Logoपवित्र ग्रंथ

श्री वेङ्कटेश्वर षोडशोपचार पूजा – Sri Venkateshwara Puja Vidhanam

श्री वेङ्कटेश्वर षोडशोपचार पूजा – Sri Venkateshwara Puja Vidhanam

श्री वेङ्कटेश्वर षोडशोपचार पूजा

Sri Venkateshwara Puja Vidhanam

श्री वेङ्कटेश्वर षोडशोपचार पूजा भगवान वेंकटेश्वर (बालाजी) की महिमा का गुणगान है। कलियुग में वेंकटेश्वर स्वामी भक्तों के कष्टों को शीघ्र हरने वाले देवता माने जाते हैं।

इस पूजा विधि में भगवान श्रीनिवास का आवाहन और षोडशोपचार (१६ उपचारों) से पूजन किया जाता है, जिससे जीवन में सुख, समृद्धि और शांति की प्राप्ति होती है।

संकल्प और प्राणप्रतिष्ठा :

पुनः सङ्कल्पम् –

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री वेङ्कटेश्वर स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री वेङ्कटेश्वर स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा –

ओं असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्त मनुमते मृडया नः स्वस्ति ॥ अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ॥ श्री वेङ्कटेश्वर स्वामिने नमः आवाहयामि स्थापयामि पूजयामि । स्थिरोभव वरदोभव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।

ध्यान और आवाहन :

ध्यानम् –

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ हैमोर्ध्वपुण्ड्र मजहन्मकुटं सुनासं मन्दस्मितं मकरकुण्डल चारुगण्डम् । बिम्बाधरं बहुल दीर्घ कृपाकटाक्षं श्रीवेङ्कटेश मुखमात्मनि सन्निधत्ताम् ॥ श्रीवेङ्कटाचलाधीशं श्रियाध्यासित वक्षसम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ध्यायामि ॥

आवाहनम् –

सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्ुलम । आवाहयामि सर्वेश श्रीनिवास रमापते । कृपया देहि सान्निध्यं शरणगतवत्सल ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आवाहयामि ॥

आसन, पाद्य, अर्घ्य, आचमन :

आसनम् –

पुरुष एवेदग्ं सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति । देव देव जगन्नाथ प्रणतक्लेशनाशक । रत्नसिंहासनं दिव्यं गृहाण मधुसूदन ॥ ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः आसनं समर्पयामि ॥

पाद्यम् –

एतावानस्य महिमा । अतो ज्यायाग्श्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । वाञ्छितं कुरु मे देव दुष्कृतं च विनाशय । पाद्यं गृहाण भगवान् मातुरुत्सङ्ग संस्थित ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –

त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि । कुरुष्व मे दयां देव संसारार्तिभयापह । कुसुमाक्षत सम्युक्तं गृहाणार्घ्यं नमोऽस्तु ते ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ॥

आचमनीयम् –

तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः । नमः सत्याय शुद्धाय नित्याय ज्ञानरूपिणे । गृहाणाचमनं देव सर्वलोकैकनायक ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि ॥

स्नान और वस्त्र :

पञ्चामृतस्नानम् –

दधि क्षीराज्य मधुभिः शर्करा फलमिश्रितम् । पञ्चामृतस्नानमिदं गृहाण पुरुषोत्तम ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पञ्चामृत स्नानं समर्पयामि ॥

शुद्धोदकस्नानम् –

यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः । गङ्गादि सर्वतीर्थेभ्यः समाहृतमिदं जलम् । स्नानं स्वीकुरु देवेश भक्तचित्तस्थिरासन ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ॥

वस्त्रम् –

सप्तास्यासन्परिधयः । त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । तप्तकाञ्चन सङ्काशं पीताम्बरमिदं हरे । गृहाण श्रीजगन्नाथ श्रीनिवास नमोऽस्तु ते ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि ॥

यज्ञोपवीतम् –

तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये । वेङ्कटेश महादेव श्रियः कान्त जगद्विभो । ब्रह्मसूत्रोत्तरीये तु गृहाण करुणापर ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि ॥

गन्ध, आभूषण, अक्षत, पुष्प :

गन्धम् –

तस्माद्यज्ञात्सर्वहुतः । सम्भृतं पृषदाज्यम् । पशूग्स्ताग्श्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये । चन्दनागरु कस्तूरी घनसारसमन्वितम् । गन्धं गृहाण गोविन्द परमामोदपूरितम् ॥ ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः दिव्य परिमल गन्धान् समर्पयामि ॥

आभरणम् –

तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दाग्ंसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । केयूर कटके चैव हस्ते चित्राङ्गुलीयकं माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् । नाभौ नायक रत्नं च नूपुरे हारपद्मयोः अङ्गुली मुद्रिकाश्चैव गृह्यतां अस्मदर्पिताः ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आभरणानि समर्पयामि ॥

अक्षतान् –

गोविन्द परमानन्द हरिद्रा सहिताक्षतान् । विश्वेश्वर विशालाक्ष गृहाण परमेश्वर ॥ ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः अक्षतान् समर्पयामि ॥

पुष्पम् –

तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः । सुगन्धीनि सुपुष्पाणि जाजीकुन्दमुखानि च । मालती वकुलादीनि पूजार्थं प्रतिगृह्यताम् ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पुष्पं समर्पयामि ॥

अंग पूजा और नामावली :

अथाङ्ग पूजा –

ओं श्रीवेङ्कटेश्वराय नमः – पादौ पूजयामि । ओं श्रीवेङ्कटाचलाधीशाय नमः – गुल्फौ पूजयामि । ओं श्रीप्रदायकाय नमः – जङ्घे पूजयामि । ओं पद्मावतीपतये नमः – जानुनी पूजयामि । ओं ज्ञानप्रदाय नमः – ऊरुं पूजयामि । ओं श्रीनिवासाय नमः – कटिं पूजयामि । ओं महाभागाय नमः – नाभिं पूजयामि । ओं निर्मलाय नमः – उदरं पूजयामि । ओं विशालहृदयाय नमः – हृदयं पूजयामि । ओं परिशुद्धात्मने नमः – स्तनौ पूजयामि । ओं पुरुषोत्तमाय नमः – भुजौ पूजयामि । ओं स्वर्णहस्ताय नमः – हस्तौ पूजयामि । ओं वरप्रदाय नमः – कण्ठं पूजयामि । ओं लोकनाथाय नमः – स्कन्धौ पूजयामि । ओं सर्वेश्वराय नमः – मुखं पूजयामि । ओं रसज्ञाय नमः – नासिकां पूजयामि । ओं पुण्यश्रवणकीर्तनाय नमः – श्रोत्रे पूजयामि । ओं फुल्लाम्बुजविलोचनाय नमः – नेत्रे पूजयामि । ओं वर्चस्विने नमः – ललाटं पूजयामि । ओं सहस्रशीर्षाय नमः – शिरः पूजयामि । ओं रम्य विग्रहाय नमः – सर्वाण्यङ्गानि पूजयामि । ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः दिव्यसुन्दर विग्रहं पूजयामि ॥

अथ अष्टोत्तरशतनाम पूजा –

(यहाँ अष्टोत्तरशतनाम पूजा के लिए नीचे दी गई नामावली का पाठ करें)

श्री वेङ्कटेश्वर अष्टोत्तरशतनामावली

भगवान वेङ्कटेश्वर के १०८ दिव्य नाम।

धूप, दीप, नैवेद्य :

धूपम् –

यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते । दशाङ्गं गुग्गुलोपेतं गोघृतेन समन्वितम् । धूपं गृहाण देवेश सर्वलोकनमस्कृत ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः धूपं आघ्रापयामि ॥

दीपम् –

ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याग्ं शूद्रो अजायत । त्रिलोकेश महादेव सर्वज्ञानप्रदायक । दीपं दास्यामि देवेश रक्ष मां भक्तवत्सल ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः दीपं दर्शयामि ॥

धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –

चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । सर्वभक्षैश्च भोज्यैश्च रसैः षड्भिः समन्वितम् । नैवेद्यं तु मयानीतं गृहाण पुरुषोत्तम ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः नैवेद्यं समर्पयामि ॥

ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।

ताम्बूल, नीराजन, मन्त्रपुष्प :

ताम्बूलम् –

नाभ्या आसीदन्तरिक्षम् । शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकाग्ं अकल्पयन् । पूगीफलैः सकर्पूरैर्नागवल्ली दलैर्युतम् । मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ताम्बूलं समर्पयामि ॥

नीराजनम् –

वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते । श्रियः कान्ताय कल्याण निधये निधयेर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः नीराजनं दर्शयामि ॥

नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।

मन्त्रपुष्पम् –

धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । नानासुगन्धपुष्पाणि यथा कालोद्भवानि च । पुष्पाञ्जलिं मया दत्तं गृहाण वेङ्कटेश्वर ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ॥

प्रदक्षिणा और समापन :

प्रदक्षिण नमस्काराः –

यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागतवत्सल ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ॥

उपचार पूजा –

ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः । छत्रमाच्छादयामि । चामरैर्वीजयामि । नृत्यं दर्शयामि । गीतं श्रावयामि । वाद्यं घोषयामि । आन्दोलिकानारोहयामि । अश्वानारोहयामि । गजानारोहयामि । समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजाः समर्पयामि ॥

प्रार्थना –

ओं नमो देवदेवाय पूर्वदेवाय खड्गिने । श्रीवत्साङ्काय च नमः परस्मै परमात्मने ॥ नमः परस्मै व्यूहोपव्यूहान्तर विभूतये । विभवाय नमस्तस्मै विश्वान्तर्यामिणेऽणवे ॥ अर्चावताराय नमोऽजन्मने जन्मभाजिने । मायाविने जगत् स्रष्ट्रे लक्ष्मीनारायणात्मने ॥

क्षमा प्रार्थना –

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

तीर्थम् –

अकालमृत्युहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्रीश्रीनिवास पादोदकं पावनं शुभम् ॥ श्रीवेङ्कटेश्वर स्वामि प्रसादं शिरसा गृह्णामि ॥

उद्वासनम् –

यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमा न्यासन् । तेहनाकं महिमानस्सचन्ते यत्र पूर्वे साध्यास्सन्ति देवाः ॥ ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः यथास्थानं उद्वासयामि ॥

ओं शान्तिः शान्तिः शान्तिः ॥

पाठ के लाभ (Benefits)

  • धन और समृद्धि: भगवान वेंकटेश्वर और देवी पद्मावती की कृपा से आर्थिक कष्ट दूर होते हैं।
  • मनोकामना पूर्ति: सच्चे मन से किया गया पाठ समस्त इच्छाओं को पूर्ण करता है।
  • पाप नाश: समस्त पापों का नाश होकर पुण्य का उदय होता है।

पाठ विधि (Recitation Method)

  • समय: शनिवार और एकादशी का दिन पाठ के लिए विशेष फलदायी है।
  • शुद्धि: स्नान आदि से निवृत्त होकर स्वच्छ वस्त्र धारण करें।
  • भोग: भगवान को मिष्ठान्न या फलों का भोग लगाएं।
  • मंत्र: 'ॐ नमो वेङ्कटेशाय' मंत्र का जाप करें।

भगवान वेंकटेश्वर कौन हैं?

भगवान वेंकटेश्वर श्री विष्णु के अवतार हैं जो कलियुग में भक्तों के कल्याण के लिए तिरुमला में विराजमान हैं।

वेंकटेश्वर स्तोत्र का पाठ कब करना चाहिए?

प्रातः काल संध्या वंदन के समय या विशेषकर शनिवार को इसका पाठ अत्यंत लाभकारी माना जाता है।

।। ॐ महालक्ष्म्यै नमः ।।