Logoपवित्र ग्रंथ

श्रीसूर्यसहस्रनामावलिः स्कन्दपुराणान्तर्गता

Sri Surya Sahasranamavali - Skanda Purana

श्रीसूर्यसहस्रनामावलिः स्कन्दपुराणान्तर्गता
॥ श्रीसूर्यसहस्रनामावलिः ॥ ॥ स्कन्दपुराणान्तर्गता ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ॥ विनियोगः एवं सङ्कल्पवाक्यः ॥ अस्य श्रीसूर्यसहस्रनामस्तोत्रमहामन्त्रस्य आदित्योपासकः श्रीसूर्यवर्चा ऋषिः । श्रीमदादित्यनारायणो देवता ब्रह्मवर्चस्विता मूलमिति बीजम् । सर्वपापविनाशक इति शक्तिः । अग्निश्च जातवेदाश्चेति परमो मन्त्रः । हृद्रोगहारीति कीलकम् । निषङ्गी कवचीत्यस्त्रम् । भक्तरक्षणतत्पर इति कवचम् । श्रीमदादित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ॥ विभिन्न न्यासाः ॥ आदित्यश्चादिदेव इत्यङ्गुष्ठाभ्यां नमः । मन्त्रो यन्त्रं तथा क्षेत्रमिति तर्जनीभ्यां स्वाहा । गायत्रीवल्लभः प्राशुरिति मध्यमाभ्यां वौषट् । छन्दोमयः शास्त्रमय इत्यनामिकाभ्यां हुम् । सुब्रह्मण्यश्च सूरीन्द्र इति कनिष्ठिकाभ्यां वषट् । सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणेरत इति करतलकरपृष्ठाभ्यां फट् । हृदयादिन्यासं च एवं कुर्यात् ॥ ॥ सूर्यदेवध्यानम् ॥ आदित्यस्त्वादिदेवोऽयं भास्करो भवनाशनः । विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥ इति त्रिवारं पठेत् तत्स्सहस्रनामपारायणं कृत्वा, उत्तरन्यासं कृत्वा आदित्यायार्पयेत् ॥ मण्डलस्य च विस्तारं नमस्कारविधिं ततः । पूजाक्रमविशेषेण श्रुत्वा पुनरभाषत । सूर्यवर्चा उवाच — भगवन् सर्वतत्त्वज्ञ सर्वकर्मप्रवर्तक । नाम्नां सहस्रं दिव्यानां श्रोतुमिच्छाम्यहं रवेः ॥ बृहस्पतिरुवाच — सूर्यवर्चः शृणु परं सूर्यस्य च महात्मनः । उत्तमं नामसाहस्रं यत्तमस्ते निकृन्तति ॥ बृहस्पतिस्सभगवानित्युक्तसूर्यवर्चसम् । ध्यात्वा नारायणं देवं भानुमण्डलमध्यगम् ॥ ॥ अथ श्रीसूर्यसहस्रनामावलिः ॥ ॐ आदित्याय नमः । ॐ आदिदेवाय नमः । ॐ भास्कराय नमः । ॐ भवनाशनाय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वनेत्रे नमः । ॐ चिन्मूर्तये नमः । ॐ चिन्तितार्थदाय नमः । ॐ सद्योजाताय नमः । ॐ वामदेवाय नमः । ॐ सर्वपापविनाशकाय नमः । ॐ वेद्याय नमः । ॐ वैद्याय नमः । ॐ सदायोगिने नमः । ॐ विश्वकर्मणे नमः । ॐ विभावसवे नमः । ॐ विरिञ्चये नमः । ॐ विश्रुतात्मने नमः । ॐ विश्वसर्गप्रवर्तकाय नमः । ॐ विद्यात्मने नमः । २० ॐ विषयज्ञाय नमः । ॐ विश्वात्मने नमः । ॐ विश्वपापघ्ने नमः । ॐ विदुषामीश्वराय नमः । ॐ विदुषे नमः । ॐ विश्वनेत्रे नमः । ॐ विशेषविदे नमः । ॐ वीरघ्ने नमः । ॐ विषयाय नमः । ॐ शून्याय नमः । ॐ वालखिल्यादिवन्दिताय नमः । ॐ वामनाय नमः । ॐ वरदाय नमः । ॐ प्रांशवे नमः । ॐ वासुदेवाय नमः । ॐ सनातनाय नमः । ॐ वालखिल्यपुरोगाय नमः । ॐ वारिदाय नमः । ॐ वसुमते नमः । ॐ वसवे नमः । ४० ॐ वरेण्याय नमः । ॐ वसुदेवाय नमः । ॐ वसुरेतसे नमः । ॐ वसुप्रदाय नमः । ॐ वायवे नमः । ॐ वाचस्पतये नमः । ॐ विश्वस्मै नमः । ॐ विष्णवे नमः । ॐ विश्वामरेश्वराय नमः । ॐ ओङ्काराय नमः । ॐ वषट्काराय नमः । ॐ सोमग्रहपुरोगमाय नमः । ॐ ग्रहनक्षत्रमालिने नमः । ॐ शिंशुमारशरीरवते नमः । ॐ शरण्याय नमः । ॐ शङ्कराय नमः । ॐ शम्भवे नमः । ॐ कालात्मने नमः । ॐ कान्तिवर्धनाय नमः । ॐ कामदेवाय नमः । ६० ॐ कामहर्त्रे नमः । ॐ विराजे नमः । ॐ वीरासनस्थिताय नमः । ॐ विस्तारभूम्ने नमः । ॐ भूतेशाय नमः । ॐ विश्वगुप्तनवे नमः । ॐ ईश्वराय नमः । ॐ मन्देहरिपवे नमः । ॐ इन्दवे नमः । ॐ बिन्दवे नमः । ॐ सुन्दरविग्रहाय नमः । ॐ सामगानप्रियाय नमः । ॐ साधवे नमः । ॐ सत्यसन्धाय नमः । ॐ सदाशिवाय नमः । ॐ समात्मने नमः । ॐ सन्धये नमः । ॐ अव्यक्ताय नमः । ॐ साम्बाय नमः । ॐ सारसवर्धनाय नमः । ८० ॐ सूदाय नमः । ॐ सूक्ष्माय नमः । ॐ सूक्ष्मकायाय नमः । ॐ सूक्ष्मदृशे नमः । ॐ सुदृशे नमः । ॐ अव्ययाय नमः । ॐ रथाङ्गहेतवे नमः । ॐ अम्भोजवर्धनाय नमः । ॐ सर्वसम्मताय नमः । ॐ वज्रभृते नमः । ॐ वत्सलाय नमः । ॐ वाग्मिने नमः । ॐ वागीशाय नमः । ॐ वायुवाहनाय नमः । ॐ धर्मात्मने नमः । ॐ अधर्मशत्रवे नमः । ॐ कर्मसाक्षिणे नमः । ॐ परन्तपाय नमः । ॐ पञ्चाननाय नमः । ॐ पञ्चमूर्तये नमः । १०० ॐ पञ्चाङ्गिने नमः । ॐ पापभञ्जनाय नमः । ॐ पराशराय नमः । ॐ पुण्यमूर्तये नमः । ॐ पुरुहूतानुजाय नमः । ॐ पराय नमः । ॐ सनाते नमः । ॐ सर्वसहाय नमः । ॐ सर्वस्मै नमः । ॐ सर्वगाय नमः । ॐ सर्वपोषकाय नमः । ॐ सप्ताश्वाय नमः । ॐ सप्तरज्जवे नमः । ॐ सप्तैधसे नमः । ॐ सप्तसारथये नमः । ॐ सप्तप्रियाय नमः । ॐ सप्तदोग्ध्रे नमः । ॐ मुञ्जिकेशाय नमः । ॐ मुरान्तकाय नमः । ॐ शुकाय नमः । १२० ॐ शुद्धाय नमः । ॐ शुभाचाराय नमः । ॐ सर्वबीजाय नमः । ॐ अनायकाय नमः । ॐ कर्त्रे नमः । ॐ विकर्त्रे नमः । ॐ गहनाय नमः । ॐ कारणाय नमः । ॐ करणाय नमः । ॐ महते नमः । ॐ अकुण्ठविक्रमाय नमः । ॐ शौरये नमः । ॐ वैकुण्ठाय नमः । ॐ भगवते नमः । ॐ भवाय नमः । ॐ भानवे नमः । ॐ हंसाय नमः । ॐ सहस्रांशवे नमः । ॐ तपनाय नमः । ॐ सवित्रे नमः । १४० ॐ पित्रे नमः । ॐ जातुकर्णाय नमः । ॐ जयिने नमः । ॐ ज्यायसे नमः । ॐ मीनाङ्गिने नमः । ॐ सिंहपालकाय नमः । ॐ एकोच्चाय नमः । ॐ सप्तनीचाय नमः । ॐ षट्पतये नमः । ॐ मानवल्लभाय नमः । ॐ ऋतवे नमः । ॐ सुदर्शनाय नमः । ॐ कालाय नमः । ॐ कुञ्जराननपूजिताय नमः । ॐ द्विजाय नमः । ॐ अद्विजाय नमः । ॐ शुचये नमः । ॐ धीराय नमः । ॐ श्रीमते नमः । ॐ मूर्तित्रयात्मकाय नमः । १६० ॐ शिवङ्कराय नमः । ॐ श्रीभूतेशाय नमः । ॐ सिन्धवे नमः । ॐ उच्चैश्श्रवसे नमः । ॐ हरये नमः । ॐ प्रद्मप्रबोधकाय नमः । ॐ पद्मिने नमः । ॐ पद्मगर्भाय नमः । ॐ प्रभाकराय नमः । ॐ अह्नाम्प्रभवे नमः । ॐ दिनमणये नमः । ॐ दैतेयकुलमृत्युकृते नमः । ॐ कलाकाष्टामुहूर्तात्मने नमः । ॐ दिनरात्रिशरीरवते नमः । ॐ पद्मापतये नमः । ॐ परन्धाम्ने नमः । ॐ परमात्मने नमः । ॐ परायणाय नमः । ॐ निदानाय नमः । ॐ नित्याय नमः । १८० ॐ अद्वैताय नमः । ॐ केवलाय नमः । ॐ मुक्तिकारणाय नमः । ॐ सर्वभूतशरीरस्थाय नमः । ॐ चैतन्याय नमः । ॐ ब्रह्मणे नमः । ॐ निर्गुणाय नमः । ॐ एकाय, एकस्मै नमः । ॐ नैकाय, नैकस्मै नमः । ॐ कृत्ये नमः । ॐ शान्ताय नमः । ॐ मतये नमः । ॐ बुद्धये नमः । ॐ धृतये नमः । ॐ स्मृतये नमः । ॐ मन्त्राय नमः । ॐ यन्त्राय नमः । ॐ क्षेत्राय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ अक्षरसंज्ञिकाय नमः । २०० ॐ इन्द्रियाणामधिष्ठात्रे नमः । ॐ तत्त्वाय नमः । ॐ तत्पुरुषाग्रण्यै नमः । ॐ अमायिने नमः । ॐ मायिनामग्र्याय नमः । ॐ लोकस्वामिने नमः । ॐ स्वराजे नमः । ॐ गुरवे नमः । ॐ प्राणदाय नमः । ॐ प्रणवाय नमः । ॐ प्राणाय नमः । ॐ प्राप्तिसाधनाय नमः । ॐ अम्बराय नमः । ॐ जगन्मित्राय नमः । ॐ पवित्राय नमः । ॐ देवानामपिदैवताय नमः । ॐ सिन्धुनिद्राते नमः । ॐ हिरण्याङ्गाय नमः । ॐ सैंहिकेयविशोधिताय नमः । ॐ विषुवते नमः । २२० ॐ अयनाय नमः । ॐ कान्तये नमः । ॐ चन्द्रोत्पत्त्ययनाय नमः । ॐ ग्रहाय नमः । ॐ दिगीशाय नमः । ॐ देववृन्देशाय नमः । ॐ नक्षत्रेशाय नमः । ॐ धनेश्वराय नमः । ॐ सूर्यवर्चसे नमः । ॐ सूरये नमः । ॐ आद्याय नमः । ॐ सूर्यापतये नमः । ॐ उमाधवाय नमः । ॐ विभाकराय नमः । ॐ द्वादशात्मने नमः । ॐ कपिलाय नमः । ॐ कपिशिक्षकाय नमः । ॐ कपिताताय नमः । ॐ कपये नमः । ॐ पिङ्गाय नमः । २४० ॐ पङ्गुकालपित्रे नमः । ॐ हराय नमः । ॐ विविक्ताय नमः । ॐ सागराय नमः । ॐ सेतवे नमः । ॐ ताम्राय नमः । ॐ ताम्ररथाय नमः । ॐ रथिने नमः । ॐ मेरुप्रभाय नमः । ॐ सुमेरवे नमः । ॐ बुधनुन्नरथाय नमः । ॐ भवाय नमः । ॐ सहस्रप्रग्रहाय नमः । ॐ धन्विने नमः । ॐ मेधाविने नमः । ॐ श्रुतिसागराय नमः । ॐ भिषक्पित्रे नमः । ॐ भिषक्साराय नमः । ॐ भैषजाय नमः । ॐ भवरोगहृते नमः । २६० ॐ जन्मादये नमः । ॐ शास्त्रयोनये नमः । ॐ विज्ञानाय नमः । ॐ ज्ञानाय नमः । ॐ ज्ञात्रे नमः । ॐ ज्ञेयाय नमः । ॐ स्फुटाय नमः । ॐ स्फूर्तये नमः । ॐ अनीशाय नमः । ॐ नये नमः । ॐ हविषे नमः । ॐ नृपाय नमः । ॐ अविच्छिन्नान्वयाय नमः । ॐ शास्त्रे नमः । ॐ रामाय नमः । ॐ राजीवलोचनाय नमः । ॐ गायत्रीवल्लभाय नमः । ॐ प्रांशवे नमः । ॐ गेयाय नमः । ॐ गात्रे नमः । २८० ॐ गुणार्णवाय नमः । ॐ सत्यमेधसे नमः । ॐ समाम्नायाय नमः । ॐ सन्धात्रे नमः । ॐ कश्यपात्मजाय नमः । ॐ सर्वधर्ममयाय नमः । ॐ साक्षिणे नमः । ॐ चित्कूटनिलयाय नमः । ॐ अनलाय नमः । ॐ चिरन्तनाय नमः । ॐ चिदात्मने नमः । ॐ वैशाखाय नमः । ॐ शिखिवाहनाय नमः । ॐ अश्वत्थाय नमः । ॐ कुशनाभाय नमः । ॐ साम्राज्याय नमः । ॐ जगदीश्वराय नमः । ॐ दीप्तमूर्तये नमः । ॐ महामूर्तये नमः । ॐ सुतपसे नमः । ३०० ॐ ऋतुभुजे नमः । ॐ पशवे नमः । ॐ यज्वने नमः । ॐ जाज्ज्वल्यदेहाय नमः । ॐ शत्रुमण्डलखण्डनाय नमः । ॐ शरारुध्वंसकाय नमः । ॐ शास्त्रे नमः । ॐ शास्त्रयोन्ये नमः । ॐ निरञ्जनाय नमः । ॐ अनिन्द्याय नमः । ॐ निन्द्यविध्वंसिने नमः । ॐ विश्वामित्रवरप्रदाय नमः । ॐ विध्यर्थबोधकाय नमः । ॐ भानवे नमः । ॐ विन्ध्यवीथीप्लवङ्गमाय नमः । ॐ तत्पदार्थाय नमः । ॐ अहंपदार्थाय नमः । ॐ तत्त्वमस्यर्थबोधकाय नमः । ॐ तेभ्यो नमः । ॐ एतेभ्यो नमः । ३२० ॐ तुभ्यं नमः । ॐ मह्यं नमः । ॐ देवयक्षरक्षोभयङ्कराय नमः । ॐ मृत्युञ्जयाय नमः । ॐ पाकभेदिने नमः । ॐ सुषुम्नातालशोभिताय नमः । ॐ सहस्राराम्बुजारूढाय नमः । ॐ कर्णिकामध्यमण्डपाय नमः । ॐ गुहाशयाय नमः । ॐ शिवाय नमः । ॐ स्थाणवे नमः । ॐ गोप्त्रे नमः । ॐ गुणपतये नमः । ॐ गिरये नमः । ॐ गोमूर्तये नमः । ॐ सर्वदेवात्मने नमः । ॐ सर्वसन्ध्याप्रवर्तकाय नमः । ॐ ज्योतिष्मते नमः । ॐ इन्द्रशर्मणे नमः । ॐ चिदानन्दाय नमः । ३४० ॐ दिगम्बराय नमः । ॐ किरीटिने नमः । ॐ कवचिने नमः । ॐ खड्गिने नमः । ॐ शङ्खिने नमः । ॐ शार्ङ्गिणे नमः । ॐ पद्मकाय नमः । ॐ वेत्रिणे नमः । ॐ शूलिने नमः । ॐ निषङ्गिणे नमः । ॐ तापनाय नमः । ॐ तपतांवराय नमः । ॐ शङ्कराय नमः । ॐ चारुसर्वाङ्गाय नमः । ॐ सर्वबन्धविमोचकाय नमः । ॐ महात्मने नमः । ॐ चारुसर्वाङ्गाय नमः । ॐ सर्वभूषणभूषिताय नमः । ॐ भक्तेप्सितार्थ सन्धानाय नमः । ॐ कल्पवृक्षाय नमः । ३६० ॐ ककुत्पतये नमः । ॐ बन्धूककुसुमप्रख्याय नमः । ॐ सर्वशस्त्रभृतां वराय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणे नमः । ॐ राजर्षये नमः । ॐ अमितप्रभाय नमः । ॐ सनातनवराय नमः । ॐ सोमाय नमः । ॐ सर्वतत्त्वावलम्बनाय नमः । ॐ महापातालसम्मान्याय नमः । ॐ मानिनामग्रगण्याय नमः । ॐ महते नमः । ॐ सिद्धार्थकृते नमः । ॐ सिद्धगुह्याय नमः । ॐ सिद्धानामुत्तमागतये नमः । ॐ लोकनाथाय नमः । ॐ विभानाथाय नमः । ॐ माठराय नमः । ॐ मधुवल्लभाय नमः । ३८० ॐ तीक्ष्णांशवे नमः । ॐ तीर्थगर्भाय नमः । ॐ श्वेतलोहितवाहनाय नमः । ॐ कर्मणे नमः । ॐ कर्मविदां नेत्रे नमः । ॐ सदावरणमण्डलाय नमः । ॐ सहस्रगवे नमः । ॐ अनन्तात्मने नमः । ॐ विशिष्टाय नमः । ॐ शिष्टपोषकाय नमः । ॐ दिव्यमूर्तये नमः । ॐ देवसिंहाय नमः । ॐ दिविषत्प्रवराय नमः । ॐ दमाय नमः । ॐ विशालाक्षाय नमः । ॐ श्रीमूर्तये नमः । ॐ विश्वभ्भरविभावसवे नमः । ॐ मूर्धन्वते नमः । ॐ इष्टदायिने नमः । ॐ कृतिचिन्तानिवर्तकाय नमः । ४०० ॐ गन्धर्वगणगोप्त्रे नमः । ॐ वस्वादिगणवन्दिताय नमः । ॐ ग्रहपाय नमः । ॐ ग्रहनेत्रे नमः । ॐ ग्रन्धिबन्धविभञ्जनाय नमः । ॐ ग्रसिष्णवे नमः । ॐ ग्रहगोप्त्रे नमः । ॐ ग्राहिने नमः । ॐ ग्राह्यशरीरभसे नमः । ॐ तपस्विने नमः । ॐ तापसाय नमः । ॐ शोच्याय नमः । ॐ तरणये नमः । ॐ द्युमणये नमः । ॐ मणये नमः । ॐ चिन्तामणये नमः । ॐ दिनमणये नमः । ॐ ज्योतिर्मणये नमः । ॐ अजेश्वराय नमः । ॐ छन्दोमयाय नमः । ४२० ॐ शास्त्रमयाय नमः । ॐ सर्वकान्तिखनये नमः । ॐ मनवे नमः । ॐ अनूरुसारथये नमः । ॐ पीलाय नमः । ॐ पैप्पलाय नमः । ॐ त्रिविलोचनाय नमः । ॐ त्रिशिखिने नमः । ॐ ब्राह्मणमयाय नमः । ॐ ज्योतिस्सिद्धान्तबोधनाय नमः । ॐ त्रिनाम्ने नमः । ॐ त्रिशरीराय नमः । ॐ त्रिकाण्डाय नमः । ॐ चण्डदीधितये नमः । ॐ मुक्तिद्वाराय नमः । ॐ मुनिवराय नमः । ॐ महोरस्काय नमः । ॐ महामनसे नमः । ॐ अन्नपात्रप्रदात्रे नमः । ॐ विष्णुचिन्तापराय नमः । ४४० ॐ पुंसे नमः । ॐ आपदामपहर्त्रे नमः । ॐ रोगकाण्डदवानलाय नमः । ॐ निवृत्तात्मने नमः । ॐ समावृत्ताय नमः । ॐ चक्षुरिन्द्रियदेवतायै नमः । ॐ तपोमयाय नमः । ॐ तप्ततनवे नमः । ॐ पूष्णे नमः । ॐ पूषादिवन्दिताय नमः । ॐ सर्वजन्तुशरण्याय नमः । ॐ बह्वृचाय नमः । ॐ बहुदायकाय नमः । ॐ कृष्णात्मने नमः । ॐ कमनीयाय नमः । ॐ सर्ववेदविभागकृते नमः । ॐ कर्णाय नमः । ॐ विकर्णाय नमः । ॐ कान्ताय नमः । ॐ बहुभोजिने नमः । ४६० ॐ बहुप्रियाय नमः । ॐ दक्षिणाय नमः । ॐ दक्षिणामूर्तये नमः । ॐ दयावते नमः । ॐ दम्भवर्जिताय नमः । ॐ सद्भूतये नमः । ॐ कोशगाय नमः । ॐ कोशिने नमः । ॐ सर्वसिद्धिपरायणाय नमः । ॐ शिवदेहाय नमः । ॐ शिवात्मने नमः । ॐ शिवदेहाय नमः । ॐ शिवप्रदाय नमः । ॐ वाराणसीवासपराय नमः । ॐ हंसतीर्थप्रवर्तकाय नमः । ॐ सूर्यलिङ्गप्रतिष्ठात्रे नमः । ॐ सोमकान्तिविवर्धनाय नमः । ॐ सुग्रहाय नमः । ॐ सुखदाय नमः । ॐ सूक्ष्माय नमः । ४८० ॐ खराय नमः । ॐ स्वारिताय नमः । ॐ सङ्ख्यावते नमः । ॐ सर्वसंसारिणे नमः । ॐ सूरये नमः । ॐ परपुरञ्जयाय नमः । ॐ कृतागमाय नमः । ॐ कृतविधये नमः । ॐ कृतशास्त्राय नमः । ॐ कृताह्निकाय नमः । ॐ राज्ञे नमः । ॐ राजद्वितीयाय नमः । ॐ ग्रहराजाय नमः । ॐ प्रमाणविदे नमः । ॐ बाडवाय नमः । ॐ बाडवामूलाय नमः । ॐ हव्याय नमः । ॐ कव्याय नमः । ॐ पितृप्रियाय नमः । ॐ समाधिवेत्त्रे नमः । ५०० ॐ सारार्थाय नमः । ॐ सारदृशे नमः । ॐ शारदाप्रियाय नमः । ॐ रक्तपुष्पार्चनीयाय नमः । ॐ रक्तगन्धाक्षतप्रियाय नमः । ॐ परार्थ्यार्थ्याय नमः । ॐ पूर्णकान्तये नमः । ॐ कृततत्त्वार्थनिर्णयाय नमः । ॐ निखिलप्राणनिलयाय नमः । ॐ नित्यमेरुप्रदक्षिणाय नमः । ॐ पूर्णाय नमः । ॐ पूर्णयित्रे नमः । ॐ पूज्याय नमः । ॐ परमान्नकृतादराय नमः । ॐ परहिंसादिरहिताय नमः । ॐ गुरुमूर्तये नमः । ॐ गतिप्रदाय नमः । ॐ गोपालाय नमः । ॐ लोकपालाय नमः । ॐ सर्वाय नमः । ५२० ॐ सर्वस्वाय नमः । ॐ अच्युताय नमः । ॐ मरुदीशाय नमः । ॐ मरुच्चक्षुषे नमः । ॐ मित्राय नमः । ॐ हृत्तापनाशकाय नमः । ॐ हृद्रोगहारिणे नमः । ॐ कौमारिणे नमः । ॐ हरिमादिविनाशकाय नमः । ॐ उत्तरां दिवमारूढाय नमः । ॐ हारिद्राय नमः । ॐ कोकनायकाय नमः । ॐ ह्रीं बीजमध्यनिलयाय नमः । ॐ नवनाथविवर्धनाय नमः । ॐ योगिनीवन्द्यचरणाय नमः । ॐ बलिग्रहणतत्पराय नमः । ॐ नित्यकल्याणनिलयाय नमः । ॐ कल्याणाचलसेवकाय नमः । ॐ कल्याणदानायकल्पात्मने नमः । ॐ अत्युग्राय नमः । ५४० ॐ रिपुभयङ्कराय नमः । ॐ भूतिकृते नमः । ॐ भूतिभृते नमः । ॐ भूतये नमः । ॐ भूतभावनपूर्वजाय नमः । ॐ त्रियुगाय नमः । ॐ त्रिपृष्ठाय नमः । ॐ त्रिपादे नमः । ॐ मूर्तित्रयात्मकाय नमः । ॐ सर्वविघ्नविनाशिने नमः । ॐ सर्वबन्धविमोचकाय नमः । ॐ त्रिशिरसे नमः । ॐ त्रिप्रलम्बाय नमः । ॐ त्रिदंष्ट्राय नमः । ॐ त्रिचतुर्गतये नमः । ॐ कुजमित्राय नमः । ॐ पितृपतये नमः । ॐ पितृकारकाय नमः । ॐ शुभाङ्गाय नमः । ॐ लोकसारङ्गाय नमः । ५६० ॐ सारङ्गाय नमः । ॐ अरुणसारथये नमः । ॐ पुण्यश्लोकाय नमः । ॐ पुण्यदायिने नमः । ॐ पुण्यकारिणे नमः । ॐ पुरातनाय नमः । ॐ विजयाय नमः । ॐ विष्णुराजाय नमः । ॐ विष्णुराताय नमः । ॐ भवादिहृते नमः । ॐ वदान्याय नमः । ॐ विराड्रूपिणे नमः । ॐ विद्यानाथाय नमः । ॐ विधये नमः । ॐ विधवे नमः । ॐ प्रशस्तगुणसिन्धवे नमः । ॐ वेदान्तवेदिबन्धवे नमः । ॐ तत्त्वार्थमात्रे नमः । ॐ ताम्राश्वाय नमः । ॐ तरुणाय नमः । ५८० ॐ तडिदुज्ज्वलाय नमः । ॐ तीर्णदुःखाय नमः । ॐ तीव्रवेगाय नमः । ॐ चन्दनद्युतये नमः । ॐ आत्मवते नमः । ॐ अर्कपर्णस्नानतोषिणे नमः । ॐ वीतिहोत्रादिदैवताय नमः । ॐ एकाक्षाय नमः । ॐ एकचक्राय नमः । ॐ स्वतेजोभासे नमः । ॐ स्वयम्प्रभाय नमः । ॐ पिण्डजपरागतये नमः । ॐ अण्डजभयापहाय नमः । ॐ क्रूरव्रताय नमः । ॐ क्रूरकल्पाय नमः । ॐ तामसाय नमः । ॐ परवीरघ्ने नमः । ॐ षट्पल्लवविधानज्ञाय नमः । ॐ षट्पल्लववरप्रदाय नमः । ॐ श्रुतिपादपसञ्चारिणे नमः । ६०० ॐ कोकिलाय नमः । ॐ कमलाश्रयाय नमः । ॐ कुष्ठव्याधिविनाशिने नमः । ॐ दुष्टपीडानिबर्हणाय नमः । ॐ धृतपद्मद्वयाय नमः । ॐ योद्ध्रे नमः । ॐ तेजोमण्डलमध्यगाय नमः । ॐ सर्वाधिव्याधिशमनाय नमः । ॐ सर्वतापालितापनाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ सदुदयाय नमः । ॐ स्वाष्टाक्षर्यधिदेवतायै नमः । ॐ स्फोटादिदोषहारिणे नमः । ॐ गुल्मदुःखप्रभञ्जनाय नमः । ॐ योजनार्बुदसञ्चारिणे नमः । ॐ सालोक्यादिप्रदाय नमः । ॐ पित्रे नमः । ॐ खेटाय नमः । ॐ कृपीटदायिने नमः । ॐ नग्नाय नमः । ६२० ॐ नलिनवल्लभाय नमः । ॐ कुन्तीप्रसन्नाय नमः । ॐ कौबेराय नमः । ॐ श्रीवक्षसे नमः । ॐ श्रीनिकेतनाय नमः । ॐ अरुणाय नमः । ॐ अरुणकेतवे नमः । ॐ युद्धप्रेतगतिप्रदाय नमः । ॐ संज्ञामनोनुकूलाय नमः । ॐ महेन्द्रकृतपूजनाय नमः । ॐ गरुडाग्रजसूताय नमः । ॐ सस्यालिसुहृदे नमः । ॐ ऊर्मिकृते नमः । ॐ गोधूमधान्यनाथाय नमः । ॐ वर्तुलाकारमण्डलाय नमः । ॐ रुद्रप्रत्यधिदेवाय नमः । ॐ हस्तनक्षत्रनायकाय नमः । ॐ गुञ्जापुञ्जप्रतीकाशाय नमः । ॐ पवित्रीकृतवृत्रहणे नमः । ॐ कालिन्दीजनकाय नमः । ६४० ॐ गोब्राह्मणहिते रताय नमः । ॐ इन्द्राय नमः । ॐ वृद्धश्रवसे नमः । ॐ पूष्णे नमः । ॐ विश्ववेदसे नमः । ॐ प्रजापतये नमः । ॐ अग्नये नमः । ॐ वायवे नमः । ॐ सूर्याय नमः । ॐ वाय्वश्वाय नमः । ॐ रश्मिपालकाय नमः । ॐ मरीच्यात्मने नमः । ॐ भुवनसुवे नमः । ॐ अद्रोहिणे नमः । ॐ पुत्रदायकाय नमः । ॐ महानाम्नीव्रतहिताय नमः । ॐ महामानाय नमः । ॐ अपराक्षसाय नमः । उपराक्षसाय ॐ आदित्याय नमः । ॐ अदितिदेवाय नमः । ६६० ॐ दितिदेवाय नमः । ॐ दिवस्पतये नमः । ॐ व्योमसन्दृग्विमानस्थाय नमः । ॐ सुमृडीकाय नमः । ॐ सरोविभवे नमः । ॐ स्मृतये नमः । ॐ प्रत्यक्षाय नमः । ॐ ऐतिह्याय नमः । ॐ अनुमानाय नमः । ॐ विधायकाय नमः । ॐ तत्सर्वसमाविष्टाय नमः । ॐ अणवे नमः । ॐ महते नमः । ॐ अधिवत्सराय नमः । ॐ पटराय नमः । ॐ विक्लिधाय नमः । ॐ पिङ्गाय नमः । ॐ प्रदर्शिने नमः । ॐ उपदर्शकाय नमः । ॐ नानामुखाय नमः । ६८० ॐ एकशीर्षाय नमः । ॐ ऋतुलक्षणलक्षिताय नमः । ॐ शुक्लात्मने नमः । ॐ दक्षिणपक्षाय नमः । ॐ कृष्णात्मने नमः । ॐ वामपक्षकाय नमः । ॐ अह्ने नमः । ॐ दिवे नमः । ॐ विषुरूपिणे नमः । ॐ विश्वावनविशेषविदे नमः । ॐ अपशवे नमः । ॐ अपशुघ्नाय नमः । ॐ नपशवे नमः । ॐ पशुपालकाय नमः । ॐ संवत्सरप्रियतमाय नमः । ॐ प्रत्यक्षज्ञेयमण्डलाय नमः । ॐ षडुद्यमाय नमः । ॐ सप्तयात्राय नमः । ॐ विनादिने नमः । ॐ अभिधावकाय नमः । ७०० ॐ षष्टिवल्गाय नमः । ॐ सार्ष्टिकाय नमः । ॐ प्रैषकृते नमः । ॐ प्रथमस्मृताय नमः । ॐ अघोराक्षाय नमः । ॐ सदोनादिने नमः । ॐ वाक्प्रयोजकाय नमः । ॐ संवत्सरीणाय नमः । ॐ कर्मफलाय नमः । ॐ पद्मापीत-इवोज्ज्वलाय नमः । ॐ कनकोज्ज्वलवाससे नमः । ॐ अहताम्बराय नमः । ॐ कपर्दिने नमः । ॐ विशिखाय नमः । ॐ वातवते नमः । ॐ मरुतमुखाय नमः । ॐ क्षपणाय नमः । ॐ योत्स्यमानाय नमः । ॐ हेमचक्षुषे नमः । ॐ अकोपनाय नमः । ७२० ॐ अपध्वस्ताय नमः । ॐ सन्नद्धाय नमः । ॐ सहदृशे नमः । ॐ जीवनप्रदाय नमः । ॐ नदेवाय नमः । ॐ नमनुष्याय नमः । ॐ नाग्न्ये नमः । ॐ नेन्द्राय नमः । ॐ नमारुताय नमः । ॐ नोपमाय नमः । ॐ रुद्रधन्वने नमः । ॐ कर्मब्रह्मप्रपञ्चकाय नमः । ॐ ऋतुभिस्सन्नुताय नमः । ॐ स्वामिने नमः । ॐ सर्वकामदुहे नमः । ॐ अव्ययाय नमः । ॐ आरोग्यस्थानाभाभ्राजाय नमः । ॐ पटरस्थानभासे नमः । ॐ सप्तसूर्यार्पिताय नमः । ॐ कश्यपाय नमः । ७४० ॐ मेर्वमोचकाय नमः । ॐ वात्स्यायनाय नमः । ॐ पञ्चकर्णाय नमः । ॐ सप्तहोत्रे नमः । ॐ ऋक्पतये नमः । ॐ तस्थिवते नमः । ॐ जगदात्मने नमः । ॐ वैशम्पायनाय नमः । ॐ अनम्भसे नमः । ॐ अम्भसां मूलाय नमः । ॐ अग्निवायुपरायणाय नमः । ॐ कश्यपस्यातिथये नमः । ॐ सिद्धागमनाय नमः । ॐ नम उक्तिप्रियाय नमः । ॐ पुण्याय नमः । ॐ अजिराप्रभवे नमः । ॐ नर्यापसे नमः । ॐ पङ्क्तिराधसे नमः । ॐ विसर्पिणे नमः । ॐ नीललोहिताय नमः । ७६० ॐ नीलार्चिषे नमः । ॐ पीतकार्चिषे नमः । ॐ वायवे नमः । ॐ एकादशात्मकाय नमः । ॐ वासुकये नमः । ॐ वैद्युताय नमः । ॐ रजताय नमः । ॐ परुषादिकाय नमः । ॐ नासत्यजनकाय नमः । ॐ शाम्बराय नमः । ॐ अपपूरुषाय नमः । ॐ सुब्रह्मण्याय नमः । ॐ सूरीन्द्राय नमः । ॐ गौतमाय नमः । ॐ कौशिकीपतये नमः । ॐ अग्नये नमः । ॐ जातवेदसे नमः । ॐ सहोजसे नमः । ॐ अजिराप्रभवे नमः । ॐ कस्मै नमः । ७८० ॐ किमात्मने नमः । ॐ काय नमः । ॐ तस्मै नमः । ॐ सत्याय नमः । ॐ अन्नाय नमः । ॐ अमृताय नमः । ॐ जीवाय नमः । ॐ व्ययजन्मने नमः । ॐ अनुजन्मने नमः । ॐ अग्राय नमः । ॐ सप्तसप्तकदृष्टिभाजे नमः । ॐ भानवे नमः । ॐ विधवे नमः । ॐ भौमाय नमः । ॐ चन्द्रसूनवे नमः । ॐ गीष्पत्तये नमः । ॐ उशनसे नमः । ॐ सूर्यसूनवे नमः । ॐ तमसे नमः । ॐ केतवे नमः । ८०० ॐ अद्रिभृते नमः । ॐ अर्धप्रहाराय नमः । ॐ गुलिकाय नमः । ॐ यमकण्टकाय नमः । ॐ कारकाय नमः । ॐ मारकाय नमः । ॐ पोषकाय नमः । ॐ तोषकाय नमः । ॐ पश्चाल्लत्ताय नमः । ॐ पुरोलत्ताय नमः । ॐ पार्श्वलत्ताय नमः । ॐ आकाशग्रहसंसेव्याय नमः । ॐ धूमकेतुविजृम्भणाय नमः । ॐ भूकम्पनादिहेतवे नमः । ॐ रक्तवृष्टिविधायकाय नमः । ॐ गर्जत्पर्जन्यरूपिणे नमः । ॐ दुर्जयाय नमः । ॐ दुरतिक्रमाय नमः । ॐ निर्जराराध्यचरणाय नमः । ॐ जरामरणवर्जिताय नमः । ८२० ॐ वियद्गमनजङ्घालाय नमः । ॐ वीतिहोत्रसमप्रभाय नमः । ॐ विरिञ्चिगर्भसम्भूताय नमः । ॐ विषव्यालविनाशकृते नमः । ॐ श्रीपुष्टिकीर्तिसन्दायिने नमः । ॐ नमतां नमनप्रियाय नमः । ॐ वेदाध्ययनसम्पन्नाय नमः । ॐ वेदान्तनिष्ठिताय नमः । ॐ शब्दशास्त्रप्रणेत्रे नमः । ॐ शब्दब्रह्ममयाय नमः । ॐ पराय नमः । ॐ अर्थब्रह्ममयाय नमः । ॐ अर्थार्थिने नमः । ॐ स्वार्थिनामर्थदायकाय नमः । ॐ जपयज्ञाय नमः । ॐ तपोयज्ञाय नमः । ॐ दानयज्ञाय नमः । ॐ स्वाध्याययज्ञाय नमः । ॐ धर्मज्ञाय नमः । ॐ नीतिज्ञाय नमः । ८४० ॐ विज्ञाय नमः । ॐ गुहाशायिने नमः । ॐ गुहाभेदिने नमः । ॐ साक्षान्मन्मथमन्मथाय नमः । ॐ मञ्जुदेहाय नमः । ॐ मञ्जुकान्तये नमः । ॐ महिमातिशयोज्ज्वलाय नमः । ॐ मित्रविन्दावन्द्यपादाय नमः । ॐ मुनिवृन्दावनहिताय नमः । ॐ ब्रह्मचारिणे नमः । ॐ सुमेधसे नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ तपोमयाय नमः । ॐ ऐङ्कारनिलयाय नमः । ॐ वाग्मिने नमः । ॐ वागर्थप्रदाय नमः । ॐ ह्रींकारनिलयाय नमः । ॐ मायिने नमः । ॐ इन्द्रजालादितत्त्वविदे नमः । ॐ श्रीङ्कारनिलयाय नमः । ८६० ॐ श्रीमते नमः । ॐ धनदाय नमः । ॐ धनवर्धनाय नमः । ॐ श्रीचक्रराजनिलयाय नमः । ॐ श्रीदेवीकर्णभूषणाय नमः । ॐ क्लींकारमध्यनिलयाय नमः । ॐ कामराजवशङ्कराय नमः । ॐ सौश्शक्तिसहिताय नमः । ॐ ज्ञानदानदक्षाय नमः । ॐ प्रकाशकाय नमः । ॐ परमात्मने नमः । ॐ अन्तरात्मने नमः । ॐ जीवात्मने नमः । ॐ नियामकाय नमः । ॐ हृदयग्रन्थिभेत्त्रे नमः । ॐ सर्वसंशयनाशनाय नमः । ॐ ब्रह्मव्याख्याननिपुणाय नमः । ॐ यज्ञदीक्षाधुरन्धराय नमः । ॐ दौर्भाग्यतूलवातूलाय नमः । ॐ जराध्वान्तनिवर्तकाय नमः । ८८० ॐ द्वैतमोहविनाशिने नमः । ॐ भेदवादिविभेदनाय नमः । ॐ वीरभद्रमतध्वंसिने नमः । ॐ वीराराध्यनिबर्हणाय नमः । ॐ कापालिमतकोपिने नमः । ॐ मीमांसान्यायतत्पराय नमः । ॐ कार्तान्तिकवराय नमः । ॐ सर्वकार्तान्तिकपरायणाय नमः । ॐ जङ्गमाजङ्गममयाय नमः । ॐ जानकीपूजिताय नमः । ॐ इक्ष्वाकुवंशनाथाय नमः । ॐ इन्दिरास्थानसुन्दराय नमः । ॐ विद्याविनयविज्ञानाय नमः । ॐ त्रयीताण्डवमण्डपाय नमः । ॐ रामचन्द्रकुलाम्भोधये नमः । ॐ कामिनीकामदायकाय नमः । ॐ सङ्गीतशास्त्रनिपुणाय नमः । ॐ सर्वविद्याप्रवर्तकाय नमः । ॐ राजग्रहाय नमः । ॐ अधिकारिणे नमः । ९०० ॐ राजराजेश्वरीप्रियाय नमः । ॐ राज्याय नमः । ॐ भौज्याय नमः । ॐ साम्राज्याय नमः । ॐ वैराज्याय नमः । ॐ राज्याय नमः । ॐ गवे नमः । ॐ पञ्चगव्याय नमः । ॐ शुद्धात्मने नमः । ॐ चान्द्रायणफलप्रदाय नमः । ॐ कृच्छ्रादिफलदायिने नमः । ॐ दारिद्र्यभयनाशनाय नमः । ॐ दुःखार्णवोत्तारकाय नमः । ॐ दुरितवातखण्डनाय नमः । ॐ ब्रह्महत्यादिविध्वंसिने नमः । ॐ भ्रूणहत्यानिबर्हणाय नमः । ॐ गुरुद्रोहादिशमनाय नमः । ॐ मातृगामिवधोद्यताय नमः । ॐ पञ्चास्त्रशस्त्रमेघालिने नमः । ॐ झञ्झावाताय नमः । ९२० ॐ झषादिकाय नमः । ॐ चित्रगवे नमः । ॐ दानशौण्डाय नमः । ॐ सिंहसंहननाय नमः । ॐ यूने नमः । ॐ वैधव्यबाधाशमनाय नमः । ॐ विधवानां गतिप्रदाय नमः । ॐ रजोदोषविनाशिने नमः । ॐ कृतपक्वान्नगर्हणाय नमः । ॐ पट्टाभिषिक्तभक्तालये नमः । ॐ दुष्टमत्तेभकेसरिणे नमः । ॐ अनर्गलगतये नमः । ॐ गूढाय नमः । ॐ गोमतीतीरपुण्यकृते नमः । ॐ जरायुदोषहारिणे नमः । ॐ पूर्णायुर्योगकारकाय नमः । ॐ भक्ताब्जपूर्णचन्द्राय नमः । ॐ धर्ममार्गप्रवर्तकाय नमः । ॐ सौवर्गसुखहेतवे नमः । ॐ निरयध्वंसदीक्षिताय नमः । ९४० ॐ भ्रमन्मण्डलसंस्थानाय नमः । ॐ भ्रान्तिपित्तादिरोगहृते नमः । ॐ मेहादिरोगशमनाय नमः । ॐ पाण्डुक्षयविनाशनाय नमः । ॐ पापवेतालमन्त्रज्ञाय नमः । ॐ पापकृज्जनदुर्लभाय नमः । ॐ ज्वरादिदोषदूराय नमः । ॐ विज्वरीकृतभूसुराय नमः । ॐ मोक्षनिश्रेणिकासाक्षिणे नमः । ॐ दाक्षायण्यादिसेवकाय नमः । ॐ भावुकाय नमः । ॐ भद्रकरुणाय नमः । ॐ अश्विनीपुष्करोज्ज्वलाय नमः । ॐ प्रशस्तवते नमः । ॐ निस्तुलनाय नमः । ॐ प्रबन्धशतकल्पनाय नमः । ॐ भूनेत्रे नमः । ॐ भूधराय नमः । ॐ भोगिने नमः । ॐ भाग्यदायिने नमः । ९६० ॐ भवप्रियाय नमः । ॐ कर्मन्दिने नमः । ॐ वललाय नमः । ॐ क्लीबाय नमः । ॐ पशुपालाय नमः । ॐ अश्वपालकाय नमः । ॐ शनिपीडाविनाशिने नमः । ॐ कृत्यादोषनिबर्हणाय नमः । ॐ आभिचारिकविध्वंसिने नमः । ॐ गदावनदवानलाय नमः । ॐ जपपूजार्चनरताय नमः । ॐ नारायणपदाय नमः । ॐ पराय नमः । ॐ पापपाषाणदलन टङ्कीकृत करावलये नमः । ॐ मोक्षलक्ष्मीकवाटाय नमः । ॐ मातृकावर्णमण्डनाय नमः । ॐ अकारादिक्षकारान्तवर्णमालाविभूषणाय नमः । ॐ अनुस्वारादिसङ्ख्यात्मने नमः । ॐ स्वराय नमः । ॐ व्यञ्जनाय नमः । ९८० ॐ सर्वार्थदाय नमः । ॐ सर्वकर्मणे नमः । ॐ सर्वकार्यप्रकाशकाय नमः । ॐ पञ्चविंशतितत्त्वस्थाय नमः । ॐ पञ्चब्रह्मसमुद्भवाय नमः । ॐ पारमार्थिकसन्दायिने नमः । ॐ पङ्ग्वादिगतिदायकाय नमः । ॐ सफलीकृतपूजार्थाय नमः । ॐ विफलीकृतदुष्कृतये नमः । ॐ श्रुतिस्मृतिसमाम्नातस्मार्तकर्मप्रकाशकाय नमः । ॐ यज्ञोपवीतधारिणे नमः । ॐ याज्ञवल्क्यादिवन्दिताय नमः । ॐ सुषुम्नायोगमध्यस्थाय नमः । ॐ लम्बिकायोगसाधनाय नमः । ॐ सालम्बनोद्दीपनादिक्रियाबीजाय नमः । ॐ महामनवे नमः । ॐ कल्पातिशायिसङ्कल्पाय नमः । ॐ विकल्पविधिवर्जिताय नमः । ॐ अनल्पमूर्तये नमः । ॐ अश्वात्मने नमः । १००० ॐ स्वात्मानन्दविधायकाय नमः । ॐ आत्मानात्मविवेकज्ञाय नमः । ॐ निरावरणबोधनाय नमः । ॐ तत्त्वनिदानभूताय नमः । ॐ नित्यकल्याणसुन्दराय नमः । ॐ शान्तरक्षणनिर्निद्राय नमः । ॐ श्रुतिस्मृतिशुभद्रुमाय नमः । ॐ आलापीकृतवेदाङ्गाय नमः । ॐ मालालङ्कृतकन्धराय नमः । ॐ रुद्राक्षकङ्कणलसत्कराय नमः । ॐ रुद्रजपप्रियाय नमः । ॐ सदाशिवपरब्रह्मस्थानाय नमः । ॐ श्रीशम्भुविग्रहाय नमः । ॐ मूलाधाराम्बुजारूढाय नमः । ॐ दहराकाशमध्यगाय नमः । ॐ सहस्राराम्बुजारूढाय नमः । ॐ ज्ञानडोलाविलासवते नमः । ॐ वेलोल्लङ्घनसामर्थ्याय नमः । ॐ वेत्त्रे निर्वृतिदायकाय नमः । ॐ सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणरताय नमः । ॐ ब्रह्मवर्चस्वितामूलाय नमः । ॐ ब्रह्मश्रीसूर्यविग्रहाय नमः । १०२२ । ॥ फलश्रुतिः ॥ इति नामानि गौणानि भास्करस्य महात्मनः । कानिचिद्वर्णितान्यत्र देवस्यानन्तरूपिणः ॥ सूर्यवर्चः कृतार्थोऽसि त्वमद्य न हि संशयः । दिव्यानामपि यन्नाम्नां सहस्रमनुकीर्तितम् ॥ एतस्य श्रवणादेव कीर्तनाज्जीवकोटयः । तरन्ति दुस्तरं घोरं संसारं नात्र संशयः ॥ यश्शृणोति सदा नाम्नां सहस्रं भास्करस्य च । विद्याकामो लभेद्विद्यामर्थार्थी सार्थको भवेत् ॥ अनपत्यो लभेत्पुत्रमराजा राज्यमाप्नुयात् । ग्रहपीडा विनश्यन्ति नश्यन्ति ब्रह्मराक्षसाः ॥ आरोग्यमाप्नुयाद्रोगी कामी कामानवाप्नुयात् । किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति ॥ धर्मार्थकाममोक्षाणां साधनं सर्वसम्मतम् । श्रुतिस्मृतिपुराणादिसारार्थकृतनिर्णयम् ॥ नाम्नां सहस्रं यो भक्त्या पठेन्नियतमानसः । सिध्यन्ति सर्वधर्मार्थास्तस्य नैवात्र संशयः ॥ विश्वावसुरुवाच — नारायण नमस्तेऽस्तु भानुमण्डलमध्यगः । कर्मणामपि धर्माणां साक्षी त्वं ब्रह्म निर्मलम् ॥ अनन्तोऽनन्तनामा च श्रीमान् लोकत्रयेश्वरः । विभूतिः केन वा ज्ञेया ज्योतिषामयनस्य च ॥ गन्धर्वा ऊचुः — सूर्य आत्माऽस्य जगतस्तस्थुषश्च त्वमेव हि । त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ ॥ वालखिल्या ऊचुः — यः कर्मसाक्षी विदुषां वरेण्यं भर्गश्च सूते सविता जगच्च । यो वृष्टिदायी तपनश्च पुष्टिदस्तमेव देवं गतिमामनाम ॥ वैखानसा ऊचुः — कलाश्चेन्दोः कलास्सर्वाः कलाभिश्च प्रपञ्चिताः । तमेव कलयामोऽद्य चक्षुषो रतिदैवतम् ॥ वैष्णवा ऊचुः — नारायणाश्रयो मर्त्यो नारायणपरायणः । सर्वत्र विजयी भूयात्स एव सविता स्वयम् ॥ रुद्रगणा ऊचुः — अष्टमूर्तेरियं मूर्तिरेका दीप्तिमयी यतः । एनं भजाम लोकेशं भानुमण्डलमध्यगम् ॥ श्रीसूत उवाच — बृहस्पतिस्सुराचार्यः कृपया परया मुदा । सूर्यवर्चसमित्युक्त्वा विररामोमिति स्वयम् ॥ व्यासप्रसादाच्छ्रुतवानहमेतन्महर्षयः! । भवन्तस्सर्वधर्मार्थसिद्ध्यै नित्यं पठन्त्विदम् ॥ ॥ इति स्कन्दपुराणान्तर्गता श्रीसूर्यसहस्रनामावलिः समाप्ता ॥

श्री सूर्यसहस्रनामावलिः (स्कन्दपुराण) का परिचय

श्री सूर्यसहस्रनामावलिः स्कन्दपुराण से ली गई है। यह देवगुरु बृहस्पति और सूर्यवर्चा ऋषि (आदित्योपासक) के पवित्र संवाद पर आधारित सूर्यसहस्रनामस्तोत्र की नामावली प्रारूप है। इसमें भगवान सूर्यनारायण के 1022 दिव्य नाम 'ॐ...नमः' प्रारूप में दिए गए हैं, जो पूजा, अर्चना, अभिषेक, हवन और विशेष अनुष्ठान में प्रयोग किये जाते हैं। यह नामावली सूर्योपासना की सबसे विस्तृत और प्रभावशाली नामावलियों में से एक है।
नामावली में प्रत्येक नाम चतुर्थी विभक्ति में है — जैसे 'ॐ आदित्याय नमः' से आरम्भ होकर 'ॐ ब्रह्मश्रीसूर्यविग्रहाय नमः' (1022वाँ नाम) तक। पूजा में प्रत्येक नाम के साथ लाल पुष्प, अक्षत, चन्दन या आहुति अर्पित की जाती है। अभिषेक में प्रत्येक नाम के साथ जल, दूध, दही, घी या पञ्चामृत अर्पित किया जाता है। हवन में प्रत्येक नाम के साथ 'स्वाहा' बोलकर आहुति दी जाती है।

स्कन्दपुराण में सूर्यसहस्रनाम की कथा

स्कन्दपुराण हिन्दू धर्म का सबसे विशाल पुराण है, जिसमें 81,000 से अधिक श्लोक हैं। इसमें शिव, स्कन्द (कार्तिकेय), विष्णु और सूर्य उपासना के अनेक महत्त्वपूर्ण अध्याय हैं। यह सूर्यसहस्रनामावली उसी पुराण की अमूल्य धरोहर है।
सूर्यवर्चा नामक ऋषि आदित्योपासक थे — अर्थात् वे सूर्यदेव के अनन्य भक्त थे। उन्होंने देवगुरु बृहस्पति से प्रार्थना की — 'भगवन् सर्वतत्त्वज्ञ सर्वकर्मप्रवर्तक, नाम्नां सहस्रं दिव्यानां श्रोतुमिच्छाम्यहं रवेः' — हे सर्वतत्त्वज्ञ! मैं रवि (सूर्य) के दिव्य सहस्रनाम सुनना चाहता हूँ। तब बृहस्पति ने कहा — 'उत्तमं नामसाहस्रं यत्तमस्ते निकृन्तति' — यह उत्तम सहस्रनाम तुम्हारे सम्पूर्ण अन्धकार (अज्ञान, पाप, दुःख) को काट देगा।
बृहस्पति ने नारायण का ध्यान करके भानुमण्डलमध्यग (सूर्यमण्डल के मध्य विराजमान) सूर्यदेव के 1022 दिव्य नामों का उपदेश दिया। इन नामों में सूर्यदेव के विविध स्वरूपों, शक्तियों, गुणों और महिमाओं का वर्णन है — आदित्य, भास्कर, विश्वमूर्ति, चिन्मूर्ति, सवितृ, हंस, सहस्रांशु, तपन आदि।

नामावली की विशेषताएँ एवं पाठ विधि

इस नामावली की विशेषता यह है कि इसमें सम्पूर्ण विनियोग (ऋषि, देवता, बीज, शक्ति, कीलक, अस्त्र, कवच), करन्यास (अङ्गुष्ठ, तर्जनी, मध्यमा, अनामिका, कनिष्ठिका, करतल-करपृष्ठ), हृदयादिन्यास और सूर्यदेवध्यान सविस्तार दिया गया है। पाठ से पूर्व शुक्लाम्बरधर श्लोक से गणेश पूजन, फिर विनियोग, न्यास, ध्यान करके नामावली का पाठ करना चाहिए।
पाठ का उत्तम समय — प्रातःकाल सूर्योदय के समय, विशेषतः रविवार को। रथसप्तमी, मकर संक्रान्ति, छठ पूजा, सूर्य जयन्ती, सूर्य ग्रहण के पश्चात् भी इस नामावली का विशेष पाठ किया जाता है। सूर्यदेव की प्रतिमा या चित्र के समक्ष बैठकर, ताम्र पात्र में जल रखकर, लाल चन्दन, लाल पुष्प और अक्षत सहित पूजा करनी चाहिए।
अभिषेक विधि में प्रत्येक नाम के साथ सूर्यदेव पर जल या पञ्चामृत की धारा की जाती है। हवन विधि में प्रत्येक नाम के साथ 'ॐ [नाम] स्वाहा' बोलकर घी, तिल या खीर की आहुति दी जाती है। पुष्पार्चना में प्रत्येक नाम के उच्चारण पर लाल पुष्प अर्पित किया जाता है।

फलश्रुति एवं विविध स्तुतियाँ

नामावली के पश्चात् फलश्रुति (श्लोक 153-160) में बृहस्पति ने कहा — 'सूर्यवर्चः कृतार्थोऽसि त्वमद्य' — हे सूर्यवर्चा! आज तुम कृतार्थ हो। जो इन नामों का श्रवण या कीर्तन करता है, वह दुस्तर संसार सागर को पार कर जाता है। विद्याकामी को विद्या, धनार्थी को धन, पुत्रहीन को पुत्र, राज्यहीन को राज्य प्राप्त होता है। ग्रहपीड़ा और ब्रह्मराक्षस बाधा नष्ट होती है। रोगी को आरोग्य और कामी को कामनापूर्ति होती है। बृहस्पति ने कहा — 'किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति' — अधिक क्या कहें, सर्वसिद्धि होगी!
इस स्तोत्र की एक अनन्य विशेषता यह है कि अन्त में विश्वावसु (गन्धर्वराज), गन्धर्वगण, वालखिल्य ऋषि, वैखानस, वैष्णव और रुद्रगण — सभी ने भानुमण्डलमध्यग नारायण की स्तुति की। गन्धर्वों ने कहा — 'त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ' — कलियुग में प्राणियों का शरण आप ही हैं। अन्त में श्रीसूत ने ऋषियों से कहा — व्यासप्रसाद से मैंने यह सुना, आप सब सर्वधर्मार्थसिद्धि के लिए नित्य इसका पाठ करें।
यह धर्म, अर्थ, काम और मोक्ष — चारों पुरुषार्थों की साधना का सर्वसम्मत साधन है, जो श्रुति, स्मृति और पुराण के सारार्थ पर आधारित है। जो भी भक्तिपूर्वक नियत मन से इन सहस्रनामों का पाठ करता है, उसके सर्वधर्मार्थ सिद्ध होते हैं — इसमें कोई संशय नहीं।

अन्य सूर्यसहस्रनामावली से तुलना

सनातन शास्त्रों में सूर्यदेव के तीन सहस्रनाम उपलब्ध हैं — प्रथम भविष्यपुराण से (सम्ब-सूर्य संवाद), द्वितीय रुद्रयामल तन्त्र से (भैरव-देवी संवाद), और यह तृतीय स्कन्दपुराण से (बृहस्पति-सूर्यवर्चा संवाद)। तीनों में नाम, संवाद-शैली, उपासना पद्धति और फलश्रुति भिन्न हैं। भविष्यपुराण वाला सबसे प्रसिद्ध है, रुद्रयामल वाला तान्त्रिक परम्परा में विशेष है, और यह स्कन्दपुराण वाला अपनी विस्तृत विनियोग-न्यास पद्धति और अन्त की बहुविध स्तुतियों (गन्धर्व, वालखिल्य, वैखानस, वैष्णव, रुद्रगण) के कारण अनन्य है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. यह सूर्यसहस्रनामावलि किस पुराण से है?

यह श्रीस्कन्दपुराण से ली गई है। स्कन्दपुराण हिन्दू धर्म का सबसे विशाल पुराण है जिसमें 81,000 से अधिक श्लोक हैं।

2. नामावली और स्तोत्र में क्या अन्तर है?

नामावली में प्रत्येक नाम 'ॐ...नमः' प्रारूप में होता है जो पूजा, अर्चना, अभिषेक और हवन में प्रयोग होता है। स्तोत्र में वही नाम श्लोक रूप (छन्दोबद्ध) में होते हैं जो पाठ और श्रवण के लिए उपयुक्त हैं।

3. इसमें कुल कितने नाम हैं?

कुल 1022 दिव्य नाम हैं, जो 'ॐ आदित्याय नमः' से आरम्भ होकर 'ॐ ब्रह्मश्रीसूर्यविग्रहाय नमः' तक हैं।

4. इसका प्रयोग कैसे करें?

सूर्यदेव की पूजा में प्रत्येक नाम पर लाल पुष्प अर्पित करें। अभिषेक में जल या पञ्चामृत की धारा करें। हवन में 'ॐ [नाम] स्वाहा' बोलकर घी-तिल की आहुति दें।

5. इसके ऋषि और देवता कौन हैं?

ऋषि — श्रीसूर्यवर्चा (आदित्योपासक), देवता — श्रीमदादित्यनारायण, बीज — ब्रह्मवर्चस्विता मूलम्, शक्ति — सर्वपापविनाशक, कीलकम् — हृद्रोगहारी, अस्त्र — निषङ्गी कवची, कवच — भक्तरक्षणतत्पर।

6. क्या यह अन्य सूर्यसहस्रनामावली से भिन्न है?

हाँ, यह तीसरा संस्करण है। पहला भविष्यपुराण से (सम्ब-सूर्य संवाद), दूसरा रुद्रयामल तन्त्र से (भैरव-देवी संवाद), और यह स्कन्दपुराण से (बृहस्पति-सूर्यवर्चा संवाद)। तीनों के नाम, पद्धति और फलश्रुति भिन्न हैं।

7. फलश्रुति में क्या कहा गया?

विद्याकामी को विद्या, धनार्थी को धन, पुत्रहीन को पुत्र, राज्यहीन को राज्य मिले। ग्रहपीड़ा और ब्रह्मराक्षस नष्ट हों। रोगी को आरोग्य मिले। 'किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति' — सर्वसिद्धि निश्चित है।

8. इस नामावली का पाठ कब करना चाहिए?

सूर्योदय के समय, विशेषतः रविवार को। रथसप्तमी, मकर संक्रान्ति, छठ पूजा, सूर्य जयन्ती पर भी विशेष पाठ करें।

9. 'यत्तमस्ते निकृन्तति' का क्या अर्थ है?

बृहस्पति ने सूर्यवर्चा से कहा — यह उत्तम सहस्रनाम तुम्हारे सम्पूर्ण तम (अन्धकार) — अज्ञान, पाप, दुःख, रोग, ग्रहदोष — सबको काट/नष्ट कर देगा। 'तमः' का अर्थ अन्धकार और 'निकृन्तति' का अर्थ काटना/नष्ट करना है।

10. अन्त में कौन-कौन स्तुति करते हैं और क्यों?

विश्वावसु (गन्धर्वराज), गन्धर्वगण, वालखिल्य ऋषि, वैखानस, वैष्णव और रुद्रगण — सभी ने भानुमण्डलमध्यग नारायण की स्तुति की। यह दर्शाता है कि सूर्यदेव सभी देवताओं, ऋषियों और दिव्य गणों द्वारा पूजित हैं। गन्धर्वों ने कहा — 'त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ' — कलियुग में आप ही प्राणियों का एकमात्र शरण हैं।