Logoपवित्र ग्रंथ

Sri Dakshinamurthy Mala Mantra Stavam – श्री दक्षिणामूर्ति मालामन्त्र स्तवम्

Sri Dakshinamurthy Mala Mantra Stavam – श्री दक्षिणामूर्ति मालामन्त्र स्तवम्
॥ श्री दक्षिणामूर्ति मालामन्त्र स्तवम् ॥ ॥ विनियोगः ॥ अस्य श्री दक्षिणामूर्ति मालामन्त्र स्तवस्य ब्रह्मा ऋषिः गायत्री छन्दः श्रीदक्षिणामूर्तिः परमात्मा देवता ओं बीजं स्वाहा शक्तिः फट् कीलकं श्री दक्षिणामूर्ति प्रसादसिद्ध्यर्थं जपे विनियोगः ॥ आमित्यादि न्यासः ॥ ॥ ध्यानम् ॥ भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला- -वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः । व्याख्यापीठेनिषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ लमित्यादि पञ्चपूजां कुर्यात् ॥ ओं सहनाववत्विति शान्तिः ॥ ॥ मालामन्त्र स्तवम् (१६ स्वरूप) ॥ ओं नमो भगवते श्रीशुद्धदक्षिणामूर्तये गुर्वन्तेवासिवत्सलाय गुरवे सूक्ष्मरूपाय सदाशिवाय निर्मलज्ञानप्रदाय षड्गुणपरिपूर्णाय षट्त्रिंशत्तत्त्वाधिकाय महादेव महामुनीश्वर महानन्दरूप श्रीशुद्धदक्षिणामूर्ति सदाशिव मामज्ञानान्निवर्तय निवर्तय सुज्ञाने मां प्रवर्तय प्रवर्तय ओं हुं फट् स्वाहा ॥ १ ॥ ओं ऐं ह्रीं सौः ओं नमो भगवते श्रीमेधादक्षिणामूर्तये विद्या मेधा प्रज्ञादायिने पुस्तक रुद्राक्षमालाधारिणे सकलसाम्राज्यप्रदायिने परम सदाशिव गुरुमूर्तये मम चतुष्षष्टिकलाविद्याः प्रापय प्रापय ब्रह्मराक्षसगणानुोच्चाटयोच्चाटय मेधां प्रज्ञां दापय दापय ओं सौः ह्रीं ऐं ओं हुं फट् स्वाहा ॥ २ ॥ ओं ऐं ह्रीं सौः ज्ञानेन्धनदीप्ताय ज्ञानाग्निज्वलद्दीप्तये आनन्दाज्यहविः प्रीत सम्यग् ज्ञानं प्रयच्छ मे सौः ह्रीं ऐं ओम् । ओं नमो भगवते श्रीविद्यादक्षिणामूर्तये अं आं अज्ञानेन्धनपावकाय इं ईं इच्छाविलसविलसनाय उं ऊं भक्तोपद्रवनाशकाय ऋं ॠं ऋकारस्वरूपाय लुं लूं ललाटानलनेत्राय त्रिनेत्राय एं ऐं वाग्भवबीजस्वरूपाय विद्याप्रदाय ओं औं प्रणवात्मकाय नादबिन्दुकलातीताय अं अः षट्स्वरूपाय वेदस्तुताय श्रीविद्यादक्षिणामूर्तये तुभ्यं मम सकलविद्याजालं देहि देहि दापय दापय ओं सौः ह्रीं ऐं ओं हुं फट् स्वाहा ॥ ३ ॥ ओं श्रीं ऐं ह्रीं श्रीं ओं नमो भगवते श्रीलक्ष्मीदक्षिणामूर्तये श्रां शमितासुरबृन्दाय श्रीं श्रीमत्त्रिपुरसुन्दरीपरिसेवित पादारविन्दयुगलाय श्रूं शमितशक्रादिजनबृन्दाय धनुर्बाणहस्ताय खड्गधराय परशुहस्ताय श्रैं श्रेष्ठजनसंस्तुत गुणबृन्दाय सुरूपाय सुरवन्दिताय श्रौं श्रौतस्मार्तादि सकलकर्मफलप्रदाय शरीररक्षकाय भक्तशत्रुविनाशकाय दिव्यमङ्गलविग्रहाय ह्रीं ह्रीमतीपरिसेविताय अष्टैश्वर्य संस्तुताय लक्ष्मीप्रदाय ललितामनोरञ्जनाय श्रीलक्ष्मीदक्षिणामूर्तये तुभ्यं सदाशिव मम सकलैश्वर्यं देहि देहि दापय दापय दारिद्र्यपीडितं मामाप्यायय आप्यायय ओं श्रीं ह्रीं ऐं श्रीं ओं हुं फट् स्वाहा ॥ ४ ॥ ओं ऐं ह्रीं सौः ओं नमो भगवते श्रीवागीश्वराभिधान श्रीदक्षिणामूर्तये ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलनिगमाराधित दिव्यपीठस्थित सकलसाम्राड्रूपिणे विद्यानिर्मित विविधभूषण भूषिताय द्रां द्रीं द्रूं द्रैं द्रौं द्रः दारिद्र्यारण्यदवानलाय गरुडवाहनसोदरी मनोरञ्जनाय सां सीं सूं सैं सौं सः सकललोकैकदीपकाय तेजोमयाय तेजोरूपाय भक्तापद्विनिवारणाय अपस्मारोत्तमाङ्गनिहित सव्यपाद सरोरुहाय सकलदुरितौघभञ्जनाय दुष्टविदूराय श्रीवागीश्वराभिधान दक्षिणामूर्तये तुभ्यं भक्तानां वाग्विजयं देहि देहि दापय दापय स्फुटवाग्विलासं सभाजयं कुरु कुरु ओं सौः ह्रीं ऐं ओं हुं फट् स्वाहा ॥ ५ ॥ ओं ह्रीं ह्रां ओं नमो भगवते वटमूलनिवासाभिधान श्रीदक्षिणामूर्तये श्रीं श्यामलाम्बा वीणागानासक्तमनस्काय निश्चलाय निर्मलाय ह्रीं गायक मनोभीष्टफलदाय गानविनोदाय फणाभूषणाय रत्नकिरीटाञ्चितसुशिरस्काय चन्द्रकलावतंसाय ऐं सकलनिगमाराधित दिव्यपादसरोरुहाय सोमाय आदित्यानलनेत्राय ओं तत्त्वज्ञाय तत्त्वमयाय तापसाराधित दिव्यदेहाय आं अरुणारुण कौसुम्भाम्बराभरणाय अमरकामिनी कदम्ब पाणिसरोरुह संस्थित चामर संवीजिताय क्लीं काममदापहरणाय कामितार्थफलप्रदाय कमलासनवन्दिताय कटाक्षचन्द्रिकासक्त भक्तचकोराय वटमूलनिवासाभिधान श्रीदक्षिणामूर्तये तुभ्यं मम चतुर्विधपुरुषार्थान् प्रदेहि प्रदेहि पुत्रपौत्रादि सकलसम्पदः प्रदेहि प्रदेहि ओं ह्रां ह्रीं ओं हुं फट् स्वाहा ॥ ६ ॥ ओं ऐं क्लीं सौः नमः शिवाय ओं नमो भगवते श्रीसाम्बदक्षिणामूर्तये ऐं ऐङ्कारपीठस्थाम्बा मनोरञ्जनाय ओं ज्ञानैकनिरताय ज्ञानप्रदाय ज्ञानगम्याय ज्ञानैकगोचराय ज्ञानैकनिरत मुनिसंसेवित पादयुगलाय क्लीं कमलालयाप्राणनायक नेत्रसरोरुहसम्पूजित पादयुगलाय नमः भक्ताभीष्टप्रदायक कल्पभूभुजाय सौः सूर्यनिशाकरनिर्मित रथचक्राय शिवाय शिवमयाय शिवासक्तवामभागाय क्लीं कमलासनसारथये भूनिर्मितरथाय निगमरथाश्वाय मेरुपिनाकनामक चापयुगलधराय जलनिधितूणाय कमलामनोनायकचराय विषधरनाथज्याधनुष्काय त्रिशूलधराय त्रिपुरान्तकाय श्रीसाम्बदक्षिणामूर्तये तुभ्यं मम धर्मार्थकाममोक्षाख्य चतुर्विधपुरुषार्थान् देहि देहि दापय दापय मामाप्यायय आप्यायय मामानन्दय आनन्दय मामुररीकुरु उररीकुरु ओं शिवाय नमः सौः क्लीं ऐं ओं हुं फट् स्वाहा ॥ ७ ॥ ओं अं ह्रीं ओं ह्रीं हौं ओं नमो भगवते श्रीहंसदक्षिणामूर्तये शिवाय महादेवाय ओं आं ह्रीं ओं ह्रीं हौं अर्यम्णे सोमायानलनेत्राय अन्धकसंहारकाय ओं इं ह्रीं ओं ह्रीं हौं रुद्राय असुरनाशकाय मित्राय ओं ईं ह्रीं ओं ह्रीं हौं शङ्कराय शशाङ्कशेखराय वरुणाय ओं उं ह्रीं ओं ह्रीं हौं नीललोहिताय शम्भवे सदाशिवाय ओं ऊं ह्रीं ओं ह्रीं हौं ईशानाय भर्गाय भवनाशनाय ओं एं ह्रीं ओं ह्रीं हौं विजयाय विवस्वते विरूपाक्षाय ओं ऐं ह्रीं ओं ह्रीं हौं भीमाय इन्द्राय कामितार्थप्रदाय ओं ओं ह्रीं ओं ह्रीं हौं कपर्दिने पूष्णे विश्वतोमुखाय ओं औं ह्रीं ओं ह्रीं हौं वरुणाय पर्जन्याय ताराधिपभूषणाय ओं अं ह्रीं ओं ह्रीं हौं स्थाणवे त्वष्ट्रे नीललोहिताय ओं अः ह्रीं ओं ह्रीं हौं नीलकण्ठाय निर्मलाय निरञ्जनाय विष्णवे सदाशिवाय श्रीहंसदक्षिणामूर्तये तुभ्यं मह्यं मेधां प्रज्ञां विद्यां देहि देहि दापय दापय ओं हौं ह्रीं ओं ह्रीं अं ओं हुं फट् स्वाहा ॥ ८ ॥ ओं ह्रां ओं ह्रीं ओं ह्रूं ओं ह्रैं ओं ह्रौं ओं ह्रः ओं नमो भगवते श्रीलकुटदक्षिणामूर्तये विबुधवन्दितविग्रहाय शुकाद्यनेकमुनिपरिवृताय नीलकण्ठाय कुठारपाणये त्रिनेत्राय दैत्यकुलनिर्नाशकाय सुजनरक्षकाय द्विजवरसेविताय फणिभूषणाय निगमसम्बोधिताहर्मुखाय निरुपमाय निर्गुणाय निजभक्तरक्षकाय निखिल सुखैक निदानभूताय सुन्दराय ज्ञानप्रदाय कमलासनपरिसेविताय रत्नकिरीटाय विषधरकुण्डलाय द्विजराजकलावतंसाय फणिहाराय भुजगराजकङ्कणाय निगमविराजितमञ्जीराय सकलैश्वर्यप्रदाय श्रीलकुटदक्षिणामूर्तये तुभ्यं मम सकलैश्वर्यं देहि देहि दापय दापय निरवच्छिन्नसुखं देहि देहि दापय दापय दारिद्र्यामयतप्तं मामुज्जीवयोज्जीवय संसारार्णवमग्नं मामुद्धरोद्धर ओं ह्रः ओं ह्रौं ओं ह्रैं ओं ह्रूं ओं ह्रीं ओं ह्रां ओं हुं फट् स्वाहा ॥ ९ ॥ ओं ऐं क्लीं सौः श्रीं ह्रीं ओं नमो भगवते श्रीचिदम्बरदक्षिणामूर्तये श्रियै ज्योतिर्मयाय ज्योतिः स्वरूपाय सभापतये ताण्डवविनोदाय गानासक्तमनस्काय नागेन्द्रचर्मधराय नागभूषणाय दिङ्नागपरिसेविताय सकलबृन्दारक बृन्दवन्द्यमान पादारविन्दयुगलाय वन्दितजगदम्बाञ्चित वामभागाय प्रमधानेकानीतानोकहसून समर्चिताय प्रदोषकृतताण्डवाय जगन्मङ्गलापरिसेविता मुक्ताकपालाञ्चित रत्नकिरीटाय रघुपतिमनः पुण्डरीकाञ्चित दिव्यचञ्चरीकाय धवलाङ्गाय पिङ्गलजटाजूटाय रविचन्द्रानलनेत्राय श्रीचिदम्बरदक्षिणामूर्तये तुभ्यं मम चतुर्विधपुरुषार्थान् देहि देहि दापय दापय ओं ह्रीं श्रीं सौः क्लीं ऐं ओं हुं फट् स्वाहा ॥ १० ॥ ओं ह्रां ह्रीं ह्रूं खें खें खें ओं नमो भगवते श्रीवीरविजयप्रताप ज्वालानलनेत्राय श्रीवीरदक्षिणामूर्तये शूल टङ्क गदा शक्ति भिण्डिवाल मुसल मुद्गर प्रास परिघानेकायुधहस्ताय ह्रां ह्रीं ह्रूं त्रिपुरसंहारकाय ज्वालानलतुल्यबाणाय तीक्ष्णपिनाकायुधाय खें खें खें मदनान्तकसंहारकाय जालन्धराद्यनेकासुरनिर्नाशकाय अपस्मृतिविनाशकाय क्रों क्रों क्रों सकलभूतग्रहाकर्षकाय सकलयक्षिणीग्रहाकर्षकाय सकलकामिनीग्रहाकर्षकाय सकलस्त्रीग्रहाकर्षकाय सकलपैशाचिकग्रहाकर्षकाय प्रयोगग्रहाकर्षकाय ह्रां ह्रीं ह्रूं खें खें खें सकलभूतग्रहोच्चाटनाय सकलराक्षसग्रहोच्चाटनाय सकलयक्षिणीग्रहोच्चाटनाय सकलकामिनीग्रहोच्चाटनाय सकलमोहिनीग्रहोच्चाटनाय सकलयक्षग्रहोच्चाटनाय सकलराक्षसग्रहोच्चाटनाय सकलपुरुषग्रहोच्चाटनाय सकलस्त्रीग्रहोच्चाटनाय सकलपैशाचिकग्रहोच्चाटनाय खें खें खें सकलप्रयोगग्रहोच्चाटनाय सर्वग्रहोच्चाटनाय श्रीवीरविजयप्रताप ज्वालानलनेत्र श्रीवीरदक्षिणामूर्तये तुभ्यं ममोपद्रवान् नाशय नाशय चोरान्नाशय नाशय मम शत्रून्नाशय नाशय भूत भेताल मारीचगण ब्रह्मराक्षसान्निर्मूलय निर्मूलय राक्षसग्रहानुच्चाटयोच्चाटय । तामसग्रहानुच्चाटयोच्चाटय राजसग्रहानुच्चाटयोच्चाटय सत्त्वग्रहानुच्चाटयोच्चाटय सर्वग्रहानुच्चाटयोच्चाटय मामुद्धरोद्धर मामानन्दयानन्दय ओं खें खें खें ह्रूं ह्रीं ह्रां ओं हुं फट् स्वाहा ॥ ११ ॥ ओं जूं सः ऐं ह्रीं श्रीं श्रीं ह्रीं ऐं ओं ह्रीं हौं ओं नमो भगवते श्रीवीरभद्रदक्षिणामूर्तये श्रीमहासिंहासनाधीश्वराय श्रीत्रिजगन्मोहनलीलावताराय श्रीसर्वजनतावशङ्कराय सर्वराजवशङ्कराय साध्यसाधकाय सर्वस्त्रीवशङ्कराय त्रिजगद्वश्यकराय दक्षाध्वरविनाशकाय धवलशरीराय दशरथसुतपरिसेविताय दारितासुरनिकराय दारिद्र्यनिर्मूलनाय शत्रुसंहारकाय तीक्ष्णनखदंष्ट्राय ज्वलदग्निसवर्णनेत्राय प्रासपरिघाद्यनेकायुधहस्ताय अनेकपिशाचपरिसेवित पार्श्वयुगलाय पादन्यासविचालित भूमण्डलायोर्ध्वकेशाय संहारितानेकासुरबृन्दाय सुरसंस्तुताय सुरवरप्रदाय सर्वोपद्रवनाशकाय श्रीवीरभद्रदक्षिणामूर्तये तुभ्यं मम राज प्रजा वशं कुरु कुरु मम सुन्दरी वशं कुरु कुरु मम तिर्यङ्मनुष्यादि सकल वशं कुरु कुरु ओं हौं ह्रीं ओं ऐं ह्रीं श्रीं श्रीं ह्रीं ऐं सः जूं ओं हुं फट् स्वाहा ॥ १२ ॥ ओं ऐं ह्रीं ओं ओं ह्रीं ऐं ओं नमो भगवते श्रीकीर्तिदक्षिणामूर्तये सकलभुवनैकदीपकाय सकलसुरासुराराध्याय सुचरित्राय सुश्लोकाय भक्तसुलभाय भावनागम्याय भानुमण्डलदीपनाय भद्रकालीनमस्कृतचरणाय रमापतिसेविताय राघवसमाराधित दिव्यचरणयुगलाय अगस्त्यवन्दिताय वालखिल्यादि मुनिवरसुपूजिताय सुरनायक संस्तुत गणबृन्दाय यदुपतिरक्षकाय यमनियमादि परिनिष्ठाय परमपुरुषाय पतिव्रतासंस्तुत सुयशस्काय श्रीकीर्तिदक्षिणामूर्तये तुभ्यं मम सुकीर्तिं देहि देहि दापय दापय सुस्थिरां श्रियं देहि देहि दापय दापय ओं ऐं ह्रीं ओं ओं ह्रीं ऐं ओं हुं फट् स्वाहा ॥ १३ ॥ ओं ओं ओं वं वं वं ओं नमो भगवते श्रीब्रह्मदक्षिणामूर्तये ज्योतिर्मयाय नानारूपवर्जिताय नादबिन्दुकलातीताय सत्त्वरजस्तमोऽतीताय गुणात्मकाय गुणप्रकाशकाय ज्ञानगम्याय ज्ञानैकनिरतपरिसेवित पादयुगलाय स्वच्छाय निर्मलाय निरुपमवैभवाय निरन्तराय निजभक्तसंरक्षकाय निगमबोधिताय निगमप्रतिपाद्याय निगमरक्षकाय निगमशिखासंस्तुतगुणवैभवाय वरदाय वरिष्ठाय वशिष्ठादिमुनिसंस्तुताय श्रीब्रह्मदक्षिणामूर्तये तुभ्यं मम सुस्थिरज्ञानं देहि देहि दापय दापय मम सकल साम्राज्यादि सुस्थिर सकलैश्वर्यं देहि देहि दापय दापय ओं वं वं वं ओं ओं ओं हुं फट् स्वाहा ॥ १४ ॥ ओं ऐं क्लीं सौः सौः क्लीं ऐं ओं नमो भगवते श्रीशक्तिदक्षिणामूर्तये सकलजगन्मोहनाय आध्यात्मिकदुःखनिकृन्तनाय हिमशैलसुतामनोरञ्जनाय अमिततेजोमण्डलाय तेजःस्वरूपाय प्रकृतिविविक्तकाय मायाश्रयाय मायिकमनश्छेदकाय अमायक पूजापरितुष्टमनस्काय सुचरित्राय दुष्टविदूराय दुराराध्याय दूर्वासपूजित पादयुगलाय परमकारुणिकाय कटाक्षचन्द्रिकासक्त भक्तमनश्चकोराय सुस्थिराय स्थिरस्थानप्रदाय स्थिरपरिपालकाय स्थावररूपाय स्त्रीपुरुषस्वरूपाय श्रीशक्तिदक्षिणामूर्तये तुभ्यं मम सकलधर्मार्थकाममोक्षाख्य चतुर्विधपुरुषार्थसुफलं देहि देहि दापय दापय सर्वतो मां रक्ष रक्ष ओं ऐं क्लीं सौः सौः क्लीं ऐं ओं हुं फट् स्वाहा ॥ १५ ॥ ओं ह्सौं ओं ह्सौं ओं ह्सौं ओं नमो भगवते श्रीसिद्धदक्षिणामूर्तये अं आं इं ईं उं ऊं ऋं ॠं लुं लूं एं ऐं ओं औं अं अः श्रीमत्त्रिपुरसुन्दरीसम्युक्तवामभागाय कं खं गं घं ङं ब्रह्मविद्याप्रदाय साङ्ख्यवेदनिरतसुसेविताय चं छं जं झं ञं मुक्ताजालपरिष्कृत सुवर्णनिर्मितदिव्यछत्राय टं ठं डं ढं णं चामरव्यजनासक्त कमलासन पद्मलोचन समाश्रित पार्श्वयुगलाय तं थं दं धं नं सुरवरसंसेविताय पं फं बं भं मं विजयप्रदाय वीरसमाराधित वशिष्ठादिमुनिसङ्घसंस्तुताय श्रीसिद्धदक्षिणामूर्तये तुभ्यं मम सकलपुरुषार्थसिद्धिं देहि देहि दापय दापय मम सुकलत्रपुत्रादिकं देहि देहि दापय दापय ओं ह्सौं ओं ह्सौं ओं ह्सौं ओं हुं फट् स्वाहा ॥ १६ ॥ ओं सहनाववत्विति शान्तिः ॥ ॥ फलश्रुति ॥ मन्त्रषोडशसम्युक्तं मालामन्त्रस्तवं प्रिये । यः पठेत्सततं भक्त्या तस्य श्रीः सर्वतो भवेत् ॥ १ ॥ पठेदनुदिनं यस्तु मालामन्त्रस्तवं नरः । तस्य सर्वाणि कार्याणि करस्थानि न संशयः ॥ २ ॥ हृदयं प्रजपेदादौ ततो मन्त्रं जपेत्प्रिये । मन्त्रषोडशसम्युक्तं मालामन्त्रस्तवं ततः ॥ ३ ॥ ततो वर्णावलीस्तोत्रं प्रजपेत्कमलालये । यावज्जीवं जपेन्मन्त्रं दक्षिणामूर्तितुष्टये ॥ ४ ॥ षड्वर्गसहितो मन्त्रः सर्वसौख्यप्रदायकः । नियमेनैव जप्तव्यो नियमः सर्वकामधुक् ॥ ५ ॥ नियमं यः परित्यज्य जपेन्मन्त्रवरं नरः । स मृत्युं शीघ्रमाप्नोति सत्यं सत्यं मयोदितम् ॥ ६ ॥ क्रमेणैव जपेद्देवि मन्त्राङ्गानि विचक्षणः । विषमेव जपेद्यस्तु क्रमं सन्त्यज्य सुन्दरि ॥ ७ ॥ सोऽचिरान्मृत्युमाप्नोति ह्यलक्ष्मीको भवेद्धृवम् । अङ्गहीनस्तु यो मन्त्रः स सर्वार्थविनाशकः ॥ ८ ॥ प्रवक्ष्यामि सुराराध्ये मन्त्रस्याङ्गानि वै शृणु । प्रिये मन्त्रस्य हृदयं मुखमित्युच्यते बुधैः ॥ ९ ॥ मालामन्त्रस्तवश्चास्य चक्षुषी कमलालये । वर्णावलीस्तवश्चास्य श्रोत्रं चेति प्रचक्षते ॥ १० ॥ त्रिजगन्मोहनं नाम कवचं मन्त्रविग्रहम् । हस्तद्वयमिति प्रोक्तं नाम्नामष्टोत्तरं शतम् ॥ ११ ॥ नासिके तु सुराराध्ये मन्त्रज्ञैः परिकीर्तितम् । नाम्नां सहस्रं कमले पादद्वयमितीरितम् ॥ १२ ॥ मन्त्रमूर्तेः षडङ्गानि क्रमादेतानि सुन्दरि । एतैः षडङ्गैः सहितो मन्त्रः सर्वार्थदायकः ॥ १३ ॥ वक्ष्यामि शृणु देवेशि मन्त्रवर्णक्रमं शुभम् । उषःकाले समुत्थाय शयनाद्धरिवल्लभे ॥ १४ ॥ पादौ प्रक्षाल्य चाचम्य नियमेन समाहितः । कुशासने समासीनो ध्यात्वा श्रीगुरुपादुकाम् ॥ १५ ॥ ततः स्तुत्वा सुराराध्यं देवदेवं त्रिलोचनम् । स्तोत्रैर्वेदान्तसदृशैस्ततः प्रातर्भवं चरेत् ॥ १६ ॥ ततः स्नात्वा च विधिवन्नद्यां सन्ध्यां समाचरेत् । ततः श्रीदक्षिणामूर्तेर्हृदयं परिजप्य च ॥ १७ ॥ मन्त्रं सम्यग्जपेद्बाले मालामन्त्रस्तवं ततः । श्रीदक्षिणामूर्तिमन्त्रं कल्पोक्तविधिना यजेत् ॥ १८ ॥ सहस्रनामभिः पूज्य नैवेद्यादीन् समर्प्य च । स्तुत्वा स्तोत्रैरनेकैश्च ततः कुर्यात् क्षमार्पणम् ॥ १९ ॥ एवं दिने दिने कार्यं दक्षिणामूर्तिशर्मणः । मन्त्रध्यानादिकं पूजां सर्वसौभाग्यसिद्धये ॥ २० ॥ एवं यः कुरुते नित्यं तस्य देवः प्रसीदति । तस्य देवाः प्रसीदन्ति ब्रह्मविष्ण्वादयः प्रिये ॥ २१ ॥ विनायकौश्च शाम्यन्ति लक्ष्मीर्भवति सुस्थिरा । मन्त्रषोडशसम्युक्तं मालामन्त्रस्तवं प्रिये ॥ २२ ॥ पठेदनुदिनं यस्तु तस्य गेहे रमा स्थिता । राज्यसिद्धिं खेचरत्वं विद्यासिद्धिं श्रियं स्थिराम् ॥ २३ ॥ मालामन्त्रस्तवं जप्त्वा प्राप्नोति भुवि मानवः । इमं मालामन्त्रयुतं स्तोत्रं दुग्धाब्धिसम्भवे ॥ २४ ॥ सर्वाभीष्टप्रदं गुह्यं सर्वोपद्रवनाशनम् । ज्ञानवैराग्यभक्तीनामाधारं मुनिसंस्तुतम् ॥ २५ ॥ अमङ्गलघ्नं पापघ्नं यज्ञदानफलप्रदम् । महर्षय सिद्धिमीयुः कृष्णद्वैपायनादयः ॥ २६ ॥ पराशरो नारदाद्यास्तथा सर्वे महर्षयः । मुक्तिं गताश्च पठनाद्देवगन्धर्वदानवाः ॥ २७ ॥ सिद्धाः साध्याश्च यक्षाश्च पठनान्मुक्तिमाप्नुयुः । इन्द्राद्याः प्राप्नुयुः सर्वे मुक्तिं भुक्तिं तथाऽपरे ॥ २८ ॥ ईश्वराद्यास्तथैश्वर्यं भुक्तिं मुक्तिमवाप्नुयुः । ब्रह्मादयस्तथैश्वर्यं पठनाद्धारणादपि ॥ २९ ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥ ३० ॥ कलां नार्हन्ति कमले षोडशीं वाऽप्यसुन्दरि । यस्य गेहे तु लिखितं मालामन्त्रस्तवं च तत् । तस्य गेहे रमादेवीपूतं हि दशयोजनम् ॥ ३१ ॥ ॥ इति श्री दक्षिणामूर्ति मालामन्त्र स्तवम् सम्पूर्णम् ॥

श्री दक्षिणामूर्ति मालामन्त्र स्तवम् — परिचय एवं रहस्य (Introduction)

श्री दक्षिणामूर्ति मालामन्त्र स्तवम् (Sri Dakshinamurthy Mala Mantra Stavam) तांत्रिक और वैदिक साधना का एक दुर्लभ संगम है। भगवान शिव का 'दक्षिणामूर्ति' स्वरूप समस्त विद्याओं, कलाओं और योग का आदि स्रोत है। इस मालामन्त्र में भगवान दक्षिणामूर्ति के १६ विशिष्ट स्वरूपों (Shodasha Dakshinamurthy) की मन्त्रात्मक वन्दना की गई है। यह केवल एक स्तोत्र नहीं है, बल्कि १६ महामन्त्रों की एक लड़ी (Mala) है, जिसे विधिपूर्वक जपने से साधक के जीवन के समस्त अवरोध समाप्त हो जाते हैं।

१६ स्वरूपों का विज्ञान: इस स्तव में शुद्ध, मेधा, विद्या, लक्ष्मी, वागीश्वर, वटमूलनिवास, साम्ब, हंस, लकुट, चिदम्बर, वीर, वीरभद्र, कीर्ति, ब्रह्म, शक्ति और सिद्ध दक्षिणामूर्ति का वर्णन है। प्रत्येक स्वरूप एक विशिष्ट ऊर्जा का प्रतिनिधित्व करता है। जहाँ 'मेधा दक्षिणामूर्ति' बुद्धि और स्मरण शक्ति देते हैं, वहीं 'लक्ष्मी दक्षिणामूर्ति' दरिद्रता का नाश कर ऐश्वर्य प्रदान करते हैं। 'वीर दक्षिणामूर्ति' शत्रुओं और नकारात्मक शक्तियों (भूत-प्रेत बाधा) से रक्षा करते हैं।

मालामन्त्र की विशेषता: सामान्य मन्त्रों की तुलना में 'मालामन्त्र' अधिक प्रभावशाली माने जाते हैं क्योंकि इनमें २० से अधिक अक्षरों का संयोजन होता है और ये सीधे देवता के विराट स्वरूप को जाग्रत करते हैं। इसमें प्रयुक्त बीज मन्त्र जैसे 'ऐं', 'ह्रीं', 'क्लीं', 'सौः' साधक की सुषुम्ना नाड़ी को सक्रिय कर आध्यात्मिक उन्नति का मार्ग प्रशस्त करते हैं। यह पाठ "विष्णुयामल" और अन्य आगम ग्रंथों के सिद्धांतों पर आधारित है।

अध्यात्म और दर्शन: दक्षिणामूर्ति स्वरूप हमें 'मौन' का महत्व सिखाता है। जगतगुरु आदि शंकराचार्य ने भी दक्षिणामूर्ति की महिमा का गान किया है। यह स्तव साधक को "अज्ञान" (जिसका प्रतीक उनके चरणों के नीचे दबा असुर अपस्मार है) से मुक्त कर "सुज्ञान" (आत्म-बोध) की ओर ले जाता है। फलश्रुति में कहा गया है कि जो व्यक्ति नियमपूर्वक इसका पाठ करता है, उसके घर में स्वयं महालक्ष्मी का वास होता है और उसे समस्त सिद्धियाँ प्राप्त होती हैं।

विशिष्ट आध्यात्मिक महत्व (Significance)

भगवान दक्षिणामूर्ति के १६ स्वरूपों की एक साथ वन्दना करने का महत्व यह है कि यह साधक के सर्वांगीण विकास (Holistic Growth) को सुनिश्चित करता है। आध्यात्मिक दृष्टि से, ये १६ स्वरूप चन्द्रमा की १६ कलाओं के समान हैं, जो साधक के मन रूपी चन्द्रमा को पूर्णता प्रदान करते हैं।

इस स्तव का पाठ करने से 'षट्त्रिंशत्तत्त्व' (३६ तत्वों) का ज्ञान सुलभ होता है। यह मन्त्र विज्ञान की वह पराकाष्ठा है जहाँ शब्द, ध्वनि और देवता का एकाकार हो जाता है। विशेषकर 'ब्रह्मराक्षस' और 'यक्षिणी' जैसी उपद्रवी शक्तियों के शमन के लिए इसमें जो वीर स्वरूपों का मन्त्र दिया गया है, वह अत्यंत मारक और प्रभावशाली है।

फलश्रुति: पाठ के चमत्कारी लाभ (Benefits from Phala Shruti)

फलश्रुति (Verses 1-31) में स्वयं शिवजी ने इस पाठ के अमोघ लाभों का वर्णन किया है:

  • मेधा और विद्या प्राप्ति: विद्यार्थियों के लिए मेधा और प्रज्ञा मन्त्र (श्लोक २) वरदान स्वरूप है। यह स्मृति दोष को दूर कर २४ कलाओं में निपुण बनाता है।
  • ऐश्वर्य और लक्ष्मी: लक्ष्मी दक्षिणामूर्ति मन्त्र (श्लोक ४) दरिद्रता का समूल नाश करता है और आठों ऐश्वर्य प्रदान करता है।
  • शत्रु और ग्रह बाधा निवारण: वीर और वीरभद्र स्वरूप (श्लोक ११, १२) शत्रुओं, चोरों और समस्त ग्रह दोषों को उच्चाटित कर रक्षा कवच प्रदान करते हैं।
  • समस्त कार्यों में सिद्धि: "तस्य सर्वाणि कार्याणि करस्थानि" (श्लोक २)—इस पाठ को करने वाले के सभी कार्य स्वतः सिद्ध हो जाते हैं, इसमें संशय नहीं है।
  • सुख-शांति और संतान: यह स्तव पुत्र-पौत्रादि सुख और सुखी पारिवारिक जीवन (सु-कलत्र) प्रदान करने वाला है।
  • मोक्ष और आत्म-साक्षात्कार: अंततः यह साधक को जन्म-मरण के बंधन से मुक्त कर शिव सालोक्य प्रदान करता है।

पाठ विधि एवं विशेष अवसर (Ritual Method)

मालामन्त्र का पाठ करने के कुछ कड़े नियम फलश्रुति (श्लोक ५-१०) में बताए गए हैं, जिनका पालन आवश्यक है:

साधना के नियम (Strict Rules)

  • शुचिता: उषःकाल (ब्रह्म मुहूर्त) में उठकर स्नान आदि से निवृत्त होकर, कुशा के आसन पर बैठें।
  • न्यास और ध्यान: पाठ से पूर्व विनियोग, न्यास और श्लोक ४ में दिए गए ध्यान का पाठ अवश्य करें।
  • क्रमबद्ध पाठ: पाठ के क्रम का उल्लंघन न करें। फलश्रुति में चेतावनी दी गई है कि बिना क्रम के पाठ करने से हानि हो सकती है।
  • भस्म और रुद्राक्ष: यदि संभव हो, तो ललाट पर भस्म का त्रिपुण्ड और गले में रुद्राक्ष धारण करके पाठ करें।
  • विशेष क्रम: पहले दक्षिणामूर्ति हृदय का जप करें, फिर मूल मन्त्र और अंत में यह मालामन्त्र स्तव।

विशेष अवसर

  • गुरु पूर्णिमा: गुरु के रूप में शिव की आराधना के लिए यह वर्ष का सबसे बड़ा दिन है।
  • सोमवार और प्रदोष: मानसिक शांति और कार्य सिद्धि के लिए इन दिनों पाठ करना श्रेयस्कर है।
  • महाशिवरात्रि: इस दिव्य रात्रि में मालामन्त्र का पाठ करने से असाध्य कार्य भी सिद्ध होते हैं।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. षोडश (16) दक्षिणामूर्ति स्वरूपों का क्या अर्थ है?

इसका अर्थ है भगवान शिव के १६ विभिन्न गुरु स्वरूप, जो जीवन के १६ अलग-अलग क्षेत्रों (जैसे विद्या, धन, रक्षा, शांति, मोक्ष आदि) का नियंत्रण करते हैं।

2. क्या इस पाठ को करने के लिए गुरु दीक्षा अनिवार्य है?

सामान्य श्रद्धापूर्वक पाठ के लिए दीक्षा अनिवार्य नहीं है, लेकिन तांत्रिक फल या पुरश्चरण के लिए योग्य गुरु से अनुमति लेना सर्वोत्तम है क्योंकि इसमें बीज मन्त्रों का प्रयोग हुआ है।

3. 'मालामन्त्र' और सामान्य स्तोत्र में क्या अंतर है?

स्तोत्र केवल वन्दना है, जबकि मालामन्त्र मन्त्रों की एक लम्बी श्रृंखला है जिसमें बीज मन्त्रों (Seed Syllables) की शक्ति समाहित होती है, जो स्तोत्र से अधिक तीव्र फल देती है।

4. क्या विद्यार्थी इसे केवल एक मन्त्र (मेधा दक्षिणामूर्ति) के लिए पढ़ सकते हैं?

हाँ, यदि समय कम हो तो विद्यार्थी केवल श्लोक २ (मेधा दक्षिणामूर्ति) का पाठ कर सकते हैं, हालांकि पूर्ण स्तव का पाठ अधिक फलदायी है।

5. फलश्रुति में पाठ के क्रम को लेकर चेतावनी क्यों दी गई है?

मन्त्र शास्त्र में 'क्रम' (Order) का विशेष महत्व है। अक्षरों और स्वरूपों का एक निश्चित क्रम ऊर्जा का सही प्रवाह सुनिश्चित करता है, इसलिए इसे यथावत पढ़ने की सलाह दी जाती है।

6. क्या यह पाठ घर में नकारात्मक ऊर्जा को दूर करता है?

जी हाँ, विशेषकर श्लोक ११ और १२ के मन्त्र भूत-प्रेत, ब्रह्मराक्षस और तांत्रिक बाधाओं को घर से दूर करने में अत्यंत शक्तिशाली हैं।

7. पाठ के लिए कौन सा माला (Rosary) प्रयोग करें?

शिव आराधना के लिए 'रुद्राक्ष' की माला सर्वश्रेष्ठ है। स्फटिक की माला का प्रयोग भी ज्ञान और शांति के लिए किया जा सकता है।

8. क्या इस पाठ से लक्ष्मी प्राप्ति संभव है?

हाँ, श्लोक ४ विशेष रूप से 'लक्ष्मी दक्षिणामूर्ति' को समर्पित है, जो दरिद्रता दूर कर ऐश्वर्य प्रदान करते हैं।

9. पाठ के दौरान किस दिशा में मुख होना चाहिए?

ज्ञान और मोक्ष के लिए 'उत्तर' दिशा और धन प्राप्ति के लिए 'पूर्व' दिशा की ओर मुख करना सर्वोत्तम है।

10. क्या स्त्रियाँ यह पाठ कर सकती हैं?

हाँ, भगवान दक्षिणामूर्ति के प्रति पूर्ण श्रद्धा रखने वाली स्त्रियाँ भी पूर्ण शुद्धि और नियम के साथ इसका पाठ कर सकती हैं।