Logoपवित्र ग्रंथ

Mooka Panchasati 1. Arya Satakam – मूकपञ्चशति १. आर्याशतकम्

Mooka Panchasati 1. Arya Satakam – मूकपञ्चशति १. आर्याशतकम्
॥ श्री मूकपञ्चशति - १ - आर्याशतकम् ॥ कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता । काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥ कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशं । कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥ चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे । चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥ ३ ॥ कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायं । कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ४ ॥ पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ५ ॥ परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया । परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ॥ ६ ॥ ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतं । ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ ७ ॥ श्रितकम्पासीमानं शिथिलितपरमशिवधैर्यमहिमानं । कलये पाटलिमानं कञ्चन कञ्चुकितभुवनभूमानम् ॥ ८ ॥ आदृतकाञ्चीनिलयामाद्यामारूढयौवनाटोपाम् । आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ९ ॥ तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् । गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ १० ॥ काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् । परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ ११ ॥ कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषाञ्चिद्भवतु चिद्विलासानाम् ॥ १२ ॥ आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १३ ॥ अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ॥ १४ ॥ अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः । अधिकाञ्चि नित्यतरुणीमद्राक्षं काञ्चिदद्भुतां बालाम् ॥ १५ ॥ मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा । चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ १६ ॥ मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥ धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् । अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥ १८ ॥ लीनस्थितिमुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥ श्वेता मन्थरहसिते शाता मध्ये च वाङ्मनोऽतीता । शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २० ॥ पुरतः कदानुकरवै पुरवैरिविमर्दपुलकिताङ्गलताम् । पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥ पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा । पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥ तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् । तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥ पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः । अद्राक्षमात्तयौवनमभ्युदयं कञ्चिदर्धशशिमौलेः ॥ २४ ॥ संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥ मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् । आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥ उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् । उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ॥ २७ ॥ एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् । एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ॥ २८ ॥ स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् । दयमानं वीक्ष्यमुहुर्वयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥ कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते । कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥ ३० ॥ वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् । विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥ ३१ ॥ कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः । कूलङ्कषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥ कुट्मलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् । कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ॥ ३३ ॥ अङ्कितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् । अन्तःपुरेण शम्भोरलङ्क्रिया काऽपि कल्प्यते काञ्च्याम् ॥ ३४ ॥ ऊरीकरोमि सन्ततमूष्मलफालेन लालितं पुंसा । उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ॥ ३५ ॥ अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः । आलोकेमहि कोमलमागमसल्लापसारयाथार्थ्यम् ॥ ३६ ॥ पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥ लोलहृदयोऽस्मि शम्भोर्लोचनयुगलेन लेह्यमानायाम् । लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥ मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । मण्डितकम्पातीरैः मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥ वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता । पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥ बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् । आधारीकृतकाञ्चीं बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥ कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् । अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥ शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे । सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥ ४३ ॥ समया सान्ध्यमयूखैः समया बुद्ध्या सदैव शीलितया । उमया काञ्चीरतया न मया लभ्यत किं नु तादात्म्यम् ॥ ४४ ॥ जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि । बन्धो यदि भवति पुनः सिन्धोरम्भस्सुबम्भ्रमीति शिला ॥ ४५ ॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६ ॥ अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः । अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७ ॥ शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८ ॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९ ॥ मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥ ५० ॥ अधिकाञ्चि केलिलोलैरखिलागमयन्त्रमन्त्रतन्त्रमयैः । अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥ ५१ ॥ नन्दति मम हृदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् । इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥ शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् । लिम्पामि मनसि किञ्चन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥ अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ॥ ५४ ॥ ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् । अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥ आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥ मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥ पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् । पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥ परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् । पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥ ५९ ॥ आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् । स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥ तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया । स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥ प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥ कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः । कुलदैवतेन महता कुट्मलमुद्रां धुनोतु नःप्रतिभा ॥ ६३ ॥ यूना केनापि मिलद्देहा स्वाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥ कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥ दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥ अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः । आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥ ६७ ॥ बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥ किं वा फलति ममान्यैर्बिम्बाधरचुम्बिमन्दहासमुखी । सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥ मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥ रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया । श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥ मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥ ७३ ॥ वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् । मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४ ॥ पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥ कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु । अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥ प्रत्यङ्मुख्या दृष्ट्या प्रसाददीपाङ्कुरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥ ७७ ॥ विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले । भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥ ७८ ॥ मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते । शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥ ७९ ॥ देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः । कामाक्षि शूलपाणेः कामागमसमयतन्त्रदीक्षायाम् ॥ ८० ॥ वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय । कुङ्कुमरुचे नमस्यां शङ्करनयनामृताय रचयामः ॥ ८१ ॥ अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् । अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२ ॥ परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥ दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् । तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥ ८४ ॥ मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा । विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥ अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६ ॥ प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा । कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥ श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा । देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८ ॥ उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण । गुर्वीमकिञ्चनार्तिं खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९ ॥ ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला । क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥ ९० ॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥ ९१ ॥ विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ॥ ९२ ॥ कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः । जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥ ९३ ॥ कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् । कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥ लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते । वदनं तव कुचयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥ जलधिद्विगुणितहुतवहदिशादिनेश्वरकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥ ९६ ॥ सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्श्रेण्या । अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥ अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते । चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥ ९८ ॥ कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् । अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ॥ ९९ ॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ १०० ॥ आर्याशतकं भक्त्या पठतामार्याकृपाकटाक्षेण । निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०१ ॥

मूकपञ्चशति - परिचय (Legend of Mooka Kavi)

मूकपञ्चशति (Mooka Panchasati) भक्ति और चमत्कार का एक जीवंत उदाहरण है। किंवदंतियों के अनुसार, कांचीपुरम् में एक मूक (गूँगा) भक्त रहता था। वह प्रतिदिन कांची कामाक्षी के मंदिर में जाकर मौन भाव से उनकी उपासना करता था।

एक दिन, देवी कामाक्षी ने अपनी कटाक्ष दीक्षा (Graceful Glance) उस पर डाली। उसी क्षण, उस मूक भक्त के मुख से धाराप्रवाह कविता फूट पड़ी। वह साधारण मूक से मूक कवि (Mooka Kavi) और बाद में कांची कामकोटि पीठ के 20वें आचार्य श्री मूक शंकरेंद्र सरस्वती बन गए।

आर्या शतकम् (Verse 1): इस स्तोत्र का आरंभ 'कारणपरचिद्रूपा...' श्लोक से होता है, जहाँ कवि माँ कामाक्षी को साक्षात् 'करुणा' का अवतार मानते हैं, जो एक कोमल केसर की लता (काश्मीर-स्तबक) के रूप में कांचीपुर के कामपीठ में विहार कर रही हैं।

ग्रंथ संरचना:
उनके मुख से निकले ये 500 श्लोक 'मूकपञ्चशति' कहलाए, जो 5 शतकों (100-100 श्लोकों के समूह) में विभाजित हैं:

  1. आर्या शतकम् (Arya Satakam): यह पहला शतक है (प्रस्तुत पृष्ठ), जो 'आर्या' छंद में है।
  2. पादारविन्द शतकम् (Padaravinda Satakam): देवी के चरण कमलों का वर्णन।
  3. स्तुति शतकम् (Stuti Satakam): देवी की महिमा और स्तुति।
  4. कटाक्ष शतकम् (Kataksha Satakam): देवी के करुणा पूर्ण नेत्रों का वर्णन।
  5. मन्दस्मित शतकम् (Mandasmita Satakam): देवी की मंद मुस्कान का वर्णन।

महत्व और लाभ (Significance & Benefits)

  • वाक् सिद्धि (Power of Speech): जिस प्रकार मूक कवि को वाणी मिली, वैसे ही इस स्तोत्र के पाठ से वाणी दोष, हकलाना और बोलने में कठिनाई दूर होती है।

  • कवित्व और बुद्धिमत्ता: यह स्तोत्र बुद्धि को कुशाग्र करता है और कवित्व शक्ति (Poetic inspiration) प्रदान करता है।

  • सर्वरोग निवारण: इसे सुनने मात्र से कर्ण (Ear) संबंधी रोग और मानसिक জড়ता दूर होती है।

  • मोक्ष का द्वार: यह केवल भौतिक लाभ ही नहीं, बल्कि देवी के चरणों में अनन्य भक्ति और अंत में मोक्ष (शिव-सायुज्य) भी प्रदान करता है।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. मूकपञ्चशति की रचना किसने की?

मूकपञ्चशति की रचना श्री मूक शंकर (मूक कवि) ने की थी। वे जन्म से बोल नहीं सकते थे, लेकिन कांची कामाक्षी के आशीर्वाद से उन्हें वाणी प्राप्त हुई और वे महान आचार्य बने।

2. आर्या शतकम् का क्या महत्व है?

यह मूकपञ्चशति का पहला शतक है। इसमें 100+ श्लोक 'आर्या' छंद में रचित हैं। इसका पाठ विशेष रूप से वाणी दोष (Speech impediments) को दूर करने और बुद्धि को तीव्र करने के लिए किया जाता है।

3. मूकपञ्चशति में कुल कितने शतक हैं?

इसमें कुल 5 शतक (500 श्लोक) हैं: 1. आर्या शतकम्, 2. पादारविन्द शतकम्, 3. स्तुति शतकम्, 4. कटाक्ष शतकम्, और 5. मन्दस्मित शतकम्। यह पेज पहले शतक (आर्या) को समर्पित है।

4. क्या यह पाठ बच्चों के लिए लाभकारी है?

हाँ, जो बच्चे देर से बोलते हैं या हकलाते हैं, उनके लिए यह स्तोत्र रामबाण माना जाता है। इसे 'वाक-सिद्धि' (Power of Speech) देने वाला स्तोत्र कहा गया है।

5. कामाक्षी देवी का मंदिर कहाँ है?

माँ कामाक्षी का भव्य मंदिर कांचीपुरम् (तमिलनाडु) में है। यह 51 शक्तिपीठों में से एक है और इसे 'कामकोटि पीठ' भी कहा जाता है। यह मंदिर दक्षिण भारत की काशी माना जाता है।