Logoपवित्र ग्रंथ

श्रीहनुमतः आवरणपूजा

श्रीहनुमतः आवरणपूजा

श्रीहनुमतः आवरणपूजा

Sri Hanumat Avarana Puja

श्रीहनुमतः आवरणपूजा
(Sri Hanumat Avarana Puja) भगवान हनुमान की उपासना की एक विशेष विधि है जिसमें देवता के विभिन्न आवरणों और परिवार देवताओं की पूजा की जाती है।

महत्वपूर्ण निर्देश

जपः (Japa) :

ॐ अस्य श्रीहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । जगतीच्छन्दः । हनुमान् देवता, ह्रौं बीजं, ह्स्फ्रें शक्तिः, हनुमते कीलकम् । हनुमद्देवताजपे विनियोगः ।

न्यासाः (Nyasa) :

ऋष्यादिन्यासः श्रीरामचन्द्रऋषये नमः शिरसि । जगतीच्छन्दसे नमः मुखे । हौं बीजाय नमः गुह्ये । हनुमते कीलकाय नमो नाभौ । विनियोगाय नमः अञ्जलौ ॥

करन्यासः (अङ्गन्यासः) ॐ हौं अङ्गुष्ठाभ्यां नमः (हृदयाय नमः) । ॐ ह्ख्फ्रें तर्जनीभ्यां नमः (शिरसे स्वाहा) । ॐ ह्ख्फ्रें मध्यमाभ्यां नमः (शिखायै वषट्) । ॐ ह्स्त्रौं अनामिकाभ्यां नमः (कवचाय हुं) । ॐ ह्ख्फ्रें कनिष्ठिकाभ्यां नमः (नेत्रत्रयाय वौषट्) । ॐ ह्सौं करतलकरपृष्ठाभ्यां नमः (अस्त्राय फट्) ।

मन्त्रवर्णविन्यासः (Mantra Varna Vinyasa) :

ॐ हांऐ नमः मूर्ध्नि । ॐ हस्फ्रें नमः ललाटे । ॐ ख्फ्रें नमः नेत्रयोः । ॐ ह्स्त्रौं नमः मुखे । ॐ ह्स्ख्फ्रें नमः कण्ठे । ॐ ह्सौं नमः बाहुमूले । ॐ हं नमः हृदि । ॐ नुं नमः कुक्ष्योः । ॐ मं नमः नाभौ । ॐ तें नमः लिङ्गे । ॐ नं नमः जानुनि । ॐ मः नमः पादयोः ।

पदन्यासः (Pada Nyasa) :

ॐ हौं नमः मूर्ध्नि । ॐ ह्स्फ्रें नमः ललाटे । ॐ ख्फ्रें नमः मुखे । ॐ ह्स्त्रों नमः हृदि । ॐ ह्स्खफ्रें नमः नाभौ । ॐ ह्सौं नमः ऊरौ । ॐ हनुमते नमः जानुनि । ॐ नमः पादयोः ।

ध्यानम् (Dhyanam) :

बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् । नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥

अग्न्याधानम् (Agnyadhanam) :

अग्नौ मारुतेरावाहनम् । प्राणप्रतिष्ठा । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीहनुमत्प्रतिमायाः प्राणाः । ॐ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीहनुमत्प्रतिमायाः जीव इह स्थितः ॥

ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीहनुमत्प्रतिमाया सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

गर्भाधानादि षोडशसंस्कारान्सम्पादयामि ।

आवाहनाद्युपचाराः (Avahana & Upachara) :

देवेश भक्तिसुलभ परिवारसमन्वित । यावत्त्वां पूजयिष्यामि तावद्देव इहावह । आगच्छ भगवन्देव स्थाने चात्र स्थितो भव । यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥

"ॐ भूर्भुवःसुवः श्रीहनुमद्देवतामावाहयामि" । "तवेयं महिमा मूर्तिस्तस्यां त्वां सर्वग प्रभो । भक्तिस्नेहसमाकृष्ट दीपवत्स्थापयाम्यहम् ॥" "ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह तिष्ठ । "अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो । सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥" (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निधेहि । "आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे ॥

आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥" (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निरुद्धो भव । "अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च ॥

यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥" (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सम्मुखो भव ॥

अभक्तवाङ्मनश्चक्षु:श्रोत्रदूरातिगद्युते ॥

स्वतेजःपञ्जरेणाशु वेष्टितो भव सर्वतः ॥ (मूलं) ॐ भुर्भूवःसुवः श्रीहनुमद्देव अवगुण्ठितो भव ॥

"यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं च ब्रवीमि ते ॥" (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवाय नमः सुस्वागतं समर्पयामि । "देव देव महाराजरामचन्द्रप्रियेश्वर । आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥

अपराधो भवत्येव सेवकस्य पदे पदे ॥

कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवाय नमः । आसनं समर्पयामि । स्वागतं देव देवेश मद्भाग्यात्त्वमिहागतः । प्राकृतं त्वं च दृष्ट्वा मां बालवत्परिपालय ॥

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवतायां प्रार्थनां समर्पयामि, नमस्करोमि ॥

पीठपूजा (Peetha Puja) :

ओं मण्डूकादिपरतत्वान्तपीठदेवताः स्थापयेत् । तथा च पुष्पकेसराक्षतं देवतायां अर्पयेत् । ॐ मं मण्डूकाय नमः । ॐ कां कालाग्निरुद्राय नमः । ॐ आं आधारशक्त्यै नमः । ॐ कं कूर्माय नमः । ॐ अं अनन्ताय नमः । ॐ पृं पृथिव्यै नमः । ॐ क्षीं क्षीरसागराय नमः । ॐ रं रत्नद्वीपाय नमः । ॐ रं रत्नमण्डपाय नमः । ॐ कं कल्पवृक्षाय नमः । ॐ रं रत्नवेदिकायै नमः । ॐ रं रत्नसिंहासनाय नमः । (अग्निकोणे) -ॐ धं धर्माय नमः । (नैरऋत्ये) -ज्ञां ज्ञानाय नमः । (वायव्ये) ॐ वैं वैराग्याय नमः । (ईशाने) ॐ ऐं ऐश्वर्याय नमः । (पूर्वे) ॐ अं अधर्माय नमः । (दक्षिणे) ॐ अं अज्ञानाय नमः । (पश्चिमे) ॐ अं अवैराग्याय नमः । (उत्तरे) ॐ अं अनैश्वर्याय नमः । (मध्ये) ॐ सं संविन्नालाय नमः ॥

ॐ सं सर्वतत्त्वकमलासनाय नमः । ॐ प्रं प्रकृतिमयपत्रेभ्यो नमः । ॐ विं विकारमयकेसरेभ्यो नमः । ॐ पं पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः ॥

ॐ अं अर्कमण्डलाय द्वादशकलात्मने नमः । ॐ सों सोममण्डलाय षोडशकलात्मने नमः । ॐ वं वह्निमण्डलाय दशकलात्मने नमः । ॐ सं सत्त्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ॐ आं आत्मने नमः । ॐ पं परमात्मने नमः । ॐ अं अन्तरात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः । ॐ मं मायातत्त्वाय नमः । ॐ कं कलातत्त्वाय नमः । ॐ विं विद्यातत्वाय नमः । ॐ पं परतत्त्वाय नमः । (एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत्) (पूर्वे) ॐ विमलायै नमः ॥ (आग्नेये) ॐ उत्कर्षिण्यै नमः । (दक्षिणे) ॐ ज्ञानायै नमः । (नैरृत्ये) -ॐ किर्यायै नमः । (पश्चिमे) -ॐ योगायै नमः । (वायव्ये) ॐ प्रह्वायै नमः । (उत्तरे) -ओं सत्यायै नमः । (ऐशान्ये) ॐ सत्यायै नमः । (पीठमध्ये) - ॐ अनुग्रहायै नमः । इति पीठशक्तीः सम्पूज्य, देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥ तत्र क्रमः ॥

षट्कोणयन्त्रपूजा (Shatkona Yantra Puja) :

(पुष्पाञ्जलिमादाय) "संविन्मयपरो देव परामृत रसप्रिय । अनुज्ञां देहि हनुमन् परिवारार्चनाय मे" ॥ (पुष्पाञ्जलिः)

प्रथमावरणम् (Prathamavaranam) (षट्कोणेषु) ॐ हौं हृदयाय नमः हृदयश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्स्फ्रें शिरसे स्वाहा । शिरःश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ख्फ्रें शिखायै वषट् शिखाश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्स्त्रौं कवचाय हुं कवचश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ हस्ख्फ्रें नेत्रत्रयाय वौषट् नेत्रत्रयश्रीपादुकां पूजयामि तर्पयामि नमः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

इति पुष्पाञ्जलिं दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ।

द्वितीयावरणम् (Dvitiyavaranam) :

(ततोऽष्टदले पूज्यपूजकयोरन्तरालं प्राची । तदनुसारेण अन्या दिशः प्रकल्प्य, दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा, प्राच्यादिक्रमेण अष्टसु दिक्षु ॥)

प्राच्याम् - ॐ रामभक्ताय नमः रामभक्तश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ महाबलाय नमः महाबल श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ द्रोणाद्रिहारकाय नमः द्रोणाद्रिहारक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ मेरुपीठकार्चनकारणाय नमः मेरुपीठकार्चनकारण श्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ सर्वविघ्ननिवारकाय नमः सर्वविघ्ननिवारक श्रीपादुकां पूजयामि तर्पयामि नमः ॥

(ततः पुष्पाञ्जलिमादाय मूलं पठित्वा विशेषार्घ्याद्बिन्दुं दत्वा, "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । पूजितास्तर्पिताः सन्तु इति वदेत्)

तृतीयावरणम् (Tritiyavaranam) :

(ततः अष्टदलाद्बहिः चतुरश्राभ्यन्तरे प्राच्याम्) ॐ सुग्रीवाय नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ अङ्गदाय नमः अङ्गदश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ नीलाय नमः नीलश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ जाम्बवते नमः जाम्बवत्श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ नलाय नमः नलश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ सुषेणाय नमः सुषेणश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ द्विविदाय नमः द्विविदश्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ मैन्दाय नमः मैन्दश्रीपादुकां पूजयामि तर्पयामि नमः । ततः पुष्पाञ्जलिमादाय मूलं पठित्वा "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

(इत्युक्त्वा पुष्पाञ्जलिं दत्वा विशेषार्ध्याद्बिन्दुं दत्वा पूजितास्तर्पिताः सन्तु इति वदेत् ॥ )

चतुर्थावरणम् (Chaturthavaranam) :

(सन्धिषु पूर्वादिक्रमेण) ॐ रक्षोघ्नाय नमः रक्षोघ्नश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ विषघ्नाय नमः विषनाशकश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ रिपुघ्नाय नमः रिपुसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ व्याधिघ्नाय नमः व्याधिघ्नश्रीपादुकाम्पूजयामि तर्पयामि नमः । ॐ चोरघ्नाय नमः चोरसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ भूतघ्नाय नमः भूतसंहारक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ परशस्त्रास्त्रमन्त्रघ्नाय नमः परशस्त्रपरमन्त्रनिवारकश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ भयनाशाय नमः भयनिवारकश्रीपादुकां पूजयामि तर्पयामि नमः ।

इति सम्पूज्य । पुष्पाञ्जलिमादाय मूलमुच्चार्य" ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् । इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु - इति वदेत् ॥

पञ्चमावरणम् (Panchamavaranam) :

(भूपुराद्वहिः प्रथमपङ्क्तौ पूर्वादिक्रमेण ॥ ) ॐ ऐरावताय नमः ऐरावतश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ पुण्डरीकाय नमः पुण्डरीकश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ वामनाय नमः वामनश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ कुमुदाय नमः कुमुदश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ अञ्जनाय नमः अञ्जनश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ पुष्पदन्ताय नमः पुष्पदन्तश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ सार्वभौमाय नमः सार्वभौमश्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ सुप्रतीकाय नमः सुप्रतीकश्रीपादुकां पूजयामि तर्पयामि नमः ॥

ततः पुष्पाञ्जलिमादाय मूलं पठित्वा "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥" इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य "पूजितास्तर्पिताः सन्तु" इति वदेत् ।

षष्ठमावरणम् (Shashthamavaranam) :

(भूपुरादिद्वितीयरेखायां पूर्वादिक्रमेण - पूर्वे) ॐ लं इन्द्राय नमः इन्द्रश्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ रं अग्नये नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमः ॥

ॐ मं यमाय नमः यमश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ क्षं निऋर्तये नमः निऋर्तिश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ वं वरुणाय नमः वरुणश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ यं वायवे नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ कं कुबेराय नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ हं ईशानाय नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः । (इन्द्रेशानयोर्मध्ये) ॐ आं ब्रह्मणे नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं अनन्ताय नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमः । इति दश दिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य ।

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥

(इत्युक्त्वा पुष्पाञ्जलिं च दत्त्वा, विशेषार्घ्याद्बिन्दुं निक्षिप्य "पूजितास्तर्पिताः सन्तु" इति वदेत्)

सप्तमावरणम् (Saptamavaranam) :

(ततः पूर्वादिक्रमेण तत्तत्समीपे) ॐ वं वज्राय नमः । ॐ शं शक्तये नमः । ॐ दं दण्डाय नमः । ॐ खं खड्गाय नमः । ॐ पां पाशाय नमः । ॐ अं अङ्कुशाय नमः । ॐ गं गदायै नमः । ॐ त्रिं त्रिशूलाय नमः । ॐ पं पद्माय नमः । ॐ चं चक्राय नमः । इत्यस्त्राणि पूजयेत् ॥

ततः पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्च्य "ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ॥ इत्यावरणपूजा ॥

उपचाराः (Upachara) :

"यद्भक्तिलेशसम्पर्कात्परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥" (मूलं) "ॐ भूर्भुवःसुवः श्रीहनुमते नमः पाद्यं समर्पयामि ॥"

पापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥ (मूलमन्त्रं पठित्वा) ॐ भूर्भुवःसुवः श्रीहनुमते नमः इदमर्घ्यं समर्पयामि ।

"देवानामपि देवाय देवानां देवतात्मने ॥" आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥ (मूलमन्त्रं पठित्वा) ॐ भूर्भुवःसुवः श्रीहनुमते नमः आचमनीयं समर्पयामि ॥

मधुपर्कपञ्चामृतस्नानादि च सर्वं देवोपयोगिपद्धतिमार्गेण कुर्यात् ॥ अशक्तश्चेज्जलस्नानं मधुस्नानं शुद्धोदकस्नानं च कुर्यात् ॥

"गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥ (मूलं पठित्वा) ॐ भूर्भुवःसुवः श्रीहनुमते नमः जलस्नानं समर्पयामि ॥

"तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ (मूलं पठित्वा) ॐ भूर्भुवःसुवः श्रीहनुमते नमः मधुस्नानं समर्पयामि ।

गङ्गा-सरस्वती-रेवा-पयोष्णी-नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः पुण्यतीर्थस्नानं समर्पयामि ॥

सर्वभूषादिकसमे लोकलज्जानिवारणे । मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः वस्त्रं समर्पयामि ॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः यज्ञोपवीतं उत्तरीयं च समर्पयामि ॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः चन्दनं समर्पयामि ।

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर । (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः अक्षतान्समर्पयामि ॥

"माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः पुष्पाणि समर्पयामि ॥

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः धूपं समर्पयामि ॥

"सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ (मूलं) ॐ भूर्भुवःसुवः श्रीहनुमते नमः दीपं समर्पयामि ॥

सत्पात्रसिद्धं सहविर्विविधं स्वादु भक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ (मूलं) ॐ भूर्भुवःसुवः साङ्गाय सपरिवाराय श्रीहनुमते नमः नैवेद्यं समर्पयामि ॥

ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समेतं शिञ्जद्वालव्यजननिकरैर्वीज्यमानो गणौघैः । नर्मक्रीडा-प्रहसनपरो हासयन् पङ्क्तिभोक्तॄन्, भुङ्क्ते पात्रे कनकघटिते षड्रसान् वायुपुत्रः । नमस्ते देवदेवेश सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् । (मूलं) "ॐ भूर्भुवःसुवः श्रीहनुमते नमः जलं समर्पयामि ।

अथ ध्यानम् (Dhyanam) :

बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् । नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥

बलिदानम् (Balidanam) :

अद्येहेत्यादि मम (यजमानस्य) सङ्कल्पोक्तफलावाप्तये श्रीहनुमद्देवतापुरश्चरणसिद्धये, चतुर्दिक्षु वटुकादिदेवताभ्यो दधिमाषान्नद्रव्यैः पञ्चमहाभूतबलिदानं करिष्ये । "ॐ वटुकबलिपात्राधारमण्डलाय नमः" "ॐ वँ वटुकबलिद्रव्याय नमः" गन्धपुष्पाभ्यां नमः । (पूर्वे) वँ वटुकाय नमः, ॐ ऐं ह्रीं श्रीं एह्येहि देवीपुत्र वटुकनाथ जटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितं इमं बलिं गृहाण गृहाण स्वाहा ॥

प्रार्थना ॐ करकलितकपालःकुण्डलीदण्डपाणिः तरुणतिमिरनीलव्यालयज्ञोपवीती । ऋतुसमयसपर्याविघ्नविच्छेदहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥

बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धिदः । शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥ (पुष्पाञ्जलिं कुर्यात्)

(उत्तरे) ॐ गं गणपतये नमः गणेशबलिपात्राधारमण्डलाय नमः । (तत्पश्चात्) ॐ गणेशबलिद्रव्याय नमः । ॐ गां गीं गूं गैं गौं गः गणपतये वरवरद सर्वजनं मे वशमानय सर्वोपचारसहितं बलिं गृह्ण-गृह्ण स्वाहा । सर्वदा सर्वकार्याणि निर्विघ्नं साधयेन्मम । शान्तिं करोतु सततं विघ्नराजः सशक्तिकः ।

(उत्तरस्यां) "योगिनीबलिपात्राधारमण्डलाय नमः" "ॐ यां योगिनीबलिद्रव्याय नमः" दक्षिणे यां सर्वयोगिनीभ्यो नमः । ॐ सर्ववर्णयोगिन्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा । ॐ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा स्थले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा । क्षेत्रे पीठोपपीठे दिशि दिशि च कृते धूपदीपादिकेभ्यः प्रीता देव्यः सदा नः शुभविधिबलिनः पान्तु वीरेन्द्रवन्द्याः ॥

या काचिद्योगिनी रौद्रा सौम्या घोरा परात्परा । खेचरी भूचरी व्योमवत्यः प्रीतास्तु मे सदा ॥

यां योगिनीभ्यः स्वाहा सर्वाभ्यो योगिनीभ्यः फट् ॥ (पुष्पाञ्जलिः)

(पश्चिमायां) "क्षेत्रपालबलिपात्राधारमण्डलाय नमः ॥ "ॐ क्षं क्षेत्रपालबलिद्रव्याय नमः" "पश्चिमे क्षं क्षेत्रपालाय नमः ॥

क्षां क्षीं क्षूं क्षैं क्षौं क्षः भो स्थानक्षेत्रपाल इमं बलिं गृहाण सर्वकार्याणि पूरय पूरय स्वाहा ॥" योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालः सकिङ्करः । प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥

"ह्रीं सर्वभूतविघ्नकृद्बलिपात्राधारमण्डलाय नमः ।" "सर्वभूतविघ्नकृद्बलिद्रव्याय नमः ।" "ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा ॥

भूता ये विघ्नकर्तारः दिवि भूम्यन्तरिक्षगाः । पातालस्थलसंस्थाश्च शिवयोगेन भाविताः । क्रूराद्याः शतसङ्ख्याकाः पाखण्डाद्या व्यवस्थिताः । ध्रुवाद्याः सत्यसङ्ख्याश्च इन्द्राद्याशाव्यवस्थिताः । तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् । नगरे वाथ सङ्ग्रामे अटव्यां वै सरित्तटे ॥

वापीकूपेषु वृक्षेषु श्मशाने च चतुष्पथे । नानारूपधरा ये च बहुरूपधराश्च ये । ते सर्वे चैव सन्तुष्टा बलिं गृह्णन्तु मे सदा ॥

श्रीद्वादशाक्षरहनुमन्मत्रस्य श्रीरामचन्द्रस्य ऋषेः बलिपात्राधार-मण्डलाय नमः (मूलं मन्त्रमुच्चार्य) "श्रीरामचन्द्रऋषये इमं बलिं गृहाण गृहाण स्वाहा ॥" (मूलमन्त्रं पठित्वा) "ओं (मूलं) हनुमद्देवताबलिद्रव्याय नमः" "ॐ (मूलं) साङ्गायै सायुधायै सवाहनायै सपरिवारायै सशक्तिकायै श्रीहनुमद्देवतायै नमः । ॐ (मूलं) चण्डेश्वराय नमः धूं फट् चण्डेश्वराय इमं बलिं गृहाण गृहाण स्वाहा ॥" चण्डेश्वरं रक्ततनुं त्रिनेत्रं रक्तांशुकाढ्यं हृदि भावयामि । टङ्कं त्रिशूलं स्फटिकाक्षमालां कमण्डलुं बिभ्रतमिन्दुचूडम् ॥

"कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् । आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥" (मूलं) "ॐ भूर्भुवःसुवः श्रीहनुमते नमः कर्पूरारात्रिकं समर्पयामि । यानि कानि च पापानि जन्मान्तरकृतानि वै । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥

ॐ भूर्भुवःसुवः श्रीहनुमते नमः प्रदक्षिणं समर्पयामि ॥

"नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाजलिं मया दत्तं गृहाण परमेश्वर ॥

ॐ भूर्भुवःसुवः श्रीहनुमते नमः । पुष्पाञ्जलिं समर्पयामि ॥

यदुक्तं हृदि भावेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥

"अनया कृतया पूजया श्रीहनुमद्देवता प्रीयतां इदं न मम ।"

परिवारपूजा (Parivara Puja) :

ॐ भूर्भुवःसुवः श्रीरामचन्द्रऋषये स्वाहा । ॐ भूर्भुवःसुवः हौं स्वाहा । ॐ भूर्भुवःसुवः ह्स्फ्रेऐं स्वाहा । ॐ भूर्भुवःसुवः ख्फ्रें स्वाहा । ॐ भूर्भुवःसुवः ह्स्त्रौं स्वाहा । ॐ भूर्भुवःसुवः ह्स्ख्फ्रें स्वाहा । ॐ भूर्भुवःसुवः ह्स्ौं स्वाहा । ॐ भूर्भुवः सुवः रामभक्ताय स्वाहा । ॐ भूर्भुवःसुवः महातेजसे स्वाहा । ॐ भूर्भुवःसुवः कपिराजाय स्वाहा । ॐ भूर्भुवःसुवः महाबलाय स्वाहा । ॐ भूर्भुवःसुवः द्रोणाद्रिहारकाय स्वाहा । ॐ भूर्भुवःसुवः मेरुपीठकार्चनकारकाय स्वाहा । ॐ भूर्भुवःसुवः दक्षिणाशाभास्कराय स्वाहा । ॐ भूर्भुवःसुवः सर्वविघ्ननिवारकाय स्वाहा । ॐ भूर्भुवः सुवः सुग्रीवाय स्वाहा । ॐ भूर्भुवःसुवः अङ्गदाय स्वाहा । ॐ भूर्भुवःसुवःनीलाय स्वाहा । ॐ भूर्भुवःसुवः जाम्बवते स्वाहा । ॐ भूर्भुवःसुवः नलाय स्वाहा । ॐ भूर्भुवःसुवः सुषेणाय स्वाहा । ॐ भूर्भुवः सुवः द्विविदाय स्वाहा । ॐ भूभुवः सुवः मैन्दाय स्वाहा ॥

ॐ तत्सद्ब्रह्मार्पणमस्तु ।

।। ॐ महालक्ष्म्यै नमः ।।