Logoपवित्र ग्रंथ

Sri Kamala Sahasranama Stotram – श्री कमला सहस्रनाम स्तोत्रम्

Sri Kamala Sahasranama Stotram – श्री कमला सहस्रनाम स्तोत्रम्
॥ श्री कमला सहस्रनाम स्तोत्रम् (पद्म-पुराणान्तर्गतम्) ॥ ॥ पूर्वपीठिका (ध्यान एवं इतिहास) ॥ तामाह्वयामि सुभगां लक्ष्मीं त्रैलोक्यपूजिताम् । एह्येहि देवि पद्माक्षि पद्माकरकृतालये ॥ १ ॥ आगच्छागच्छ वरदे पश्य मां स्वेन चक्षुषा । आयाह्यायाहि धर्मार्थकाममोक्षमये शुभे ॥ २ ॥ एवं विधैः स्तुतिपदैः सत्यैः सत्यार्थसंस्तुता । कनीयसी महाभागा चन्द्रेण परमात्मना ॥ ३ ॥ निशाकरश्च सा देवी भ्रातरौ द्वौ पयोनिधेः । उत्पन्नमात्रौ तावास्तां शिवकेशवसंश्रितौ ॥ ४ ॥ सनत्कुमारस्तमृषिं समाभाष्य पुरातनम् । प्रोक्तवानितिहासं तु लक्ष्म्याः स्तोत्रमनुत्तमम् ॥ ५ ॥ ॥ सनत्कुमार-ब्रह्मा संवाद ॥ अथेदृशान्महाघोराद्दारिद्र्यान्नरकात्कथम् । मुक्तिर्भवति लोकेऽस्मिन् दारिद्र्यं याति भस्मताम् ॥ ६ ॥ सनत्कुमार उवाच । पूर्वं कृतयुगे ब्रह्मा भगवान् सर्वलोककृत् । सृष्टिं नानाविधां कृत्वा पश्चाच्चिन्तामुपेयिवान् ॥ ७ ॥ किमाहाराः प्रजास्त्वेताः सम्भविष्यन्ति भूतले । तथैव चासां दारिद्र्यात्कथमुत्तरणं भवेत् ॥ ८ ॥ दारिद्र्यान्मरणं श्रेयस्त्विति सञ्चिन्त्य चेतसि । क्षीरोदस्योत्तरे कूले जगाम कमलोद्भवः ॥ ९ ॥ तत्र तीव्रं तपस्तप्त्वा कदाचित्परमेश्वरम् । ददर्श पुण्डरीकाक्षं वासुदेवं जगद्गुरुम् ॥ १० ॥ सर्वज्ञं सर्वशक्तीनां सर्वावासं सनातनम् । सर्वेश्वरं वासुदेवं विष्णुं लक्ष्मीपतिं प्रभुम् ॥ ११ ॥ सोमकोटिप्रतीकाशं क्षीरोदविमले जले । अनन्तभोगशयनं विश्रान्तं श्रीनिकेतनम् ॥ १२ ॥ कोटिसूर्यप्रतीकाशं महायोगेश्वरेश्वरम् । योगनिद्रारतं श्रीशं सर्वावासं सुरेश्वरम् ॥ १३ ॥ जगदुत्पत्तिसंहारस्थितिकारणकारणम् । लक्ष्म्यादिशक्तिकरणं जातमण्डलमण्डितम् ॥ १४ ॥ आयुधैर्देहवद्भिश्च चक्राद्यैः परिवारितम् । दुर्निरीक्ष्यं सुरैः सिद्धैर्महायोनिशतैरपि ॥ १५ ॥ आधारं सर्वशक्तीनां परं तेजः सुदुस्सहम् । प्रबुद्धं देवमीशानं दृष्ट्वा कमलसम्भवः ॥ १६ ॥ शिरस्यञ्जलिमाधाय स्तोत्रं पूर्वमुवाच ह । मनोवाञ्छितसिद्धिं त्वं पूरयस्व महेश्वर ॥ १७ ॥ जितं ते पुण्डरीक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ १८ ॥ सर्वेश्वर जयानन्द सर्वावास परात्पर । प्रसीद मम भक्तस्य छिन्धि सन्देहजं तमः ॥ १९ ॥ एवं स्तुतः स भगवान् ब्रह्मणाऽव्यक्तजन्मना । प्रसादाभिमुखः प्राह हरिर्विश्रान्तलोचनः ॥ २० ॥ ॥ श्रीभगवानुवाच ॥ हिरण्यगर्भ तुष्टोऽस्मि ब्रूहि यत्तेऽभिवाञ्छितम् । तद्वक्ष्यामि न सन्देहो भक्तोऽसि मम सुव्रत ॥ २१ ॥ केशवाद्वचनं श्रुत्वा करुणाविष्टचेतनः । प्रत्युवाच महाबुद्धिर्भगवन्तं जनार्दनम् ॥ २२ ॥ चतुर्विधं भवस्यास्य भूतसर्गस्य केशव । परित्राणाय मे ब्रूहि रहस्यं परमाद्भुतम् ॥ २३ ॥ दारिद्र्यशमनं धन्यं मनोज्ञं पावनं परम् । सर्वेश्वर महाबुद्धे स्वरूपं भैरवं महत् ॥ २४ ॥ श्रियः सर्वातिशायिन्यास्तथा ज्ञानं च शाश्वतम् । नामानि चैव मुख्यानि यानि गौणानि चाच्युत ॥ २५ ॥ त्वद्वक्त्रकमलोत्थानि श्रोतुमिच्छामि तत्त्वतः । इति तस्य वचः श्रुत्वा प्रतिवाक्यमुवाच सः ॥ २६ ॥ ॥ श्रीभगवानुवाच (ध्यान-योग) ॥ महाविभूतिसम्युक्ता षाड्गुण्यवपुषः प्रभो । भगवद्वासुदेवस्य नित्यं चैषाऽनपायिनी ॥ २७ ॥ एकैव वर्ततेऽभिन्ना ज्योत्स्नेव हिमदीधितेः । सर्वशक्त्यात्मिका चैव विश्वं व्याप्य व्यवस्थिता ॥ २८ ॥ सर्वैश्वर्यगुणोपेता नित्यशुद्धस्वरूपिणी । प्राणशक्तिः परा ह्येषा सर्वेषां प्राणिनां भुवि ॥ २९ ॥ शक्तीनां चैव सर्वासां योनिभूता परा कला । अहं तस्याः परं नाम्नां सहस्रमिदमुत्तमम् ॥ ३० ॥ शृणुष्वावहितो भूत्वा परमैश्वर्यभूतिदम् । देव्याख्यास्मृतिमात्रेण दारिद्र्यं याति भस्मताम् ॥ ३१ ॥ ॥ अथ स्तोत्रम् (मूल सहस्रनाम) ॥ विनियोग: ॐ अस्य श्री सर्वैश्वर्यकारिणी श्रीमहालक्ष्मीस्तवनमाला मन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, दरिद्रय-नाशार्थे, सर्व-सम्पत्-प्राप्त्यर्थे च जपे विनियोगः। ओं श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया । केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥ ३२ ॥ व्योमपद्मकृताधारा परा व्योमा मतोद्भवा । निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥ ३३ ॥ अच्युता व्योमनिलया परमानन्दरूपिणी । नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥ ३४ ॥ ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा । स्नेहाभासा निरानन्दा विभूतिर्विमला चला ॥ ३५ ॥ अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकाशिनी । शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥ ३६ ॥ मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया । ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकासिनी ॥ ३७ ॥ स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला । स्वरूपा सर्वगाऽपारा बृंहिणी सुगुणोर्जिता ॥ ३८ ॥ अकलङ्का निराधारा निस्सङ्कल्पा निराश्रया । असङ्कीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥ ३९ ॥ अनौपम्या निर्विकल्पा निर्यन्त्रा यन्त्रवाहिनी । अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥ ४० ॥ अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी । अनिर्देश्याऽप्रतिहता निर्बीजा पावनी परा ॥ ४१ ॥ अप्रतर्क्याऽपरिमिता भवभ्रान्तिविनाशिनी । एका द्विरूपा त्रिविधा असङ्ख्याता सुरेश्वरी ॥ ४२ ॥ सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रुवा गतिः । ईश्वरी महिमा ऋद्धिः प्रमोदा उज्ज्वलोद्यमा ॥ ४३ ॥ अक्षया वर्धमाना च सुप्रकाशा विहङ्गमा । नीरजा जननी नित्या जया रोचिष्मती शुभा ॥ ४४ ॥ तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी । अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥ ४५ ॥ अवदाता सुशुद्धा च अमोघाख्या परम्परा । सन्धानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥ ४६ ॥ लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणेनवा । अनुग्रहाशक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥ ४७ ॥ सत्या प्रह्वा क्रियायोग्या ह्यपर्णा ह्लादिनी शिवा । सम्पूर्णाह्लादिनी शुद्धा ज्योतिष्मत्यमतावहा ॥ ४८ ॥ रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा । परा वसुमती देवी कान्तिः शान्तिर्मतिः कला ॥ ४९ ॥ कला कलङ्करहिता विशालोद्दीपनी रतिः । सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥ ५० ॥ अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा । धूमा कलावती पूर्णा भासुरा सुमती रसा ॥ ५१ ॥ शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च । प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥ ५२ ॥ अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी । अनन्तरूपाऽनन्तात्माऽनन्तस्थाऽनन्तसम्भवा ॥ ५३ ॥ महाशक्तिः प्राणशक्तिः प्राणदात्री रतिम्भरा । महासमूहा निखिला इच्छाधारा सुखावहा ॥ ५४ ॥ प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहा बुद्धिगोचरा । नानादेहा महावर्ता बहुदेहविकासिनी ॥ ५५ ॥ सहस्राणी प्रधाना च न्यायवस्तुप्रकाशिका । सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥ ५६ ॥ नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातना । व्यक्ताऽव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥ ५७ ॥ सङ्कल्पसिद्धा साङ्ख्येया तत्त्वगर्भा धरावहा । भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥ ५८ ॥ प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा । कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥ ५९ ॥ नीरूपोद्भिन्नसन्ताना सुयन्त्रा त्रिगुणालया । महामाया योगमाया महायोगेश्वरी प्रिया ॥ ६० ॥ महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना । प्रकृतिर्भगवन्मायाशक्तिर्निद्रा यशस्करी ॥ ६१ ॥ चिन्ता बुद्धिर्यशः प्रज्ञा शान्तिराप्रीतिवर्धिनी । प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥ ६२ ॥ काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा । सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥ ६३ ॥ वरिष्ठा विजया वीरा जयन्ती विजयप्रदा । हृद्गृहा गोपिनी गुह्या गणगन्धर्वसेविता ॥ ६४ ॥ योगीश्वरी योगमाया योगिनी योगसिद्धिदा । महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥ ६५ ॥ ब्रह्मेन्द्ररुद्रनमिता सुरासुरवरप्रदा । त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥ ६६ ॥ सुतारा तारिणी तारा दुर्गा सन्तारिणी परा । सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥ ६७ ॥ गुह्यविद्या यज्ञविद्या महाविद्या सुशोभिता । अध्यात्मविद्या विघ्नेशी पद्मस्था परमेष्ठिनी ॥ ६८ ॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका । गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥ ६९ ॥ विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा । सिद्धिः स्वाहा स्वधा स्वस्तिः सुधा सर्वार्थसाधिनी ॥ ७० ॥ इच्छा सृष्टिर्द्युतिर्भूतिः कीर्तिः श्रद्धा दया मतिः । श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥ ७१ ॥ अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा । प्रतिज्ञा सन्ततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥ ७२ ॥ स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा । सन्ध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥ ७३ ॥ काङ्क्षा माया महामाया मोहिनी माधवप्रिया । सौम्याभोगा महाभोगा भोगिनी भोगदायिनी ॥ ७४ ॥ सुधौतकनकप्रख्या सुवर्णकमलासना । हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥ ७५ ॥ चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा । त्रैलोक्यमण्डना नारीनरेश्वरवरार्चिता ॥ ७६ ॥ त्रैलोक्यसुन्दरी रामा महाविभववाहिनी । पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ७७ ॥ पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता । विचित्ररत्नमुकुटा विचित्राम्बरभूषणा ॥ ७८ ॥ विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना । महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ७९ ॥ कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणी कला । जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥ ८० ॥ वारुणी वरदा व्याख्या घण्टाकर्णविराजिता । नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ८१ ॥ ऐन्द्री कामधनुः सृष्टिः कामयोनिर्महाप्रभा । दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥ ८२ ॥ गरुडारूढहृदया चान्द्री श्रीर्मधुरानना । महोग्ररूपा वाराही नारसिंही हतासुरा ॥ ८३ ॥ युगान्तहुतभुग्ज्वाला कराला पिङ्गला कला । त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ८४ ॥ महोत्कटा महारक्ता महाचण्डा महासना । शङ्खिनी लेखिनी स्वस्था लिखिता खेचरेश्वरी ॥ ८५ ॥ भद्रकाली चैकवीरा कौमारी भगमालिनी । कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥ ८६ ॥ बालिका धनदा सूर्या हृदयोत्पलमालिका । अजिता वर्षिणी रीतिर्भेरुण्डा गरुडासना ॥ ८७ ॥ वैश्वानरी महामाया महाकाली विभीषणा । महामन्दारविभवा शिवानन्दा रतिप्रिया ॥ ८८ ॥ उद्रीतिः पद्ममाला च धर्मवेगा विभावनी । सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥ ८९ ॥ सहसावर्तमाना च हस्तिनादप्रबोधिनी । हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्धरा ॥ ९० ॥ सूर्या हिरण्यप्रकटसदृशी हेममालिनी । पद्मानना नित्यपुष्टा देवमाताऽमृतोद्भवा ॥ ९१ ॥ महाधना च या शृङ्गी कर्दमी कम्बुकन्धरा । आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥ ९२ ॥ वरार्चिता वरारोहा वरेण्या विष्णुवल्लभा । कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥ ९३ ॥ योगनिद्रा योगरता देवकीकामरूपिणी । कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥ ९४ ॥ कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया । विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥ ९५ ॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । घण्टानिनादबहुला जीमूतध्वनिनिस्स्वना ॥ ९६ ॥ महादेवेन्द्रमथिनी भ्रुकुटीकुटिलानना । सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥ ९७ ॥ आर्या यशोदासुतदा धर्मकामार्थमोक्षदा । दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥ ९८ ॥ भक्तार्तिशमनी भव्या भवभर्गापहारिणी । क्षीराब्धितनया पद्मा कमला धरणीधरा ॥ ९९ ॥ रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी । प्रज्ञाधाराऽमितप्रज्ञा वेदमाता यशोवती ॥ १०० ॥ समाधिर्भावना मैत्री करुणा भक्तवत्सला । अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरागतिः ॥ १०१ ॥ दीक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला । अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥ १०२ ॥ सुदीप्ता लेलिहाना च कराला विश्वपूरका । विश्वसंहारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥ १०३ ॥ उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी । क्षीरधारासुप्रभावा लोकमाता सुवर्चसा ॥ १०४ ॥ हव्यगर्भा चाज्यगर्भा जुह्वतो यज्ञसम्भवा । आप्यायनी पावनी च दहनी दहनाश्रया ॥ १०५ ॥ मातृका माधवी मुच्या मोक्षलक्ष्मीर्महर्धिदा । सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥ १०६ ॥ श्वेता सुशुक्लवसना शुक्लमाल्यानुलेपना । हंसा हीनकरी हंसी हृद्या हृत्कमलालया ॥ १०७ ॥ सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा । सावित्री सत्यसङ्कल्पा कामदा कामकामिनी ॥ १०८ ॥ दर्शनीया दृशा दृश्या स्पृश्या सेव्या वराङ्गना । भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ १०९ ॥ आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी । श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥ ११० ॥ अचिन्त्यानन्तविभवा भवभावविभावनी । निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥ १११ ॥ बला बलाधिका देवी गौतमी गोकुलालया । तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥ ११२ ॥ उद्याननगरद्वारहर्म्योपवनवासिनी । कूष्माण्डी दारुणा चण्डा किराती नन्दनालया ॥ ११३ ॥ कालायना कालगम्या भयदा भयनाशिनी । सौदामिनी मेघरवा दैत्यदानवमर्दिनी ॥ ११४ ॥ जगन्माताऽभयकरी भूतधात्री सुदुर्लभा । काश्यपी शुभदाना च वनमाला शुभा वरा ॥ ११५ ॥ धन्या धन्येश्वरी धन्या रत्नदा वसुवर्धिनी । गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ ११६ ॥ इडा शान्तिकरी चैव तामसी कमलालया । आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥ ११७ ॥ जगत्प्रिया च सरथा दुर्जया खगवाहना । मनोभवा कामचारा सिद्धचारणसेविता ॥ ११८ ॥ व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला । रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ ११९ ॥ श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी । विरिञ्चिमाता विभवा वरवारिजवाहना ॥ १२० ॥ वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्धिनी । अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ १२१ ॥ गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती । सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥ १२२ ॥ सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता । सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥ १२३ ॥ अरुन्धती वसुमती भार्गवी वास्तुदेवता । मयूरी वज्रवेताली वज्रहस्ता वरानना ॥ १२४ ॥ अनघा धरणिर्धीरा धमनी मणिभूषणा । राजश्रीरूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ १२५ ॥ जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् । सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलप्रिया ॥ १२६ ॥ धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी । कद्रूर्धनायुः कपिला सुरसा सुरमोहिनी ॥ १२७ ॥ महाश्वेता महानीला महामूर्तिर्विषापहा । सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥ १२८ ॥ तेजोवती पद्मबोधा मदलेखारुणावती । रत्ना रत्नावलीभूता शतधामा शतापहा ॥ १२९ ॥ त्रिगुणा घोषिणी रक्ष्या नर्दिनी घोषवर्जिता । साध्याऽदितिर्दितिर्देवी मृगवाहा मृगाङ्कगा ॥ १३० ॥ चित्रनीलोत्पलगता वृषरत्नकराश्रया । हिरण्यरजतद्वन्द्वा शङ्खभद्रासनस्थिता ॥ १३१ ॥ गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया । मरीचिश्चीरवसना पूर्णचन्द्रार्कविष्टरा ॥ १३२ ॥ सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च । मरीचिज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥ १३३ ॥ दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी । भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥ १३४ ॥ साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः । कपिला नीलरक्ता च सुषुम्ना विस्फुलिङ्गिनी ॥ १३५ ॥ अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा । सम्पूर्णमण्डला पूषा स्रंसिनी सुमनोहरा ॥ १३६ ॥ जया पुष्टिकरी छाया मानसा हृदयोज्ज्वला । सुवर्णकरणी श्रेष्ठा मृतसञ्जीवनी रणे ॥ १३७ ॥ विशल्यकरणी शुभ्रा सन्धिनी परमौषधिः । ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥ १३८ ॥ विद्युत्प्रभा बिन्दुमती त्रिस्वभावगुणाम्बिका । नित्योदिता नित्यदृष्टा नित्यकामकरीषिणी ॥ १३९ ॥ पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी । विदेहपूजिता कन्या माया विजयवाहिनी ॥ १४० ॥ मानिनी मङ्गला मान्या मानिनी मानदायिनी । विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥ १४१ ॥ हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी । प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥ १४२ ॥ यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धिनी । अमृता धारिणी हर्षा विनता वल्लकी शची ॥ १४३ ॥ सङ्कल्पा भामिनी मिश्रा कादम्बर्यमृता प्रभा । आगता निर्गता वज्रा सुहिता सहिताऽक्षता ॥ १४४ ॥ सर्वार्थसाधनकरी धातुर्धारणिकाऽमला । करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥ १४५ ॥ सौम्यरूपा महादीप्ता महाज्वाला विकासिनी । माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥ १४६ ॥ प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया । विजृम्भणा च वज्राख्या शृङ्खला कमलेक्षणा ॥ १४७ ॥ जयङ्करी मधुमती हरिता शशिनी शिवा । मूलप्रकृतिरीशानी योगमाता मनोजवा ॥ १४८ ॥ धर्मोदया भानुमती सर्वाभासा सुखावहा । धुरन्धरा च बाला च धर्मसेव्या तथागता ॥ १४९ ॥ सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा । सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥ १५० ॥ हलायुधा च कावीरा सर्वशास्त्रसुधारिणी । व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥ १५१ ॥ गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती । तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥ १५२ ॥ बाणप्रहरणा बाला बिम्बोष्ठी चारुहासिनी । ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥ १५३ ॥ काम्यचारी च काम्या च कामाचारविहारिणी । हिमशैलेन्द्रसङ्काशा गजेन्द्रवरवाहना ॥ १५४ ॥ अशेषसुखसौभाग्यसम्पदां योनिरुत्तमा । सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥ १५५ ॥ सर्वाङ्गयोनिः साऽव्यक्ता सम्प्रधानेश्वरेश्वरी । विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥ १५६ ॥ परा निर्महिमा देवी हरिवक्षःस्थलाश्रया । सा देवी पापहन्त्री च सान्निध्यं कुरुतान्मम ॥ १५७ ॥ ॥ फलश्रुति ॥ इति नाम्नां सहस्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् । परावरेण भेदेन मुख्यगौणेन भागतः ॥ १५८ ॥ यश्चैतत्कीर्तयेन्नित्यं शृणुयाद्वापि पद्मज । शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥ १५९ ॥ श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः । भोगैश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥ १६० ॥ तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् । ततो नामसहस्रेण तोषयेत्परमेश्वरीम् ॥ १६१ ॥ नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् । प्रसादाभिमुखी लक्ष्मीः सर्वं तस्मै प्रयच्छति ॥ १६२ ॥ यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा । कारणत्वं न तिष्ठन्ति जगत्यस्मिंश्चराचरे ॥ १६३ ॥ तस्मात्प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा । सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥ १६४ ॥ एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः । तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥ १६८ ॥ तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया । ज्ञानादिषाड्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥ १६६ ॥ एकैकशक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते । परा परेशी सर्वेशी सर्वाकारा सनातनी ॥ १६७ ॥ अनन्तनामधेया च शक्तिचक्रस्य नायिका । जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥ १६८ ॥ तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी । सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥ १६९ ॥ यो यो जगति पुम्भावः स विष्णुरिति निश्चयः । या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥ १७० ॥ प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते । अथ किं बहुनोक्तेन नरनारीमयो हरिः ॥ १७१ ॥ अनेकभेदभिन्नस्तु क्रियते परमेश्वरः । महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥ १७२ ॥ ते प्राप्नुवन्ति परमां लक्ष्मीं संशुद्धचेतसः । पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥ १७३ ॥ दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् । सकामानां च फलदामकामानां च मोक्षदाम् ॥ १७४ ॥ पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् । महापद्मनिषण्णां तां लक्ष्मीमजरतां नमः ॥ १७५ ॥ करयुगलगृहीतं पूर्णकुम्भं दधाना क्वचिदमलगतस्था शङ्खभद्रासनस्थिता । क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥ १७६ ॥ ॥ इति पद्मपुराणे काश्मीरवर्णने हिरण्यगर्भहृदये सर्वकामप्रदायकं पुरुषोत्तमप्रोक्तं श्री कमला (महालक्ष्मी) सहस्रनाम स्तोत्रम् संपूर्णम् ॥

श्री कमला (महालक्ष्मी) सहस्रनाम - परिचय (Introduction)

श्री कमला सहस्रनाम स्तोत्रम् (Sri Kamala Sahasranama Stotram) का वर्णन पद्म पुराण के 'काश्मीर वर्णन' खंड में मिलता है। यह एक अत्यंत दुर्लभ और सिद्ध स्तोत्र है जिसे 'हिरण्यगर्भ-हृदय' (Brain of Hiranyagarbha/Brahma) भी कहा जाता है। इसकी उत्पत्ति एक विशेष संकट के निवारण के लिए हुई थी।

ऐतिहासिक पृष्ठभूमि: सृष्टि के आरंभ में, ब्रह्मा जी ने देखा कि उन्होंने जो प्रजा रची है, वह भविष्य में 'दारिद्र्य' (गहन गरीबी) से पीड़ित हो सकती है। भोजन और धन के अभाव में धर्म का पालन असंभव हो जाएगा ("किमाहाराः प्रजास्त्वेताः...")। इस चिंता से व्याकुल होकर वे क्षीरसागर के तट पर गए और भगवान विष्णु की कठोर तपस्या की। ब्रह्मा जी की करुणा देखकर भगवान विष्णु प्रकट हुए और उन्हें यह 'सहस्रनाम' प्रदान किया, जिसे जपने से दरिद्रता 'भस्म' हो जाती है।

अद्वैत का दर्शन (Philosophy of Oneness): यह सहस्रनाम केवल स्तुति नहीं, बल्कि एक उच्च दार्शनिक ग्रंथ भी है। इसमें भगवान स्पष्ट करते हैं कि विष्णु और लक्ष्मी दो नहीं, बल्कि एक ही तत्व हैं।

  • "ज्योत्स्नेव हिमदीधितेः" — जैसे चंद्रमा और उसकी चांदनी अभिन्न हैं, वैसे ही विष्णु और लक्ष्मी अभिन्न हैं।
  • "यो यो जगति पुम्भावः स विष्णुरिति निश्चयः" — जगत में जो भी पुरुष तत्व है, वह विष्णु है और जो भी नारी तत्व है, वह लक्ष्मी है।

इस प्रकार, यह स्तोत्र साधक को 'अद्वैत' (Non-duality) की दृष्टि प्रदान करता है।

पाठ के लाभ — फलश्रुति (Benefits)

स्वयं ब्रह्मा जी और भगवान विष्णु द्वारा इस स्तोत्र की फलश्रुति (Verses 158-176) में इसके चमत्कारी लाभ बताए गए हैं:

  • दारिद्र्य - शमन (Poverty Annihilation): ब्रह्मा जी का प्रश्न ही था — "दरिद्रता से मुक्ति कैसे मिले?" भगवान ने उत्तर दिया कि इस स्तोत्र के पाठ मात्र से दारिद्र्य भस्म हो जाता है। यह ऋण (Debt) और आर्थिक अभाव का नाश करने वाला है।
  • अष्ट-ऐश्वर्य प्राप्ति: जो साधक इसका नित्य पाठ करता है, उसे 'दिव्यमष्टगुणैश्वर्यं' — अणिमा, लघिमा, महिमा आदि आठ सिद्धियाँ और अपार धन मिलता है।
  • सर्व-कामना सिद्धि: "सकामानां च फलदाम" — सकाम भक्तों (इच्छा रखने वाले) की सभी मनोकामनाएं पूर्ण होती हैं।
  • मोक्ष प्राप्ति: "अकामानां च मोक्षदाम्" — जो निष्काम भाव से पाठ करते हैं, देवी उन्हें जन्म-मृत्यु के चक्र से मुक्त कर मोक्ष प्रदान करती हैं।
  • राज्य-सम्मान: यह स्तोत्र 'राज-लक्ष्मी' देने वाला है। समाज और शासन में उच्च पद और प्रतिष्ठा की प्राप्ति होती है।
  • भय और दुर्गति नाश: इसे 'घोर-दुर्गार्ति-नाशिनी' कहा गया है। यह अकाल मृत्यु, शत्रुओं और ग्रहों के भय को जड़ से मिटा देता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. क्या महाविद्या 'कमला' और 'महालक्ष्मी' अलग हैं?

तात्त्विक रूप से नहीं। तंत्र में जो 'कमला' हैं (दसवीं महाविद्या), पुराणों में वही 'महालक्ष्मी' हैं। दोनों ही 'पद्म' (कमल) की अधिष्ठात्री और विष्णु की शक्ति हैं। अंतर केवल उपासना पद्धति का है—महाविद्या साधना तांत्रिक है और महालक्ष्मी साधना पौराणिक। यह सहस्रनाम दोनों मार्गों के साधकों के लिए समान रूप से फलदायी है।

2. 'व्योम-विग्रहा' नाम का क्या रहस्य है?

श्लोक ३२ में देवी को 'व्योम-विग्रहा' (Body of Sky/Space) कहा गया है। यह दर्शाता है कि लक्ष्मी केवल सिक्कों या सोने तक सीमित नहीं हैं। वे 'चिदाकाश' (Consciousness Space) हैं। वे सर्वव्यापक शक्ति हैं, न कि केवल एक भौतिक तिजोरी की देवी।

3. क्या इसके पाठ के लिए दीक्षा अनिवार्य है?

नहीं, यह पौराणिक स्तोत्र है, इसलिए इसके लिए कठोर तांत्रिक दीक्षा अनिवार्य नहीं है। किसी भी शुभ दिन (शुक्रवार/पूर्णिमा) संकल्प लेकर पाठ शुरू किया जा सकता है। फिर भी, गुरु का मार्गदर्शन सदैव उत्तम होता है।

4. पाठ की सर्वोत्तम विधि क्या है?

शुक्रवार की रात या दीपावली की महानिशा सर्वोत्तम है। स्नान करके लाल आसन पर बैठें। सामने श्रीयंत्र या महालक्ष्मी का चित्र रखें। कमल गट्टे की माला (Lotus Seed mala) धारण करें या उससे जाप करें। पाठ से पहले देवी को कमल का पुष्प अर्पित करना विशेष फलदायी है।

5. क्या इसे संस्कृत न जानने वाले पढ़ सकते हैं?

हाँ। यदि संस्कृत पढ़ने में कठिनाई हो, तो आप इसका श्रवण (Listening) कर सकते हैं। फलश्रुति में कहा गया है — "शृणुयाद्वापि पद्मज" (जो इसे सुनेगा, उसे भी फल मिलेगा)। शुद्ध उच्चारण का प्रयास करें या हिंदी भावार्थ समझकर पाठ करें।

6. 'हिरण्यगर्भ-हृदय' (Hiranyagarbha Hridaya) क्यों कहते हैं?

ब्रह्मा जी को 'हिरण्यगर्भ' कहा जाता है। चूंकि यह ज्ञान भगवान विष्णु ने ब्रह्मा जी के हृदय (मन) की चिंता (प्रजा की दरिद्रता) को दूर करने के लिए दिया था, और यह ब्रह्मा जी के हृदय में बसा हुआ अत्यंत प्रिय ज्ञान है, इसलिए इसे 'हिरण्यगर्भ-हृदय' कहा जाता है।

7. क्या यह कर्ज (Debt) मुक्ति के लिए प्रभावी है?

अत्यंत प्रभावी। ब्रह्मा जी ने विशेष रूप से 'दरिद्रता' के निवारण के लिए ही इसे माँगा था। कर्ज दरिद्रता का ही एक रूप है। नियमित पाठ से आय के नए स्रोत बनते हैं और पुराने कर्ज उतरने लगते हैं।

8. 'इतर पश्यतु' का क्या अर्थ है?

वेबसाइट पर अंत में लिखे 'इतर पश्यतु' का अर्थ है 'अन्य देखें' (Check Other Related Stotras)। यह मूल स्तोत्र का हिस्सा नहीं है, बल्कि पाठकों के लिए एक निर्देश है कि वे अन्य सम्बंधित स्तोत्र भी पढ़ सकते हैं।

9. क्या भोजन का कोई नियम है?

लक्ष्मी साधना सात्विक होती है। पाठ के दिनों में (विशेषकर शुक्रवार को) मांसाहार, मदिरा और तामसिक भोजन (प्याज, लहसुन आदि) का त्याग करना चाहिए। शुद्ध सात्विक आहार मन की एकाग्रता बढ़ाता है।

10. पाठ के अंत में क्या करना चाहिए?

पाठ पूर्ण होने पर क्षमा प्रार्थना करें — "आवाहनं न जानामि न जानामि विसर्जनम्..."। इसके बाद देवी की आरती करें और संभव हो तो कन्याओं को खीर का प्रसाद बांटें।