Logoपवित्र ग्रंथ

Dakaradi Sri Datta Sahasranama Stotram – दकारादि श्री दत्त सहस्रनाम स्तोत्रम्

Dakaradi Sri Datta Sahasranama Stotram – दकारादि श्री दत्त सहस्रनाम स्तोत्रम्
॥ दकारादि श्री दत्त सहस्रनाम स्तोत्रम् ॥ ॥ स्तोत्रम् ॥ ओं दत्तात्रेयो दयापूर्णो दत्तो दत्तकधर्मकृत् । दत्ताभयो दत्तधैर्यो दत्तारामो दरार्दनः ॥ १ ॥ दवो दवघ्नो दकदो दकपो दकदाधिपः । दकवासी दकधरो दकशायी दकप्रियः ॥ २ ॥ दत्तात्मा दत्तसर्वस्वो दत्तभद्रो दयाघनः । दर्पको दर्पकरुचिर्दर्पकातिशयाकृतिः ॥ ३ ॥ दर्पकी दर्पककलाभिज्ञो दर्पकपूजितः । दर्पकोनो दर्पकोक्षवेगहृद्दर्पकार्दनः ॥ ४ ॥ दर्पकाक्षीड् दर्पकाक्षीपूजितो दर्पकाधिभूः । दर्पकोपरमो दर्पमाली दर्पकदर्पकः ॥ ५ ॥ दर्पहा दर्पदो दर्पत्यागी दर्पातिगो दमी । दर्भधृग्दर्भकृद्दर्भी दर्भस्थो दर्भपीठगः ॥ ६ ॥ दनुप्रियो दनुस्तुत्यो दनुजात्मजमोहहृत् । दनुजघ्नो दनुजजिद्दनुजश्रीविभञ्जनः ॥ ७ ॥ दमो दमीड् दमकरो दमिवन्द्यो दमिप्रियः । दमादियोगविद्दम्यो दम्यलीलो दमात्मकः ॥ ८ ॥ दमार्थी दमसम्पन्नलभ्यो दमनपूजितः । दमदो दमसम्भाव्यो दममूलो दमीष्टदः ॥ ९ ॥ दमितो दमिताक्षश्च दमितेन्द्रियवल्लभः । दमूना दमुनाभश्च दमदेवो दमालयः ॥ १० ॥ दयाकरो दयामूलो दयावश्यो दयाव्रतः । दयावान् दयनीयेशो दयितो दयितप्रियः ॥ ११ ॥ दयनीयानसूयाभूर्दयनीयात्रिनन्दनः । दयनीयप्रियकरो दयात्मा च दयानिधिः ॥ १२ ॥ दयार्द्रो दयिताश्वत्थो दयाश्लिष्टो दयाघनः । दयाविष्टो दयाभीष्टो दयाप्तो दयनीयदृक् ॥ १३ ॥ दयावृतो दयापूर्णो दयायुक्तान्तरस्थितः । दयालुर्दयनीयेक्षो दयासिन्धुर्दयोदयः ॥ १४ ॥ दरद्रावितवातश्च दरद्रावितभास्करः । दरद्रावितवह्निश्च दरद्रावितवासवः ॥ १५ ॥ दरद्रावितमृत्युश्च दरद्रावितचन्द्रमाः । दरद्रावितभूतौघो दरद्रावितदैवतः ॥ १६ ॥ दरास्त्रधृग्दरदरो दराक्षो दरहेतुकः । दरदूरो दरातीतो दरमूलो दरप्रियः ॥ १७ ॥ दरवाद्यो दरदवो दरधृग्दरवल्लभः । दक्षिणावर्तदरपो दरोदस्नानतत्परः ॥ १८ ॥ दरप्रियो दस्रवन्द्यो दस्रेष्टो दस्रदैवतः । दरकण्ठो दराभश्च दरहन्ता दरानुगः ॥ १९ ॥ दररावद्रावितारिर्दररावार्दितासुरः । दररावमहामन्त्रो दररावार्पितधीर्दरीट् ॥ २० ॥ दरधृग्दरवासी च दरशायी दरासनः । दरकृद्दरहृच्चापि दरगर्भो दरातिगः ॥ २१ ॥ दरिद्रपो दरिद्री च दरिद्रजनशेवधिः । दरीचरो दरीसंस्थो दरीक्रीडो दरीप्रियः ॥ २२ ॥ दरीलभ्यो दरीदेवो दरीकेतनहृत्स्थितिः । दरार्तिहृद्दलनकृद्दलप्रीतिर्दलोदरः ॥ २३ ॥ दलादर्ष्यनुग्राही च दलादनसुपूजितः । दलादगीतमहिमा दलादलहरीप्रियः ॥ २४ ॥ दलाशनो दलचतुष्टयचक्रगतो दली । द्वित्र्यस्रपद्मगतिविद्दशास्राज्जीवभेदकः ॥ २५ ॥ द्विषड्दलाब्जभेत्ता च द्व्यष्टास्राब्जविभेदकः । द्विदलस्थो दशशतपत्रपद्मगतिप्रदः ॥ २६ ॥ द्व्यक्षरावृत्तिकृद्द्व्यक्षो दशास्यवरदर्पहा । दवप्रियो दवचरो दवशायी दवालयः ॥ २७ ॥ दवीयान् दववक्त्रश्च दविष्ठायनपारकृत् । दवमाली दवदवो दवदोषनिशातनः ॥ २८ ॥ दवसाक्षी दवत्राणो दवारामो दवस्थगः । दशहेतुर्दशातीतो दशाधारो दशाकृतिः ॥ २९ ॥ दशषड्बन्धसंविद्धो दशषड्बन्धभेदनः । दशाप्रदो दशाभिज्ञो दशासाक्षी दशाहरः ॥ ३० ॥ दशायुधो दशमहाविद्यार्च्यो दशपञ्चदृक् । दशलक्षणलक्ष्यात्मा दशषड्वाक्यलक्षितः ॥ ३१ ॥ दर्दुरव्रातविहितध्वनिज्ञापितवृष्टिकः । दशपालो दशबलो दशेन्द्रियविहारकृत् ॥ ३२ ॥ दशेन्द्रियगणाध्यक्षो दशेन्द्रियदृगूर्ध्वगः । दशएकगुणगम्यश्च दशेन्द्रियमलापहा ॥ ३३ ॥ दशेन्द्रियप्रेरकश्च दशेन्द्रियनिबोधनः । दशएकमाममेयश्च दशएकगुणचालकः ॥ ३४ ॥ दशभूर्दर्शनाभिज्ञो दर्शनादर्शितात्मकः । दशाश्वमेधतीर्थेष्टो दशास्यरथचालकः ॥ ३५ ॥ दशास्यगर्वहर्ता च दशास्यपुरभञ्जनः । दशास्यकुलविध्वंसी दशास्यानुजपूजितः ॥ ३६ ॥ दर्शनप्रीतिदो दर्शयजनो दर्शनादरः । दर्शनीयो दशबलपक्षभिच्च दशार्तिहा ॥ ३७ ॥ दशातिगो दशाशापो दशग्रन्थविशारदः । दशप्राणविहारी च दशप्राणगतिर्दृशिः ॥ ३८ ॥ दशाङ्गुलाधिकात्मा च दाशार्हो दशषट्सुभुक् । दशप्रागाद्यङ्गुलीककरनम्रद्विडन्तकः ॥ ३९ ॥ दशब्राह्मणभेदज्ञो दशब्राह्मणभेदकृत् । दशब्राह्मणसम्पूज्यो दशनार्तिनिवारणः ॥ ४० ॥ दोषज्ञो दोषदो दोषाधिपबन्धुर्द्विषद्धरः । दोषएकदृक्पक्षघाती दष्टसर्पार्तिशामकः ॥ ४१ ॥ दधिक्राश्च दधिक्रावगामी दध्यङ्मुनीष्टदः । दधिप्रियो दधिस्नातो दधिपो दधिसिन्धुगः ॥ ४२ ॥ दधिभो दधिलिप्ताङ्गो दध्यक्षतविभूषणः । दधिद्रप्सप्रियो दभ्रवेद्यविज्ञातविग्रहः ॥ ४३ ॥ दहनो दहनाधारो दहरो दहरालयः । दह्रदृग्दहराकाशो दहराच्छादनान्तकः ॥ ४४ ॥ दग्धभ्रमो दग्धकामो दग्धार्तिर्दग्धमत्सरः । दग्धभेदो दग्धमदो दग्धाधिर्दग्धवासनः ॥ ४५ ॥ दग्धारिष्टो दग्धकष्टो दग्धार्तिर्दग्धदुष्क्रियः । दग्धासुरपुरो दग्धभुवनो दग्धसत्क्रियः ॥ ४६ ॥ दक्षो दक्षाध्वरध्वंसी दक्षपो दक्षपूजितः । दाक्षिणात्यार्चितपदो दाक्षिणात्यसुभावगः ॥ ४७ ॥ दक्षिणाशो दक्षिणेशो दक्षिणासादिताध्वरः । दक्षिणार्पितसल्लोको दक्षवामादिवर्जितः ॥ ४८ ॥ दक्षिणोत्तरमार्गज्ञो दक्षिण्यो दक्षिणार्हकः । द्रुमाश्रयो druमावासो द्रुमशायी द्रुमप्रियः ॥ ४९ ॥ द्रुमजन्मप्रदो द्रुस्थो द्रुरूपभवशातनः । द्रुमत्वगम्बरो द्रोणो द्रोणीस्थो द्रोणपूजितः ॥ ५० ॥ द्रुघणी द्रुद्यणास्त्रश्च द्रुशिष्यो द्रुधर्मधृक् । द्रविणार्थो द्रविणदो द्रावणो द्राविडप्रियः ॥ ५१ ॥ द्रावितप्रणताघो द्राक्फलो द्राक्केन्द्रमार्गवित् । द्राघीय आयुर्दधानो द्राघीयान् द्राक्प्रसादकृत् ॥ ५२ ॥ द्रुततोषो द्रुतगतिव्यतीतो द्रुतभोजनः । द्रुफलाशी द्रुदलभुग्दृषद्वत्याप्लवादरः ॥ ५३ ॥ द्रुपदेड्यो द्रुतमतिर्द्रुतीकरणकोविदः । द्रुतप्रमोदो द्रुतिदृग्द्रुतिक्रीडाविचक्षणः ॥ ५४ ॥ दृढो दृढाकृतिर्दार्ढ्यो दृढसत्त्वो दृढव्रतः । दृढच्युतो दृढबलो दृढार्थासक्तिदारणः ॥ ५५ ॥ दृढधीर्दृढभक्तिदृग्दृढभक्तिवरप्रदः । दृढदृग्दृढभक्तिज्ञो दृढभक्तो दृढाश्रयः ॥ ५६ ॥ दृढदण्डो दृढयमो दृढप्रदो दृढाङ्गकृत् । दृढकायो दृढध्यानो दृढाभ्यासो दृढासनः ॥ ५७ ॥ दृग्दो दृग्दोषहरणो दृष्टिद्वन्द्वविराजितः । दृक्पूर्वो दृङ्मनोऽतीतो दृक्पूतगमनो दृगीट् ॥ ५८ ॥ दृगिष्टो दृष्ट्यविषमो दृष्टिहेतुर्दृषत्तनुः । दृग्लभ्यो दृक्त्रययुतो दृग्बाहुल्यविराजितः ॥ ५९ ॥ द्युपतिर्द्युपदृग्द्युस्थो द्युमणिर्द्युप्रवर्तकः । द्युदेहो द्युगमो द्युस्थो द्युभूर्द्युर्द्युलयो द्युमान् ॥ ६० ॥ द्युनिड्गति द्युति द्यूनस्थानदोषहरो द्युभुक् । द्यूतकृद्द्यूतहृद्द्यूतदोषहृद्द्यूतदूरगः ॥ ६१ ॥ दृप्तो दृप्तार्दनो द्योस्थो द्योपालो द्योनिवासकृत् । द्रावितारिर्द्राविताल्पमृत्युर्द्रावितरैतवः ॥ ६२ ॥ द्यावाभूमिसन्धिदर्शी द्यावाभूमिधरो द्युदृक् । द्योतकृद्द्योतहृद्द्योती द्योताक्षो द्योतदीपनः ॥ ६३ ॥ द्योतमूलो द्योतितात्मा द्योतोद्यौर्द्योतिताखिलः । द्वयवादिमतद्वेषी द्वयवादिमतान्तकः ॥ ६४ ॥ द्वयवादिजयी दीक्षाद्वयवादिनिवृन्तनः । द्व्यष्टवर्षवया द्व्यष्टनृपवन्द्यो द्विषट्क्रियः ॥ ६५ ॥ द्विषत्कलानिधिर्द्वीपिचर्मधृग्द्व्यष्टजातिकृत् । द्व्यष्टउपचारदयितो द्व्यष्टस्वरतनुर्द्विभित् ॥ ६६ ॥ द्व्यक्षराख्यो द्व्यष्टकोटिस्वजपीष्टार्थपूरकः । द्विपाद्द्व्यात्मा द्विगुर्द्वीशो द्व्यतीतो द्विप्रकाशकः ॥ ६७ ॥ द्वैतीभूतात्मको द्वैतीभूतचिद्द्वैधशामकः । द्विसप्तभुवनाधारो द्विसप्तभुवनेश्वरः ॥ ६८ ॥ द्विसप्तभुवनान्तस्थो द्विसप्तभुवनात्मकः । द्विसप्तलोककर्ता द्विसप्तलोकाधिपो द्विषः ॥ ६९ ॥ द्विसप्तविद्याभिज्ञो द्विसप्तविद्याप्रकाशकः । द्विसप्तविद्याविभवो द्विसप्तेन्द्रपदप्रदः ॥ ७० ॥ द्विसप्तमनुमान्यश्च द्विसप्तमनुपूजितः । द्विसप्तमनुदेवो द्विसप्तमन्वन्तरर्थिकृत् ॥ ७१ ॥ द्विचत्वारिंशदुद्धर्ता द्विचत्वारिकलास्तुतः । द्विस्तनीगोरसास्पृग्द्विहायनीपालको द्विभुक् ॥ ७२ ॥ द्विसृष्टिर्द्विविधो द्वीड्यो द्विपथो द्विजधर्मकृत् । द्विजो द्विजातिमान्यश्च द्विजदेवो द्विजातिकृत् ॥ ७३ ॥ द्विजप्रेष्ठो द्विजश्रेष्ठो द्विजराजसुभूषणः । द्विजराजाग्रजो द्विड्द्वीड्द्विजाननसुभोजनः ॥ ७४ ॥ द्विजास्यो द्विजभक्तो द्विजातभृद्द्विजसत्कृतः । द्विविधो द्व्यावृतिर्द्वन्द्ववारणो द्विमुखाधनः ॥ ७५ ॥ द्विजपालो द्विजगुरुर्द्विजराजासनो द्विपात् । द्विजिह्वसूत्रो द्विजिह्वफणच्छत्रो द्विजिह्वभृत् ॥ ७६ ॥ द्वादशात्मा द्वापरदृग्द्वादशादित्यरूपकः । द्वादशीशो द्वादशारचक्रदृग्द्वादशाक्षरः ॥ ७७ ॥ द्वादशीपारणो द्वादच्चर्यो द्वादशषड्बलः । द्वासप्ततिसहस्राङ्गनाडीगतिविचक्षणः ॥ ७८ ॥ द्वन्द्वदो द्वन्द्वदो द्वन्द्वबीभत्सो द्वन्द्वतापनः । द्वन्द्वार्तिहृद्द्वन्द्वसहो द्वया द्वन्द्वातिगो द्विगः ॥ ७९ ॥ द्वारदो द्वारविद्द्वा(र)स्थो द्वारधृग्द्वारिकाप्रियः । द्वारकृद्द्वारगो द्वारनिर्गमक्रममुक्तिदः ॥ ८० ॥ द्वारभृद्द्वारनवकगतिसंस्कृतिदर्शकः । द्वैमातुरो द्वैतहीनो द्वैतारण्यविनोदनः ॥ ८१ ॥ द्वैतास्पृग्द्वैतगो द्वैताद्वैतमार्गविशारदः । दाता दातृप्रियो दावो दारुणो दारदाशनः ॥ ८२ ॥ दानदो दारुवसतिर्दास्यज्ञो दाससेवितः । दानप्रियो दानतोषो दानज्ञो दानविग्रहः ॥ ८३ ॥ दास्यप्रियो दासपालो दास्यदो दासतोषणः । दावोष्णहृद्दान्तसेव्यो दान्तज्ञो दान्तवल्लभः ॥ ८४ ॥ दातदोषो दातकेशो दावचारी च दावपः । दायकृद्दायभुग्दारस्वीकारविधिदर्शकः ॥ ८५ ॥ दारमान्यो दारहीनो दारमेधिसुपूजितः । दानवान् दानवारातिर्दानवाभिजनान्तकः ॥ ८६ ॥ दामोदरो दामकरो दारस्नेहात्तचेतनः । दर्वीलेपो दारमोहो दारिकाकौतुकान्वितः ॥ ८७ ॥ दारिकादोद्धारकश्च दातदारुकसारथिः । दाहकृद्दाहशान्तिज्ञो दाक्षायण्यधिदैवतः ॥ ८८ ॥ द्राम्बीजो द्रांमनुर्दान्तशान्तोपरतवीक्षितः । दिव्यकृद्दिव्यविद्दिव्यो दिविस्पृग्दिविजार्थतः ॥ ९९ ॥ दिक्पो दिक्पतिपो दिग्विद्दिगन्तरलुठद्यशः । दिग्दर्शनकरो दिष्टो दिष्टात्मा दिष्टभावनः ॥ ९० ॥ दृष्टो दृष्टान्तदो दृष्टातिगो दृष्टान्तवर्जितः । दिष्टं दिष्टपरिच्छेदहीनो दिष्टनियामकः ॥ ९१ ॥ दिष्टास्पृष्टगतिर्दिष्टेड्दिष्टकृद्दिष्टचालकः । दिष्टदाता दिष्टहन्ता दुर्दिष्टफलशामकः ॥ ९२ ॥ दिष्टव्याप्तजगद्दिष्टशंसको दिष्टयत्नवान् । दितिप्रियो दितिस्तुत्यो दितिपूज्यो दितीष्टदः ॥ ९३ ॥ दितिपाखण्डदावो दिग्दिनचर्यापरायणः । दिगम्बरो दिव्यकान्तिर्दिव्यगन्धोऽपि दिव्यभुक् ॥ ९४ ॥ दिव्यभावो दीदिविकृद्दोषहृद्दीप्तलोचनः । दीर्घजीवी दीर्घदृष्टिर्दीर्घाङ्गो दीर्घबाहुकः ॥ ९५ ॥ दीर्घश्रवा दीर्घगतिर्दीर्घवक्षाश्च दीर्घपात् । दीनसेव्यो दीनबन्धुर्दीनपो दीपितान्तरः ॥ ९६ ॥ दीनोद्धर्ता दीप्तकान्तिर्दीप्रक्षुरसमायनः । दीव्यद्दीक्षितसम्पूज्यो दीक्षादो दीक्षितोत्तमः ॥ ९७ ॥ दीक्षणीयेष्टिकृद्दीक्षाऽदीक्षाद्वयविचक्षणः । दीक्षाशी दीक्षितान्नाशी दीक्षाकृद्दीक्षितादरः ॥ ९८ ॥ दीक्षितार्थ्यो दीक्षिताद्यो दीक्षिताभीष्टपूरकः । दीक्षापटुर्दीक्षितात्मा दीद्यद्दीक्षितगर्वहृत् ॥ ९९ ॥ दुष्कर्महा दुष्कृतज्ञो दुष्कृद्दुष्कृतिपावनः । दुष्कृत्साक्षी दुष्कृतहृद्दुष्कृद्धा दुष्कृदार्तिदः ॥ १०० ॥ दुष्क्रियान्तो दुष्करकृद्दुष्क्रियाघनिवारकः । दुष्कुलत्याजको दुष्कृत्पावनो दुष्कुलान्तकः ॥ १०१ ॥ दुष्कुलाषुहरो दुष्कृद्गतिदो दुष्करक्रियः । दुष्कलङ्कविनाशी दुष्कोपो दुष्कण्टकार्दनः ॥ १०२ ॥ दुष्कारी दुष्करतपा दुःखदो दुःखहेतुकः । दुःखत्रयहरो दुःखत्रयदो दुःखदुःखदः ॥ १०३ ॥ दुःखत्रयार्तिविद्दुःखिपूजितो दुःखशामकः । दुःखहीनो दुःखहीनभक्तो दुःखविशोधनः ॥ १०४ ॥ दुःखकृद्दुःखदमनो दुःखितारिश्च दुःखनुत् । दुःखातिगो दुःखलहा दुःखेटार्तिनिवारणः ॥ १०५ ॥ दुःखेटदृष्टिदोषघ्नो दुःखगारिष्टनाशकः । दुःखेचरदशार्तिघ्नो दुष्टखेटानुकूल्यकृत् ॥ १०६ ॥ दुःखोदर्काच्छादको दुःखोदर्कगतिसूचकः । दुःखोदर्कार्थसन्त्यागी दुःखोदर्कार्थदोषदृक् ॥ १०७ ॥ दुर्गा दुर्गार्तिहृद्दुर्गी दुर्गेशो दुर्गसंस्थितः । दुर्गमो दुर्गमगतिर्दुर्गारामश्च दुर्गभूः ॥ १०८ ॥ दुर्गानवकसम्पूज्यो दुर्गानवकसंस्तुतः । दुर्गभिद्दुर्गतिर्दुर्गमार्गगो दुर्गमार्थदः ॥ १०९ ॥ दुर्गतिघ्नो दुर्गतिदो दुर्ग्रहो दुर्ग्रहार्तिहृत् । दुर्ग्रहावेशहृद्दुष्टग्रहनिग्रहकारकः ॥ ११० ॥ दुर्ग्रहोच्चाटको दुष्टग्रहजिद्दुर्गमादरः । दुर्दृष्टिबाधाशमनो दुर्दृष्टिभयहापकः ॥ १११ ॥ दुर्गुणो दुर्गुणातीतो दुर्गुणातीतवल्लभः । दुर्गन्धनाशो दुर्घातो दुर्घटो दुर्घटक्रियः ॥ ११२ ॥ दुश्चर्यो दुश्चरित्रारिर्दुश्चिकित्स्यगदान्तकः । दुश्चित्ताह्लादको दुश्चिच्छास्ता दुश्चेष्टशिक्षकः ॥ ११३ ॥ दुश्चिन्ताशमनो दुश्चिद्दुश्छन्दविनिवर्तकः । दुर्जयो दुर्जरो दुर्जिज्जयी दुर्जेयचित्तजित् ॥ ११४ ॥ दुर्जाप्यहर्ता दुर्वार्ताशान्तिर्दुर्जातिदोषहृत् । दुर्जनारिर्दुश्चवनो दुर्जनप्रान्तहापकः ॥ ११५ ॥ दुर्जनार्तो दुर्जनार्तिहरो दुर्जलदोषहृत् । दुर्जीवहा दुष्टहन्ता दुष्टार्तपरिपालकः ॥ ११६ ॥ दुष्टविद्रावणो दुष्टमार्गभिद्दुष्टसङ्गहृत् । दुर्जीवहत्यासन्तोषो दुर्जनाननकीलनः ॥ ११७ ॥ दुर्जीववैरहृद्दुष्टोच्चाटको दुस्तरोद्धरः । दुष्टदण्डो दुष्टखण्डो दुष्टधृ८दुष्टमुण्डनः ॥ ११८ ॥ दुष्टभावोपशमनो दुष्टविद्दुष्टशोधनः । दुस्तर्कहृद्दुस्तर्कारिर्दुस्तापपरिशान्तिकृत् ॥ ११९ ॥ दुर्दैवहृद्दुन्दुभिघ्नो दुन्दुभ्याघातहर्षकृत् । दुर्धीहरो दुर्नयहृद्दुःपक्षिध्वनिदोषहृत् ॥ १२० ॥ दुष्प्रयोगोपशमनो दुष्प्रतिग्रहदोषहृत् । दुर्बलाप्तो दुर्बोधात्मा दुर्बन्धच्छिद्दुरत्ययः ॥ १२१ ॥ दुर्बाधाहृद्दुर्भयहृद्दुर्भ्रदोपशमात्मकः । दुर्भिक्षहृद्दुर्यशोहृद्दुरुत्पातोपशामकः ॥ १२२ ॥ दुर्मन्त्रयन्त्रतन्त्रच्छिद्दुर्मित्रपरितापनः । दुर्योगहृद्दुराधर्षो दुराराध्यो दुरासदः ॥ १२३ ॥ दुरत्ययस्वमायाब्धितारको दुरवग्रहः । दुर्लभो दुर्लभतमो दुरालापाघशामकः ॥ १२४ ॥ दुर्नामहृद्दुराचारपावनो दुरपोहनः । दुराश्रमाघहृद्दुर्गपथलभ्यचिदात्मकः ॥ १२५ ॥ दुरध्वपारदो दुर्भुक्पावनो दुरितार्तिहा । दुराश्लेषाघहर्ता दुर्मैथुनएनोनिबर्हणः ॥ १२६ ॥ दुरामयान्तो दुर्वैरहर्ता दुर्व्यसनान्तकृत् । दुःसहो दुःशकुनहृद्दुःशीलपरिवर्तनः ॥ १२७ ॥ दुःशोकहृद्दुःशङ्काहृद्दुःसङ्गभयवारणः । दुःसहाभो दुःसहदृ८दुःस्वप्नभयनाशनः ॥ १२८ ॥ दुःसङ्गदोषसञ्जातदुर्मनीषाविशोधनः । दुःसङ्गिपापदहनो दुःक्षणाघनिवर्तनः ॥ १२९ ॥ दुःक्षेत्रपावनो दुःक्षुद्भयहृद्दुःक्षयार्तिहृत् । दुःक्षत्रहृच्च दुर्ज्ञेयो दुर्ज्ञानपरिशोधनः ॥ १३० ॥ दूतो दूतेरको दूतप्रियो दूरश्च दूरदृक् । दूनचित्ताह्लादकश्च दूर्वाभो दूष्यपावनः ॥ १३१ ॥ देदीप्यमाननयनो देवो देदीप्यमानभः । देदीप्यमानरदनो देश्यो देदीप्यमानधीः ॥ १३२ ॥ देवेष्टो देवगो देवी देवता देवतार्चितः । देवमातृप्रियो देवपालको देववर्धकः ॥ १३३ ॥ देवमान्यो देववन्द्यो देवलोकप्रियंवदः । देवारिष्टहरो देवाभीष्टदो देवतात्मकः ॥ १३४ ॥ देवभक्तप्रियो देवहोता देवकुलादृतः । देवतन्तुर्देवसंसद्देवद्रोहिसुशिक्षकः ॥ १३५ ॥ देवात्मको देवमयो देवपूर्वश्च देवभूः । देवमार्गप्रदो देवशिक्षको देवगर्वहृत् ॥ १३६ ॥ देवमार्गान्तरायघ्नो देवयज्ञादिधर्मधृक् । देवपक्षी देवसाक्षी देवदेवेशभास्करः ॥ १३७ ॥ देवारातिहरो देवदूतो दैवतदैवतः । देवभीतिहरो देवगेयो देवहविर्भुजः ॥ १३८ ॥ देवश्राव्यो देवदृश्यो देवर्णी देवभोग्यभुक् । देवीशो देव्यभीष्टार्थो देवीड्यो देव्यभीष्टकृत् ॥ १३९ ॥ देवीप्रियो देवकीजो देशिको देशिकार्चितः । देशिकेड्यो देशिकात्मा देवमातृकदेशपः ॥ १४० ॥ देहकृद्देहधृ८देही देहगो देहभावनः । देहपो देहदो देहचतुष्टयविहारकृत् ॥ १४१ ॥ देहीतिप्रार्थनीयश्च देहबीजनिकृन्तनः । देवनास्पृ८देवनकृद्देहास्पृ८देहभावनः ॥ १४२ ॥ देवदत्तो देवदेवो देहातीतोऽपि देहभृत् । देहदेवालयो देहासङ्गो देहरथेष्टगः ॥ १४३ ॥ देहधर्मा देहकर्मा देहसम्बन्धपालकः । देयात्मा देयविद्देशापरिच्छिन्नश्च देशकृत् ॥ १४४ ॥ देशपो देशवान् देशी देशज्ञो देशिकागमः । देशभाषापरिज्ञानी देशभूर्देशपावनः ॥ १४५ ॥ देशयपूज्यो देवकृतोपसर्गनिवर्तकः । दिविषद्विहितावर्षातिवृष्ट्यादीतिशामकः ॥ १४६ ॥ दैवीगायत्रिकाजापी दैवसम्पत्तिपालकः । दैवीसम्पत्तिसम्पन्नमुक्तिकृद्दैवभावगः ॥ १४७ ॥ दैवसम्पत्त्यसम्पन्नछायास्पृ८दैत्यभावहृत् । दैवदो दैवफलदो दैवादित्रिक्रियेश्वरः ॥ १४८ ॥ दैवानुमोदनो दैन्यहरो दैवज्ञदेवतः । दैवज्ञो दैववित्पूज्यो दैविको दैन्यकारणः ॥ १४९ ॥ दैन्याञ्जनहृतस्तम्भो दोषत्रयशमप्रदः । दोषहर्ता दैवभिष८दोषदो दोर्द्वयान्वितः ॥ १५० ॥ दोषज्ञो दोहदाशंसी दोग्धा दोष्यन्तितोषितः । दौरात्म्यदूरो दौरात्म्यहृ८दौरात्म्यार्तिशान्तिकृत् ॥ १५१ ॥ दौरात्म्यदोषसंहर्ता दौरात्म्यपरिशोधनः । दौर्मनस्यहरो दौत्यकृ८दौत्योपास्तशक्तिकः ॥ १५२ ॥ दौर्भाग्यदोऽपि दौर्भाग्यहृ८दौर्भाग्यार्तिशान्तिकृत् । दौष्ट्यत्र्यो दौष्कुल्यदोषहृ८दौष्कुल्याधिशामकः ॥ १५३ ॥ दन्दशूकपरिष्कारो दन्दशूककृतायुधः । दन्तिचर्मपरिधानो दन्तुरो दन्तुरारिहृत् । दन्तुरघ्नो दण्डधारी दण्डनीतिप्रकाशकः । दाम्पत्यार्थप्रदो दम्पत्यर्च्यो दम्पत्यभीष्टदः ॥ १५५ ॥ दम्पतिद्वेषशमनो दम्पतिप्रीतिवर्धनः । दन्तोलूखलको दंष्ट्री दन्त्यास्यो दन्तिपूर्वगः ॥ १५६ ॥ दम्भोलिभृ८दम्भहर्ता दण्डयवि८दंशवारणः । दन्द्रम्यमाणशरणो दन्त्यश्वरथपत्तिदः ॥ १५७ ॥ दन्द्रम्यमाणलोकार्तिकरो दण्डत्रयाश्रितः । दण्डपाण्यर्चपद्दण्डिवासुदेवस्तुतोऽवतु ॥ १५८ ॥ ॥ फलश्रुति ॥ इति श्रीमद्दकारादि दत्तनामसहस्रकम् । पठतां शृण्वतां वाऽपि परानन्दपदप्रदम् ॥ १५९ ॥ ॥ इति श्रीपरमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं दकारादि श्री दत्त सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

परिचय: दकारादि श्री दत्त सहस्रनाम स्तोत्रम् (Introduction)

दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त सम्प्रदाय के महान संत और आधुनिक काल के महान योगी परम पूज्य श्री वासुदेवानन्द सरस्वती (जिन्हें टेंबे स्वामी के नाम से जाना जाता है) द्वारा रचित एक अत्यंत गोपनीय और प्रभावी स्तोत्र है। इस स्तोत्र की सबसे बड़ी विशेषता इसका "चित्र काव्य" स्वरूप है— इसमें भगवान दत्तात्रेय के १००० नामों में से प्रत्येक नाम वर्णमाला के "द" (Da) अक्षर से प्रारंभ होता है। संस्कृत साहित्य में इस प्रकार की रचना को अत्यंत कठिन और सिद्ध माना गया है, जहाँ कवि की भक्ति और पांडित्य का अद्भुत संगम होता है।

भगवान दत्तात्रेय को हिंदू धर्म में "गुरुदेव" का साक्षात स्वरूप माना गया है। वे ब्रह्मा, विष्णु और महेश के एकीकृत अवतार हैं, जिन्होंने २४ गुरुओं से शिक्षा ग्रहण कर संसार को ज्ञान का मार्ग दिखाया। "द" अक्षर से प्रारंभ होने वाले इन १००० नामों का आध्यात्मिक अर्थ बहुत गहरा है। "द" शब्द "दान" (Giving) और "दमन" (Control) दोनों का प्रतीक है। भगवान दत्त अपने भक्तों को 'अभय दान' देते हैं और उनके भीतर के काम-क्रोध जैसे शत्रुओं का 'दमन' करते हैं।

श्री टेंबे स्वामी ने इस स्तोत्र की रचना लोक कल्याण और उन साधकों के लिए की थी जो कठिन योग साधना नहीं कर सकते, लेकिन भक्ति के माध्यम से परमात्मा का सानिध्य प्राप्त करना चाहते हैं। यह स्तोत्र केवल एक काव्य नहीं, बल्कि एक महामंत्र है, जिसका प्रत्येक शब्द मंत्र की भांति स्पंदित होता है और साधक के चारों ओर एक सुरक्षा चक्र निर्मित करता है।

विशिष्ट आध्यात्मिक महत्व (Significance)

दत्तात्रेय साधना में पितृ दोष निवारण और मानसिक शांति के लिए "दकारादि सहस्रनाम" का पाठ अमोघ अस्त्र माना जाता है। दत्त सम्प्रदाय की मान्यता है कि भगवान दत्तात्रेय "स्मर्तृगामी" हैं, अर्थात मात्र स्मरण करने से ही वे साधक के पास पहुँच जाते हैं। जब कोई भक्त "द" अक्षर के इन १००० नामों का उच्चारण करता है, तो उसके मूलाधार चक्र से लेकर आज्ञा चक्र तक एक विशेष ध्वनि तरंग उत्पन्न होती है, जो आध्यात्मिक ऊर्जा के स्तर को बढ़ाती है।

यह स्तोत्र 'अवधूत' अवस्था का वर्णन करता है। इसमें भगवान के उन रूपों का वर्णन है जो दिगंबर (आकाश ही जिनका वस्त्र है) हैं और जो द्वैत-अद्वैत से परे हैं। श्लोक २० में भगवान को "दररावमहामन्त्र" कहा गया है, जो उनके शब्द ब्रह्म होने की पुष्टि करता है। जो व्यक्ति इस स्तोत्र का पाठ करता है, उसे कलयुग के दोषों और अनचाही ऊपरी बाधाओं से स्वतः ही मुक्ति मिल जाती है।

फलश्रुति: पाठ के चमत्कारी लाभ (Benefits)

इस स्तोत्र की फलश्रुति (श्लोक १५९) में स्वयं टेंबे स्वामी जी ने इसे 'परानन्दपदप्रदम्' (परम आनंद देने वाला) कहा है। विस्तार से इसके लाभ निम्नलिखित हैं:

  • पितृ दोष से मुक्ति: भगवान दत्तात्रेय पूर्वजों की सद्गति के स्वामी हैं। इस पाठ से परिवार में चली आ रही अदृश्य बाधाएं दूर होती हैं।
  • सद्गुरु की प्राप्ति: यदि आप किसी गुरु की खोज में हैं, तो इस सहस्रनाम का पाठ करने से शीघ्र ही उचित मार्गदर्शन प्राप्त होता है।
  • भय और व्याधि का नाश: "दरहन्ता" (भय का नाश करने वाले) नाम के कारण यह पाठ रात्रि के भय और पुरानी बीमारियों को दूर करने में सहायक है।
  • चित्त शुद्धि: भगवान के १००० नामों के उच्चारण से मन के कुसंस्कार जल जाते हैं और साधक में "अवधूत भाव" जागृत होता है।
  • सांसारिक समृद्धि: यह स्तोत्र मोक्ष के साथ-साथ भुक्ति (ऐश्वर्य) भी प्रदान करता है। घर में अन्न और धन की कभी कमी नहीं रहती।
  • विद्या और विवेक: छात्रों के लिए इस स्तोत्र का पाठ एकाग्रता और बुद्धिमत्ता बढ़ाने वाला सिद्ध होता है।

पाठ विधि और विशेष अवसर (Ritual Method)

श्री वासुदेवानन्द सरस्वती जी के अनुसार, किसी भी स्तोत्र का लाभ तब अधिक होता है जब उसे शास्त्रीय विधि से किया जाए। दत्त साधना में सात्विकता का सर्वोच्च स्थान है।

साधना के नियम

  • समय: गुरुवार (Thursday) भगवान दत्त का दिन है। इसके अतिरिक्त पूर्णिमा और दत्त जयंती पर इसका पाठ विशेष फलदायी है।
  • आसन: ऊनी या कुशा का आसन प्रयोग करें। भगवान दत्तात्रेय के चित्र के सामने घी का दीपक जलाएं।
  • ध्यान: पाठ से पूर्व भगवान दत्तात्रेय के 'त्रिगुण' रूप का ध्यान करें— जिनके तीन मुख और छह हाथ हैं, और जो चार कुत्तों (वेदों के प्रतीक) और एक गाय (पृथ्वी का प्रतीक) के साथ खड़े हैं।
  • मंत्र जाप: पाठ प्रारंभ करने से पूर्व 'ॐ द्राम दत्तात्रेयाय नमः' या 'दिगंबरा दिगंबरा श्रीपाद वल्लभ दिगंबरा' का १०८ बार जाप करें।

विशेष प्रयोग

यदि किसी विशेष कार्य की सिद्धि के लिए पाठ कर रहे हैं, तो लगातार २१ गुरुवार तक इस सहस्रनाम का पाठ करें। पाठ के अंत में गाय को गुड़ और चना खिलाना अत्यंत शुभ माना जाता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. दकारादि सहस्रनाम का रचयिता कौन है?

इस स्तोत्र की रचना महान संत श्री वासुदेवानन्द सरस्वती (टेंबे स्वामी) ने की थी, जिन्हें स्वयं भगवान दत्तात्रेय का अवतार माना जाता है।

2. 'दकारादि' शब्द का क्या अर्थ है?

'दकारादि' का अर्थ है— "द" (Da) अक्षर से आदि (प्रारंभ) होने वाला। इस स्तोत्र के सभी १००० नाम 'द' अक्षर से शुरू होते हैं।

3. क्या गृहस्थ व्यक्ति इसका पाठ कर सकता है?

हाँ, गृहस्थ साधक अपनी सुख-शांति और पितृ दोष की शांति के लिए इसका पाठ कर सकते हैं। बस शुद्धि और ब्रह्मचर्य का पालन पाठ के दिन अवश्य करें।

4. क्या इस पाठ से पितृ दोष सच में दूर होता है?

दत्त सम्प्रदाय में ऐसी प्रबल मान्यता है कि भगवान दत्त पितरों के अधिपति हैं। दकारादि सहस्रनाम का नियमित पाठ पूर्वजों की अतृप्त आत्माओं को शांति प्रदान करता है।

5. पाठ के लिए सबसे उत्तम समय क्या है?

प्रातः काल (ब्रह्म मुहूर्त) पाठ के लिए सर्वोत्तम है। संध्या के समय भी पाठ किया जा सकता है, विशेषकर गुरुवार की शाम को।

6. 'दिगंबर' रूप का क्या अर्थ है?

'दिक्' (दिशाएं) ही जिनका 'अंबर' (वस्त्र) हैं। यह भगवान दत्तात्रेय के उस निर्लिप्त स्वरूप को दर्शाता है जो किसी भी भौतिक बंधन में नहीं हैं।

7. क्या पाठ के दौरान उपवास रखना आवश्यक है?

अनिवार्य नहीं है, लेकिन यदि आप गुरुवार का व्रत रखते हैं और फिर पाठ करते हैं, तो संकल्प शक्ति और फल की तीव्रता बढ़ जाती है।

8. भगवान दत्तात्रेय के २४ गुरु कौन हैं?

श्रीमद्भागवत के अनुसार, उन्होंने पृथ्वी, वायु, आकाश, जल, अग्नि, चंद्रमा, सूर्य, कपोत (कबूतर), अजगर, समुद्र, पतंगा, भँवरा, हाथी, मधुमक्खी, हिरण, मछली, पिंगला (वेश्या), कुररी पक्षी, बालक, कुमारी कन्या, बाण बनाने वाला, सर्प, मकड़ी और भृंगी कीट को अपना गुरु माना था।

9. क्या इस स्तोत्र का पाठ संस्कृत में ही करना चाहिए?

हाँ, क्योंकि यह एक 'बीज मंत्र' आधारित स्तोत्र है, इसलिए मूल संस्कृत के शब्दों का उच्चारण ही विशेष ऊर्जा उत्पन्न करता है। यदि संस्कृत कठिन लगे, तो आप इसे सुन भी सकते हैं।

10. टेंबे स्वामी जी का दत्त सम्प्रदाय में क्या योगदान है?

टेंबे स्वामी जी ने 'गुरुचरित्र' को जन-जन तक पहुँचाया और महाराष्ट्र-कर्नाटक-गुजरात में दत्त भक्ति का पुनरुद्धार किया। उन्होंने दकारादि सहस्रनाम सहित अनेक शक्तिशाली स्तोत्रों की रचना की।