Logoपवित्र ग्रंथ

Sri Gayatri Panjara Stotram – श्री गायत्री पञ्जर स्तोत्रम् (सावित्री पञ्जरम्)

Sri Gayatri Panjara Stotram – श्री गायत्री पञ्जर स्तोत्रम् (सावित्री पञ्जरम्)
॥ श्री गायत्री पञ्जर स्तोत्रम् (सावित्री पञ्जरम्) ॥
(श्री वसिष्ठ संहितायाम् ब्रह्मनारदसंवादे)
भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् । विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ १ ॥ शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् । बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ २ ॥ शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् । हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ ३ ॥ मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः । कर्पूरोद्धूलिततनुं स्रष्टारं नेत्रगोचरम् ॥ ४ ॥ विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च । नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५ ॥॥ नारद उवाच ॥ भगवन् देवदेवेश सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि तत्तत्वं भोगमोक्षैकसाधनम् ॥ ६ ॥ ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् । ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ ७ ॥ यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् । यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ ८ ॥॥ ब्रह्मोवाच ॥ शृणु नारद वक्ष्यामि ब्रह्ममूलं सनातनम् । सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९ ॥ प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् । पुरा मया तु कथितं कश्यपाय सुधीमते ॥ १० ॥ सावित्रीपञ्जरं नाम रहस्यं निगमत्रये । ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ ११ ॥ वाहनायुधमन्त्रास्त्रमूर्तिध्यानसमन्वितम् । स्तोत्रं शृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ १२ ॥ ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् । आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ १३ ॥ ओमित्यादौ विचिन्त्याथ व्योमहेमाब्जसंस्थितम् । धर्मकन्दगतज्ञानादैश्वर्याष्टदलान्वितम् ॥ १४ ॥ वैराग्यकर्णिकाधीनां प्रणवग्रहमध्यगाम् । ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ १५ ॥ तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् । नादबिन्दुकलातीतां गोपुरैरपि संवृताम् ॥ १६ ॥ विद्याऽविद्याऽमृतत्वादि प्रकारैरपिसंवृताम् । निगमार्गलसञछन्नां निर्गुणद्वारवाटिकाम् ॥ १७ ॥ चतुर्वर्गफलोपेतां महाकल्पवनैर्वृताम् । सान्द्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ १८ ॥ ध्यानधारणयोगादि तृणगुल्मलतावृताम् । सदसच्चित्स्वरूपाख्य मृगपक्षिसमाकुलाम् ॥ १९ ॥ विद्याऽविद्याविचाराख्यलोकालोकाचलावृताम् । पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ २० ॥ अविकारसमाश्लिष्टनिजध्यानगुणावृताम् । वेदोपनिषदर्थाख्य देवर्षिगणसेविताम् ॥ २१ ॥ इतिहासग्रहगणैः सदारैरभिवन्दिताम् । गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् ॥ २२ ॥ नारसिंहमुखैश्चापि पुरुषैः कल्पचारणैः । कृतगानविनोदादिकथालापनतत्पराम् ॥ २३ ॥ तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् । जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ॥ २४ ॥ वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् । अविद्यावर्णवर्ज्यां च तेजोवद्भर्गसञ्ज्ञिकाम् ॥ २५ ॥ देवस्य सच्चिदानन्द परब्रह्मरसात्मिकाम् । धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् ॥ २६ ॥ धियो यो नस्तु सविता प्रचोदयादुपासिताम् । परोऽसौ सविता साक्षाद्देवोनिर्हरणाय च ॥ २७ ॥ परोरजस इत्यादि परब्रह्मात्मसावदोम् । आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसञ्ज्ञिकाम् ॥ २८ ॥ रसोऽमृतं ब्रह्मपदैस्तां नित्यां तापिनीं पराम् । भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् ॥ २९ ॥ महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् । तादृगस्या विराड्रूपं रहस्यं प्रवदाम्यहम् ॥ ३० ॥ व्योमकेशाकुलाकाश द्योकिरीटविराजिताम् । तटिद्भ्रुकुटिनाक्रान्तविधिविष्णुशिवार्चिताम् ॥ ३१ ॥ गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् । इडापिङ्गलसौषुम्ण वामनासापुटान्विताम् ॥ ३२ ॥ सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भवजिह्विकाम् । सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् ॥ ३३ ॥ पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् । आकाशोदरवित्रस्तनाभ्यवान्तरदेशिकाम् ॥ ३४ ॥ प्राजापत्याख्यजघनामिन्द्राणीकटिसञ्ज्ञिकाम् । ऊरू मलयमेरुभ्यां शोभमानां सुरद्विषम् ॥ ३५ ॥ जानुनी जह्नुकुशिकौ वैश्वदेवलसद्भुजाम् । अयनद्वयजङ्घाद्यसुराद्यपितृसञ्ज्ञिकाम् ॥ ३६ ॥ पदाङ्घ्रिनखरोमालिभूतलद्रुमलाञ्छिताम् । ग्रहराश्यर्क्षदेवर्षिमूर्तिं च परसञ्ज्ञिकाम् ॥ ३७ ॥ तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् । अहोरात्रार्धमासाख्यामार्यां चन्द्रमसात्मिकाम् ॥ ३८ ॥ मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् । ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ॥ ३९ ॥ कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् । सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ॥ ४० ॥ वागतीतां मनोरम्यां वरदां वेदमातरम् । चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥ ४१ ॥ ध्यात्वा स्वात्मन्यभेदेन ब्रह्मपञ्जरमारभेत् । पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ॥ ४२ ॥ देवता च परो हंसः परब्रह्माधिदेवता । प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ॥ ४३ ॥ तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् । मन्त्रमापो ज्योतिरिति योनिर्हंसः सवेधकम् ॥ ४४ ॥ विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये । ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् ॥ ४५ ॥ पूर्वोक्तदेवतां ध्यायेत्साकारगुणसम्युताम् । पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् ॥ ४६ ॥ मुक्ताविद्रुमसौवर्णामोषधीशसमाननाम् । वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ॥ ४७ ॥ षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् । मृगेन्द्रवृषपक्षीन्द्रमृगहंसासनस्थिताम् ॥ ४८ ॥ अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् । रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् ॥ ४९ ॥ अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् । दिव्यस्रग्वस्त्रसञछन्नरविमण्डलमध्यगाम् ॥ ५० ॥ वराऽभयाब्जयुगलां शङ्खचक्रगदाङ्कुशाम् । शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् ॥ ५१ ॥ गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् । आदित्यपथगां देवीं स्मरेद्ब्रह्मस्वरूपिणीम् ॥ ५२ ॥ विचित्रमन्त्रजननीं स्मरेद्विद्यां सरस्वतीम् । त्रिपदा ऋङ्मयी पूर्वा मुखी ब्रह्मास्त्रसञ्ज्ञिका ॥ ५३ ॥ चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम । चतुष्पादा यजुर्ब्रह्मदण्डाख्या पातु दक्षिणा ॥ ५४ ॥ षट्त्रिंशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् । प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ॥ ५५ ॥ पातु प्रतीचीमनिशं सामब्रह्मशिरोङ्किता । सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका ॥ ५६ ॥ उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका । पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी ॥ ५७ ॥ व्योमाख्या पातु मे चोर्ध्वं दिशं वेदाङ्गसंस्थिता । विद्युन्निभा ब्रह्मसञ्ज्ञा मृगारूढा चतुर्भुजा ॥ ५८ ॥ चापेषुचर्मासिधरा पातु मे पावकीं दिशम् । ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ॥ ५९ ॥ बिभ्रत्कमण्डल्वक्षस्रक्स्रुवान्मे पातु नैरृतीम् । चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ॥ ६० ॥ वराऽभयकपालाक्षस्रग्विणी पातु मारुतीम् । श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ॥ ६१ ॥ शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम । चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ॥ ६२ ॥ वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् । तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः ॥ ६३ ॥ स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः । मन्त्राधिदेवतारूपा मुद्राधिष्ठानदेवताः ॥ ६४ ॥ व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी । तत्पदं मे शिरः पातु फालं मे सवितुःपदम् ॥ ६५ ॥ वरेण्यं मे दृशौ पातु श्रुतिं भर्गः सदा मम । घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ॥ ६६ ॥ जिह्वां मम धियः पातु कण्ठं मे पातु यःपदम् । नः पदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ॥ ६७ ॥ करौ मे च परः पातु पादौ मे रजसोऽवतु । सा मे नाभिं सदा पातु कटिं वै पातुमेवदोम् ॥ ६८ ॥ ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम । ऊरू मम रसः पातु जानुनी अमृतं मम ॥ ६९ ॥ जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा । पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ॥ ७० ॥ रोमाणि मे महः पातु लोमकं पातु मे जनः । प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ॥ ७१ ॥ सत्यं पातु ममायूंषि हंसो वृद्धिं च पातु मे । शुचिषत्पातु मे शुक्रं वसुः पातु श्रियं मम ॥ ७२ ॥ मतिं पात्वन्तरिक्षसद्धोता दानं च पातु मे । वेदिषत्पातु मे विद्यामतिथिः पातु मे गृहम् ॥ ७३ ॥ धर्मं दुरोणसत्पातु नृषत्पातु वधूं मम । वरसत्पातु मे मायाऽमृतसत्पातु मे सुतान् ॥ ७४ ॥ व्योमसत्पातु मे बन्धून् भ्रातृनब्जश्च पातु मे । पशून्मे पातु गोजाश्च ऋतजाः पातु मे भुवम् ॥ ७५ ॥ सर्वं मे अद्रिजा पातु यानं मे पात्वृतं सदा । मम सर्वं बृहत्पातु विभुरों पातु सर्वदा ॥ ७६ ॥ अनुक्तमथ यत्स्थानं शरीरान्तर्बहिश्च यत् । तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ ७७ ॥ इदं तु कथितं सम्यङ्मया ते ब्रह्मपञ्जरम् । सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ ७८ ॥ धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः । स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥ ७९ ॥
॥ अथ गायत्री नामानि ॥
शताक्षरात्मकं देव्या नामाष्टाविंशतिः शतम् । शृणु वक्ष्यामि तत्सर्वमति गुह्यं सनातनम् ॥ ८० ॥ भूतिदा भुवना वाणी वसुधा सुमना मही । तुर्या शोभा द्विजप्रीता कामधुक् भक्तसिद्धिदा ॥ ८१ ॥ विश्वा च विजया वेद्या सन्ध्या ब्राह्मी सरस्वती । हरिणी जननी नन्दा सविसर्गा तपस्विनी ॥ ८२ ॥ पयस्विनी सती त्यागा चैन्दवी सत्यवी रसा । शैवी लास्यप्रिया तुष्टा जप्या सत्या सती ध्रुवा ॥ ८३ ॥ भक्तवश्या च गायत्री भीमा विष्णुप्रिया जया । विश्वा तुर्या परा रेच्या निर्घृणी यमिनी भवा ॥ ८४ ॥ गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा । अनन्ता रविमध्यस्था सावित्री ब्राह्मणी त्रयी ॥ ८५ ॥ अपर्णा चण्डिका ध्येया मनुश्रेष्ठा च सात्विकी । भीषणा योगिनी पक्षी नदी प्रज्ञा च चोदिनी ॥ ८६ ॥ धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः । ब्रह्मिष्ठा भक्तिगम्या च कामदा बलदा वसुः ॥ ८७ ॥ आद्या वर्णमयी हृद्या लक्ष्मीः शान्ता रमाऽच्युता । सेनामुखी साममयी बहुला दोषवर्जिता ॥ ८८ ॥ सर्वकामदुघा सोमोद्भवाऽहङ्कारवर्जिता । तत्परा सुखदा सिद्धिः वेद्या पूज्या प्रसादिनी ॥ ८९ ॥ विप्रप्रसादिनी पूज्या विश्ववन्द्या विनोदिनी । द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥ ९० ॥ अष्टापदी नवपदी सा सहस्राक्षरात्मिका । अमोघफलदाऽनादिः सर्वा सर्वाङ्गसुन्दरी ॥ ९१ ॥ शर्वाणी वैष्णवी चन्द्रचूडा त्रिणयना क्षमा । विश्वमाता त्रयीसारा त्रिकालज्ञानरूपिणी ॥ ९२ ॥ चन्द्रमण्डलमध्यस्था भक्तपापविनाशिनी । वरदा छन्दसां माता ब्राह्मण्यपददायिनी ॥ ९३ ॥ य इदं परमं गुह्यं सावित्रीमन्त्रपञ्जरम् । नामाष्टविंशतिशतं शृणुयाच्छ्रावयेत्पठेत् ॥ ९४ ॥
॥ फलश्रुति ॥
मर्त्यानाममृतत्त्वाय भीतानामभयाय च । मोक्षाय च मुमुक्षूणां श्रीकामानां श्रिये सदा ॥ ९५ ॥ विजयाय युयुत्सूनां व्याधितानामरोगकृत् । वश्याय वश्यकामानां विद्यायै वेदकामिनाम् ॥ ९६ ॥ द्रविणाय दरिद्राणां पापिनां पापशान्तये । वादिनां वादविजये कवीनां कविताप्रदम् ॥ ९७ ॥ अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् । पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकाङ्क्षिणाम् ॥ ९८ ॥ क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च । राजवश्याय द्रष्टव्यं पञ्जरं नृपसेविनाम् ॥ ९९ ॥ भक्त्यर्थं विष्णुभक्तानां विष्णोः सर्वान्तरात्मनि । नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् ॥ १०० ॥ निःस्पृहाणां नृणां मुक्तिः शाश्वती भवती ध्रुवम् । जप्यं त्रिवर्गसम्युक्तं गृहस्थेन विशेषतः ॥ १०१ ॥ मुनीनां ज्ञानसिद्ध्यर्थं यतीनां मोक्षसिद्धये । उद्यन्तं चन्द्रकिरणमुपस्थाय कृताञ्जलिः ॥ १०२ ॥ कानने वा स्वभवने तिष्ठञछुद्धो जपेदिदम् । सर्वान्कामानवाप्नोति तथैव शिवसन्निधौ ॥ १०३ ॥ मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् । ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ १०४ ॥ मृगमङ्गं यथालिङ्गं कवचेन तु साधकः । मण्डलेन विशुद्ध्येत सर्वरोगैर्न संशयः ॥ १०५ ॥ मृतप्रजा च या नारी जन्मवन्ध्या तथैव च । कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् ॥ १०६ ॥ तास्ताः संवत्सरादर्वाग्ध्रियेयुर्गर्भमुत्तमम् । पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ॥ १०७ ॥ तमेव भजते सा स्त्री पतिं कामवशं नयेत् । अश्वत्थे राजवश्यार्थं बिल्वमूले सुरूपभाक् ॥ १०८ ॥ पालाशमूले विद्यार्थी तेजस्व्यभिमुखो रवेः । कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ॥ १०९ ॥ श्रीकामो विष्णुगेहे च उद्याने स्त्रीर्वशी भवेत् । आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥ ११० ॥ सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् । जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ॥ १११ ॥ किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः । यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ ११२ ॥
॥ इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे श्री गायत्री पञ्जर स्तोत्रम् सम्पूर्णम् ॥

श्री गायत्री पञ्जर स्तोत्रम् - परिचय एवं रहस्य

श्री गायत्री पञ्जर स्तोत्रम् (Sri Gayatri Panjara Stotram), जिसे 'सावित्री पञ्जरम्' के नाम से भी जाना जाता है, वैदिक साहित्य का एक परम गोपनीय और शक्तिशाली ग्रंथ है। यह स्तोत्र 'श्री वसिष्ठ संहिता' (Sri Vasistha Samhita) से लिया गया है, जहाँ सृष्टि के रचयिता भगवान ब्रह्मा अपने पुत्र देवर्षि नारद को इस ब्रह्मांडीय रहस्य का उपदेश देते हैं।

संस्कृत में 'पञ्जर' (Panjara) शब्द का अर्थ होता है 'पिंजरा', 'ढांचा' या 'अस्थि-पंजर'। आध्यात्मिक संदर्भ में, यह एक ऐसे अभेद्य कवच का प्रतीक है जो साधक को चारों दिशाओं, दसों दिशाओं और तीनों लोकों की बाधाओं से पूरी तरह सुरक्षित (Lock) कर देता है।

इस स्तोत्र की विशिष्टता यह है कि यह केवल देवी की स्तुति नहीं करता, बल्कि 'न्यास' (Nyasa) और 'दिग्बन्धन' (Directional Locking) की एक विस्तृत प्रक्रिया है। इसमें साधक अपने शरीर के प्रत्येक अंग—सिर से लेकर पैर के अंगूठे तक—में ब्रह्मांडीय शक्तियों का आवाहन करता है। यह साधक के शरीर को ही 'मंत्रमय' बना देता है।

विशिष्ट महत्व और दार्शनिक विश्लेषण

गायत्री पञ्जर स्तोत्र का महत्व इसके बहुआयामी प्रभावों में निहित है। यह केवल एक धार्मिक पाठ नहीं, बल्कि एक संपूर्ण 'चिकित्सा पद्धति' और 'आत्म-रक्षा विज्ञान' है:

  • शरीर और ब्रह्मांड का एकीकरण: इस स्तोत्र में साधक के शरीर के अंगों को ब्रह्मांडीय शक्तियों के साथ जोड़ा गया है। आँखों में 'वरेण्यं', कानों में 'भर्गः', और मुख में 'धीमहि' की स्थापना की जाती है।

  • विराट् स्वरूप का दर्शन: शलयन 30 से 41 तक देवी के विराट् स्वरूप का अद्भुत वर्णन है, जहाँ पृथ्वी उनके पैर और आकाश उनकी नाभि बताई गई है।

  • तांत्रिक प्रयोग: यह स्तोत्र वैदिक होते हुए भी तांत्रिक प्रभाव रखता है। इसमें विभिन्न वृक्षों (बिल्व, पीपल, पलाश) के नीचे पाठ करने के विशिष्ट परिणाम बताए गए हैं।

  • 128 दिव्य नाम: स्तोत्र के अंत में देवी के 128 दुर्लभ नामों की सूची है, जो अपने आप में सिद्ध मंत्र हैं।

फलश्रुति: पञ्जर पाठ के लाभ

ब्रह्मा जी ने स्वयं इस स्तोत्र की फलश्रुति (श्लोक 95-112) में इसके अमोघ लाभों का वर्णन किया है:

१. असाध्य रोगों का नाश
श्लोक 104-105 के अनुसार, ज्वर, कुष्ठ और त्वचा रोगों में कुशा के अग्रभाग से मार्जन करते हुए पाठ करने से रोगी स्वस्थ होता है।
२. संतान प्राप्ति
जो महिलाएं 'मृतवत्सा' या 'वन्ध्या' हैं, उनके लिए इस स्तोत्र का अनुष्ठान अचूक उपाय बताया गया है (श्लोक 106)।
३. सामाजिक और राजकीय विजय
वाद-विवाद, मुकदमों और सरकारी अधिकारियों को अनुकूल करने के लिए यह स्तोत्र ब्रह्मास्त्र का कार्य करता है।
४. दरिद्रता नाश
यह स्तोत्र दरिद्रों को धन और मुमुक्षुओं को मोक्ष प्रदान करता है। गृहस्थों के लिए यह धर्म, अर्थ और काम प्रदाता है।

पाठ विधि और विशेष तांत्रिक प्रयोग

गायत्री पञ्जर का पूर्ण लाभ लेने के लिए इसे शास्त्रीय विधि से करना अनिवार्य है:
  • समय: प्रतिदिन 'संध्या काल' (सुबह या शाम) में पाठ करें।
  • शुद्धि: स्नान के बाद पूर्व दिशा की ओर मुख करके कुशा या ऊन के आसन पर बैठें।
  • न्यास: पाठ से पूर्व अंगों में देवी की स्थापना का भाव करें।
  • विशिष्ट प्रयोग: राजकीय कार्य हेतु पीपल के नीचे, विद्या हेतु पलाश के नीचे और लक्ष्मी हेतु बेल वृक्ष के नीचे पाठ करें।
नोट: निस्वार्थ भाव से किया गया पाठ सदैव सुरक्षित और फलदायी होता है। तांत्रिक प्रयोगों के लिए अनुभवी मार्गदर्शन आवश्यक है।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. 'पञ्जर' (Panjara) और 'कवच' (Kavach) में क्या अंतर है?

कवच शरीर के अंगों की रक्षा करता है, जबकि 'पञ्जर' का अर्थ है 'पिंजरा' या ढांचा। यह साधक की आत्मा और शरीर दोनों को चारों ओर से मंत्रों के एक किले में कैद कर सुरक्षित कर देता है।

2. श्री गायत्री पञ्जर स्तोत्र का मुख्य स्रोत क्या है?

यह स्तोत्र 'श्री वसिष्ठ संहिता' नामक प्राचीन ग्रंथ से उद्धृत है, जिसमें ब्रह्मा और नारद का संवाद है।

3. क्या इस स्तोत्र से संतान प्राप्ति संभव है?

हाँ, फलश्रुति में स्पष्ट उल्लेख है कि संतान संबंधी समस्याओं में विधिपूर्वक पाठ करने से उत्तम संतान की प्राप्ति होती है।

4. रोग निवारण के लिए इसका प्रयोग कैसे करें?

कुशा के अग्रभाग से रोगी के शरीर का मार्जन करते हुए पाठ करने से ज्वर और त्वचा रोगों में लाभ मिलता है।

5. विद्यार्थियों के लिए इसकी विशेष विधि क्या है?

विद्यार्थियों को पलाश वृक्ष के नीचे सूर्य की ओर मुख करके पाठ करने से अपार विद्या प्राप्त होती है।

6. राजकीय कार्यों में विजय के लिए क्या उपाय है?

पीपल के वृक्ष के नीचे बैठकर इसका पाठ करने से शासकीय कार्यों में सफलता मिलती है।

7. इसमें कितने नाम शामिल हैं?

इस स्तोत्र के भीतर देवी गायत्री के 128 अत्यंत गोपनीय और शक्तिशाली नामों का संग्रह है।

8. क्या गृहस्थ व्यक्ति इसका पाठ कर सकते हैं?

हाँ, गृहस्थों को धर्म, अर्थ और सुख की प्राप्ति के लिए इसका पाठ करने का विशेष निर्देश है।

9. सावित्री और गायत्री में क्या संबंध है?

दोनों एक ही परम शक्ति के नाम हैं; यह स्तोत्र सौर और प्राण शक्ति का दिव्य समन्वय है।

10. क्या महिलाएं अशुद्धि काल में पाठ कर सकती हैं?

नहीं, इस शक्तिशाली वैदिक-तांत्रिक स्तोत्र का पाठ मासिक धर्म (अशुद्धि काल) में वर्जित है।