Logoपवित्र ग्रंथ

Sri Mahalakshmi Sahasranama Stotram – श्री महालक्ष्मी सहस्रनाम स्तोत्रम्

Sri Mahalakshmi Sahasranama Stotram – श्री महालक्ष्मी सहस्रनाम स्तोत्रम्
॥ श्री गणेशाय नमः ॥ ॥ श्री महालक्ष्मी सहस्रनाम स्तोत्रम् ॥ अस्य श्रीमहालक्ष्मी सहस्रनामस्तोत्र महामन्त्रस्य श्रीमहाविष्णुर्भगवान् ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः ह्रैं कीलकं श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ध्यानम् ॥ पद्मानने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १ ॥ भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् । ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २ ॥ चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् । सुकपोलां सुकर्णाग्रन्यस्तमौक्तिककुण्डलाम् ॥ ३ ॥ सुकेशां चारुबिम्बोष्ठीं रत्नतुङ्गघनस्तनीम् । अलकाग्रैरलिनिभैरलङ्कृतमुखाम्बुजाम् ॥ ४ ॥ लसत्कनकसङ्काशां पीनसुन्दरकन्धराम् । निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम् ॥ ५ ॥ नीलकुन्तलमध्यस्थमाणिक्यमकुटोज्ज्वलाम् । शुक्लमाल्याम्बरधरां तप्तहाटकवर्णिनीम् ॥ ६ ॥ अनन्यसुलभैस्तैस्तैर्गुणैः सौम्यमुखैर्निजैः । अनुरूपानवद्याङ्गीं हरेर्नित्यानपायिनीम् ॥ ७ ॥ ॥ अथ स्तोत्रम् ॥ श्रीर्वासुदेवमहिषी पुम्प्रधानेश्वरेश्वरी । अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥ १ ॥ अहम्भावात्मिका पद्मा शान्तानन्तचिदात्मिका । ब्रह्मभावं गता त्यक्तभेदा सर्वजगन्मयी ॥ २ ॥ षाड्गुण्यपूर्णा त्रय्यन्तरूपाऽऽत्मानपगामिनी । एकयोग्याऽशून्यभावाकृतिस्तेजः प्रभाविनी ॥ ३ ॥ भाव्यभावकभावाऽऽत्मभाव्या कामधुगाऽऽत्मभूः । भावाभावमयी दिव्या भेद्यभेदकभावनी ॥ ४ ॥ जगत्कुटुम्बिन्यखिलाधारा कामविजृम्भिणी । पञ्चकृत्यकरी पञ्चशक्तिमय्यात्मवल्लभा ॥ ५ ॥ भावाभावानुगा सर्वसम्मताऽऽत्मोपगूहिनी । अपृथक्चारिणी सौम्या सौम्यरूपव्यवस्थिता ॥ ६ ॥ आद्यन्तरहिता देवी भवभाव्यस्वरूपिणी । महाविभूतिः समतां गता ज्योतिर्गणेश्वरी ॥ ७ ॥ सर्वकार्यकरी धर्मस्वभावात्माऽग्रतः स्थिता । आज्ञासमविभक्ताङ्गी ज्ञानानन्दक्रियामयी ॥ ८ ॥ स्वातन्त्र्यरूपा देवोरःस्थिता तद्धर्मधर्मिणी । सर्वभूतेश्वरी सर्वभूतमाताऽऽत्ममोहिनी ॥ ९ ॥ सर्वाङ्गसुन्दरी सर्वव्यापिनी प्राप्तयोगिनी । विमुक्तिदायिनी भक्तिगम्या संसारतारिणी ॥ १० ॥ धर्मार्थसाधिनी व्योमनिलया व्योमविग्रहा । पञ्चव्योमपदी रक्षव्यावृतिः प्राप्यपूरिणी ॥ ११ ॥ आनन्दरूपा सर्वाप्तिशालिनी शक्तिनायिका । हिरण्यवर्णा हैरण्यप्राकारा हेममालिनी ॥ १२ ॥ प्रस्फुरत्ता भद्रहोमा वेशिनी रजतस्रजा । [प्रत्नरत्ना] स्वाज्ञाकार्यमरा नित्यसुरभिर्व्योमचारिणी ॥ १३ ॥ योगक्षेमवहा सर्वसुलभेच्छाक्रियात्मिका । करुणाग्रानतमुखी कमलाक्षी शशिप्रभा ॥ १४ ॥ कल्याणदायिनी कल्या कलिकल्मषनाशिनी । प्रज्ञापरिमिताऽऽत्मानुरूपा सत्योपयाचिता ॥ १५ ॥ मनोज्ञेया ज्ञानगम्या नित्यमुक्तात्मसेविनी । कर्तृशक्तिः सुगहना भोक्तृशक्तिर्गुणप्रिया ॥ १६ ॥ ज्ञानशक्तिरनौपम्या निर्विकल्पा निरामया । अकलङ्काऽमृताधारा महाशक्तिर्विकासिनी ॥ १७ ॥ महामाया महानन्दा निःसङ्कल्पा निरामया । एकस्वरूपा त्रिविधा सङ्ख्यातीता निरञ्जना ॥ १८ ॥ आत्मसत्ता नित्यशुचिः परशक्तिः सुखोचिता । नित्यशान्ता निस्तरङ्गा निर्भिन्ना सर्वभेदिनी ॥ १९ ॥ असङ्कीर्णाऽविधेयात्मा निषेव्या सर्वपालिनी । निष्कामना सर्वरसाऽभेद्या सर्वार्थ साधिनी ॥ २० ॥ अनिर्देश्याऽपरिमिता निर्विकारा त्रिलक्षणा । भयङ्करी सिद्धिरूपाऽव्यक्ता सदसदाकृतिः ॥ २१ ॥ अप्रतिहता नियन्त्री यन्त्रवाहिनी । हार्दमूर्तिर्महामूर्तिरव्यक्ता विश्वगोपिनी ॥ २२ ॥ वर्धमानाऽनवद्याङ्गी निरवद्या त्रिवर्गदा । अप्रमेयाऽक्रिया सूक्ष्मा परनिर्वाणदायिनी ॥ २३ ॥ अविगीता तन्त्रसिद्धा योगसिद्धाऽमरेश्वरी । विश्वसूतिस्तर्पयन्ती नित्यतृप्ता महौषधिः ॥ २४ ॥ शब्दाह्वया शब्दसहा कृतज्ञा कृतलक्षणा । त्रिवर्तिनी त्रिलोकस्था भूर्भुवःस्वरयोनिजा ॥ २५ ॥ अग्राह्याऽग्राहिकाऽनन्ताह्वया सर्वातिशायिनी । व्योमपद्मा कृतधुरा पूर्णकामा महेश्वरी ॥ २६ ॥ सुवाच्या वाचिका सत्यकथना सर्वपालिनी । लक्ष्यमाणा लक्षयन्ती जगज्ज्येष्ठा शुभावहा ॥ २७ ॥ जगत्प्रतिष्ठा भुवनभर्त्री गूढप्रभावती । क्रियायोगात्मिका मूर्तिः हृदब्जस्था महाक्रमा ॥ २८ ॥ परमद्यौः प्रथमजा परमाप्ता जगन्निधिः । आत्मानपायिनी तुल्यस्वरूपा समलक्षणा ॥ २९ ॥ तुल्यवृत्ता समवया मोदमाना खगध्वजा । प्रियचेष्टा तुल्यशीला वरदा कामरूपिणी ॥ ३० ॥ समग्रलक्षणाऽनन्ता तुल्यभूतिः सनातनी । महर्धिः सत्यसङ्कल्पा बह्वृचा परमेश्वरी ॥ ३१ ॥ जगन्माता सूत्रवती भूतधात्री यशस्विनी । महाभिलाषा सावित्री प्रधाना सर्वभासिनी ॥ ३२ ॥ नानावपुर्बहुभिदा सर्वज्ञा पुण्यकीर्तना । भूताश्रया हृषीकेश्वर्यशोका वाजिवाहिका ॥ ३३ ॥ ब्रह्मात्मिका पुण्यजनिः सत्यकामा समाधिभूः । हिरण्यगर्भा गम्भीरा गोधूलिः कमलासना ॥ ३४ ॥ जितक्रोधा कुमुदिनी वैजयन्ती मनोजवा । धनलक्ष्मीः स्वस्तिकरी राज्यलक्ष्मीर्महासती ॥ ३५ ॥ जयलक्ष्मीर्महागोष्ठी मघोनी माधवप्रिया । पद्मगर्भा वेदवती विविक्ता परमेष्ठिनी ॥ ३६ ॥ सुवर्णबिन्दुर्महती महायोगिप्रियाऽनघा । पद्मेस्थिता वेदमयी कुमुदा जयवाहिनी ॥ ३७ ॥ संहतिर्निर्मिता ज्योतिः नियतिर्विविधोत्सवा । रुद्रवन्द्या सिन्धुमती वेदमाता मधुव्रता ॥ ३८ ॥ विश्वम्भरा हैमवती समुद्रेच्छाविहारिणी । अनुकूला यज्ञवती शतकोटिः सुपेशला ॥ ३९ ॥ धर्मोदया धर्मसेव्या सुकुमारी सभावती । भीमा ब्रह्मस्तुता मध्यप्रभा देवर्षिवन्दिता ॥ ४० ॥ देवभोग्या महाभागा प्रतिज्ञा पूर्णशेवधिः । सुवर्णरुचिरप्रख्या भोगिनी भोगदायिनी ॥ ४१ ॥ वसुप्रदोत्तमवधूः गायत्री कमलोद्भवा । विद्वत्प्रिया पद्मचिह्ना वरिष्ठा कमलेक्षणा ॥ ४२ ॥ पद्मप्रिया सुप्रसन्ना प्रमोदा प्रियपार्श्वगा । विश्वभूषा कान्तिमती कृष्णा वीणारवोत्सुका ॥ ४३ ॥ रोचिष्करी स्वप्रकाशा शोभमानविहङ्गमा । देवाङ्कस्था परिणतिः कामवत्सा महामतिः ॥ ४४ ॥ इल्वलोत्पलनाभाऽधिशमनी वरवर्णिनी । स्वनिष्ठा पद्मनिलया सद्गतिः पद्मगन्धिनी ॥ ४५ ॥ पद्मवर्णा कामयोनिः चण्डिका चारुकोपना । रतिस्नुषा पद्मधरा पूज्या त्रैलोक्यमोहिनी ॥ ४६ ॥ नित्यकन्या बिन्दुमालिन्यक्षया सर्वमातृका । गन्धात्मिका सुरसिका दीप्तमूर्तिः सुमध्यमा ॥ ४७ ॥ पृथुश्रोणी सौम्यमुखी सुभगा विष्टरश्रुतिः । स्मितानना चारुदती निम्ननाभिर्महास्तनी ॥ ४८ ॥ स्निग्धवेणी भगवती सुकान्ता वामलोचना । पल्लवाङ्घ्रिः पद्ममनाः पद्मबोधा महाप्सराः ॥ ४९ ॥ विद्वत्प्रिया चारुहासा शुभदृष्टिः ककुद्मिनी । कम्बुग्रीवा सुजघना रक्तपाणिर्मनोरमा ॥ ५० ॥ पद्मिनी मन्दगमना चतुर्दंष्ट्रा चतुर्भुजा । शुभरेखा विलासभ्रूः शुकवाणी कलावती ॥ ५१ ॥ ऋजुनासा कलरवा वरारोहा तलोदरी । सन्ध्या बिम्बाधरा पूर्वभाषिणी स्त्रीसमाह्वया ॥ ५२ ॥ इक्षुचापा सुमशरा दिव्यभूषा मनोहरा । वासवी पाण्डरच्छत्रा करभोरुस्तिलोत्तमा ॥ ५३ ॥ सीमन्तिनी प्राणशक्तिर्विभीषण्यसुधारिणी । भद्रा जयावहा चन्द्रवदना कुटिलालका ॥ ५४ ॥ चित्राम्बरा चित्रगन्धा रत्नमौलिसमुज्ज्वला । दिव्यायुधा दिव्यमाल्या विशाखा चित्रवाहना ॥ ५५ ॥ अम्बिका सिन्धुतनया सुश्रोणिः सुमहासना । सामप्रिया नम्रिताङ्गी सर्वसेव्या वराङ्गना ॥ ५६ ॥ गन्धद्वारा दुराधर्षा नित्यपुष्टा करीषिणी । देवजुष्टाऽऽदित्यवर्णा दिव्यगन्धा सुहृत्तमा ॥ ५७ ॥ अनन्तरूपाऽनन्तस्था सर्वदानन्तसङ्गमा । यज्ञाशिनी महावृष्टिः सर्वपूज्या वषट्क्रिया ॥ ५८ ॥ योगप्रिया वियन्नाभिः अनन्तश्रीरतीन्द्रिया । योगिसेव्या सत्यरता योगमाया पुरातनी ॥ ५९ ॥ सर्वेश्वरी सुतरणिः शरण्या धर्मदेवता । सुतरा संवृतज्योतिः योगिनी योगसिद्धिदा ॥ ६० ॥ सृष्टिशक्तिर्द्योतमाना भूता मङ्गलदेवता । संहारशक्तिः प्रबला निरुपाधिः परावरा ॥ ६१ ॥ उत्तारिणी तारयन्ती शाश्वती समितिञ्जया । महाश्रीरजहत्कीर्तिः योगश्रीः सिद्धिसाधनी ॥ ६२ ॥ पुण्यश्रीः पुण्यनिलया ब्रह्मश्रीर्ब्राह्मणप्रिया । राजश्री राजकलिता फलश्रीः स्वर्गदायिनी ॥ ६३ ॥ देवश्रीरद्भुतकथा वेदश्रीः श्रुतिमार्गिणी । तमोपहाऽव्ययनिधिः लक्षणा हृदयङ्गमा ॥ ६४ ॥ मृतसञ्जीविनी शुभ्रा चन्द्रिका सर्वतोमुखी । सर्वोत्तमा मित्रविन्दा मैथिली प्रियदर्शना ॥ ६५ ॥ सत्यभामा वेदवेद्या सीता प्रणतपोषिणी । मूलप्रकृतिरीशाना शिवदा दीप्रदीपिनी ॥ ६६ ॥ अभिप्रिया स्वैरवृत्तिः रुक्मिणी सर्वसाक्षिणी । गान्धारिणी परगतिस्तत्त्वगर्भा भवाभवा ॥ ६७ ॥ अन्तर्वृत्तिर्महारुद्रा विष्णुदुर्गा महाबला । मदयन्ती लोकधारिण्यदृश्या सर्वनिष्कृतिः ॥ ६८ ॥ देवसेनाऽऽत्मबलदा वसुधा मुख्यमातृका । क्षीरधारा घृतमयी जुह्वती यज्ञदक्षिणा ॥ ६९ ॥ योगनिद्रा योगरता ब्रह्मचर्या दुरत्यया । सिंहपिञ्छा महादुर्गा जयन्ती खड्गधारिणी ॥ ७० ॥ सर्वार्तिनाशिनी हृष्टा सर्वेच्छापरिपूरिका । आर्या यशोदा वसुदा धर्मकामार्थमोक्षदा ॥ ७१ ॥ त्रिशूलिनी पद्मचिह्ना महाकालीन्दुमालिनी । एकवीरा भद्रकाली स्वानन्दिन्युल्लसद्गदा ॥ ७२ ॥ नारायणी जगत्पूरिण्युर्वरा द्रुहिणप्रसूः । यज्ञकामा लेलिहाना तीर्थकर्युग्रविक्रमा ॥ ७३ ॥ गरुत्मदुदयाऽत्युग्रा वाराही मातृभाषिणी । अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्तोरुचारिणी ॥ ७४ ॥ वैरोचनी नारसिंही जीमूता शुभदेक्षणा । दीक्षाविदा विश्वशक्तिः बीजशक्तिः सुदर्शनी ॥ ७५ ॥ प्रतीता जगती वन्यधारिणी कलिनाशिनी । अयोध्याऽच्छिन्नसन्ताना महारत्ना सुखावहा ॥ ७६ ॥ राजवत्यप्रतिभया विनयित्री महाशना । अमृतस्यन्दिनी सीमा यज्ञगर्भा समेक्षणा ॥ ७७ ॥ आकूतिऋग्यजुस्सामघोषाऽऽरामवनोत्सुका । सोमपा माधवी नित्यकल्याणी कमलार्चिता ॥ ७८ ॥ योगारूढा स्वार्थजुष्टा वह्निवर्णा जितासुरा । यज्ञविद्या गुह्यविद्याऽध्यात्मविद्या कृतागमा ॥ ७९ ॥ आप्यायनी कलातीता सुमित्रा परभक्तिदा । काङ्क्षमाणा महामाया कोलकामाऽमरावती ॥ ८० ॥ सुवीर्या दुःस्वप्नहरा देवकी वसुदेवता । सौदामिनी मेघरथा दैत्यदानवमर्दिनी ॥ ८१ ॥ श्रेयस्करी चित्रलीलैकाकिनी रत्नपादुका । मनस्यमाना तुलसी रोगनाशिन्युरुप्रदा ॥ ८२ ॥ तेजस्विनी सुखज्वाला मन्दरेखाऽमृताशिनी । ब्रह्मिष्ठा वह्निशमनी जुषमाणा गुणात्यया ॥ ८३ ॥ कादम्बरी ब्रह्मरता विधात्र्युज्ज्वलहस्तिका । अक्षोभ्या सर्वतोभद्रा वयस्या स्वस्तिदक्षिणा ॥ ८४ ॥ सहस्रास्या ज्ञानमाता वैश्वानर्यक्षवर्तिनी । प्रत्यग्वरा वारणवत्यनसूया दुरासदा ॥ ८५ ॥ अरुन्धती कुण्डलिनी भव्या दुर्गतिनाशिनी । मृत्युञ्जया त्रासहरी निर्भया शत्रुसूदिनी ॥ ८६ ॥ एकाक्षरा सत्पुरन्ध्री सुरपक्षा सुरातुला । सकृद्विभाता सर्वार्तिसमुद्रपरिशोषिणी ॥ ८७ ॥ बिल्वप्रियाऽवनी चक्रहृदया कम्बुतीर्थगा । सर्वमन्त्रात्मिका विद्युत्सुवर्णा सर्वरञ्जिनी ॥ ८८ ॥ ध्वजछत्राश्रया भूतिर्वैष्णवी सद्गुणोज्ज्वला । सुषेणा लोकविदिता कामसूर्जगदादिभूः ॥ ८९ ॥ वेदान्तयोनिर्जिज्ञासा मनीषा समदर्शिनी । सहस्रशक्तिरावृत्तिः सुस्थिरा श्रेयसां निधिः ॥ ९० ॥ रोहिणी रेवती चन्द्रसोदरी भद्रमोहिनी । सूर्या कन्याप्रिया विश्वभावनी सुविभाविनी ॥ ९१ ॥ सुप्रदृश्या कामचारिण्यप्रमत्ता ललन्तिका । मोक्षलक्ष्मीर्जगद्योनिः व्योमलक्ष्मीः सुदुर्लभा ॥ ९२ ॥ भास्करी पुण्यगेहस्था मनोज्ञा विभवप्रदा । लोकस्वामिन्यच्युतार्था पुष्कला जगदाकृतिः ॥ ९३ ॥ विचित्रहारिणी कान्ता वाहिनी भूतवासिनी । प्राणिनी प्राणदा विश्वा विश्वब्रह्माण्डवासिनी ॥ ९४ ॥ सम्पूर्णा परमोत्साहा श्रीमती श्रीपतिः श्रुतिः । श्रयन्ती श्रीयमाणा क्ष्मा विश्वरूपा प्रसादिनी ॥ ९५ ॥ हर्षिणी प्रथमा शर्वा विशाला कामवर्षिणी । सुप्रतीका पृश्निमती निवृत्तिर्विविधा परा ॥ ९६ ॥ सुयज्ञा मधुरा श्रीदा देवरातिर्महामनाः । स्थूला सर्वाकृतिः स्थेमा निम्नगर्भा तमोनुदा ॥ ९७ ॥ तुष्टिर्वागीश्वरी पुष्टिः सर्वादिः सर्वशोषिणी । शक्त्यात्मिका शब्दशक्तिर्विशिष्टा वायुमत्युमा ॥ ९८ ॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका । व्याली सङ्कर्षिणी द्योता महादेव्यपराजिता ॥ ९९ ॥ कपिला पिङ्गला स्वस्था बलाकी घोषनन्दिनी । अजिता कर्षिणी नीतिर्गरुडा गरुडासना ॥ १०० ॥ ह्लादिन्यनुग्रहा नित्या ब्रह्मविद्या हिरण्मयी । मही शुद्धविधा पृथ्वी सन्तानिन्यंशुमालिनी ॥ १०१ ॥ यज्ञाश्रया ख्यातिपरा स्तव्या वृष्टिस्त्रिकालगा । सम्बोधिनी शब्दपुर्णा विजयांशुमती कला ॥ १०२ ॥ शिवा स्तुतिप्रिया ख्यातिः जीवयन्ती पुनर्वसुः । दीक्षा भक्तार्तिहा रक्षा परीक्षा यज्ञसम्भवा ॥ १०३ ॥ आर्द्रा पुष्करिणी पुण्या गण्या दारिद्र्यभञ्जिनी । धन्या मान्या पद्मनेमी भार्गवी वंशवर्धनी ॥ १०४ ॥ तीक्ष्णप्रवृत्तिः सत्कीर्तिः निषेव्याऽघविनाशिनी । सञ्ज्ञा निःसंशया पूर्वा वनमाला वसुन्धरा ॥ १०५ ॥ पृथुर्महोत्कटाऽहल्या मण्डलाऽऽश्रितमानदा । सर्वा नित्योदितोदारा जृम्भमाणा महोदया ॥ १०६ ॥ चन्द्रकान्तोदिता चन्द्रा चतुरश्रा मनोजवा । बाला कुमारी युवतिः करुणा भक्तवत्सला ॥ १०७ ॥ मेदिन्युपनिषन्मिश्रा सुमवीरुर्धनेश्वरी । दुर्मर्षणी सुचरिता बोधा शोभा सुवर्चला ॥ १०८ ॥ यमुनाऽक्षौहिणी गङ्गा मन्दाकिन्यमरालया । गोदा गोदावरी चन्द्रभागा कावेर्युदन्वती ॥ १०९ ॥ सिनीवाली कुहू राका वारणा सिन्धुमत्यमा । वृद्धिः स्थितिर्ध्रुवा बुद्धिस्त्रिगुणा गुणगह्वरा ॥ ११० ॥ पूर्तिर्मायात्मिका स्फूर्तिर्व्याख्या सूत्रा प्रजावती । विभूतिर्निष्कला रम्भा रक्षा सुविमला क्षमा ॥ १११ ॥ प्राप्तिर्वासन्तिकालेखा भूरिबीजा महागदा । अमोघा शान्तिदा स्तुत्या ज्ञानदोत्कर्षिणी शिखा ॥ ११२ ॥ प्रकृतिर्गोमती लीला कमला कामधुग्विधिः । प्रज्ञा रामा परा सन्ध्या सुभद्रा सर्वमङ्गला ॥ ११३ ॥ नन्दा भद्रा जया रिक्ता तिथिपूर्णाऽमृतम्भरा । काष्ठा कामेश्वरी निष्ठा काम्या रम्या वरा स्मृतिः ॥ ११४ ॥ शङ्खिनी चक्रिणी श्यामा समा गोत्रा रमा दितिः । शान्तिर्दान्तिः स्तुतिः सिद्धिः विरजाऽत्युज्ज्वलाऽव्यया ॥ ११५ ॥ वाणी गौरीन्दिरा लक्ष्मीः मेधा श्रद्धा सरस्वती । स्वधा स्वाहा रतिरुषा वसुविद्या धृतिः सहा ॥ ११६ ॥ शिष्टेष्टा च शुचिर्धात्री सुधा रक्षोघ्न्यजाऽमृता । रत्नावली भारतीडा धीरधीः केवलाऽऽत्मदा ॥ ११७ ॥ या सा शुद्धिः सस्मिता का नीला राधाऽमृतोद्भवा । परधुर्यास्पदा ह्रीर्भूः कामिनी शोकनाशिनी ॥ ११८ ॥ मायाकृती रसघना नर्मदा गोकुलाश्रया । अर्कप्रभा रथेभाश्वनिलयेन्दुप्रभाऽद्भुता ॥ ११९ ॥ श्रीः कृशानुप्रभा वज्रलम्भना सर्वभूमिदा । भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ १२० ॥ अश्वपूर्वा रथमध्या हस्तिनादप्रबोधिनी । सर्वलक्षणलक्षण्या सर्वलोकप्रियङ्करी ॥ १२१ ॥ सर्वोत्कृष्टा सर्वमयी भवभङ्गापहारिणी । वेदान्तस्था ब्रह्मनीतिः ज्योतिष्मत्यमृतावहा ॥ १२२ ॥ भूताश्रया निराधारा संहिता सुगुणोत्तरा । सर्वातिशायिनी प्रीतिः सर्वभूतस्थिता द्विजा । सर्वमङ्गलमाङ्गल्या दृष्टादृष्टफलप्रदा ॥ १२३ ॥ ॥ इति श्री महालक्ष्मी सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

सहस्रनाम परिचय और महात्म्य

श्री महालक्ष्मी सहस्रनाम स्तोत्रम् वैदिक और पौराणिक साहित्य का एक अत्यंत दुर्लभ रत्न है। यह स्कन्द पुराण (कही-कही सनतकुमार संहिता में भी उल्लेखित) से लिया गया है। इस स्तोत्र में 1000 से भी अधिक दिव्य नामों का संग्रह है जो माँ लक्ष्मी के विभिन्न गुणों, उनकी शक्तियों और उनके विश्वव्यापी स्वरूप का वर्णन करते हैं।
इस स्तोत्र की विशेषता यह है कि इसके ऋषि स्वयं भगवान विष्णु हैं। विष्णु जी से बेहतर अपनी अर्धांगिनी लक्ष्मी के तत्वों को कौन जान सकता है? इसलिए यह स्तोत्र अत्यंत प्रामाणिक और प्रभावकारी माना जाता है।
यह केवल धन प्राप्ति का साधन नहीं है, बल्कि 'ब्रह्मविद्या' की प्राप्ति और 'मोक्ष' का मार्ग भी है। इसमें लक्ष्मी को 'ब्रह्मभावं गता' (ब्रह्म भाव को प्राप्त) और 'कल्याणी' (कल्याणकारी) कहा गया है।

विनियोग विवरण

ग्रंथस्कन्द पुराण / सनतकुमार संहिता
ऋषिश्रीमहाविष्णुर्भगवान् (Lord Maha Vishnu)
छंदअनुष्टुप् (Anushtup Meter)
देवताश्रीमहालक्ष्मी (Sri Mahalakshmi)
बीज मंत्रश्रीं (Shrim)
शक्तिह्रीं (Hrim)
कीलकह्रैं (Hraim)
श्लोक संख्या123 (1000+ नाम)

महालक्ष्मी कौन हैं? (दार्शनिक स्वरूप)

सामान्यतः हम लक्ष्मी को केवल 'धन की देवी' मानते हैं, लेकिन यह स्तोत्र उनके विराट दार्शनिक स्वरूप को प्रकट करता है:
  • विष्णु शक्ति: वे भगवान विष्णु की शक्ति हैं जो सृष्टि, स्थिति और लय का कार्य करती हैं। श्लोक 1 में उन्हें 'वासुदेवमहिषी' (वासुदेव की पटरानी) कहा गया है।
  • प्रकृति: वे ही मूल प्रकृति हैं। श्लोक 113 में 'प्रकृतिर्गोमती' और श्लोक 66 में 'मूलप्रकृति' कहा गया है। संसार का सारा भौतिक अस्तित्व उन्हीं का रूप है।
  • ब्रह्मविद्या: वे ज्ञान का सर्वोच्च रूप हैं। श्लोक 101 में उन्हें 'ब्रह्मविद्या' और श्लोक 27 में 'सुवाच्या' (उत्तम वाणी) कहा गया है।
  • सर्वव्यापकता: वे 'विश्वरूपा' (Universally Formed) हैं। श्लोक 95 में यह स्पष्ट है कि सारा ब्रह्मांड उन्हीं का विस्तार है।

प्रमुख नाम श्रेणियाँ

इस सहस्रनाम में माँ के 1000 नाम विभिन्न श्रेणियों में आते हैं:
श्रेणीउदाहरण नामअर्थ
सौम्य रूपकमला, रमा, पद्मिनी, श्री, हरिप्रियासुंदर, प्रेममयी, कमल पर आसीन
उग्र/शक्ति रूपमहाकाली, चण्डिका, दुर्गा, वाराही, नारसिंहीदुष्टों का नाश करने वाली शक्तियां
ज्ञान/विद्यासरस्वती, वेदमाता, ब्रह्मविद्या, आन्वीक्षिकीज्ञान और तर्क की अधिष्ठात्री
प्रकृति/तत्वपृथ्वी, वसुन्धरा, गङ्गा, यमुना, सन्ध्यानदियां, भूमि और समय के रूप
समृद्धिधनलक्ष्मी, राज्यलक्ष्मी, धान्य, वृद्धिऐश्वर्य और विकास देने वाली
रक्षणभयङ्करी, त्रासहारी, मृत्युञ्जया, अघविनाशिनीभय और मृत्यु को जीतने वाली

पाठ के लाभ (Benefits Analysis)

पुराण में वर्णित फलश्रुति के अनुसार इसके पाठ के लाभ अनंत हैं:
लाभ क्षेत्रविवरणसंबंधित नाम/श्लोक
दारिद्र्य नाशयह स्तोत्र गरीबी को जड़ से मिटाने में सक्षम है।"दारिद्र्यभञ्जिनी" (श्लोक 104)
पाप मुक्तिसंचित पापों और अज्ञान का नाश होता है।"अघविनाशिनी" (श्लोक 105)
मोक्ष प्राप्तियह केवल भोग नहीं, अपितु मोक्ष भी देता है।"मोक्षलक्ष्मी" (श्लोक 92)
शत्रु/भय नाशशत्रुओं पर विजय और भय से मुक्ति।"शत्रुसूदिनी" (श्लोक 86)
आरोग्यरोगों का नाश और दीर्घ आयु।"रोगनाशिन्युरुप्रदा" (श्लोक 82)

पाठ विधि और नियम

  • सर्वोत्तम दिन: शुक्रवार (Friday), पूर्णिमा (Full Moon), और दीपावली।
  • पुष्प: श्लोक 1 में 'पद्मकरे' और 'पद्मानने' कहा गया है, इसलिए कमल का फूल (Lotus) माँ को सबसे प्रिय है। यदि कमल न मिले तो गुलाब।
  • दिशा: पूर्व या उत्तर दिशा की ओर मुख करें।
  • आसन: ऊनी आसन या रेशमी वस्त्र का प्रयोग करें।
  • नैवेद्य: खीर, दूध की मिठाई या मखाने का भोग लगाएं।
  • संख्या: नित्य 1 बार पाठ पर्याप्त है। विशेष अनुष्ठान में 40 दिनों तक पाठ किया जा सकता है।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. अष्टोत्तर शतनाम (108) और सहस्रनाम (1000) में क्या अंतर है?

अष्टोत्तर शतनाम (108 नाम) पूजा और अर्चना के लिए संक्षिप्त और सरल माने जाते हैं, जो दैनिक पूजा के लिए उत्तम हैं। सहस्रनाम (1000 नाम) अत्यंत विस्तृत और गहन साधना है। इसमें देवता के सूक्ष्म से सूक्ष्म गुणों का वर्णन होता है। सहस्रनाम का प्रभाव अधिक व्यापक और गहरा होता है, जो बड़े संकल्पों की पूर्ति के लिए किया जाता है।

2. 'दृष्टादृष्टफलप्रदा' का क्या अर्थ है?

श्लोक 123 में यह शब्द आता है। दृष्ट फल का अर्थ है जो दिखाई दे (जैसे - धन, मकान, पुत्र, यश)। अदृष्ट फल का अर्थ है जो दिखाई न दे पर आत्मा के लिए हो (जैसे - पुण्य, पापों का नाश, स्वर्ग, मोक्ष)। यह स्तोत्र भौतिक और आध्यात्मिक दोनों प्रकार की उन्नति देता है।

3. क्या स्त्रियां इस स्तोत्र का पाठ कर सकती हैं?

हां, बिल्कुल। माँ लक्ष्मी स्वयं एक स्त्री शक्ति हैं। स्त्रियां इस स्तोत्र का पाठ निसंकोच कर सकती हैं। यह उनके सौभाग्य, सौंदर्य, और गृह-सुख (श्लोक 111 - 'प्रजावती') में वृद्धि करता है।

4. बीज मंत्र 'श्रीं' (Shrim) का क्या रहस्य है?

श्रीं लक्ष्मी जी का एकाक्षरी बीज मंत्र है। इसमें चार ध्वनियां हैं: (शरण/शुभता), (धन/रति), (महामाया/तुष्टि), और नाद (बिंदु/ब्रह्म)। यह ब्रह्मांड की 'समृद्धि' और 'शुभता' का ध्वनि रूप है। विनियोग में इसे बीज रूप में स्थापित किया गया है।

5. क्या यह स्तोत्र कर्ज (Debt) मुक्ति में सहायक है?

हां। श्लोक 104 में माँ को 'दारिद्र्यभञ्जिनी' कहा गया है। दरिद्रता का एक बड़ा रूप कर्ज है। नियमित पाठ से आय के नए स्रोत बनते हैं और पुराने कर्ज उतरने लगते हैं। शुक्रवार को इसका पाठ कर्ज मुक्ति के लिए विशेष फलदायी है।

6. क्या इसमें माँ के उग्र रूप भी हैं?

हां। अधिकांश लोग लक्ष्मी को केवल सौम्य समझते हैं, लेकिन इस सहस्रनाम में उन्हें 'महाकाली', 'चण्डिका', 'त्रासहरी' (भय को हरने वाली), और 'भीमा' (भयानक) भी कहा गया है। यह सिद्ध करता है कि आवश्यकता पड़ने पर वह अपने भक्तों की रक्षा के लिए शस्त्र भी धारण करती हैं (श्लोक 72 - 'त्रिशूलिनी')।

7. पाठ के लिए सर्वोत्तम समय कौन सा है?

प्रातः काल (सूर्योदय) और सायंकाल (गोधूलि वेला - जिसे श्लोक 34 में 'गोधूलि' कहा गया है) सर्वोत्तम हैं। दिवाली की रात या शुक्रवार की रात को किया गया पाठ विशेष सिद्धियाँ देता है।

8. 'वासुदेवमहिषी' नाम का क्या तात्पर्य है?

श्लोक 1 की शुरुआत ही 'श्रीर्वासुदेवमहिषी' से होती है। इसका अर्थ है - भगवान वासुदेव (कृष्ण/विष्णु) की पटरानी। यह दर्शाता है कि लक्ष्मी की सत्ता विष्णु से अलग नहीं है। वे उनकी शक्ति हैं। इसलिए विष्णु भक्त के लिए लक्ष्मी पाठ अनिवार्य है।

9. क्या इस पाठ से विद्या प्राप्त होती है?

निश्चित रूप से। श्लोक 101 में उन्हें 'ब्रह्मविद्या' और श्लोक 99 में 'आन्वीक्षिकी' (तर्क विद्या) कहा गया है। जो छात्र इसका पाठ करते हैं, उनकी बुद्धि (श्लोक 53 - 'प्रज्ञा') और स्मरण शक्ति (श्लोक 53 - 'स्मृति') तेज होती है।

10. वाराही और नारसिंही नाम यहां क्यों हैं?

सप्त मातृकाएं (Seven Mothers) देवी के ही रूप हैं। श्लोक 74-75 में 'वाराही' और 'नारसिंही' नाम आते हैं। यह बताता है कि विष्णु के सभी अवतारों की शक्तियां (वराह की वाराही, नृसिंह की नारसिंही) मूलतः महालक्ष्मी ही हैं।

11. 'यज्ञ' से इसका क्या संबंध है?

स्तोत्र में कई बार यज्ञ का उल्लेख है - श्लोक 102 में 'यज्ञाश्रया' और श्लोक 69 में 'स्वाहा' और 'स्वधा'। वैदिक यज्ञों में दी जाने वाली आहुति अग्नि के माध्यम से देवताओं तक पहुँचती है, वह शक्ति 'स्वाहा' रूप में लक्ष्मी ही हैं। बिना लक्ष्मी के कोई यज्ञ पूर्ण नहीं होता।

12. क्या बिना संस्कृत जाने हिंदी में पढ़ सकते हैं?

वैसे तो संस्कृत ध्वनियों (Sound vibrations) का अपना विज्ञान है, लेकिन यदि उच्चरण कठिन लगे, तो आप भक्ति भाव से इसे सुन सकते हैं या नामों का हिंदी अर्थ समझकर उनका मानसिक ध्यान कर सकते हैं। भाव प्रधान है।