॥ श्री ललिता षोडशोपचार पूजा ॥
(सर्वप्रथम
पूर्वाङ्ग (शुद्धि, आचमन, संकल्प) और
गणपति पूजा सम्पन्न करें।)
पुनः सङ्कल्पम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री ललिता परमेश्वरी देवतामुद्दिश्य श्री ललिता परमेश्वरी प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भविता नियमेन सम्भविता प्रकारेण श्रीसूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥
प्राणप्रतिष्ठा
ओं असुनीते पुनरस्मासु चक्षु:
पुन: प्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरन्त
मनुमते मृडया नः स्वस्ति ।
अमृतं वै प्राणा अमृतमाप:
प्राणानेव यथास्थानमुपह्वयते ॥
आवाहिता भव स्थापिता भव ।
सुप्रसन्नो भव वरदा भव ।
स्थिरासनं कुरु प्रसीद प्रसीद ।
ध्यानम्
अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखै-
-रहमित्येव विभावये भवानीम् ॥
ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
ओं श्री ललिता देव्यै नमः ध्यायामि ।
१. आवाहनम्
ओं हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मात-
-र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥
ओं श्री ललिता देव्यै नमः आवाहयामि ।
२. आसनम्
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
कनककलशशोभमानशीर्षं
जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव सन्निवासहेतो-
-र्मणिमयमन्दिरमेतदर्पयामि ॥
ओं श्री ललिता देव्यै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
३. पाद्यम्
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥
दूर्वया सरसिजान्वितविष्णु-
-क्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥
ओं श्री ललिता देव्यै नमः पादयोः पाद्यं समर्पयामि ।
४. अर्घ्यम्
कां सोस्मितां हिरण्यप्राकारा-
-मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां
तामिहोपह्वये श्रियम् ॥
गन्धपुष्पयवसर्षपदूर्वा-
-सम्युतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नै-
-रर्घ्यमेतदुररीकुरु मातः ॥
ओं श्री ललिता देव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।
५. आचमनीयम्
चन्द्रां प्रभासां यशसा ज्वलन्तीं
श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्ये-
-ऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
जलजद्युतिना करेण जाती-
-फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
-र्भगवत्याचमनं विधीयताम् ॥
ओं श्री ललिता देव्यै नमः मुखे आचमनीयं समर्पयामि ।
६. मधुपर्कम्
निहितं कनकस्य सम्पुटे
पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥
ओं श्री ललिता देव्यै नमः मधुपर्कं समर्पयामि ।
७. पञ्चामृत स्नानम्
दधिदुग्धघृतैः समाक्षिकैः
सितया शर्करया समन्वितैः ।
स्नपयामि तवाहमादरा-
-ज्जननि त्वां पुनरुष्णवारिभिः ॥
ओं श्री ललिता देव्यै नमः पञ्चामृत स्नानं समर्पयामि ।
८. शुद्धोदक स्नानम्
आदित्यवर्णे तपसोऽधिजातो
वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु
मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
-र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा-
-त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥
ओं श्री ललित देव्यै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।
९. वस्त्रम्
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥
ओं श्री ललिता देव्यै नमः वस्त्रयुग्मं समर्पयामि ।
१०. आभरणम्
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
-त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥
ओं श्री ललिता देव्यै नमः सर्वाभरणानि समर्पयामि ।
११. गन्धम्
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीग्ं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
-कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥
ओं श्री ललिता देव्यै नमः श्री गन्धान् धारयामि ।
ओं श्री ललिता देव्यै नमः हरिद्रा कुङ्कुम कज्जल कस्तूरी गोरोजनादि सुगन्ध द्रव्याणि समर्पयामि ।
अक्षतान्
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा ॥
ओं श्री ललिता देव्यै नमः अक्षतान् समर्पयामि ।
१२. पुष्पाणि
मनस: काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यश: ॥
पारिजातशतपत्रपाटलै-
-र्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः ॥
ओं श्री ललिता देव्यै नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
अथ अष्टोत्तरशतनाम पूजा
(यहाँ
श्री ललिता अष्टोत्तरशतानामावली का पाठ करें)
ओं श्री ललिता देव्यै नमः अष्टोत्तरशतनाम पूजां समर्पयामि ।
१३. धूपम्
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
-र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥
ओं श्री ललिता देव्यै नमः धूपं आघ्रापयामि ।
१४. दीपम्
आप: सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-
-र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥
ओं श्री ललिता देव्यै नमः दीपं समर्पयामि ।
१५. नैवेद्यम्
आर्द्राम् पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥
ओं भूर्भुवस्सुव: । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो न: प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा । ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओं श्री ललिता देव्यै नमः नैवेद्यं समर्पयामि ।
१६. ताम्बूलम्
आर्द्राम् य: करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
एलालवङ्गादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसम्युतानि
पूगानि ते देवि समर्पयामि ॥
ओं श्री ललिता देव्यै नमः ताम्बूलं समर्पयामि ।
नीराजनम्
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वा-
-न्विन्देयं पुरुषानहम् ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
-र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
-न्नीराजयामि जगदम्ब सहस्रदीपैः ॥
ओं श्री ललिता देव्यै नमः नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।
प्रदक्षिण
पदे पदे यत्परिपूजकेभ्यः
सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षय हेतुभूतं
प्रदक्षिणं ते परितः करोमि ॥
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देवी शरणागतवत्सले ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरी ॥
ओं श्री ललिता देव्यै नमः प्रदक्षिण नमस्कारान् समर्पयामि ।
पुष्पाञ्जलि
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥
ओं श्री ललिता देव्यै नमः पुष्पाञ्जलिं समर्पयामि ।
सर्वोपचाराः
ओं श्री ललिता देव्यै नमः छत्रं आच्छादयामि ।
ओं श्री ललिता देव्यै नमः चामरैर्वीजयामि ।
ओं श्री ललिता देव्यै नमः नृत्यं दर्शयामि ।
ओं श्री ललिता देव्यै नमः गीतं श्रावयामि ।
ओं श्री ललिता देव्यै नमः आन्दोलिकान्नारोहयामि ।
ओं श्री ललिता देव्यै नमः अश्वानारोहयामि ।
ओं श्री ललिता देव्यै नमः गजानारोहयामि ।
ओं श्री ललिता देव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।
नमस्कारान्
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-
-मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥
ओं श्री ललिता देव्यै नमः प्रार्थनानमस्कारान् समर्पयामि ।
क्षमा प्रार्थना
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरी ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्पूजितं मया देवी परिपूर्णं तदस्तुते ।
अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री ललिता देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम्
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री ललिता देवी पादोदकं पावनं शुभम् ॥
ओं श्री ललित देव्यै नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ॥