Logoपवित्र ग्रंथ

Sri Brahma Samhita – श्री ब्रह्म संहिता (सम्पूर्ण अर्थ एवं माहात्म्य)

Sri Brahma Samhita – श्री ब्रह्म संहिता (सम्पूर्ण अर्थ एवं माहात्म्य)
॥ श्री ब्रह्म संहिता ॥ ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १ ॥ सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तदनन्ताशसम्भवम् ॥ २ ॥ कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम् षडङ्ग षट्पदीस्थानं प्रकृत्या पुरुषेण च । प्रेमानन्दमहानन्दरसेनावस्थितं हि यत् ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥ ३ ॥ तत्किञ्जल्कं तदंशानां तत्पत्राणि श्रियामपि ॥ ४ ॥ चतुरस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम् । चतुरस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् । चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् । शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि । अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा । मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् । श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः । शोभितं शक्तिभिस्ताभिरद्भुताभिः समन्ततः ॥ ५ ॥ एवं ज्योतिर्मयो देवः सदानन्दं परात्परः । आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥ ६ ॥ माययाऽरममाणस्य न वियोगस्तया सह । आत्मानमपि रेमे त्यक्तकालं सिसृक्षया ॥ ७ ॥ नियतिः सा रमादेवी तत्प्रिया तद्वशं तदा । तल्लिङ्गं भगवान् शम्भुर्जोतिरूपः सनातनः । या योनिः सापराशक्तिः कामो बीजं महद्धरेः ॥ ८ ॥ लिङ्गयोन्यात्मिका जाता इमा माहेश्वरी प्रजाः ॥ ९ ॥ शक्तिमान् पुरुषः सोऽयं लिङ्गरूपी महेश्वरः । तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥ १० ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रसूः ॥ ११ ॥ नारायणः स भगवानापस्तस्मात्सनातनात् । आविरासीत्कारणार्णो निधिः सङ्कर्षणात्मकः । योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ १२ ॥ तद्रोमबिल जालेषु बीजं सङ्कर्षणस्य च । हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ १३ ॥ प्रत्यण्डमेवमेकांशादेकांशाद्विशति स्वयम् । सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥ १४ ॥ वामाङ्गादसृजद्विष्णुं दक्षिणाङ्गात्प्रजापतिम् । ज्योतिर्लिङ्गमयं शम्भुं कूर्चदेशादवासृजत् ॥ १५ ॥ अहङ्कारात्मकं विश्वं तस्मादेतद्व्यजायत ॥ १६ ॥ अथ तैस्त्रिविधैर्वेशैर्लीलामुद्वहतः किल । योगनिद्रा भगवती तस्य श्रीरिव सङ्गता ॥ १७ ॥ ससृक्षायां ततो नाभेस्तस्य पद्मं विनिर्ययौ । तन्नालं हेमनलिनं ब्रह्मणो लोकमद्भुतम् ॥ १८ ॥ तत्त्वानि पूर्वरूढानि कारणानि परस्परम् । समवायाप्रयोगाच्च विभिन्नानि पृथक् पृथक् । चिच्छक्त्या सज्जमानोऽथ भगवानादिपूरुषः । योजयन्मायया देवो योगनिद्रामकल्पयत् ॥ १९ ॥ योजयित्वा तु तान्येव प्रविवेश स्वयं गुहाम् । गुहां प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते ॥ २० ॥ स नित्यो नित्यसम्बन्धः प्रकृतिश्च परैव सा ॥ २१ ॥ एवं सर्वात्मसम्बन्धं नाभ्यां पद्मं हरेरभूत् । तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ॥ २२ ॥ स जातो भगवच्छक्त्या तत्कालं किल चोदितः । सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः । ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥ २३ ॥ उवाच पुरतस्तस्मै तस्य दिव्या सरस्वती । कामः कृष्णाय गोविन्द हे गोपीजन इत्यपि । वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥ २४ ॥ तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ॥ २५ ॥ अथ तेपे स सुचिरं प्रीणन् गोविन्दमव्ययम् । श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् । प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् । सहस्रदलसम्पन्ने कोटिकिञ्जल्कबृंहिते । भूमिश्चिन्तामणिस्तत्र कर्णिकारे महासने । समासीनं चिदानन्दं ज्योतिरूपं सनातनम् । शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे । विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ २६ ॥ अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः । स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः । गायत्रीं गायतस्तस्मादधिगत्य सरोजजः । संस्कृतश्चादिगुरुणा द्विजतामगमत्ततः ॥ २७ ॥ त्रय्या प्रबुद्धोऽथ विधिर्विज्ञाततत्त्वसागरः । तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥ २८ ॥ ॥ गोविन्द स्तुतिः ॥ चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभीरभिपालयन्तम् । लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥ २९ ॥ वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतंसमसिताम्बुदसुन्दराङ्गम् । कन्दर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि ॥ ३० ॥ आलोलचन्द्रकलसद्वनमाल्यवंशी- -रत्नाङ्गदं प्रणयकेलिकलाविलासम् । श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ॥ ३१ ॥ अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति । आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि ॥ ३२ ॥ अद्वैतमच्युतमनादिमनन्तरूपं आद्यं पुराणपुरुषं नवयौवनं च । वेदेषु दुर्लभमदुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि ॥ ३३ ॥ पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानाम् । सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे गोविन्दमादिपुरुषं तमहं भजामि ॥ ३४ ॥ एकोऽप्यसौ रचयितुं जगदण्डकोटिं यच्छक्तिरस्ति जगदण्डचया यदन्तः । अण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि ॥ ३५ ॥ यद्भावभावितधियो मनुजास्तथैव सम्प्राप्य रूपमहिमासनयानभूषाः । सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि ॥ ३६ ॥ आनन्दचिन्मयरसप्रतिभाविताभि- -स्ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ ३७ ॥ प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति । यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि ॥ ३८ ॥ रामादिमूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किन्तु । कृष्णः स्वयं समभवत्परमः पुमान् यो गोविन्दमादिपुरुषं तमहं भजामि ॥ ३९ ॥ यस्य प्रभा प्रभवतो जगदण्डकोटि- -कोटिष्वशेषवसुधादि विभूतिभिन्नम् । तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥ ४० ॥ माया हि यस्य जगदण्डशतानि सूते त्रैगुण्यतद्विषयवेदवितायमाना । सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहं भजामि ॥ ४१ ॥ आनन्दचिन्मयरसात्मतया मनःसु यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य । लीलायितेन भुवनानि जयत्यजस्रं गोविन्दमादिपुरुषं तमहं भजामि ॥ ४२ ॥ गोलोकनाम्नि निजधाम्नि तले च तस्य देवि महेशहरिधामसु तेषु तेषु । ते ते प्रभावनिचया विहिताश्च येन गोविन्दमादिपुरुषं तमहं भजामि ॥ ४३ ॥ सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायेव यस्य भुवनानि बिभर्ति दुर्गा । इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहं भजामि ॥ ४४ ॥ क्षीरं यथा दधि विकारविशेषयोगात् सञ्जायते न हि ततः पृथगस्ति हेतोः । यः शम्भुतामपि तथा समुपैति कार्या- -द्गोविन्दमादिपुरुषं तमहं भजामि ॥ ४५ ॥ दीपार्चिरेव हि दशान्तरमभ्युपेत्य दीपायते विवृतहेतुसमानधर्मा । यस्तादृगेव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि ॥ ४६ ॥ यः कारणार्णवजले भजति स्म योग- -निद्रामनन्तजगदण्डसरोमकूपः । आधारशक्तिमवलम्ब्य परां स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि ॥ ४७ ॥ यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोमबिलजा जगदण्डनाथाः । विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥ ४८ ॥ भास्वान् यथाश्मशकलेषु निजेषु तेजः स्वीयं कियत्प्रकटयत्यपि तद्वदत्र । ब्रह्मा य एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि ॥ ४९ ॥ यत्पादपल्लवयुगं विनिधाय कुम्भ- -द्वन्द्वे प्रणामसमये स गणाधिराजः । विघ्नान् विहन्तुमलमस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि ॥ ५० ॥ अग्निर्मही गगनमम्बु मरुद्दिशश्च कालस्त तथात्ममनसीति जगत्त्रयाणि । यस्माद्भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि ॥ ५१ ॥ यच्चक्षुरेष सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेषतेजाः । यस्याज्ञया भ्रमति सम्भृतकालचक्रो गोविन्दमादिपुरुषं तमहं भजामि ॥ ५२ ॥ धर्मोऽथ पापनिचयः श्रुतयस्तपांसि ब्रह्मादिकीटपतगावधयश्च जीवाः । यद्दत्तमात्रविभवप्रकटप्रभावा गोविन्दमादिपुरुषं तमहं भजामि ॥ ५३ ॥ यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म- -बन्धानुरूपफलभाजनमातनोति । कर्माणि निर्दहति किन्तु च भक्तिभाजां गोविन्दमादिपुरुषं तमहं भजामि ॥ ५४ ॥ यं क्रोधकामसहजप्रणयादिभीति- -वात्सल्यमोहगुरुगौरवसेव्यभावैः । सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि ॥ ५५ ॥ श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् । कथा गानं नाट्यं गमनमपि वंशी प्रियसखि चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च । स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ ५६ ॥ अथोवाच महाविष्णुर्भगवन्तं प्रजापतिम् । ब्रह्मन् महत्त्वविज्ञाने प्रजासर्गे च चेन्मतिः । पञ्चश्लोकीमिमां विद्यां वत्स दत्तां निबोध मे ॥ ५७ ॥ प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानन्दचिन्मयी । उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥ ५८ ॥ प्रमाणैस्तत् सदाचारैस्तदभ्यासैर्निरन्तरम् । बोधयनात्मनात्मानं भक्तिमप्युत्तमां लभेत् ॥ ५९ ॥ यस्याः श्रेयस्करं नास्ति यया निर्वृतिमाप्नुयात् । या साधयति मामेव भक्तिं तामेव साधयेत् ॥ ६० ॥ धर्मानन्यान् परित्यज्य मामेकं भज विश्वसन् । यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी । कुर्वन्निरन्तरं कर्म लोकोऽयमनुवर्तते । तेनैव कर्मणा ध्यायन्मां परां भक्तिमिच्छति ॥ ६१ ॥ अहं हि विश्वस्य चराचरस्य बीजं प्रधानं प्रकृतिः पुमांश्च । मयाहितं तेज इदं बिभर्षि विधे विधेहि त्वमथो जगन्ति ॥ ६२ ॥ ॥ इति श्री ब्रह्म संहिता सम्पूर्णम् ॥

परिचय: श्री ब्रह्म संहिता का इतिहास और पुनरागमन (Introduction)

श्री ब्रह्म संहिता (Sri Brahma Samhita) हिंदू धर्म के सबसे प्राचीन और दार्शनिक रूप से समृद्ध ग्रंथों में से एक है। इसकी महत्ता इस तथ्य से समझी जा सकती है कि यह स्वयं सृष्टि के रचयिता ब्रह्मा जी द्वारा भगवान गोविंद के चरणों में समर्पित की गई एक दिव्य स्तुति है। आध्यात्मिक परंपराओं के अनुसार, ब्रह्म संहिता के १०० अध्याय थे, जो समय के प्रवाह में लुप्त हो गए। वर्तमान में जो अंश हमारे पास उपलब्ध है, वह केवल पांचवां अध्याय है, जिसे स्वयं साक्षात् पुरुषोत्तम श्री चैतन्य महाप्रभु ने १५वीं शताब्दी में अपनी दक्षिण भारत की तीर्थयात्रा के दौरान खोजा था।

महाप्रभु को यह संहिता केरल के तिरुवनंतपुरम के निकट 'आदि केशव मंदिर' में पांडुलिपि के रूप में मिली थी। इसे पढ़कर वे इतने भाव-विभोर हुए कि उन्होंने इसे समस्त वेदों और आगमों का सार घोषित कर दिया। गौड़ीय वैष्णव संप्रदाय में इसे "वेदों का कंठहार" माना जाता है। इस संहिता का पहला ही श्लोक—"ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः"—संपूर्ण विश्व को भगवान कृष्ण के वास्तविक स्वरूप का बोध कराता है, जो अजन्मा होकर भी समस्त कारणों के मूल कारण हैं।

ब्रह्म संहिता केवल एक स्तुति नहीं है, बल्कि यह एक सूक्ष्म ब्रह्मांडीय विज्ञान है। इसमें ब्रह्मा जी ने तपस्या के माध्यम से प्राप्त किए गए उस दिव्य ज्ञान का वर्णन किया है, जिसमें उन्होंने गोलोक धाम (भगवान का परम धाम) का साक्षात् दर्शन किया था। यहाँ भगवान के मनोहर श्यामसुन्दर रूप, उनके वेणु-वादन और उनके परिकर (पार्षदों) का ऐसा सूक्ष्म वर्णन है जो किसी भी अन्य पुराण या शास्त्र में मिलना दुर्लभ है।

इस ग्रंथ के माध्यम से हमें यह पता चलता है कि ब्रह्मा जी ने सृष्टि की रचना स्वयं नहीं की, बल्कि भगवान गोविंद द्वारा दिए गए गायत्री मंत्र और तपस्या के बल पर उन्हें यह सामर्थ्य प्राप्त हुआ। ब्रह्म संहिता का यह पांचवां अध्याय भगवान कृष्ण को 'आदि पुरुष' के रूप में स्थापित करता है, जिनसे महाविष्णु, शिव, गणेश और शक्ति जैसी अन्य दैवीय शक्तियाँ उद्भूत होती हैं। यह ग्रंथ साधक को अज्ञान के अंधकार से निकालकर विशुद्ध प्रेम-भक्ति (Prema Bhakti) की ओर ले जाता है।

विशिष्ट महत्व और तत्व दर्शन (Philosophical Significance)

१. गोविन्द मादि पुरुषं तमहं भजामि: ब्रह्म संहिता का यह बीज मंत्र प्रत्येक श्लोक के अंत में आता है, जिसका अर्थ है— "मैं उन आदि पुरुष भगवान गोविंद की वंदना करता हूँ।" यह पंक्ति शरणागति की पराकाष्ठा है। यह सिखाती है कि चाहे वह ब्रह्मा हों, शिव हों या सूर्य, सभी गोविंद की आज्ञा और शक्ति से अपना कार्य संपन्न कर रहे हैं।

२. गोलोक का सजीव वर्णन: श्लोक २९ से ५६ तक में ब्रह्मा जी ने गोलोक धाम की जो तस्वीर खींची है, वह अतुलनीय है। वे बताते हैं कि वहाँ की भूमि 'चिंतामणि' (दिव्य रत्न) है, जल 'अमृत' है, और प्रत्येक शब्द 'संगीत' है। वहाँ हजारों लक्ष्मी जी निरंतर भगवान की सेवा में तत्पर रहती हैं। यह वर्णन साधक के भीतर वैराग्य और ईश्वर के प्रति तीव्र आकर्षण पैदा करता है।

३. देवताओं के साथ संबंध: ब्रह्म संहिता यह स्पष्ट करती है कि भगवान शिव (श्लोक ४५) कृष्ण के वैसे ही विस्तार हैं जैसे दूध से दही बनता है। इसी तरह माँ दुर्गा (श्लोक ४४) भगवान की 'छाया शक्ति' हैं। यह ग्रंथ विभिन्न मतों के बीच समन्वय स्थापित करते हुए कृष्ण को "सर्वेश्वर" सिद्ध करता है।

ब्रह्म संहिता पाठ के आध्यात्मिक लाभ (Benefits)

ब्रह्म संहिता का नित्य पाठ और श्रवण साधक के जीवन में निम्नलिखित क्रांतिकारी परिवर्तन लाता है:

  • पाप क्षय और शुद्धि: भगवान के दिव्य गुणों के गान से हृदय के जन्म-जन्मांतर के मैल (काम, क्रोध, लोभ) धुल जाते हैं और अंतःकरण पवित्र होता है।
  • दिव्य ज्ञान का उदय: यह संहिता अविद्या का नाश करती है। "प्रेमाञ्जनच्छुरितभक्तिविलोचनेन" (श्लोक ३८) के अनुसार, भक्त की आँखों में प्रेम का अंजन लग जाता है जिससे वह सर्वत्र ईश्वर का दर्शन करने लगता है।
  • एकाग्रता और मानसिक शांति: गोविंद के मनोहर श्यामसुन्दर रूप का ध्यान करने से चंचल मन शांत होता है और ध्यान में गहराई आती है।
  • समस्त बाधाओं से सुरक्षा: भगवान को "सर्वकारणकारणम्" मानने से साधक के भीतर निर्भयता आती है, क्योंकि वह जान जाता है कि उसकी रक्षा स्वयं ब्रह्मांड के नायक कर रहे हैं।
  • भगवद-प्रेम की प्राप्ति: ब्रह्म संहिता का सबसे बड़ा फल 'कृष्ण-प्रेम' है। इसके नियमित पाठ से साधक को गोलोक धाम की सेवा का अधिकार प्राप्त होता है।
  • बुद्धि का विकास: ब्रह्मा जी ने स्वयं इसी स्तुति के बल पर सृष्टि रचना की शक्ति प्राप्त की थी, अतः विद्यार्थियों और ज्ञान-पिपासुओं के लिए यह पाठ सरस्वती-कृपा दायक है।

पाठ विधि एवं साधना निर्देश (Ritual Method)

ब्रह्म संहिता एक उच्च स्तरीय आध्यात्मिक पाठ है। इसका पूर्ण लाभ प्राप्त करने के लिए निम्नलिखित विधि अनुशंसित है:

साधना के नियम

  • समय (Time): प्रातः काल स्नान के उपरांत 'ब्रह्म मुहूर्त' (सूर्योदय से पूर्व) में इसका पाठ करना सर्वोत्तम माना गया है। संध्या वंदन के समय भी इसका पठन शुभ है।
  • शुद्धि: स्वच्छ और सात्विक वस्त्र (संभव हो तो पीले या सफेद) धारण करें। मन में पूर्ण श्रद्धा और समर्पण का भाव रखें।
  • आसन: ऊनी या कुशा के पवित्र आसन पर पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • अर्पण: पाठ प्रारंभ करने से पहले श्री चैतन्य महाप्रभु और अपने गुरुदेव को प्रणाम करें, क्योंकि उन्हीं के माध्यम से यह ग्रंथ हमें प्राप्त हुआ है।
  • ध्यान: श्लोक ३० के अनुसार, भगवान के वेणु-वादन करते हुए और मोरपंख धारण किए हुए रूप का हृदय में ध्यान करें।

विशेष अवसर

  • जन्माष्टमी: भगवान कृष्ण के प्राकट्य उत्सव पर ब्रह्म संहिता का सामूहिक पाठ अत्यंत फलदायी होता है।
  • एकादशी: प्रत्येक एकादशी को इस स्तोत्र का पाठ करने से भक्ति मार्ग की समस्त बाधाएं दूर होती हैं।
  • चैतन्य महाप्रभु आविर्भाव तिथि: इस दिन ब्रह्म संहिता का पाठ करना गुरु-परंपरा का विशेष आशीर्वाद दिलाता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्री ब्रह्म संहिता क्या है?

यह ब्रह्मा जी द्वारा की गई भगवान श्री कृष्ण (गोविंद) की दिव्य स्तुति है। इसे सृष्टि के मूल तत्वों और आध्यात्मिक जगत का सबसे प्रामाणिक विवरण माना जाता है।

2. श्री चैतन्य महाप्रभु ने इसे कहाँ खोजा था?

श्री चैतन्य महाप्रभु ने अपनी दक्षिण भारत की तीर्थयात्रा के दौरान केरल के 'आदि केशव मंदिर' में ब्रह्म संहिता के पांचवें अध्याय की खोज की थी।

3. "ईश्वरः परमः कृष्णः" का अर्थ क्या है?

इसका अर्थ है कि श्री कृष्ण ही "परम ईश्वर" (Supreme Lord) हैं। उनका शरीर सच्चिदानंद (सत्य, ज्ञान और आनंद) से बना है और वे अनादि होकर भी सबके आदि हैं।

4. ब्रह्म संहिता का पाठ करने का सबसे अच्छा समय क्या है?

ब्रह्म मुहूर्त (प्रातः ४ से ६ बजे के बीच) पाठ के लिए सर्वश्रेष्ठ समय है, क्योंकि उस समय वातावरण शांत और सात्विक होता है।

5. क्या इसमें भगवान शिव और दुर्गा जी का भी वर्णन है?

जी हाँ, ब्रह्म संहिता में स्पष्ट किया गया है कि शिव जी कृष्ण के रसात्मक विस्तार हैं और दुर्गा जी उनकी भौतिक शक्ति (माया) हैं जो उनकी आज्ञा से कार्य करती हैं।

6. 'चिंतामणि' का इस ग्रंथ में क्या तात्पर्य है?

चिंतामणि उन दिव्य रत्नों को कहा जाता है जिनसे गोलोक धाम की भूमि बनी है। ये रत्न इच्छाओं को पूर्ण करने वाले और पूर्णतः चिन्मय (आध्यात्मिक) होते हैं।

7. क्या इस पाठ को कोई भी कर सकता है?

हाँ, कृष्ण भक्ति की इच्छा रखने वाला कोई भी व्यक्ति इसे श्रद्धापूर्वक पढ़ सकता है। यह सभी जाति, वर्ण और लिंग के लोगों के लिए कल्याणकारी है।

8. क्या इस पाठ से एकाग्रता बढ़ती है?

निश्चित रूप से। इसमें वर्णित भगवान के अद्भुत सौंदर्य और लीलाओं का चिंतन करने से मन की चंचलता समाप्त होती है और ध्यान केंद्रित होता है।

9. ब्रह्म संहिता के कितने अध्याय लुप्त हैं?

मूल रूप से इसमें १०० अध्याय थे, जिनमें से ९९ अध्याय लुप्त हो चुके हैं। वर्तमान में केवल ५वां अध्याय ही उपलब्ध है।

10. पाठ की पूर्णता के बाद क्या करना चाहिए?

पाठ के अंत में भगवान गोविंद की आरती करें और अपनी त्रुटियों के लिए क्षमा प्रार्थना करते हुए 'हरे कृष्ण' महामंत्र का जप करें।