Logoपवित्र ग्रंथ

Sri Lakshmi Sahasranama Stotram (Naradiya Purana) – श्रीलक्ष्मीसहस्रनामस्तोत्रम्

Sri Lakshmi Sahasranama Stotram (Naradiya Purana) – श्रीलक्ष्मीसहस्रनामस्तोत्रम्
॥ श्रीलक्ष्मीसहस्रनामस्तोत्रम् ॥ (नारदीयोपपुराणतः) मित्रसह उवाच- भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । पावनानां हि महसां निदानं त्वं महामुने ॥ १॥ अतर्कितेनागमेन तव तुष्टोऽस्मि सर्वदा । हृदयं निर्वृतं मेऽद्य महादुःखौघपीडितम् ॥ २॥ देवा गृहेषु सन्तुष्टाः तारिताः पितरश्च ये । चिराय मे मनस्यस्ति संशयो बलवत्तरः ॥ ३॥ पृच्छामि त्वामहं तं वै उत्तरं दातुमर्हसि । इष्टं मया च बहुभिः यज्ञैस्सम्पूर्णदक्षिणैः ॥ ४॥ दानानि च महार्हाणि पात्रेषु स्पर्शितानि च । अनृतं नोक्तपूर्वं मे प्रजा धर्मेण पालिताः ॥ ५॥ पतिव्रता महाभागा नित्यं सुस्निग्धभाषिणी । पूज्यान् गृहागतान् सर्वानाराधयति नित्यदा ॥ ६॥ तथा हि सेवते देवान् यथाऽहमपि नाशकम् । भार्याऽनुकूला मे देवी मदयन्ती मनस्विनी ॥ ७॥ तथापि दुःखं सम्प्राप्तं मया द्वादशवार्षिकम् । राक्षसत्वं महाघोरं सम्पूर्णनरकोपमम् ॥ ८॥ तत्र वृत्तानि कार्याणि स्मृत्वा मे वेपते मनः । भक्षिताः कति वा तत्र द्विपदाश्च चतुष्पदाः ॥ ९॥ तत्सर्वमस्तु तन्नैव चिन्त्यते शापहेतुकम् । गुरुपुत्रे गुरुसमः शक्तिः सम्भक्षितो मया ॥ १०॥ ब्रह्महत्याकृतं पापं कथं मे न भविष्यति । शापाद्राक्षसता काले प्राप्ता यद्यपि तन्मया ॥ ११॥ रात्रिन्दिवं मे दहति हृदयं हि सबन्धनम् । न रोचते मे भुक्तिर्वा सुप्तिर्वापि गतिर्बहिः ॥ १२॥ महाबन्धनमेतन्मे राज्यं हि मनुते मनः । किन्नु तत्कारणं येन प्राप्तोऽहं तादृशीं शुचम् ॥ १३॥ वक्तुमर्हसि सर्वज्ञ तत्प्रायश्चित्तविस्तरम् । उपादिश महामन्त्रतन्त्रज्ञ प्रणताय मे ॥ १४॥ श्रीनारद उवाच- श‍ृणु राजन्प्रवक्ष्यामि प्राग्जन्मचरितं तव । येनेदृशं त्वया प्राप्तं दुःखमत्यन्तदुस्सहम् ॥ १५॥ पुराभूद्बाह्मणः कश्चित्ताम्रपर्णिनदीतटे । दरिद्रोऽत्यन्तदुर्भाग्यः बहुपुत्रकुटुम्बवान् ॥ १६॥ कृष्णशर्मेति विख्यातः वेदवेदाङ्गतत्ववित् । तव भार्याऽभवत्पुण्या सदा चण्डी कुरूपिणी ॥ १७॥ किन्तु शक्तिव्रताचारेऽप्रतिमा शुद्धमानसा । कटुवाङ्मानिनी नाम्ना क्षुत्पिपासार्दिता सदा ॥ १८॥ दारिद्र्यशमनार्थं त्वं सर्वलक्षणलक्षितम् । कल्पयित्व श्रियो मूर्तिं भक्त्या पूजितवान्गृहे ॥ १९॥ मानिन्यप्यन्वहं भक्त्या गोमयालेपनादिभिः । रङ्गवल्याप्यलङ्कृत्य पूजास्थानं गृहे तव ॥ २०॥ पायसापूपनैवेद्यैः सा त्वां पर्यचरन्मुदा । एकदा भृगुवारे त्वां सहस्रकमलार्चनम् ॥ २१॥ विधातुं विष्णुपत्न्यास्तु पद्मान्यानयितुं गतः । गतेऽर्धदिवसे गेहं प्राप्य खिन्नोऽनयोदितः ॥ २२॥ हन्तार्धदिवसोऽतीतः कदा देवानसङ्ख्यकान् । अभ्यर्च्याथ श्रियो देव्याः सहस्रकमलार्चनम् ॥ २३॥ कृत्वा भुक्त्वा कदाऽन्नं नो दर्शयिष्यसि ताम्यताम् । बाला रुदन्ति क्षुधिताः पक्वं भवति शीतलम् ॥ २४॥ इति तस्यां भर्त्सयन्त्यां तूष्णीं पूजामधाद्भवान् । सहस्रपद्मपूजायां चलन्त्यां मध्यतस्तु सा ॥ २५॥ असमर्था क्षुधं सोढुं बालैस्सह बुभोज ह । तदा त्वं कुपितोऽप्येनां न च किञ्चिदपि ब्रुवन् ॥ २६॥ गृहान्निर्गत्य शान्तात्मा किं कृत्यमिति चिन्तयन् । निर्यान्तं त्वां तु सा प्राह क्व गच्छसि सुदुर्मते ॥ २७॥ अनिर्वर्त्य श्रियः पूजां प्रारब्धां सुमहादरम् । पृथङ्नैवेद्यमस्तीह नास्माभिर्भक्षितं हि तत् ॥ २८॥ कालात्ययात्क्षुधार्तानां भुक्तिं देवी सहिष्यते । तद्विधेहि श्रियः पूजां मा स्म निष्कारणं क्रुधः ॥ २९॥ नरके मा पतो बुद्ध्या मां च पातय मा वृथा । इति तस्यां ब्रुवाणायां त्वं गृहान्निरगाः क्रुधा ॥ ३0॥ सद्यः सन्यस्य विपिनेऽवात्सीस्त्वं विधिना किल । यतित्वेऽपि सदा बुद्ध्या पूर्वाश्रमकथां स्मरन् ॥ ३१॥ दारिद्र्यं सर्वधर्माणां प्रत्यूहाय प्रवर्तते । सत्यप्यस्मिन्धर्मपत्नी अनुकूला भवेद्यदि ॥ ३२॥ नरस्य जन्म सुखितं नान्यथाऽर्थशतैरपि । वन्ध्याजानिस्स भवतु अनुकूलकलत्रवान् ॥ ३३॥ लभते जन्मसाफल्यमेतद्देव्याः प्रसादजम् । इत्येवं चिन्तयन्नेव त्यक्त्वा देहं तरोस्तले ॥ ३४॥ इक्ष्वाकुवंशे जातस्त्वं राजा मित्रसहाभिधः । रुषा परवशो यस्मादसमाप्य श्रियोऽर्चनम् ॥ ३५॥ निर्गतोऽसि गृहात्तस्माद्दुःखमेतदुपस्थितम् । सापि त्वयि विनिर्याते पश्चात्तापवती भृशम् ॥ ३६॥ प्रक्षालिताङ्घ्रिहस्ताऽथ प्रयताऽऽचम्य सत्वरम् । नैवेद्यं स्वयमीश्वर्यै प्रणम्य च निवेद्य च ॥ ३७॥ अम्ब सर्वस्य लोकस्य जनन्यसि सहस्व तत् । आगांसि मम नागारिकेतनोरःस्थलालये ॥ ३८॥ यस्यां जातौ तु मे भर्ता तत्पूजापुण्यतो भवेत् । भवेयमहमप्यत्र जातौ तं चाप्नुयां यथा ॥ ३९॥ कामक्रोधादिहीना स्यां तथाम्बानुग्रहं कुरु । इति देवीं प्रार्थयन्ती जीवन्ती कृच्छ्रतो भुवि ॥ ४०॥ त्यक्त्वा देहं पुनर्जाता राजवंशे सुपावने । मदयन्तीति नाम्ना वै तव भार्याऽभवत्पुनः ॥ ४१॥ अभुक्ते त्वयि भुत्क्या सा वन्ध्या जाता वधूमणिः । उभयोर्भवतोर्लक्ष्मीपूजायामपराधतः ॥ ४२॥ उभावपि महादुःखं प्राप्तौ द्वादशवर्षिकम् । त्यक्त्वा राज्यं च कोशञ्च दरिद्रावतिदुःखितौ ॥ ४३॥ मा ब्रह्महत्यादोषात्त्वं भैषी राजन् कथञ्चन । यां जातिमनुविष्टो हि तादृशीं त्वं क्रियामधाः ॥ ४४॥ किन्तु भूयश्च्युते राज्याद्भेतव्यं श्रीप्रकोपतः । नाम्नां तदद्य श्रीदेव्याः सहस्रेण शतेन च ॥ ४५॥ अष्टोत्तरेण पद्मानां पुञ्जतस्तां प्रपूजय । भवेत्तव स्थिरं राज्यं दुःखं नाण्वपि ते भवेत् ॥ ४६॥ भार्या ते सापि शुश्रूषां स्वयमेव करोतु ते । वर्षमात्रं पूजिता सा लक्ष्मीर्नारायणप्रिया ॥ ४७॥ युवयोस्सर्वकामानां दात्री स्यान्नात्र संशयः । स्त्रीसङ्गप्रतिहन्ताऽस्ति शापो यद्यपि ते प्रभो ॥ ४८॥ प्रसोष्यते च तनयं तव भार्या कथञ्चन । पुत्रपौत्राभिवृद्ध्या त्वं मोदिष्यसि महेन्द्रवत् ॥ ४९॥ यथा पृष्टं महाभाग दुःखहेतुस्तवोदितः । उक्तस्तत्परिहारोऽपि किमिच्छसि पुनर्वद ॥ ५०॥ राजोवाच- धन्योऽस्म्यनुगृहीतोऽस्मि महर्षे कृपया तव । मत्तो न विद्यते कश्चिल्लोकेऽस्मिन् भाग्यवत्तरः ॥ ५१॥ तव पादाब्जयुगले प्रणामानां शतं शतम् । करोमि पाहि मां विप्र कुलोत्तंस दयानघ ॥ ५२॥ नाम्नां सहस्रं श्रीदेव्या अष्टोत्तरशताधिकम् । प्रब्रूहि मे मुनिश्रेष्ठ पूजाया विधिमप्यथ ॥ ५३॥ जपस्य च विधिं तेषां नाम्नां शुश्रूषवे वद । सूत उवाच- इति राज्ञा मुनिश्रेष्ठः पृष्टस्सविनयं ततः ॥ ५४॥ नमस्कृत्य श्रियै पश्चाद्ध्यात्वोवाच महीपतिम् । श्रीनारद उवाच- सम्यक् पृष्टं महाराज सर्वलोकहितं त्वया ॥ ५५॥ वक्ष्यामि तानि नामानि पूजाञ्चापि यथाक्रमम् । पलमानसुवर्णेन रजतेनाथ ताम्रतः ॥ ५६॥ चतुर्भुजां पद्मधरां वराभयविशोभिनीम् । निषण्णां फुल्लकमले चतुर्दन्तैः सितैर्गजैः ॥ ५७॥ सुवर्णघण्टामुखरैः कृतक्षीराभिषेचनाम् । कटकाङ्गदमञ्जीररशनादि विभूषणैः ॥ ५८॥ विभूषितां क्षौमवस्त्रां सिन्दूरतिलकाञ्चिताम् । प्रसन्नवदनाम्भोजां प्रपन्नार्तिविनाशिनीम् ॥ ५९॥ छत्रचामरहस्ताढ्यैः सेवितामप्सरोगणैः । कृत्वैवं प्रतिमां तां च प्रतिष्ठाप्य यथाविधि ॥ ६०॥ श्रीं लक्ष्म्यै नम इत्येव ध्यानावाहनपूर्वकान् । उवचारांश्चतुष्षष्टिं कल्पयेत गृहे सुधीः ॥ ६१॥ प्रतिमाया अलाभे तु लक्ष्म्यास्सम्प्राप्य चालयम् । कारयेदुपचारांस्तु यथाविध्यर्चकैर्मुदा ॥ ६२॥ तस्याप्यभावे त्वालेख्ये लिखितां वर्णकैस्तथा । पूजयेत्तस्य चाभावे कृतां चन्दनदारुणा ॥ ६३॥ तदभावे चन्दनेन रचितां पूजयेद्रमाम् । एषामभावे विकचे कमले कर्णिकागताम् ॥ ६४॥ ध्यात्वा तथाविधां देवीमादरेण प्रपूजयेत् । कमलानां सहस्रेणाप्यष्टोत्तरशतेन च ॥ ६५॥ अर्चयेदिन्दिरापादौ ध्यात्वाभीष्टानि चेतसि । श्रीदेव्या नामसाहस्रं अष्टोत्तरशताधिकम् ॥ ६६॥ अथातस्सम्प्रवक्ष्यामि श‍ृणु नान्यमना नृप । ॥ पारायणप्रकारः ॥ ॐ अस्य श्रीमहालक्ष्मीसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः । अनुष्टुपछन्दः । श्रीमहालक्ष्मीर्देवता । ह्रां बीजम् । ह्रिं शक्तिः । ह्रूं कीलकम् । श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे श्रीमहालक्ष्मीसहस्रनाममन्त्रजपे विनियोगः ॥ ॥ कर-हृदयादि न्यासः ॥ ॐ ह्लां हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । अङ्गुष्ठाभ्याण् नमः । मं ह्लीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो न आवह । तर्जनीभ्यां नमः । हां ह्लूं तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । मध्यमाभ्यां नमः । लं ह्लैं यस्यां हिरण्यं विन्देयं गामश्वम्पुरुषानहम् । अनामिकाभ्यां नमः । क्ष्म्यैं ह्लौं श्रियं देवीमुपह्वये श्रीर्मा देवी जुषतम् । करतलकरपृष्ठाभ्यां नमः ॥ ॐ ह्लां कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । हृदयाय नमः । मं ह्लीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् । शिरसे स्वाहा । हां ह्लूं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । शिखायै वषट् । लं ह्लैं तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे । कवचाय हुम् । क्ष्म्यैं ह्रौं आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । नेत्रत्रयाय वौषट् । नमः ह्लः तस्य फलानि तपसा नुदान्तु मायान्तरायाश्च बाह्या अलक्ष्मीः । अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ लक्ष्मीदेवीं द्विपद्माभयवरदकरां तप्तकार्तस्वराभां शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमानाम् । रत्नौघाबद्धमौलिं विमलतरदुकूलार्तवालेपनाढ्यां पद्माक्षीं पद्मनाभोरसि कृतवसतिं पद्मगां चिन्तयामि ॥ ॥ पञ्चोपचार पूजा ॥ लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं वह्न्यात्मिकायै । दीपं दर्शयामि । वं अमृतात्मिकायै । अमृतं निवेदयामि । सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि । ॥ अथ श्रीलक्ष्मीसहस्रनामस्तोत्रम् ॥ श्रीनारद उवाच - महालक्ष्मीर्महेशाना महामाया मलापहा । विष्णुपत्नी विधीशार्च्या विश्वयोनिर्वरप्रदा ॥ १॥ धात्री विधात्री धर्मिष्ठा धम्मिल्लोद्भासिमल्लिका । भार्गवी भक्तिजननी भवनाथा भवार्चिता ॥ २॥ भद्रा भद्रप्रदा भव्या भक्ताभीष्टफलप्रदा । प्रळयस्था प्रसिद्धा मा प्रकृष्टैश्वर्यदायिनी ॥ ३॥ विष्णुशक्तिर्विष्णुमाया विष्णुवक्षःस्थलस्थिता । वाग्रूपा वाग्विभूतिज्ञा वाक्प्रदा वरदा वरा ॥ ४॥ सम्पत्प्रदा सर्वशक्तिः संविद्रूपा समाऽसमा । हरिद्राभा हरिन्नाथपूजिता हरिमोहिनी ॥ ५॥ हतपापा हतखला हिताहितविवर्जिता । हिताहितपराऽहेया हर्षदा हर्षरूपिणी ॥ ६॥ वेदशास्त्रालिसंसेव्या वेदरूपा विधिस्तुता । श्रुतिः स्मृतिर्मतिः साध्वी श्रुताऽश्रुतधरा धरा ॥ ७॥ श्रीः श्रिताघध्वान्तभानुः श्रेयसी श्रेष्ठरूपिणी । इन्दिरा मन्दिरान्तस्था मन्दुरावासिनी मही ॥ ८॥ धनलक्ष्मीर्धनकरी धनिप्रीता धनप्रदा । धानासमृद्धिदा धुर्या धुताघा धौतमानसा ॥ ९॥ धान्यलक्ष्मीर्दारिताघा दारिद्र्यविनिवारिणी । वीरलक्ष्मीर्वीरवन्द्या वीरखड्गाग्रवासिनी ॥ १०॥ अक्रोधनाऽलोभपरा ललिता लोभिनाशिनी । लोकवन्द्या लोकमाता लोचनाधःकृतोत्पला ॥ ११॥ हस्तिहस्तोपमानोरुः हस्तद्वयधृताम्बुजा । हस्तिकुम्भोपमकुचा हस्तिकुम्भस्थलस्थिता ॥ १२॥ राजलक्ष्मी राजराजसेविता राज्यदायिनी । राकेन्दुसुन्दरी रस्या रसालरसभाषणा ॥ १३॥ कोशवृद्धिः कोटिदात्री कोटिकोटिरविप्रभा । कर्माराढ्या कर्मगम्या कर्मणां फलदायिनी ॥ १४॥ धैर्यप्रदा धैर्यरूपा धीरा धीरसमर्चिता । पतिव्रता परतरपुरुषार्थप्रदाऽपरा ॥ १५॥ पद्मालया पद्मकरा पद्माक्षी पद्मधारिणी । पद्मिनी पद्मदा पद्मा पद्मशङ्खादिसेविता ॥ १६॥ दिव्या दिव्याङ्गरागाढ्या दिव्यादिव्यस्वरूपधृत् । दयानिधिर्दानपरा दानवारातिभामिनी ॥ १७॥ देवकार्यपरा देवी दैत्येन्द्रपरिपूजिता । नारायणी नादगता नाकराजसमर्चिता ॥ १८॥ नक्षत्रनाथवदना नरसिंहप्रियाऽनला । जगद्रूपा जगन्नाथा जङ्गमाजङ्गमाकृतिः ॥ १९॥ कविता कञ्जनिलया कम्रा कलिनिषेधिनी । कारुण्यसिन्धुः कमला कमलाक्षी कुचोन्नता ॥ २०॥ बलिप्रिया बलिहरी बलिनी बलिसंस्तुता । हीरभूषा हीनदोषा हानिहर्त्री हतासुरा ॥ २१॥ हव्यकव्यार्चिता हत्यादिकपातकनाशिणी । विशुद्धसत्त्वा विवशा विश्वबाधाहरी वधूः ॥ २२॥ ब्रह्माणी ब्रह्मजननी ब्रह्मरूपा बृहद्वपुः । बन्दीकृतामरवधूमोचिनी बन्धुरालका ॥ २३॥ बिलेशयाङ्गनावन्द्या बीभत्सरहिताऽबला । भोगिनी भुवनाधीशा भोगिभोगशयाऽभया ॥ २४॥ दामोदरप्रिया दान्ता दाशेशपरिसेविता । जामदग्न्यप्रिया जह्नुतनया पावनाङ्घिरका ॥ २५॥ क्षीरोदमथनोद्भूता क्षीराक्ता क्षितिरूपिणी । क्षेमङ्करी क्षयकरी क्षेत्रज्ञा क्षेत्रदायिनी ॥ २६॥ स्वयंवृताच्युता स्वीयरक्षिणी स्वत्वदायिनी । तारकेशमुखी तार्क्ष्यस्वामिनी तारिताश्रिता ॥ २७॥ गुणातीता गुणवती गुण्या गरुडसंस्थिता । गेया गयाक्षेत्रगता गानतुष्टा गतिप्रदा ॥ २८॥ शेषरूपा शेषशायिभामिनी शिष्टसम्मता । शेवधिः शोषिताशेषभुवना शोभनाकृतिः ॥ २९॥ पाञ्चरात्रार्चिता पाञ्चजन्यधार्यङ्कवासिनी । पाषण्डद्वेषिणी पाशमोचनी पामरप्रिया ॥ ३०॥ भयङ्करी भयहरी भर्तृभक्ता भवापहा । ह्रीर्ह्रीमती हृततमाः हतमाया हताशुभा ॥ ३१॥ रघुवंशस्नुषा रामा रम्या रामप्रिया रमा । सीरध्वजसुता सीता सीमातीतगुणोज्ज्वला ॥ ३२॥ जानकी जगदानन्ददायिनी जगतीभवा । भूगर्भसम्भवा भूतिः भूषिताङ्गी भृतानता ॥ ३३॥ वेदस्तवा वेदवती वैदेही वेदवित्प्रिया । वेदान्तवेद्या वीर्याढ्या वीरपत्नी विशिष्टधीः ॥ ३४॥ शिवचापारोपपणा शिवा शिवपरार्चिता । साकेतवासिनी साधुस्वान्तगा स्वादुभक्षिणी ॥ ३५॥ गुहागता गुहनता गुहागतमुनिस्तुता । दरस्मिता दनुजसंहर्त्री दशरथस्नुषा ॥ ३६॥ दायप्रदा दानफला दक्षा दाशरथिप्रिया । कान्ता कान्तारगा काम्या कारणातीतविग्रहा ॥ ३७॥ वीरा विराधसंहर्त्री विश्वमायाविधायिनी । वेद्या वैद्यप्रिया वैद्या वेधोविष्णुशिवाकृतिः ॥ ३८॥ खरदूषणकालाग्निः खरभानुकुलस्नुषा । शूरा शूर्पणखाभङ्गकारिणी श्रुतवल्लभा ॥ ३९॥ सुवर्णमृगतृष्णाढ्या सुवर्णसदृशाङ्गका । सुमित्रासुखदा सूतसंस्तुता सुतदारदा ॥ ४०॥ सुमित्रानुग्रहपरा सुमन्त्रा सुप्रतिष्ठिता । श्यामा श्यामलनेत्रान्ता श्यामन्यग्रोधसेविनी ॥ ४१॥ तुङ्गस्थानप्रदा तुङ्गा गङ्गाप्रार्थनतत्परा । गतिप्रिया गर्भरूपा गतिर्गतिमती च गौः ॥ ४२॥ गर्वदूरा गर्वहरी गतिनिर्जितहंसिका । दशाननवधोद्युक्ता दयासिन्धुर्दशातिगा ॥ ४३॥ सेतुहेतुर्हेतुहीना हेतुहेतुमदात्मिका । हनूमत्स्वामिनी हृष्टा हृष्टपुष्टजनस्तुता ॥ ४४॥ वामकेशी वामनेत्री वाद्या वादिजयप्रदा । धनधान्यकरी धर्म्या धर्माधर्मफलप्रदा ॥ ४५॥ समुद्रतनया स्तुत्या समुद्रा सद्रसप्रदा । सामप्रिया सामनुता सान्त्वोक्तिः सायुधा सती ॥ ४६॥ शीतीकृताग्निः शीतांशुमुखी शीलवती शिशु । भस्मीकृतासुरपुरा भरताग्रजभामिनी ॥ ४७॥ राक्षसीदुःखदा राज्ञी राक्षसीगणरक्षिणी । सरस्वती सरिद्रूपा सन्नुता सद्गतिप्रदा ॥ ४८॥ क्षमावती क्षमाशीला क्षमापुत्री क्षमाप्रदा । भर्तृभक्तिपरा भर्तृदैवता भरतस्तुता ॥ ४९॥ दूषणारातिदयिता दयितालिङ्गनोत्सुका । अल्पमध्याऽल्पधीदूरा कल्पवल्ली कलाधरा ॥ ५०॥ सुग्रीववन्द्या सुग्रीवा व्यग्रीभावावितानता । नीलाश्मभूषा नीलादिस्तुता नीलोत्पलेक्षणा ॥ ५१॥ न्याय्या न्यायपराऽऽराध्या न्यायान्यायफलप्रदा । पुण्यदा पुण्यलभ्या च पुरुषोत्तमभामिनी ॥ ५२॥ पुरुषार्थप्रदा पुण्या पण्या फणिपतिस्तुता । अशोकवनिकास्थानाऽशोका शोकविनाशिनी ॥ ५३॥ शोभारूपा शुभा शुभ्रा शुभ्रदन्ता शुचिस्मिता । पुरुहूतस्तुता पूर्णा पूर्णरूपा परेशया ॥ ५४॥ दर्भाग्रधीर्दहरगा दर्भब्रह्मास्त्रभामिनी । त्रैलोक्यमाता त्रैलोक्यमोहिनी त्रातवायसा ॥ ५५॥ त्राणैककार्या त्रिदशा त्रिदशाधीशसेविता । लक्ष्मणा लक्ष्मणाराध्या लक्ष्मणाग्रजनायिका ॥ ५६॥ लङ्काविनाशिनी लक्ष्या ललना ललिताशया । तारकाख्यप्रिया तारा तारिका तार्क्ष्यगा तरिः ॥ ५७॥ ताटकारातिमहिषी तापत्रयकुठारिका । ताम्राधरा तार्क्ष्यनुता ताम्राक्षी तारितानता ॥ ५८॥ रघुवंशपताका श्रीरघुनाथसधर्मिणी । वनप्रिया वनपरा वनजाक्षी विनीतिदा ॥ ५९॥ विद्याप्रिया विद्वदीड्या विद्याऽविद्याविनाशिनी । सर्वाधारा शमपरा शरभङ्गमुनिस्तुता ॥ ६०॥ बिल्वप्रिया बलिमती बलिसंस्तुतवैभवा । बलिराक्षससंहर्त्री बहुका बहुविग्रहा ॥ ६१॥ क्षत्रियान्तकरारातिभार्या क्षत्रियवंशजा । शरणागतसंरक्षा शरचापासिपूजिता ॥ ६२॥ शरीरभाजितरतिः शरीरजहरस्तुता । कल्याणी करुणामूर्तिः कलुषघ्नी कविप्रिया ॥ ६३॥ अचक्षुरश्रुतिरपादाप्राणा चामना अधीः । अपाणिपादाऽप्यव्यक्ता व्यक्ता व्यञ्जितविष्टपा ॥ ६४॥ शमीप्रिया सकलदा शर्मदा शर्मरूपिणी । सुतीक्ष्णवन्दनीयाङ्घ्रिः सुतवद्वत्सला सुधीः ॥ ६५॥ सुतीक्ष्णदण्डा सुव्यक्ता सुतीभूतजगत्त्रया । मधुरा मधुरालापा मधुसूदनभामिनी ॥ ६६॥ माध्वी च माधवसती माधवीकुसुमप्रिया । परा परभृतालापा परापरगतिप्रदा ॥ ६७॥ वाल्मीकिवदनाम्भोधिसुधा बलिरिपुस्तुता । नीलाङ्गदादिविनुता नीलाङ्गदविभूषिता ॥ ६८॥ विद्याप्रदा वियन्मध्या विद्याधरकृतस्तवा । कुल्या कुशलदा कल्या कला कुशलवप्रसूः ॥ ६९॥ वशिनी विशदा वश्या वन्द्या वन्दारुवत्सला । माहेन्द्री महदा मह्या मीनाक्षी मीनकेतना ॥ ७०॥ कमनीया कलामूर्तिः कुपिताऽकुपिता कृपा । अनसूयाङ्गरागाङ्काऽनसूया सूरिवन्दिता ॥ ७१॥ अम्बा बिम्बाधरा कम्बुकन्धरा मन्थरा उमा । रामानुगाऽऽरामचरी रात्रिञ्चरभयङ्करी ॥ ७२॥ एकवेणीधरा भूमिशयना मलिनाम्बरा । रक्षोहरी गिरिलसद्वक्षोजा ज्ञानविग्रहा ॥ ७३॥ मेधा मेधाविनी मेध्या मैथिली मातृवर्जिता । अयोनिजा वयोनित्या पयोनिधिसुता पृथुः ॥ ७४॥ वानरर्क्षपरीवारा वारिजास्या वरान्विता । दयार्द्राऽभयदा भद्रा निद्रामुद्रा मुदायतिः ॥ ७५॥ गृध्रमोक्षप्रदा गृध्नुः गृहीतवरमालिका । श्वश्रेयसप्रदा शश्वद्भवा शतधृतिप्रसूः ॥ ७६॥ शरत्पद्मपदा शान्ता श्वशुरार्पितभूषणा । लोकाधारा निरानन्दा नीरागा नीरजप्रिया ॥ ७७॥ नीरजा निस्तमा निःस्वा नीरीतिर्नीतिनैपुणा । नारीमणिर्नराकारा निराकाराऽनिराकृता ॥ ७८॥ कौमारी कौशलनिधिः कौशिकी कौस्तुभस्वसा । सुधाकरानुजा सुभ्रूः सुजाता सोमभूषणा ॥ ७९॥ काली कलापिनी कान्तिः कौशेयाम्बरमण्डिता । शशक्षतजसंरक्तचन्दनालिप्तगात्रका ॥ ८०॥ मञ्जीरमण्डितपदा मञ्जुवाक्या मनोरमा । गायत्र्यर्थस्वरूपा च गायत्री गोगतिप्रदा ॥ ८१॥ धन्याऽक्षरात्मिका धेनुः धार्मिका धर्मवर्धिनी । एलालकाऽप्येधमानकृपा कृसरतर्पिता ॥ ८२॥ कृष्णा कृष्णालका कृष्टा कष्टघ्नी खण्डिताशरा । कलालापा कलहकृद्दूरा काव्याब्धिकौमुदी ॥ ८३॥ अकारणा कारणात्मा कारणाविनिवर्तिनी । कविप्रिया कवनदा कृतार्था कृष्णभामिनी ॥ ८४॥ रुक्मिणी रुक्मिभगिनी रुचिरा रुचिदा रुचिः । रुक्मप्रिया रुक्मभूषा रूपिणी रूपवर्जिता ॥ ८५॥ अभीष्मा भीष्मतनया भीतिहृद्भूतिदायिनी । सत्या सत्यव्रता सह्या सत्यभामा शुचिव्रता ॥ ८६॥ सम्पन्ना संहिता सम्पत् सवित्री सवितृस्तुता । द्वारकानिलया द्वारभूता द्विपदगा द्विपात् ॥ ८७॥ एकैकात्मैकरूपैकपत्नी चैकेश्वरी प्रसूः । अज्ञानध्वान्तसूर्यार्चिः दारिद्र्याग्निघनावली ॥ ८८॥ प्रद्युम्नजननी प्राप्या प्रकृष्टा प्रणतिप्रिया । वासुदेवप्रिया वास्तुदोषघ्नी वार्धिसंश्रिता ॥ ८९॥ वत्सला कृत्स्नलावण्या वर्ण्या गण्या स्वतन्तिरका । भक्ता भक्तपराधीना भवानी भवसेविता ॥ ९०॥ राधापराधसहनी राधिताशेषसज्जना । कोमला कोमलमतिः कुसुमाहितशेखरा ॥ ९१॥ कुरुविन्दमणिश्रेणीभूषणा कौमुदीरुचिः । अम्लानमाल्या सम्मानकारिणी सरयूरुचिः ॥ ९२॥ कटाक्षनृत्यत्करुणा कनकोज्ज्वलभूषणा । निष्टप्तकनकाभाङ्गी नीलकुञ्चितमूर्धजा ॥ ९३॥ विश‍ृङ्खला वियोनिस्था विद्यमाना विदांवरा । श‍ृङ्गारिणी शिरीषाङ्गी शिशिरा शिरसि स्थिता ॥ ९४॥ सूर्यात्मिका सूरिनम्या सूर्यमण्डलवासिनी । वह्निशैत्यकरी वह्निप्रविष्टा वह्निशोभिता ॥ ९५॥ निर्हेतुरक्षिणी निष्काभरणा निष्कदायिनी । निर्ममा निर्मितजगन्निस्तमस्का निराश्रया ॥ ९६॥ निरयार्तिहरी निघ्ना निहिता निहतासुरा । राज्याभिषिक्ता राज्येशी राज्यदा राजिताश्रिता ॥ ९७॥ राकेन्दुवदना रात्रिचरघ्नी राष्ट्रवल्लभा । श्रिताच्युतप्रिया श्रोत्री श्रीदामसखवल्लभा ॥ ९८॥ रमणी रमणीयाङ्गी रमणीयगुणाश्रया । रतिप्रिया रतिकरी रक्षोघ्नी रक्षिताण्डका ॥ ९९॥ रसरूपा रसात्मैकरसा रसपराश्रिता । रसातलस्थिता रासतत्परा रथगामिनी ॥ १००॥ अश्वारूढा गजारूढा शिबिकातलशायिनी । चलत्पादा चलद्वेणी चतुरङ्गबलानुगा ॥ १०१॥ चञ्चच्चन्द्रकराकारा चतुर्थी चतुराकृतिः । चूर्णीकृताशरा चूर्णालका चूतफलप्रिया ॥ १०२॥ शिखाशीघ्रा शिखाकारा शिखाविधृतमल्लिका । शिक्षाशिक्षितमूर्खालिः शीताऽशीता शताकृतिः ॥ १०३॥ वैष्णवी विष्णुसदृशी विष्णुलोकप्रदा वृषा । वीणागानप्रिया वीणा वीणाधरमुनिस्तुता ॥ १०४॥ वैदिकी वैदिकाचारप्रीता वैदूर्यभूषणा । सुन्दराङ्गी सुहृत्स्फीता साक्षिणी साक्षमालिका ॥ १०५॥ क्रिया क्रियापरा क्रूरा क्रूरराक्षसहारिणी । तल्पस्था तरणिस्थाना तापत्रयनिवारिणी ॥ १०६॥ तीर्णप्रतिज्ञा तीर्थेशी तीर्थपादा तिथिप्रिया । चर्या चरणदा चीर्णा चीराङ्का चत्वरस्थिता ॥ १०७॥ लता लताङ्गी लावण्या लघ्वी लक्ष्याशरालया । लीला लीलाहतखला लीना लीढा शुभावलिः ॥ १०८॥ लूतोपमाना लूनाघा लोलाऽलोलविभूतिदा । अमर्त्या मर्त्यसुलभा मानुषी मानवी मनुः ॥ १०९॥ सुगन्धा सुहिता सूक्ष्मा सूक्ष्ममध्या सुतोज्ज्वला । मणिर्मणिमती मञ्जुगमना महिता मुनिः ॥ ११०॥ मिताऽमितसुखाकारा मीलिता मीनलोचना । गोमती गोकुलस्थाना गोदा गोकुलवासिनी ॥ १११॥ गजेन्द्रगामिनी गम्या माद्री मायाविनी मधुः । त्रिलोचननुता त्रिष्टुबनष्टुप्पङ्क्तिरूपिणी ॥ ११२॥ द्विपात्त्रिपादष्टपदी नवपाच्च चतुष्पदी । पङ्क्त्याननोपदेष्ट्री च शारदा पङ्क्तिपावनी ॥ ११३॥ शेखरीभूतशीतांशुः शेषतल्पाधिशायिनी । शेमुषी मुषिताशेषपातका मातृकामयी ॥ ११४॥ शिववन्द्या शिखरिणी हरिणी करिणी सृणिः । जगच्चक्षुर्जगन्माता जङ्गमाजङ्गमप्रसूः ॥ ११५॥ सर्वशब्दा सर्वमुक्तिः सर्वभक्तिस्समाहिता । क्षीरप्रिया क्षालिताघा क्षीराम्बुधिसुताऽक्षया ॥ ११६॥ मायिनी मथनोद्भूता मुग्धा दुग्धोपमस्थिता । वशगा वामनयना हंसिनी हंससेविता ॥ ११७॥ अनङ्गाऽनङ्गजननी सुतुङ्गपददायिनी । विश्वा विश्वेडिता विश्वधात्री विश्वाधिकार्थदा ॥ ११८॥ गद्यपद्यस्तुता गन्त्री गच्छन्ती गरुडासना । पश्यन्ती श‍ृण्वती स्पर्शकर्त्री रसनिरूपिणी ॥ ११९॥ भृत्यप्रिया भृतिकरी भरणीया भयापहा । प्रकर्षदा प्रसिद्धेशा प्रमाणं प्रमितिः प्रमा ॥ १२०॥ आकाशरूपिण्यध्यस्ता मध्यस्था मध्यमा मितिः । तलोदरी तलकरी तटिद्रूपा तरङ्गिणी ॥ १२१॥ अकम्पा कम्पितरिपुः जम्भारिसुखदायिनी । दयाविष्टा शिष्टसुहृत् विष्टरश्रवसःप्रिया ॥ १२२॥ हृषीकसुखदा हृद्याऽभीता भीतार्तिहारिणी । माता मनुमुखाराध्या मातङ्गी मानिताखिला ॥ १२३॥ भृगुप्रिया भ्रुगुसुता भार्गवेड्या महाबला । अनुकूलाऽमलतनुः लोपहीना लिपिस्तुता ॥ १२४॥ अन्नदाऽन्नस्वरूपऽन्नपूर्णाऽपर्णा ऋणापहा । वृन्दा वृन्दावनरतिः बन्दीभूतामरीस्तुता ॥ १२५॥ तेजस्विनी तुर्यपूज्या तेजस्त्रितयरूपिणी । षडास्यजयदा षष्ठी षडूर्मिपरिवर्जिता ॥ १२६॥ षड्जप्रिया सत्त्वरूपा सव्यमार्गप्रपूजिता । सनातनतनुस्सन्ना सम्पन्मूर्तिः सरीसृपा ॥ १२७॥ जिताशा जन्मकर्मादिनाशिनी ज्येष्ठरूपिणी । जनार्दनहृदावासा जनानन्दा जयाऽजनिः ॥ १२८॥ वासना वासनाहन्त्री वामा वामविलोचना । पयस्विनी पूततनुः पात्री परिषदर्चिता ॥ १२९॥ महामोहप्रमथिनी महाहर्षा महाधृतिः । महावीर्या महाचर्या महाप्रीता महागुणा ॥ १३०॥ महाशक्तिर्महासक्तिः महाज्ञाना महारतिः । महापूज्या महेज्या च महालाभप्रदा मही ॥ १३१॥ महासम्पन्महाकम्पा महालक्ष्या महाशया । महारूपा महाधूपा महामतिर्महामहा ॥ १३२॥ महारोगहरी मुक्ता महालोभहरी मृडा । मेदस्विनी मातृपूज्या मेया मा मातृरूपिणी ॥ १३३॥ नित्यमुक्ता नित्यबुद्धा नित्यतृप्ता निधिप्रदा । नीतिज्ञा नीतिमद्वन्द्या नीता प्रीताच्युतप्रिया ॥ १३४॥ मित्रप्रिया मित्रविन्दा मित्रमण्डलशोभिनी । निरङ्कुशा निराधारा निरास्थाना निरामया ॥ १३५॥ निर्लेपा निःस्पृहा नीलकबरी नीरजासना । निराबाधा निराकर्त्री निस्तुला निष्कभूषिता ॥ १३६॥ निरञ्जना निर्मथना निष्क्रोधा निष्परिग्रहा । निर्लोभा निर्मला नित्यतेजा नित्यकृपान्विता ॥ १३७॥ धनाढ्या धर्मनिलया धनदा धनदार्चिता । धर्मकर्त्री धर्मगोप्त्री धर्मिणी धर्मदेवता ॥ १३८॥ धारा धरित्री धरणिः धुतपापा धुताशरा । स्त्रीदेवताऽक्रोधनाथाऽमोहाऽलोभाऽमितार्थदा ॥ १३९॥ कालरूपाऽकालवशा कालज्ञा कालपालिनी । ज्ञानिध्येया ज्ञानिगम्या ज्ञानदानपरायणा ॥ १४०॥ ॥ समापन न्यासः ॥ पारायणान्ते ॐ ह्लां उपैतु मां देवसखः कीर्तिश्च मणिना सह । हृदयाय नमः । मं ह्लीं प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे । शिरसे स्वाहा । हां ह्लूं क्षुत्पिपासामलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् । शिखायै वषट् । लं ह्लैं अभूतिमसमृद्धिञ्च सर्वां निर्णुद मे गृहात् । कवचाय हुम् । क्ष्म्यैं ह्लौं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । नैत्रत्रयाय वौषट् । नमः ह्लः ईश्वरीं सर्वभूतानां तामिहोपह्नये श्रियम् । अस्त्राय हट् ॥ भूर्भुवस्सुवरोमिति दिग्विमोकः । ॥ इति श्रीनारदीयोपपुराणान्तर्गतं श्रीलक्ष्मीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्रीलक्ष्मीसहस्रनाम (नारदीय पुराण) — ऐतिहासिक संदर्भ एवं कथा

श्री लक्ष्मी सहस्रनाम स्तोत्रम् का यह संस्करण 'नारदीय उपपुराण' से उद्धृत है। अन्य सहस्रनामों की तुलना में यह अत्यंत विशिष्ट है क्योंकि इसके आरंभ में एक अत्यंत मार्मिक और शिक्षाप्रद कथा (श्लोक 1 से 50 तक) जुड़ी हुई है, जो यह स्पष्ट करती है कि पूजा के नियम और क्रोध पर नियंत्रण कितना आवश्यक है।

राजा मित्रसह की कथा: इस स्तोत्र की पृष्ठभूमि में राजा मित्रसह और देवर्षि नारद का संवाद है। राजा मित्रसह (इक्ष्वाकु वंश) अपने जीवन में अत्यंत धर्मात्मा थे, फिर भी उन्हें 12 वर्षों तक भयानक 'राक्षस योनि' में रहना पड़ा, जहाँ उन्होंने अज्ञानवश गुरु पुत्र (शक्ति मुनि) का भी भक्षण कर लिया और ब्रह्महत्या के पाप के भागी बने। जब वे पुनः मनुष्य रूप में आए, तो उन्होंने नारद जी से अपने इस दुर्भाग्य का कारण पूछा।

पूर्व जन्म का दोष (पूजा भंग): नारद जी ने बताया कि पूर्व जन्म में मित्रसह ताम्रपर्णी नदी के तट पर एक अत्यंत दरिद्र ब्राह्मण (कृष्णशर्मा) थे। दरिद्रता से मुक्ति के लिए उन्होंने माँ लक्ष्मी की 'सहस्र कमल पूजा' (1000 कमलों से अर्चना) आरंभ की। आधी पूजा संपन्न होने पर, उनकी भूखी और क्रोधित पत्नी ने बच्चों को भोजन करा दिया और ब्राह्मण को पूजा छोड़कर आने को कहा। क्रोध के वशीभूत होकर ब्राह्मण (कृष्णशर्मा) ने पूजा बीच में ही छोड़ दी और घर से निकल गए। इसी "पूजा भंग दोष" और अकारण क्रोध के कारण उन्हें अगले जन्म में राक्षस का शाप भोगना पड़ा, और उनकी पत्नी वन्ध्या (निःसंतान) हुई।

प्रायश्चित और अनुष्ठान: इस भयंकर शाप, दरिद्रता और ब्रह्महत्या के पाप से मुक्ति दिलाने के लिए नारद जी ने राजा को यह "1000 नामों वाला महास्तोत्र" उपदेशित किया और कहा कि इसके पाठ से उनका राज्य पुनः स्थिर होगा और उन्हें पुत्र रत्न की प्राप्ति होगी।

स्तोत्र के लाभ (Benefits and Phala Shruti)

इस सहस्रनाम के 140 श्लोकों में गुंथे हुए 1000 नाम साक्षात शक्ति के पुंज हैं। इसके पाठ से साधक को निम्नलिखित महालाभ प्राप्त होते हैं:

  • पूजा भंग दोष का नाश: यदि भूतकाल में आपसे अनजाने में कोई पूजा, अनुष्ठान या व्रत बीच में टूट गया हो, तो यह पाठ उस दोष का पूर्ण निवारण करता है।
  • अखंड राजयोग: नारद जी के अनुसार (श्लोक 46: "भवेत्तव स्थिरं राज्यं"), इसका पाठ करने से छिना हुआ पद, नौकरी या सम्मान वापस मिल जाता है। करियर में स्थिरता आती है।
  • संतान प्राप्ति: वन्ध्या दोष या संतान उत्पत्ति में आ रही बाधाओं को दूर करने के लिए यह स्तोत्र अमोघ है (श्लोक 49: "प्रसोष्यते च तनयं")।
  • घोर दरिद्रता से मुक्ति: 1000 नामों की ऊर्जा साधक के घर से 'अलक्ष्मी' (ज्येष्ठा) को निकालकर 'श्रीयम' (महालक्ष्मी) को स्थायी रूप से स्थापित करती है।
  • शाप और पाप मुक्ति: यह पाठ बड़े से बड़े ज्ञात-अज्ञात पापों (यहाँ तक कि ब्रह्महत्या जैसे पापों) के मानसिक बोझ से मुक्ति दिलाकर जीवन को नई दिशा देता है।

पाठ विधि एवं न्यास (Ritual Method)

महर्षि नारद ने श्लोक 56 से 65 तक इसकी विस्तृत तांत्रिक और वैदिक विधि बताई है। गृहस्थ साधक इस सरल विधि का पालन कर सकते हैं:

  • प्रतिमा स्थापना: यदि संभव हो तो स्वर्ण, रजत (चांदी) या ताम्र (तांबे) की चार भुजाओं वाली लक्ष्मी प्रतिमा स्थापित करें। यदि यह संभव न हो, तो केवल एक खिले हुए कमल के फूल (कमले कर्णिकागताम्) को ही देवी का स्वरूप मानकर पूजें।
  • न्यास और कवच: पारायण आरंभ करने से पूर्व 'कर-हृदयादि न्यास' अवश्य करें (जैसे ॐ ह्लां... हृदयाय नमः)। इससे साधक का शरीर मंत्रों की ऊर्जा ग्रहण करने के लिए तैयार होता है और बाहरी बाधाएं दूर होती हैं।
  • सहस्र कमल अर्चना: सबसे उत्तम विधान यह है कि प्रत्येक नाम (या प्रत्येक श्लोक) के साथ देवी को एक कमल का फूल अर्पित किया जाए (सहस्रकमलार्चनम्)। कमल उपलब्ध न होने पर लाल गुलाब या अक्षत (चावल) का उपयोग किया जा सकता है।
  • दिग्विमोक (समापन): पाठ के अंत में 'समापन न्यास' अवश्य पढ़ें, जिससे घर की संपूर्ण अलक्ष्मी और क्षुधा (भूख-प्यास) का नाश हो सके।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. यह लक्ष्मी सहस्रनाम किस पुराण से लिया गया है?

यह श्री लक्ष्मी सहस्रनाम स्तोत्र 'नारदीय उपपुराण' (Naradiya Upapurana) से उद्धृत है। यह महर्षि नारद और इक्ष्वाकु वंश के राजा मित्रसह के बीच का संवाद है।

2. राजा मित्रसह को राक्षस योनि क्यों प्राप्त हुई थी?

पूर्व जन्म में वे एक दरिद्र ब्राह्मण थे। उन्होंने लक्ष्मी जी की सहस्र कमल पूजा आरंभ की, लेकिन पत्नी के टोकने पर क्रोधित होकर पूजा बीच में ही छोड़ दी। पूजा भंग करने और अकारण क्रोध के कारण उन्हें अगले जन्म में राक्षस होने का शाप मिला।

3. क्या यह पाठ 'पूजा भंग दोष' को दूर करता है?

हाँ, यदि अनजाने में या क्रोधवश पूर्व में कोई पूजा खंडित हुई हो (जैसा राजा मित्रसह के साथ हुआ), तो इस सहस्रनाम का पाठ उस भारी दोष का प्रायश्चित कर देता है और रुके हुए कार्य पूर्ण होते हैं।

4. इस सहस्रनाम में कुल कितने श्लोक हैं?

इस स्तोत्र के मुख्य भाग में 1000 नामों को 140 श्लोकों में पिरोया गया है। इसके अतिरिक्त शुरुआत में पूर्वजन्म की कथा (55 श्लोक) और न्यास-ध्यान के मंत्र भी शामिल हैं।

5. पाठ के लिए कौन सा पुष्प सबसे प्रिय माना गया है?

स्तोत्र के अनुसार, माँ लक्ष्मी की पूजा 1000 'कमल के पुष्पों' (Lotus Flowers) से करना सर्वाधिक फलदायी है। यदि इतने कमल न मिलें तो मानसिक रूप से कमल अर्पित करें या लाल पुष्पों का उपयोग करें।

6. क्या यह पाठ संतान प्राप्ति के लिए किया जा सकता है?

जी हाँ। नारद जी ने राजा मित्रसह को स्पष्ट वरदान दिया था कि इस पाठ से 'प्रसोष्यते च तनयं तव भार्या' अर्थात् तुम्हारी पत्नी निश्चित रूप से एक प्रतापी पुत्र को जन्म देगी।

7. श्लोक 61 में बताए गए 'चतुष्षष्टि उपचार' क्या हैं?

चतुष्षष्टि (64) उपचार पूजा का एक अत्यंत विस्तृत तांत्रिक और राजसी विधान है जिसमें देवी को 64 प्रकार की वस्तुएं (जैसे विशेष आसन, पाद्य, आभूषण, छत्र, चंवर आदि) अर्पित की जाती हैं।

8. न्यास और ध्यान का क्या महत्व है?

पारायण से पूर्व किए जाने वाले न्यास (अंगुष्ठाभ्यां नमः आदि) साधक के शरीर को मंत्रमय और ऊर्जावान बनाते हैं, जिससे वह 1000 नामों की तीव्र ऊर्जा को सहन कर सके और बाहरी नकारात्मक शक्तियों से बच सके।

9. इस पाठ को करने का सबसे उत्तम समय क्या है?

शुक्रवार, पूर्णिमा, दीपावली और गुप्त या चैत्र/शारदीय नवरात्रि के दिनों में इसका पाठ करना सर्वोत्तम है। इसे प्रातःकाल स्नानादि से शुद्ध होकर करना चाहिए।

10. क्या सामान्य गृहस्थ इस 1000 नामों का पाठ कर सकते हैं?

बिल्कुल। महर्षि नारद ने यह उपदेश एक गृहस्थ राजा (मित्रसह) को ही दिया था ताकि उनका खोया हुआ राज्य, धन और परिवार वापस मिल सके। यह गृहस्थों के लिए अत्यंत कल्यानकारी है।