों (निगड) में जकड़ा हो, तो इस पाठ से वह निश्चित ही मुक्त हो जाता है।
  • रोग और विष का शमन: "विषं निर्विषतां याति" (श्लोक 194) — विष अपना प्रभाव खो देता है और भयंकर असाध्य रोग (यक्ष्मा आदि) शीघ्र ही नष्ट हो जाते हैं।
  • सुरक्षा और रक्षा कवच: "ग्रहराक्षसहिंसकाः दूरादेव पलायन्ते" (श्लोक 193) — इस स्तोत्र का पाठ करने वाले साधक को देखकर ही दुष्ट ग्रह, भूत, प्रेत और हिंसक जीव दूर से ही भाग जाते हैं। वे उसका बाल भी बांका नहीं कर सकते।
  • पुनर्जन्म से मुक्ति: "न पुनर्जायते योनौ मरणं नास्ति चापरम्" (श्लोक 196) — यह स्तोत्र मोक्ष प्रदायक है। इसका नित्य पाठ करने वाले को पुनः माता के गर्भ में नहीं आना पड़ता (जन्म-मरण से मुक्ति)।

पाठ विधि, नियम और 'गोपनीयता' का सिद्धांत (Ritual Method & Secrecy)

चूंकि यह स्तोत्र साक्षात् रुद्रयामल तंत्र का भाग है, इसकी साधना के कुछ विशेष तांत्रिक नियम हैं, जिनका पालन अत्यंत आवश्यक है। श्लोक 176-177 में पाठ के समय और स्थान का वर्णन है।

  • समय और स्थान: प्रातःकाल पवित्र होकर, अथवा अर्धरात्रि (निशीथ काल) में इसका पाठ सर्वोत्तम है। भय या संकट के समय जल में, श्मशान में, या दुर्गम पर्वत पर भी इसका मानसिक पाठ किया जा सकता है।
  • यंत्र धारण (Amulet): श्लोक 188-191 के अनुसार, इस स्तोत्र को भोजपत्र पर अष्टगंध या गोरोचन से लिखकर, उसे स्वर्ण के ताबीज (सौवर्णमध्यस्थां) में भरकर अपनी शिखा (चोटी), गले (कण्ठ) या दाहिनी भुजा (बाहौ) पर धारण करने से यह एक अजेय रक्षा-कवच का कार्य करता है।
  • ग्रंथ पूजन: श्लोक 183-184 में कहा गया है कि जिस घर में यह स्तोत्र लिखित रूप में (ग्रंथ में) रखा होता है और जहाँ इसे गंध-पुष्प से पूजा जाता है, वहाँ चंचला लक्ष्मी भी स्थिर होकर निवास करती हैं।

गोपनीयता का कठोर नियम (The Strict Rule of Secrecy):
तंत्र शास्त्र का सबसे बड़ा नियम है 'गोपनीयता'। श्लोक 179 से 182 तक भगवान शिव ने स्पष्ट चेतावनी दी है — "यस्मै कस्मै न दातव्यं न वक्तव्यं कदाचन।" यह स्तोत्र किसी भी अपात्र, अभक्त, या भ्रष्ट व्यक्ति को नहीं देना चाहिए। इसे केवल अपने योग्य और भक्ति-युक्त शिष्य को ही प्रदान करना चाहिए। यदि कोई इसे दिखावे के लिए या अयोग्य व्यक्ति के सामने प्रकट करता है, तो माता त्रिपुरसुन्दरी क्रोधित होती हैं, और मन्त्र अपना प्रभाव खो देते हैं।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्रीत्रिपुरास्तवराजः किस ग्रंथ से लिया गया है?
यह परम सिद्ध स्तोत्र 'रुद्रयामल तंत्र' (Rudrayamala Tantra) के अंतर्गत शिव और शक्ति के संवाद के रूप में प्रकट हुआ है। यह शाक्त और श्री विद्या परंपरा का एक प्रमुख ग्रंथ है।
2. स्तोत्र में माँ को 'पंचमी' क्यों कहा गया है?
चेतना की चार अवस्थाएं होती हैं — जाग्रत, स्वप्न, सुषुप्ति और तुरीय। माँ त्रिपुरसुन्दरी इन चारों अवस्थाओं और काल से परे हैं। वे उस 'पाँचवीं अवस्था' (तुरीयातीत) का स्वरूप हैं जहाँ से संपूर्ण ब्रह्मांड की उत्पत्ति होती है, इसलिए उन्हें 'पंचमी' कहा गया है।
3. क्या इस स्तोत्र का पाठ बिना गुरु दीक्षा के किया जा सकता है?
यह एक विशुद्ध तांत्रिक 'स्तवराज' है। इसका सकाम (किसी विशेष इच्छा से) अनुष्ठान करने के लिए श्री विद्या में दीक्षित होना और गुरु की आज्ञा होना आवश्यक है। यद्यपि, निष्काम भाव से भक्तिपूर्वक इसका श्रवण या पाठ किया जा सकता है।
4. 'वीरावलीपञ्चकम्' का क्या अर्थ है?
श्लोक 1 में 'वीरावलीपञ्चकम्' का उल्लेख है। यह तंत्र की पारिभाषिक शब्दावली है, जो श्रीचक्र के गुरु मंडल और 64 योगिनियों तथा 5 विशिष्ट वीर देवों की पंक्तियों को संदर्भित करती है, जिनका ध्यान पूजा से पूर्व किया जाता है।
5. क्या यह स्तोत्र काले जादू (Black Magic) को काट सकता है?
हाँ, श्लोक 200 के अनुसार — "दुष्कृतैरभिचारैश्च..." अर्थात् यदि किसी ने कोई तांत्रिक प्रयोग या अभिचार किया है, तो इस स्तोत्र के नित्य पाठ से वह स्वतः नष्ट हो जाता है और साधक सुरक्षित हो जाता है।
6. इसे ताबीज (Kavach) के रूप में कैसे धारण कर सकते हैं?
शास्त्रों के अनुसार, शुभ मुहूर्त में इस स्तोत्र को भोजपत्र पर लिखकर स्वर्ण के ताबीज (Tabeez) में भरकर शिखा (चोटी), गले या बांह में धारण करने से यह एक अभेद्य रक्षा कवच बन जाता है (श्लोक 188-191)।
7. 'निगडबन्धन' से क्या अभिप्राय है?
'निगड' का अर्थ है बेड़ियाँ या कारागार। यदि कोई व्यक्ति किसी झूठे मुकदमे में फंसकर जेल में है, तो इस पाठ के प्रभाव से उसकी बेड़ियाँ टूट जाती हैं और उसे न्याय प्राप्त होकर मुक्ति मिलती है।
8. भगवान शिव ने गोपनीयता (Secrecy) का नियम क्यों रखा है?
तंत्र विद्या अत्यधिक शक्तिशाली होती है। यदि इसका ज्ञान अयोग्य, लालची या तामसिक व्यक्तियों के हाथ लग जाए तो वे इसका दुरुपयोग कर सकते हैं। इसलिए शिव जी ने इसे केवल सुपात्र शिष्यों तक ही सीमित रखने की आज्ञा दी है (श्लोक 179-182)।
9. क्या स्त्रियां इस स्तोत्र का पाठ कर सकती हैं?
हाँ, 'श्री विद्या' तंत्र में स्त्रियों का स्थान अत्यधिक उच्च है और उन्हें साक्षात् देवी का स्वरूप माना जाता है। स्त्रियां पूर्ण शुद्धि और श्रद्धा के साथ इस स्तोत्र का नित्य पाठ कर सकती हैं।
10. इस पाठ को करने का सर्वोत्तम समय क्या है?
श्लोक 176 के अनुसार इसे प्रातःकाल (ब्रह्म मुहूर्त में) शुद्ध होकर, या रात्रि के समय (निशीथ काल / अर्धरात्रि) एकांत में पढ़ना सबसे अधिक फलदायी माना गया है।