Logoपवित्र ग्रंथ

Vishnu Padadi Kesantha Varnana Stotram – श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम्

Vishnu Padadi Kesantha Varnana Stotram – श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम्
॥ श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् ॥ लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति । पायान्नः पाञ्चजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै- -र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥ आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशुशोभम् ॥ २ ॥ अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- -रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः । सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादः सम्यत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ ३ ॥ जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः । सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तो नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥ ४ ॥ कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् । राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ ५ ॥ यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो यं सञ्चिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति । चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥ विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः । पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ ७ ॥ वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः सम्पदः स्युः समग्राः । कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ ८ ॥ या सूते सत्त्वजालं सकलमपि सदा सन्निधानेन पुंसो धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ ९ ॥ येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै- -र्येभो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः । नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ १० ॥ रेखा लेखादिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः । दद्युर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ ११ ॥ यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- -दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता । भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्‍स्तम्भशोभां दधौ नः पातामेतौ पायोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ १२ ॥ आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्सम्पदोरेकधाम । ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥ १३ ॥ येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि सङ्ख्या प्रकटमभिहिता सर्ववेदेषु येषाम् । प्राप्ता विश्वम्भरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥ १४ ॥ विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या राजीवस्येव रम्या हिमजलकणिकालङ्कृताग्रा दलाली । अस्माकं विस्मयार्हाण्यखिलजनमनः प्रार्थनीया हि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥ १५ ॥ यस्यां दृष्ट्वामलायां प्रतिकृतिममराः सम्भवन्त्यानमन्तः सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः । सा सद्यः सातिरेकां सकलसुखकरीं सम्पदं साधयेन्न- -श्चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥ १६ ॥ पादाम्भोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट- -प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चिन्तितं यद्विभाति । नम्राङ्गानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि- -च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥ १७ ॥ श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे । सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसङ्घे जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥ १८ ॥ सम्यक् साह्यं विधातुं सममिव सततं जङ्घयोः खिन्नयोर्ये भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते । चित्तादर्शं निधातुं महितमिव सतां ते समुद्रायमाने वृत्ताकारे विधत्तां ह्यदि मुदमजितस्यानिशं जानुनी नः ॥ १९ ॥ देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा- -प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला- -वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥ २० ॥ पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं जातालङ्कारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥ यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे- -र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसन्नद्धमध्यः । काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्रीं मम मतिमनिशं कम्ररूपां करोतु ॥ २२ ॥ उन्नम्रं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥ पातालं यस्य नालं वलयमपि दिशां पत्रपङ्क्तीर्नगेन्द्रा- -न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् । भूयाद्गायत्स्वयम्भूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ २४ ॥ आदौ कल्पस्य यस्मात् प्रभवति विततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च । अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥ २५ ॥ कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमोदरनहनमहाबाडबाग्निप्रभाढ्ये कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ २६ ॥ नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो- -श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः ॥ २७ ॥ संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं श्रीवत्सोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् । वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो- -रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञजरीं राजते यः । श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैःश्रियं नः ॥ २९ ॥ सम्भूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- -स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ॥ ३० ॥ या वायावानुकूल्यात्सरति मणिरुचा भासमानाऽसमाना साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् । सारं सारङ्गसङ्घैर्मुखरितकुसुमा मेचकान्ता च कान्ता माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥ ३१ ॥ हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः श्रीभिश्चाप्यङ्गदानां कबलितरुचि यन्निष्कभाभिश्च भाति । बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त- -द्बन्धार्तिं बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥ ३२ ॥ विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपस्फुटगुणयशसां कर्मणामद्भुतानाम् । शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥ ३३ ॥ कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थैरुदारै- -रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति । कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥ ३४ ॥ पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः । वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ ३५ ॥ नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या वक्त्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री- -र्दन्ताली सन्ततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥ ३६ ॥ ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव सम्भावये त्वां शम्भो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- -स्यास्येन्दोरास्रवन्ती वरवचनसुधाह्लादयेन्मानसं नः ॥ ३७ ॥ कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य- -न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे- -र्गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥ ३८ ॥ वक्त्राम्भोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं दृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥ ३९ ॥ दिक्कालौ वेदयन्तौ जगति मुहुरिमौ सञ्चरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः । अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४० ॥ पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसङ्घाः । नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥ ४१ ॥ लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्धसन्दर्शमील- -न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे । लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापाङ्गबाणासनार्ध- -च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥ ४२ ॥ रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष- -प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिङ्गम् । भूयाद्भूयो विभूत्यै मम भुवनपतेर्भ्रूलताद्वन्द्वमध्या- -दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमःखण्डनं मण्डनं च ॥ ४३ ॥ पीठीभूतालकान्तं कृतमकुटमहादेवलिङ्गप्रतिष्ठे लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय । प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्तीं स्फुटाङ्गं पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥ ४४ ॥ मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु । राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा लोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥ ४५ ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाः व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः । देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ ४६ ॥ यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान- -स्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ ४७ ॥ भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेकाः गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् । उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ ४८ ॥ मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् । विष्णोरंशावतरा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९ ॥ यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसङ्क्रान्तबिम्ब- -च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥ ५० ॥ आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुष सन्ततान्तः प्रमोदम् । जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमन्त्रानुपाठै- -स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ॥ मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः । उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो- -र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥ ५२ ॥ ॥ इति श्रीमच्छङ्कराचार्य विरचित श्री विष्णु पादादिकेशान्तवर्णण स्तोत्रम् सम्पूर्णम् ॥

परिचय: श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् और इसकी आध्यात्मिक महत्ता (Introduction)

श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् (Sri Vishnu Padadi Kesantha Varnana Stotram) सनातन धर्म की एक अनमोल आध्यात्मिक कृति है, जिसकी रचना अद्वैत वेदांत के महान आचार्य जगद्गुरु आदि शंकराचार्य ने की थी। यह स्तोत्र ५२ दिव्य श्लोकों में निबद्ध है, जिसमें भगवान श्रीमन नारायण के स्वरूप का चरणों (पद) से लेकर मस्तक के बालों (केश) तक का क्रमिक और सूक्ष्म वर्णन किया गया है। संस्कृत साहित्य में इस शैली को 'नख-शिख वर्णन' कहा जाता है, जो साधक को भगवान के सगुण साकार रूप का ध्यान करने में सहायता प्रदान करती है।

आदि शंकराचार्य, जो सामान्यतः निर्गुण ब्रह्म की उपासना के लिए जाने जाते हैं, उन्होंने इस स्तोत्र के माध्यम से यह सिद्ध किया है कि भक्ति और ज्ञान एक ही सिक्के के दो पहलू हैं। इस स्तोत्र का मुख्य उद्देश्य भक्त की 'एकाग्रता' को बढ़ाना है। जब साधक भगवान के चरणों के चिह्नों (चक्र, मत्स्य), उनकी पीताम्बरी, कौस्तुभ मणि और उनके कमलनयनों का मानसिक चित्रण करता है, तो उसका मन सांसारिक विक्षेपों से हटकर ईश्वरीय चेतना में विलीन होने लगता है। यह स्तोत्र केवल एक काव्य नहीं, बल्कि एक 'साक्षात्कार विधि' है।

विद्वानों और आध्यात्मिक शोधकर्ताओं के अनुसार, इस स्तोत्र की महत्ता इसके दार्शनिक आधार में छिपी है। प्रत्येक अंग का वर्णन ब्रह्मांड के किसी न किसी तत्व या शक्ति का प्रतीक है। उदाहरण के लिए, भगवान के चरणों से गंगा का निकलना (श्लोक १२) पवित्रता का प्रतीक है, तो उनकी नाभि से ब्रह्मा जी का उत्पन्न होना (श्लोक २४) सृष्टि के सृजन का आधार है। यह पाठ साधक को यह बोध कराता है कि संपूर्ण चराचर जगत भगवान विष्णु के ही विभिन्न अंगों का विस्तार है। यह स्तोत्र विशेष रूप से उन लोगों के लिए उपयोगी है जो ध्यान (Meditation) में कठिनाई महसूस करते हैं।

ऐतिहासिक दृष्टि से, वैष्णव और अद्वैत दोनों ही संप्रदायों में इस स्तोत्र को परम 'पाप-नाशक' माना गया है। स्तोत्र के अंतिम श्लोकों में शंकराचार्य जी स्पष्ट करते हैं कि जो मनुष्य भक्तिपूर्वक भगवान के इस दिव्य विग्रह का हृदय में ध्यान करता है, वह मृत्यु के पश्चात सूर्यमंडल को भेदकर उस 'परमानन्द' में प्रविष्ट हो जाता है जहाँ से पुनः आगमन नहीं होता। यह स्तोत्र कलयुग के जीवों के लिए एक सुगम आध्यात्मिक नौका है जो उन्हें भवसागर से पार उतारने में सक्षम है।

विशिष्ट महत्व: नख-शिख वर्णन की वैज्ञानिकता (Significance)

भगवान विष्णु के स्वरूप का चरणों से मस्तक तक वर्णन करने का एक विशेष मनोवैज्ञानिक और आध्यात्मिक महत्व है। हिंदू शास्त्र बताते हैं कि किसी भी देवता का ध्यान सदैव उनके चरणों से प्रारंभ करना चाहिए। इसके पीछे का रहस्य यह है कि चरणों का ध्यान करने से साधक के भीतर 'विनम्रता' (Humility) का उदय होता है। जब तक हृदय में विनय नहीं आता, तब तक ईश्वर का दिव्य प्रकाश वहां नहीं टिक सकता।

इस स्तोत्र में प्रयुक्त प्रत्येक उपमा—जैसे 'कौस्तुभ मणि' की तुलना सूर्य से या 'जंघाओं' की तुलना इंद्रनील मणि के स्तंभों से—साधक की कल्पना शक्ति को जागृत करती है। यह 'विज़ुअलाइज़ेशन' (Visualization) की एक प्राचीन तकनीक है जिसे आधुनिक मनोविज्ञान में भी एकाग्रता बढ़ाने के लिए सर्वश्रेष्ठ माना गया है। शंकराचार्य जी ने इसमें भगवान के आयुधों (शंख, चक्र, गदा, शार्ङ्ग धनुष) का भी वर्णन किया है, जो साधक को अभय और सुरक्षा का अनुभव कराते हैं।

फलश्रुति: पाठ के दिव्य लाभ (Benefits from Phala Shruti)

इस स्तोत्र के अंतिम श्लोकों (५१-५२) में इसके वास्तविक आध्यात्मिक फलों का वर्णन स्वयं आदि शंकराचार्य ने किया है:

  • पाप राशि का समूल नाश: "प्रापयेत्पापमन्तम्" — इस स्तोत्र का नित्य पाठ करने से जन्म-जन्मांतर के संचित पापों का कीचड़ धुल जाता है और आत्मा निर्मल होती है।
  • मानसिक शांति और प्रमोद: भगवान के मंगलमय स्वरूप का चिंतन करने से मन की चिंताएं दूर होती हैं और आंतरिक प्रसन्नता (Inner Joy) की प्राप्ति होती है।
  • भय से मुक्ति (Abhaya): भगवान के अस्त्रों और उनके रक्षक स्वरूप का ध्यान करने से साधक को काल, रोग और शत्रुओं का भय नहीं रहता।
  • एकाग्रता और प्रज्ञा का विकास: स्तोत्र की जटिल और सुंदर शब्दावली का सस्वर पाठ करने से बुद्धि कुशाग्र होती है और एकाग्रता बढ़ती है।
  • अंतिम मोक्ष की प्राप्ति: शंकराचार्य जी के अनुसार, जो इस स्तुति को हृदय में धारण करता है, वह अंत समय में परमानन्द स्वरूप परमात्मा में विलीन हो जाता है।

पाठ विधि एवं साधना के नियम (Ritual Method & Guidelines)

श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् एक उच्च कोटि की 'ध्यान साधना' है। इसका पूर्ण लाभ लेने के लिए निम्नलिखित विधि अपनाएं:

  • समय: प्रातः काल ब्रह्म मुहूर्त (प्रातः ४:०० से ६:०० बजे) पाठ के लिए सर्वोत्तम है। शांत वातावरण इस ध्यानात्मक स्तोत्र के प्रभाव को बढ़ा देता है।
  • शुचिता: स्नान के उपरांत स्वच्छ पीले या श्वेत वस्त्र धारण करें। पीला रंग भगवान विष्णु को विशेष प्रिय है।
  • आसन: पूर्व या उत्तर दिशा की ओर मुख करके कुशा या ऊनी आसन पर बैठें। रीढ़ की हड्डी सीधी रखें।
  • पूजन: भगवान विष्णु के चित्र या प्रतिमा के सम्मुख घी का शुद्ध दीपक जलाएं और प्रभु को तुलसी दल अर्पित करें।
  • ध्यान की प्रक्रिया: श्लोक पढ़ते समय प्रत्येक शब्द के अर्थ पर मनन करें। जैसे-जैसे चरणों से मस्तक की ओर वर्णन बढ़े, वैसे-वैसे अपने मन में उन अंगों का दर्शन करें।

विशेष अवसर: एकादशी, गुरुवार, और वैकुण्ठ चतुर्दशी के दिन इस स्तोत्र का सामूहिक पाठ करना अनंत गुना फलदायी माना गया है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. विष्णु पादादिकेशान्तवर्णन स्तोत्र के रचयिता कौन हैं?

इस दिव्य स्तोत्र की रचना अद्वैत वेदांत के महान प्रवर्तक जगद्गुरु आदि शंकराचार्य ने की थी। उन्होंने भगवान के सगुण रूप का ध्यान कराने के लिए इसे रचा था।

2. 'पादादिकेशान्त' का क्या अर्थ है?

इसका अर्थ है 'पाद' (पैर) से लेकर 'केश' (बाल) के 'अन्त' तक। अर्थात् चरणों से प्रारंभ कर मस्तक तक भगवान के पूरे शरीर का क्रमिक वर्णन।

3. इस स्तोत्र का पाठ मुख्य रूप से क्यों किया जाता है?

इसका मुख्य उद्देश्य भगवान विष्णु के स्वरूप का सूक्ष्म ध्यान करना, चित्त की एकाग्रता बढ़ाना और पापों से मुक्ति पाकर मानसिक शांति प्राप्त करना है।

4. क्या इस स्तोत्र के पाठ से ध्यान (Meditation) में सुधार होता है?

हाँ, चूँकि इसमें अंगों का अत्यंत सूक्ष्म वर्णन है, इसलिए यह साधक की 'विज़ुअलाइज़ेशन' शक्ति को बढ़ाता है, जो ध्यान की गहराई के लिए अनिवार्य है।

5. क्या यह स्तोत्र केवल वैष्णव भक्तों के लिए है?

नहीं, यह स्तोत्र आदि शंकराचार्य द्वारा रचित है और सनातन धर्म के किसी भी संप्रदाय का अनुयायी जो भगवान विष्णु में श्रद्धा रखता है, इसका पाठ कर सकता है।

6. स्तोत्र में वर्णित 'पाञ्चजन्य' और 'कौस्तुभ' क्या हैं?

'पाञ्चजन्य' भगवान का दिव्य शंख है और 'कौस्तुभ' वह अत्यंत दुर्लभ मणि है जो उनके वक्षस्थल पर सुशोभित है। ये दोनों उनकी अलौकिक शक्तियों के प्रतीक हैं।

7. क्या इसका पाठ प्रतिदिन करना आवश्यक है?

नित्य पाठ करना सर्वोत्तम है, विशेष रूप से सुबह के समय। इससे पूरा दिन सकारात्मकता और शांति के साथ व्यतीत होता है।

8. क्या स्त्रियों को इस स्तोत्र का पाठ करने की अनुमति है?

हाँ, भगवान की भक्ति में कोई लिंग भेद नहीं है। कोई भी श्रद्धालु शुद्ध मन से और शुचिता के साथ इस स्तोत्र का पाठ कर सकता है।

9. क्या केवल श्रवण करने से भी लाभ मिलता है?

जी हाँ, यदि आप संस्कृत शुद्धता से नहीं पढ़ सकते, तो इसे एकाग्रता से सुनना भी उतना ही कल्याणकारी और पुण्यप्रद माना गया है।

10. पाठ के दौरान किस भगवान का ध्यान करें?

क्षीर सागर में शेषनाग पर विराजमान, चार भुजाओं में शंख, चक्र, गदा और पद्म धारण किए हुए 'लक्ष्मीपति नारायण' का ध्यान करें।