Logoपवित्र ग्रंथ

Sri Datta Bhava Sudha Rasa Stotram – श्री दत्त भावसुधारस स्तोत्रम्

Sri Datta Bhava Sudha Rasa Stotram – श्री दत्त भावसुधारस स्तोत्रम्
॥ श्री दत्त भावसुधारस स्तोत्रम् ॥ दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् । दुष्टाऽगम्यं विततविजयं देवदैत्यर्षिवन्द्यं वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥ १ ॥ दत्तात्रेय नमोऽस्तु ते भगवते पापक्षयं कुर्वते दारिद्र्यं हरते भयं शमयते कारुण्यमातन्वते । भक्तानुद्धरते शिवं च ददते सत्कीर्तिमातन्वते भूतान् द्रावयते वरं प्रददते श्रेयः पते सद्गते ॥ २ ॥ एकं सौभाग्यजनकं तारकं लोकनायकम् । विशोकं त्रातभजकं नमस्ये कामपूरकम् ॥ ३ ॥ नित्यं स्मरामि ते पादे हतखेदे सुखप्रदे । प्रदेहि मे शुद्धभावं भावं यो वारयेद्द्रुतम् ॥ ४ ॥ समस्तसम्पत्प्रदमार्तबन्धुं समस्तकल्याणदमस्तबन्धुम् । कारुण्यसिन्धुं प्रणमामि दत्तं यः शोधयत्याशु मलीनचित्तम् ॥ ५ ॥ समस्तभूतान्तरबाह्यवर्ती यश्चात्रिपुत्रो यतिचक्रवर्ती । सुकीर्तिसंव्याप्तदिगन्तरालः स पातु मां निर्जितभक्तकालः ॥ ६ ॥ व्याध्याधिदारिद्र्यभयार्तिहर्ता स्वगुप्तयेऽनेकशरीरधर्ता । स्वदासभर्ता बहुधा विहर्ता कर्ताप्यकर्ता स्ववशोऽरिहर्ता ॥ ७ ॥ स चानसूयातनयोऽभवद्यो विष्णुः स्वयं भाविकरक्षणाय । गुणा यदीया म हि बुद्धिमद्भि- -र्गण्यन्त आकल्पमपीह धात्रा ॥ ८ ॥ न यत्कटाक्षामृतवृष्टितोऽत्र तिष्ठन्ति तापाः सकलाः परत्र । यः सद्गतिं सम्प्रददाति भूमा स मेऽन्तरे तिष्ठतु दिव्यधामा ॥ ९ ॥ स त्वं प्रसीदात्रिसुतार्तिहारिन् दिगम्बर स्वीयमनोविहारिन् । दुष्टा लिपिर्या लिखितात्र धात्रा कार्या त्वया साऽतिशुभा विधात्रा ॥ १० ॥ सर्वमङ्गलसम्युक्त सर्वैश्वर्यसमन्वित । प्रसन्ने त्वयि सर्वेशे किं केषां दुर्लभं कुह ॥ ११ ॥ हार्दान्धतिमिरं हन्तुं शुद्धज्ञानप्रकाशक । त्वदङ्घ्रिनखमाणिक्यद्युतिरेवालमीश नः ॥ १२ ॥ स्वकृपार्द्रकटाक्षेण वीक्षसे चेत्सकृद्धि माम् । भविष्यामि कृतार्थोऽत्र पात्रं चापि स्थितेस्तव ॥ १३ ॥ क्व च मन्दो वराकोऽहं क्व भवान्भगवान्प्रभुः । अथापि भवदावेश भाग्यवानस्मि ते दृशा ॥ १४ ॥ विहितानि मया नाना पातकानि च यद्यपि । अथापि ते प्रसादेन पवित्रोऽहं न संशयः ॥ १५ ॥ स्वलीलया त्वं हि जनान्पुनासि तन्मे स्वलीलाश्रवणं प्रयच्छ । तस्याः श्रुतेः सान्द्रविलोचनोऽहं पुनामि चात्मानमतीव देव ॥ १६ ॥ पुरतस्ते स्फुटं वच्मि दोषराशिरहं किल । दोषा ममामिताः पांसुवृष्टिबिन्दुसमा विभोः ॥ १७ ॥ पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः । दयनीयो न हि क्वापि मदन्य इति भाति मे ॥ १८ ॥ ईदृशं मां विलोक्यापि कृपालो ते मनो यदि । न द्रवेत्तर्हि किं वाच्यमदृष्टं मे तवाग्रतः ॥ १९ ॥ त्वमेव सृष्टवान् सर्वान् दत्तात्रेय दयानिधे । वयं दीनतराः पुत्रास्तवाकल्पाः स्वरक्षणे ॥ २० ॥ जयतु जयतु दत्तो देवसङ्घाभिपूज्यो जयतु जयतु भद्रो भद्रदो भावुकेज्यः । जयतु जयतु नित्यो निर्मलज्ञानवेद्यो जयतु जयतु सत्यः सत्यसन्धोऽनवद्यः ॥ २१ ॥ यद्यहं तव पुत्रः स्यां पिता माता त्वमेव मे । दयास्तन्यामृतेनाशु मातस्त्वमभिषिञ्च माम् ॥ २२ ॥ ईशाभिन्ननिमित्तोपादानत्वात्स्रष्टुरस्य ते । जगद्योने सुतो नाहं दत्त मां परिपाह्यतः ॥ २३ ॥ तव वत्सस्य मे वाक्यं सूक्तं वाऽसूक्तमप्यहो । क्षन्तव्यं मेऽपराधश्च त्वत्तोऽन्या न गतिर्हि मे ॥ २४ ॥ अनन्यगतिकस्यास्य बालस्य मम ते पितः । न सर्वथोचितोपेक्षा दोषाणां गणनापि च ॥ २५ ॥ अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे । भवन्ति किं करोमीश करुणावरुणालय ॥ २६ ॥ अथापि मेऽपराधैश्चेदायास्यन्तर्विषादताम् । पदाहतार्भकेणापि माता रुष्यति किं भुवि ॥ २७ ॥ रङ्कमङ्कगतं दीनं ताडयन्तं पदेन च । माता त्यजति किं बालं प्रत्युताश्वासयत्यहो ॥ २८ ॥ तादृशं मामकल्पं चेन्नाश्वासयसि भो प्रभो । अहहा बत दीनस्य त्वां विना मम का गतिः ॥ २९ ॥ शिशुर्नायं शठः स्वार्थीत्यपि नायातु तेऽन्तरम् । लोके हि क्षुधिता बालाः स्मरन्ति निजमातरम् ॥ ३० ॥ जीवनं भिन्नयोः पित्रोर्लोक एकतराच्छिशोः । त्वं तूभयं दत्त मम माऽस्तु निर्दयता मयि ॥ ३१ ॥ स्तवनेन न शक्तोऽस्मि त्वां प्रसादयितुं प्रभो । ब्रह्माद्याश्चकितास्तत्र मन्दोऽहं शक्नुयां कथम् ॥ ३२ ॥ दत्त त्वद्बालवाक्यानि सूक्तासूक्तानि यानि च । तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावन ॥ ३३ ॥ ये त्वां शरणमापन्नाः कृतार्था अभवन्हि ते । एतद्विचार्य मनसा दत्त त्वां शरणं गतः ॥ ३४ ॥ त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः । इति शास्त्रानुरोधेन दत्त त्वां शरणं गतः ॥ ३५ ॥ स्वभक्ताननुगृह्णाति भगवान् भक्तवत्सलः । इति सञ्चित्य सञ्चित्य कथञ्चिद्धारयाम्यसून् ॥ ३६ ॥ त्वद्भक्तस्त्वदधीनोऽहमस्मि तुभ्यं समर्पितम् । तनुं मनो धनं चापि कृपां कुरु ममोपरि ॥ ३७ ॥ त्वयि भक्तिं नैव जाने न जानेऽर्चनपद्धतिम् । कृतं न दानधर्मादि प्रसादं कुरु केवलम् ॥ ३८ ॥ ब्रह्मचर्यादि नाचीर्णं नाधीता विधितः श्रुतिः । गार्हस्थ्यं विधिना दत्त न कृतं तत्प्रसीद मे ॥ ३९ ॥ न साधुसङ्गमो मेऽस्ति न कृतं वृद्धसेवनम् । न शास्त्रशासनं दत्त केवलं त्वं दयां कुरु ॥ ४० ॥ ज्ञातेऽपि धर्मे न हि मे प्रवृत्तिः ज्ञातेऽप्यधर्मे न ततो निवृत्तिः । श्रीदत्तनाथेन हृदि स्थितेन त्वया नियुक्तोऽस्मि तथा करोमि ॥ ४१ ॥ कृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः । भवन्तु दत्त मे नित्यं त्वदीया एव सर्वथा ॥ ४२ ॥ प्रतिज्ञा ते न भक्ता मे नश्यन्तीति सुनिश्चितम् । श्रीदत्त चित्त आनीय जीवनं धारयाम्यहम् ॥ ४३ ॥ दत्तोऽहं ते मयेतीश आत्मदानेन योऽभवत् । अनसूयात्रिपुत्रः स श्रीदत्तः शरणं मम ॥ ४४ ॥ कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः । अव्याहतगतिं चासौ श्रीदत्तः शरणं मम ॥ ४५ ॥ आन्वीक्षिकीमलर्काय विकल्पत्यागपूर्वकम् । यो ददाचार्यवर्यः स श्रीदत्तः शरणं मम ॥ ४६ ॥ चतुर्विंशतिगुर्वाप्तं हेयोपादेयलक्षणम् । ज्ञानं यो यदवेऽदात्स श्रीदत्तः शरणं मम ॥ ४७ ॥ मदालसागर्भरत्नालर्काय प्राहिणोच्च यः । योगपूर्वात्मविज्ञानं श्रीदत्तः शरणं मम ॥ ४८ ॥ आयुराजाय सत्पुत्रं सेवाधर्मपराय यः । प्रददौ सद्गतिं चैष श्रीदत्तः शरणं मम ॥ ४९ ॥ लोकोपकृतये विष्णुदत्तविप्राय योऽर्पयत् । विद्यास्तच्छ्राद्धभुगयः स श्रीदत्तः शरणं मम ॥ ५० ॥ भर्त्रा सहानुगमनविधिं यः प्राह सर्ववित् । राममात्रे रेणुकायै श्रीदत्तः शरणं मम ॥ ५१ ॥ समूलमाह्निकं कर्म सोमकीर्तिनृपाय यः । मोक्षोपयोगि सकलं श्रीदत्तः शरणं मम ॥ ५२ ॥ नामधारक भक्ताय निर्विण्णाय व्यदर्शयत् । तुष्टः स्तुत्या स्वरूपं स श्रीदत्तः शरणं मम ॥ ५३ ॥ यः कलिब्रह्मसंवादमिषेणाह युगस्थितीः । गुरुसेवां च सिद्धाऽऽस्याच्छ्रीदत्तः शरणं मम ॥ ५४ ॥ दूर्वासःशापमाश्रुत्य योऽम्बरीषार्थमव्ययः । नानावतारधारी स श्रीदत्तः शरणं मम ॥ ५५ ॥ अनसूयासतीदुग्धास्वादायेव त्रिरूपतः । अवातरदजो योऽपि श्रीदत्तः शरणं मम ॥ ५६ ॥ पीठापुरे यः सुमतिब्राह्मणीभक्तितोऽभवत् । श्रीपादस्तत्सुतस्त्राता श्रीदत्तः शरणं मम ॥ ५७ ॥ प्रकाशयामास सिद्धमुखात् स्थापनमादितः । महाबलेश्वरस्यैष श्रीदत्तः शरणं मम ॥ ५८ ॥ चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र योऽवसत् । लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तः शरणं मम ॥ ५९ ॥ कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतम् । यो हि मृत्योरपाच्छ्रीपाच्छ्रीदत्तः शरणं मम ॥ ६० ॥ रजकायापि दास्यन्यो राज्यं कुरुपुरे प्रभुः । तिरोऽभूदज्ञदृष्ट्या स श्रीदत्तः शरणं मम ॥ ६१ ॥ विश्वासघातिनश्चोरान् स्वभक्तघ्नान्निहत्य यः । जीवयामास भक्तं स श्रीदत्तः शरणं मम ॥ ६२ ॥ करञजनगरेऽम्बायाः प्रदोषव्रतसिद्धये । योऽभूत्सुतो नृहर्याख्यः श्रीदत्तः शरणं मम ॥ ६३ ॥ मूको भूत्वा व्रतात् पश्चाद्वदन्वेदान् स्वमातरम् । प्रव्रजन् बोधयामास श्रीदत्तः शरणं मम ॥ ६४ ॥ काशीवासी स संन्यासी निराशीष्ट्वप्रदो वृषम् । वैदिकं विशदीकुर्वन् श्रीदत्तः शरणं मम ॥ ६५ ॥ भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरम् । जहार द्विजशूलार्तिं श्रीदत्तः शरणं मम ॥ ६६ ॥ शिष्यत्वेनोररीकृत्य सायन्देवं ररक्ष यः । भीतं च क्रूरयवनाच्छ्रीदत्तः शरणं मम ॥ ६७ ॥ प्रेरयत्तीर्थयात्रायै तीर्थरूपोऽपि यः स्वकान् । सम्यग्धर्ममुपादिश्य श्रीदत्तः शरणं मम ॥ ६८ ॥ सशिष्यः पर्यलीक्षेत्रे वैद्यनाथसमीपतः । स्थित्वोद्दधार मूढं यः श्रीदत्तः शरणं मम ॥ ६९ ॥ विद्वत्सुतमविद्यं य आगतं लोकनिन्दितम् । छिन्नजिह्वं बुधं चक्रे श्रीदत्तः शरणं मम ॥ ७० ॥ नृसिंहवाटिकस्थो यः प्रददौ शाकभुङ्निधिम् । दरिद्रब्राह्मणयासौ श्रीदत्तः शरणं मम ॥ ७१ ॥ भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् । चकार वरदं क्षेत्रं श्रीदत्तः शरणं मम ॥ ७२ ॥ प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः । ददौ पुत्रौ स गतिदः श्रीदत्तः शरणं मम ॥ ७३ ॥ तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् । मृतं कल्पद्रुमस्थः स श्रीदत्तः शरणं मम ॥ ७४ ॥ दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः । दारिद्र्यदावदावः स श्रीदत्तः शरणं मम ॥ ७५ ॥ राजप्रार्थित एत्यास्थान्मठे यो गाणगापुरे । ब्रह्मरक्षः समुद्धर्ता श्रीदत्तः शरणं मम ॥ ७६ ॥ विश्वरूपं निन्दकाय शिबिकास्थः स्वलङ्कृतः । गर्वहादर्शयद्यः स श्रीदत्तः शरणं मम ॥ ७७ ॥ त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ । बोधयामास तौ यः स श्रीदत्तः शरणं मम ॥ ७८ ॥ उक्त्वा चतुर्वेदशाखातदङ्गादिकमीश्वरः । विप्रगर्वहरो यः स श्रीदत्तः शरणं मम ॥ ७९ ॥ सप्तजन्मविदं सप्तरेखाोल्लङ्घनतो ददौ । यो हीनाय श्रुतिस्फूर्तिः श्रीदत्तः शरणं मम ॥ ८० ॥ त्रिविक्रमायाह कर्मगतिं दत्तविदा पुनः । वियुक्तं पतितं चक्रे श्रीदत्तः शरणं मम ॥ ८१ ॥ रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् । उक्तां त्रिविक्रमायाह श्रीदत्तः शरणं मम ॥ ८२ ॥ गोपीनाथसुतो रुग्णो मृतस्तत् स्त्री शुशोच ताम् । बोधयामास यो योगी श्रीदत्तः शरणं मम ॥ ८३ ॥ गुर्वगस्त्यर्षिसंवादरूपं स्त्रीधर्ममाह यः । रूपान्तरेण स प्राज्ञः श्रीदत्तः शरणं मम ॥ ८४ ॥ विधवाधर्ममादिश्यानुगमं चाक्षभस्मदः । अजीवयन्मृतं विप्रं श्रीदत्तः शरणं मम ॥ ८५ ॥ वेश्यासत्यै तु रुद्राक्षमाहात्म्ययुतमीट् कृतम् । प्रसादं प्राह यः सत्यै श्रीदत्तः शरणं मम ॥ ८६ ॥ शतरुद्रीयमाहात्म्यं मृतराट् सुतजीवनम् । सत्यै शशंस स गुरुः श्रीदत्तः शरणं मम ॥ ८७ ॥ कचाख्यानं स्त्रियो मन्त्रानर्हतार्थसुभाग्यदम् । सोमव्रतं च यः प्राह श्रीदत्तः शरणं मम ॥ ८८ ॥ ब्राह्मण्या दुःस्वभावं यो निवार्याह्निकमुत्तमम् । शशंस ब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ८९ ॥ गार्हस्थधर्मं विप्राय प्रत्यवायजिहासया । क्रममुक्त्यै य ऊचे स श्रीदत्तः शरणं मम ॥ ९० ॥ त्रिपुम्पर्याप्तपाकेन भोजयामास यो नृणाम् । सिद्धश्चतुःसहस्राणि श्रीदत्तः शरणं मम ॥ ९१ ॥ अश्वत्थसेवामादिश्य पुत्रौ योदात्फलप्रदः । चित्रकृद्वृद्धवन्ध्यायै श्रीदत्तः शरणं मम ॥ ९२ ॥ कारयित्वा शुष्ककाष्ठसेवां तद्वृक्षतां नयन् । विप्रकुष्ठं जहारासौ श्रीदत्तः शरणं मम ॥ ९३ ॥ भजन्तं कष्टतोऽप्याह सायन्देवं परीक्ष्य यः । गुरुसेवाविधानं स श्रीदत्तः शरणं मम ॥ ९४ ॥ शिवतोषकरीं काशीयात्रां भक्ताय योऽवदत् । सविधिं विहितां त्वष्ट्रा श्रीदत्तः शरणं मम ॥ ९५ ॥ कौण्डिण्यधर्मविहितमनन्तव्रतमाह यः । कारयामास तद्योऽपि श्रीदत्तः शरणं मम ॥ ९६ ॥ श्रीशैलं तन्तुकायासौ योगगत्या व्यदर्शयत् । शिवरात्रिव्रताहे स श्रीदत्तः शरणं मम ॥ ९७ ॥ ज्ञापयित्वाप्यमर्त्यत्वं स्वस्य दृष्ट्या चकार यः । विकुष्ठं नन्दिशर्माणं श्रीदत्तः शरणं मम ॥ ९८ ॥ नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् । दर्शयित्वानुजग्राह श्रीदत्तः शरणं मम ॥ ९९ ॥ अष्टमूर्तिधरोऽप्यष्टग्रामगो भक्तवत्सलः । दीपावल्युत्सवेऽभूत् स श्रीदत्तः शरणं मम ॥ १०० ॥ अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः । धान्यं शूद्राय योऽदात् स श्रीदत्तः शरणं मम ॥ १०१ ॥ गाणगापुरके क्षेत्रे योऽष्टतीर्थान्यदर्शयत् । भक्तेभ्यो भीमरथ्यां स श्रीदत्तः शरणं मम ॥ १०२ ॥ पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः । म्लेच्छाय दृष्टिं चेष्टं स श्रीदत्तः शरणं मम ॥ १०३ ॥ श्रीशैलयात्रामिषेण वरदः पुष्पपीठगः । कलौ तिरोऽभवद्यः स श्रीदत्तः शरणं मम ॥ १०४ ॥ निद्रा मातृपुरेऽस्य सह्यशिखरे पीठं मिमङ्क्षापुरे काश्याख्ये करहाटकेऽर्घ्यमवरे भिक्षास्य कोलापुरे । पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे गान्धर्वे युजिराचमः कुरुपुरे दूरे स्मृतो नान्तरे ॥ १०५ ॥ अमलकमलवक्त्रः पद्मपत्राभनेत्रः परविरतिकलत्रः सर्वथा यः स्वतन्त्रः । स च परमपवित्रः सत्कमण्डल्वमत्रः परमरुचिरगात्रो योऽनसूयात्रिपुत्रः ॥ १०६ ॥ नमस्ते समस्तेष्टदात्रे विधात्रे नमस्ते समस्तेडिताघौघहर्त्रे । नमस्ते समस्तेङ्गितज्ञाय भर्त्रे नमस्ते समस्तेष्टकर्त्रेऽकहर्त्रे ॥ १०७ ॥ नमो नमस्तेऽस्तु पुरान्तकाय नमो नमस्तेऽस्त्वसुरान्तकाय । नमो नमस्तेऽस्तु खलान्तकाय दत्ताय भक्तार्तिविनाशकाय ॥ १०८ ॥ श्रीदत्तदेवेश्वर मे प्रसीद श्रीदत्तसर्वेश्वर मे प्रसीद । प्रसीद योगेश्वर देहि योगं त्वदीयभक्तेः कुरु मा वियोगम् ॥ १०९ ॥ श्रीदत्तो जयतीह दत्तमनिशं ध्यायामि दत्तेन मे हृच्छुद्धिर्विहिता ततोऽस्तु सततं दत्ताय तुभ्यं नमः । दत्तान्नास्ति परायणं श्रुतिमतं दत्तस्य दासोऽस्म्यहं श्रीदत्ते परभक्तिरस्तु मम भो दत्त प्रसीदेश्वर ॥ ११० ॥ ॥ इति श्रीपरमहंसपरिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त भावसुधारस स्तोत्रम् सम्पूर्णम् ॥

परिचय: श्री दत्त भावसुधारस स्तोत्रम् — एक 'लघु गुरुचरित्र' (Introduction)

श्री दत्त भावसुधारस स्तोत्रम् (Sri Datta Bhava Sudha Rasa Stotram) भगवान दत्तात्रेय की उपासना में रचा गया एक अत्यंत दुर्लभ और प्रभावशाली ग्रंथ है। इसकी रचना १९वीं शताब्दी के महान योगी और दत्तात्रेय के साक्षात अवतार माने जाने वाले परम पूज्य श्री वासुदेवानन्द सरस्वती (टेंबे स्वामी) ने की थी। यह स्तोत्र केवल ११० श्लोकों का संग्रह नहीं है, बल्कि यह दत्त संप्रदाय के पवित्र ग्रंथ "श्री गुरुचरित्र" का एक संक्षिप्त सारांश है। टेंबे स्वामी जी ने इसमें भगवान दत्तात्रेय के मूल स्वरूप से लेकर उनके कलियुगी अवतारों—श्रीपाद श्रीवल्लभ और श्री नृसिंह सरस्वती—की संपूर्ण लीलाओं को पिरोया है।

स्तोत्र का नाम 'भावसुधारस' स्वयं इसकी महिमा बताता है। यहाँ 'भाव' का अर्थ है शुद्ध भक्ति और 'सुधारस' का अर्थ है अमृत। अर्थात, यह स्तोत्र वह अमृत है जो साधक के हृदय में ईश्वर के प्रति शुद्ध भाव जाग्रत करता है। स्तोत्र के प्रथम ४३ श्लोक भगवान दत्तात्रेय के प्रति अनन्य शरणागति और भक्त के आत्म-निवेदन को समर्पित हैं। इसके बाद श्लोक ४४ से १०४ तक भगवान के अवतारों के विशिष्ट चमत्कारों का वर्णन है, जो कुरुवपुर, पीठापुर, गाणगापुर और नरसोबावाड़ी जैसे सिद्ध क्षेत्रों की महिमा को उजागर करते हैं।

दत्त संप्रदाय के भक्तों के लिए यह स्तोत्र उन परिस्थितियों में "वरदान" के समान है जहाँ वे पूर्ण गुरुचरित्र का पारायण करने में असमर्थ होते हैं। इस स्तोत्र का नित्य पाठ गुरुचरित्र के ५२ अध्यायों के बराबर आध्यात्मिक ऊर्जा प्रदान करता है। टेंबे स्वामी जी ने अपनी यात्राओं के दौरान इस स्तोत्र के माध्यम से लाखों लोगों को 'दत्त मार्ग' की सरलता और गुरु कृपा की महिमा का बोध कराया।

विशिष्ट महत्व एवं संरचना (Significance & Structure)

इस स्तोत्र की संरचना अत्यंत वैज्ञानिक और दार्शनिक है। इसमें तीन मुख्य भागों का समावेश है:

  • आत्म-निवेदन (श्लोक १-४३): यहाँ भक्त अपने दोषों को प्रभु के समक्ष स्वीकार करता है और उनकी करुणा की भीख मांगता है। श्लोक १८ में भक्त कहता है— "पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः" (मैं पापियों में मुख्य हूँ और आप करुणा करने वालों में अग्रणी हैं), जो कि पूर्ण शरणागति का शिखर है।
  • अवतार गाथा (श्लोक ४४-१०४): यह भाग एक ऐतिहासिक दस्तावेज़ की तरह है। इसमें भगवान के पौराणिक अवतारों (जैसे कार्तवीर्यार्जुन, अलर्क, यदु) से लेकर कलियुग के श्रीपाद श्रीवल्लभ और नृसिंह सरस्वती महाराज के चमत्कारों—जैसे मृत ब्राह्मण को जीवित करना, वन्ध्या भैंस से दूध निकलवाना, और म्लेच्छ राजा का रोग दूर करना—का क्रमबद्ध वर्णन है।
  • स्तुति एवं समर्पण (श्लोक १०५-११०): अंतिम श्लोक भगवान के दिव्य स्वरूप और उनके आठ निवास स्थानों (जैसे कोल्हापुर में भिक्षा, सह्य शिखरों पर निद्रा) का वर्णन करते हैं।

श्लोक १०५ में दत्त गुरु के नित्य भ्रमण का जो वर्णन है, वह साधक को यह विश्वास दिलाता है कि गुरुदेव आज भी अदृश्य रूप में अपने भक्तों के आसपास ही हैं। यह स्तोत्र अद्वैत वेदांत और सगुण भक्ति का एक अद्भुत मेल है।

फलश्रुति: श्री दत्त भावसुधारस के लाभ (Benefits)

टेंबे स्वामी महाराज द्वारा रचित स्तोत्र "मंत्र" के समान प्रभावी होते हैं। इसके नियमित पाठ से निम्नलिखित लाभ प्राप्त होते हैं:

  • गुरुचरित्र के पाठ का फल: चूँकि इसमें गुरुचरित्र की समस्त लीलाओं का वर्णन है, अतः इसका पाठ पूर्ण गुरुचरित्र के पारायण के बराबर पुण्य प्रदान करता है।
  • मानसिक शांति और चित्त शुद्धि: "यः शोधयत्याशु मलीनचित्तम्" (श्लोक ५) — यह स्तोत्र साधक के मलिन चित्त को तत्काल शुद्ध कर गहन शांति प्रदान करता है।
  • संकटों और व्याधियों का नाश: श्लोक ७ और ४३ के अनुसार, यह दरिद्रता, भय और असाध्य रोगों (जैसे कुष्ठ या स्फोटक) को दूर करने में सक्षम है।
  • ऋण मुक्ति और ऐश्वर्य: भगवान दत्त 'दारिद्र्यदावदाव' हैं। इस पाठ से आर्थिक बाधाएं दूर होती हैं और घर में सुख-समृद्धि आती है।
  • पितृ दोष शांति: दत्तात्रेय भगवान को पितरों का अधिपति माना जाता है। इस स्तोत्र के पाठ से अतृप्त पितरों को सद्गति प्राप्त होती है।
  • सुरक्षा चक्र: यह पाठ साधक के चारों ओर गुरु कृपा का एक सुरक्षा कवच निर्मित करता है, जिससे बाहरी नकारात्मक शक्तियां निष्क्रिय हो जाती हैं।

पाठ विधि एवं विशेष साधना (Ritual Method)

दत्त साधना में सात्विकता और शुद्धता का विशेष महत्व है। भावसुधारस स्तोत्र का पूर्ण लाभ प्राप्त करने के लिए निम्नलिखित विधि का पालन करना चाहिए।

पूजा की तैयारी

  • शुभ समय: गुरुवार (Thursday) गुरु का दिन है। इसके अतिरिक्त दत्त जयंती, मार्गशीर्ष पूर्णिमा और एकादशी पर पाठ करना श्रेष्ठ है।
  • आसन और दिशा: ऊनी या कुशा के आसन का प्रयोग करें। मुख उत्तर (North) या पूर्व (East) की ओर होना चाहिए।
  • शुद्धि: स्नान के पश्चात स्वच्छ पीले वस्त्र पहनें और भस्म या गोपीचंदन का तिलक लगाएं।
  • दीप और नैवेद्य: शुद्ध घी का दीपक प्रज्वलित करें। भगवान को गुड़, चना या बेसन के लड्डू का भोग लगाएं।

विशेष पारायण विधि

यदि जीवन में कोई बड़ा संकट हो, तो लगातार २१ या ४१ दिनों तक प्रतिदिन ११ बार इस स्तोत्र का पाठ करें। पाठ प्रारंभ करने से पहले 'दिगंबरा दिगंबरा श्रीपाद वल्लभ दिगंबरा' मंत्र की एक माला जप अवश्य करें। पाठ के अंत में भगवान के 'निर्गुण' पादुकाओं का ध्यान करना अत्यंत फलदायी होता है।

अक्सर पूछे जाने वाले प्रश्न (10+ FAQs)

1. श्री दत्त भावसुधारस स्तोत्र की रचना किसने की है?

इस दिव्य स्तोत्र की रचना १९वीं शताब्दी के महान दत्त अवतार श्री वासुदेवानन्द सरस्वती (टेंबे स्वामी महाराज) ने की थी।

2. इसे 'लघु गुरुचरित्र' क्यों कहा जाता है?

क्योंकि इसके श्लोक ४४ से १०४ तक 'श्री गुरुचरित्र' के ५२ अध्यायों की महत्वपूर्ण घटनाओं और चमत्कारों का समावेश है। अल्प समय में गुरुचरित्र का फल पाने हेतु यह श्रेष्ठ पाठ है।

3. क्या इस स्तोत्र का पाठ महिलाएं कर सकती हैं?

हाँ, शुद्धि और श्रद्धा के साथ कोई भी भक्त (स्त्री या पुरुष) इसका पाठ कर सकता है। दत्त अवतारों की भक्ति सभी के लिए समान है।

4. क्या इसके पाठ से पितृ दोष में राहत मिलती है?

जी हाँ। भगवान दत्तात्रेय पितरों के स्वामी हैं। इस स्तोत्र के पाठ से पितरों को शांति मिलती है और कुल पर आने वाली बाधाएं दूर होती हैं।

5. 'विष्णुदत्त' ब्राह्मण की कथा (श्लोक ५०) क्या है?

विष्णुदत्त एक अनन्य भक्त थे, जिनके श्रद्धा श्राद्ध में भगवान दत्तात्रेय स्वयं भोजन करने के लिए पीठापुर में आए थे। यह श्लोक भगवान की भक्तवत्सलता को दर्शाता है।

6. क्या इस स्तोत्र के पाठ के लिए गुरु दीक्षा अनिवार्य है?

नित्य पाठ के लिए दीक्षा अनिवार्य नहीं है, किंतु टेंबे स्वामी जी की परंपरा के प्रति सम्मान और श्रद्धा रखना आवश्यक है।

7. 'गाणगापुर' के मठ का क्या महत्व है? (श्लोक ७६)

गाणगापुर वह स्थान है जहाँ श्री नृसिंह सरस्वती स्वामी महाराज ने लंबे समय तक निवास किया था। श्लोक ७६ में उल्लेख है कि प्रभु वहाँ ब्रह्मराक्षस जैसे दुष्ट जीवों का भी उद्धार करते हैं।

8. 'अष्टमूर्ति' (श्लोक १००) का क्या अर्थ है?

दीपावली के समय भगवान नृसिंह सरस्वती ने एक ही समय में आठ अलग-अलग स्थानों पर अपने भक्तों के साथ रहकर दीपावली मनाई थी। यह उनकी योग-शक्ति का प्रतीक है।

9. क्या यह स्तोत्र गंभीर रोगों को दूर कर सकता है?

हाँ, स्तोत्र में कई प्रसंग हैं जहाँ प्रभु ने कोढ़ (Leprosy) और अन्य असाध्य रोगों को दूर किया। श्रद्धापूर्वक पाठ करने से स्वास्थ्य लाभ होता है।

10. पाठ के दौरान किस रंग के वस्त्र पहनना अच्छा है?

भगवान दत्तात्रेय को पीला और केसरिया रंग प्रिय है, अतः इन रंगों के वस्त्र सात्विक ऊर्जा को बढ़ाने में सहायक होते हैं।