Logoपवित्र ग्रंथ

Sri Vishnu Sahasranama Stotram (Garuda Purane) – श्री विष्णु सहस्रनाम स्तोत्रम्

Sri Vishnu Sahasranama Stotram (Garuda Purane) – श्री विष्णु सहस्रनाम स्तोत्रम्
॥ श्री विष्णु सहस्रनाम स्तोत्रम् (गरुडपुराणे) ॥ रुद्र उवाच । संसारसागराद्घोरान्मुच्यते किं जपन् प्रभो । नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १ ॥ हरिरुवाच । परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २ ॥ यत्पवित्रं परं जप्यं कथयामि वृषध्वज । शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३ ॥ ॥ स्तोत्रम् ॥ ओम् ॥ वासुदेवो महाविष्णुर्वामनो वासवो वसुः । बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४ ॥ बलिबन्धनकृद्वेधा वरेण्यो वेदवित् कविः । वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५ ॥ वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः । अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६ ॥ वीरहा च बृहद्वीरो वन्दितः परमेश्वरः । आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७ ॥ पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः । परमः परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८ ॥ पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः । पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः ॥ ९ ॥ अपारः परमार्थश्च पराणां च परः प्रभुः । पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १० ॥ शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः । पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११ ॥ प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः । सर्वेशः सर्वगः सर्वः सर्ववित् सर्वदः सुरः ॥ १२ ॥ सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् । सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३ ॥ सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः । सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः ॥ १४ ॥ सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् । सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५ ॥ सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः । दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः ॥ १६ ॥ सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः । सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७ ॥ शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च । शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८ ॥ सत्यस्थः सत्यसङ्कल्पः सत्यवित् सत्यदस्तथा । धर्मो धर्मी च कर्मी च सर्वकर्मविवर्जितः ॥ १९ ॥ कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च । श्रीपतिर्नृपतिः श्रीमान् सर्वस्य पतिरूर्जितः ॥ २० ॥ सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः । पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१ ॥ पशूनां च पतिः प्रायो वसूनां पतिरेव च । पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२ ॥ वनस्पतीनां च पतिरनिलस्य पतिस्तथा । अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३ ॥ कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा । ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा ॥ २४ ॥ नागानां पतिरर्कस्य दक्षस्य पतिरेव च । सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५ ॥ गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः । पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६ ॥ सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा । लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७ ॥ मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः । पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८ ॥ ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा । किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः ॥ २९ ॥ सरितां च पतिश्चैव समुद्राणां पतिस्तथा । सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३० ॥ वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा । पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१ ॥ महात्मा मङ्गलो मेयो मन्दरो मन्दरेश्वरः । मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२ ॥ मालाधरो महादेवो महादेवेन पूजितः । महाशान्तो महाभागो मधुसूदन एव च ॥ ३३ ॥ महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः । मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४ ॥ मुनिस्तुतो मुनिर्मैत्रो महानासो महाहनुः । महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५ ॥ महावक्त्रो महात्मा च महाकायो महोदरः । महापादो महाग्रीवो महामानी महामनाः ॥ ३६ ॥ महागतिर्महाकीर्तिर्महारूपो महासुरः । मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७ ॥ मखेज्यो मखरूपी च माननीयो मखेश्वरः । महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८ ॥ मानवश्च मनुश्चैव मानवानां प्रियङ्करः । मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा ॥ ३९ ॥ बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः । पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४० ॥ लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा । नानालङ्कारसम्युक्तो नानाचन्दनचर्चितः ॥ ४१ ॥ नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः । रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२ ॥ रत्नदो रत्नहर्ता च रूपी रूपविवर्जितः । महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३ ॥ नीलमेघनिभः शुद्धः कालमेघनिभस्तथा । धूमवर्णः पीतवर्णो नानारूपो ह्यवर्णकः ॥ ४४ ॥ विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च । सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५ ॥ सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च । सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६ ॥ सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च । सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च ॥ ४७ ॥ सुपर्णी च महापर्णी सुपर्णस्य च कारणम् । वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८ ॥ कारणं महतश्चैव प्रधानस्य च कारणम् । बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९ ॥ कारणं चेतसश्चैव अहङ्कारस्य कारणम् । भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५० ॥ आकाशकारणं तद्वत्पृथिव्याः कारणं परम् । अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१ ॥ देहस्य कारणं चैव चक्षुषश्चैव कारणम् । श्रोत्रस्य कारणं तद्वत्कारणं च त्वचस्तथा ॥ ५२ ॥ जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् । हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३ ॥ वाचश्च कारणं तद्वत्पायोश्चैव तु कारणम् । इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४ ॥ यमस्य कारणं चैव ईशानस्य च कारणम् । यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५ ॥ नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् । जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६ ॥ मनूनां कारणं चैव पक्षिणां कारणं परम् । मुनीनां कारणं श्रेष्ठ योगिनां कारणं परम् ॥ ५७ ॥ सिद्धानां कारणं चैव यक्षाणां कारणं परम् । कारणं किन्नराणां च गन्धर्वाणां च कारणम् ॥ ५८ ॥ नदानां कारणं चैव नदीनां कारणं परम् । कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९ ॥ कारणं वीरुधां चैव लोकानां कारणं तथा । पाताल कारणं चैव देवानां कारणं तथा ॥ ६० ॥ सर्पाणां कारणं चैव श्रेयसां कारणं तथा । पशूनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१ ॥ देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च । मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२ ॥ जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा । प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३ ॥ पृथिव्याः परमात्मा च रसस्यात्मा तथैव च । गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४ ॥ शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा । श्रोत्रात्मा च त्वगात्मा च जिह्वात्मा परमस्तथा ॥ ६५ ॥ घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा ॥ ६६ ॥ उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा । इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा ॥ ६७ ॥ दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा । ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः ॥ ६८ ॥ यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः । ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ॥ ६९ ॥ यतिरूपी च योगी च योगिध्येयो हरिः शितिः । संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा ॥ ७० ॥ संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा । मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ॥ ७१ ॥ संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः । अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ॥ ७२ ॥ याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः । शर्मदश्चैव गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ॥ ७३ ॥ केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः । नारायणो महाभागः प्राणस्य पतिरेव च ॥ ७४ ॥ अपानस्य पतिश्चैव व्यानस्य पतिरेव च । उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ॥ ७५ ॥ शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च । रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः ॥ ७६ ॥ चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च । प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ॥ ७७ ॥ सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः । अनन्तोऽनन्तरूपश्च सुनखः सुरमन्दरः ॥ ७८ ॥ सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा । हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः ॥ ७९ ॥ निहन्ता पूतनायाश्च भास्करान्तविनाशनः । केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ॥ ८० ॥ कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः । अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ॥ ८१ ॥ अक्रूरः क्रूररूपश्च अक्रूरप्रियवन्दितः । भगहा भगवान् भानुस्तथा भागवतः स्वयम् ॥ ८२ ॥ उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः । चक्रधृक् चञ्चलश्चैव चलाचलविवर्जितः ॥ ८३ ॥ अहङ्कारोपमश्चित्तं गगनं पृथिवी जलम् । वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च ॥ ८४ ॥ वाक्पाणिपादजवनः पायूपस्थस्तथैव च । शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः ॥ ८५ ॥ भक्तप्रियस्तथा भर्ता भक्तिमान् भक्तिवर्धनः । भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ॥ ८६ ॥ कीर्तिर्दीप्तिः क्षमाकान्तिर्भक्तश्चैव दया परा । दानं दाता च कर्ता च देवदेवप्रियः शुचिः ॥ ८७ ॥ शुचिमान् सुखदो मोक्षः कामश्चार्थः सहस्रपात् । सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च ॥ ८८ ॥ प्रजाद्वारं सहस्राक्षः सहस्रकर एव च । शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ॥ ८९ ॥ प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः । मत्स्यः परशुरामश्च प्रह्लादो बलिरेव च ॥ ९० ॥ शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् । खरदूषणहन्ता च रावणस्य प्रमर्दनः ॥ ९१ ॥ सीतापतिश्च वर्धिष्णुर्भरतश्च तथैव च । कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ॥ ९२ ॥ नरान्तकान्तकश्चैव देवान्तकविनाशनः । दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ॥ ९३ ॥ नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः । यमलार्जुनभेत्ता च तपोहितकरस्तथा ॥ ९४ ॥ वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः । सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः ॥ ९५ ॥ अगस्त्यो देवलश्चैव नारदो नारदप्रियः । प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् ॥ ९६ ॥ उदानश्च समानश्च भेषजं च भिषक् तथा । कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ॥ ९७ ॥ चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः । हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ॥ ९८ ॥ पायूपस्थविहीनश्च मरुतापविवर्जितः । प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ॥ ९९ ॥ चेतसा विगतश्चैव प्राणेन च विवर्जितः । अपानेन विहीनश्च व्यानेन च विवर्जितः ॥ १०० ॥ उदानेन विहीनश्च समानेन विवर्जितः । आकाशेन विहीनश्च वायुना परिवर्जितः ॥ १०१ ॥ अग्निना च विहीनश्च उदकेन विवर्जितः । पृथिव्या च विहीनश्च शब्देन च विवर्जितः ॥ १०२ ॥ स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः । रागेण विगतश्चैव अघेन परिवर्जितः ॥ १०३ ॥ शोकेन रहितश्चैव वचसा परिवर्जितः । रजोविवर्जितश्चैव विकारैः षड्भिरेव च ॥ १०४ ॥ कामेन वर्जितश्चैव क्रोधेन परिवर्जितः । लोभेन विगतश्चैव दम्भेन च विवर्जितः ॥ १०५ ॥ सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा । विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ॥ १०६ ॥ प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा । भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ॥ १०७ ॥ इन्द्रियाणां क्षोभकश्च विषयक्षोभकस्तथा । ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ॥ १०८ ॥ अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च । त्वचा न गम्यः कूर्मश्च जिह्वाऽग्राह्यस्तथैव च ॥ १०९ ॥ घ्राणेन्द्रियागम्य एव वाचाऽग्राह्यस्तथैव च । अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ॥ ११० ॥ अग्राह्यो मनसश्चैव बुद्ध्याऽग्राह्यो हरिस्तथा । अहं बुद्ध्या तथाऽग्राह्यश्चेतसाऽग्राह्य एव च ॥ १११ ॥ शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च । शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ॥ ११२ ॥ तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च । ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः ॥ ११३ ॥ भावो भाव्यो भवकरो भावनो भवनाशनः । गोविन्दो गोपतिर्गोपः सर्वगोपीसुखप्रदः ॥ ११४ ॥ गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा । उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ॥ ११५ ॥ आरणेयो बृहद्भानुर्बृहद्दीप्तिस्तथैव च । दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ॥ ११६ ॥ त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः । विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् ॥ ११७ ॥ सामभेदस्तथोपायः सामरूपी च सामगः । सामवेदो ह्यथर्वश्च सुकृतः सुतरूपणः ॥ ११८ ॥ अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च । ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः ॥ ११९ ॥ यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात् । बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ॥ १२० ॥ चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली । सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ॥ १२१ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च ॥ १२२ ॥ शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः । मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ॥ १२३ ॥ पूज्यो वाक्करणं चैव वाच्यं चैव तु वाचकः । वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित ॥ १२४ ॥ वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थी च तीर्थवित् । तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् ॥ १२५ ॥ प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः । प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ॥ १२६ ॥ शालग्रामनिवासी च शालग्रामस्तथैव च । जलशायी योगशायी शेषशायी कुशेशयः ॥ १२७ ॥ महीभर्ता च कार्यं च कारणं पृथिवीधरः । प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ॥ १२८ ॥ सम्राट् पूषा तथा स्वर्गो रथस्थः सारथिर्बलम् । धनी धनप्रदो धन्यो यादवानां हिते रतः ॥ १२९ ॥ अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव च । पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ॥ १३० ॥ सारस्वतो महाभीष्मः पारिजातहरस्तथा । अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च ॥ १३१ ॥ इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा । कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ॥ १३२ ॥ शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः । मुद्रो मुद्राकरश्चैव सर्वमुद्राविवर्जितः ॥ १३३ ॥ देही देहस्थितश्चैव देहस्य च नियामकः । श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा ॥ १३४ ॥ त्वक्-स्थितश्च स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा । रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ॥ १३५ ॥ दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः । घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ॥ १३६ ॥ वाक्-स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः । प्राणिस्थः शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ॥ १३७ ॥ पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा । नियन्ता पादयोश्चैव पाद्यभाक् च विसर्गकृ ॥ १३८ ॥ विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा । उपस्थस्य नियन्ता च तदानन्दकरश्च ह ॥ १३९ ॥ शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च । अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः ॥ १४० ॥ कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा । अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ॥ १४१ ॥ धूमकृद्धूमरूपश्च देवकीपुत्र उत्तमः । देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च ॥ १४२ ॥ वसुदेवप्रियश्चैव वसुदेवसुतस्तथा । दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च ॥ १४३ ॥ अट्‍टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः । अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ॥ १४४ ॥ रुक्मिण्याश्च पतिश्चैव रुक्मिण्यावल्लभस्तथा । गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः ॥ १४५ ॥ वृषाकपिर्यमो गुह्यो मुकुलश्च बुधस्तथा । राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः ॥ १४६ ॥ ग्राहस्य विनिहन्ता च ग्रामणी रक्षकस्तथा । किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ॥ १४७ ॥ विश्वरूपो विशालाक्षो दैत्यसूदन एव च । अनन्तरूपो भूतस्थो देवदानवसंस्थितः ॥ १४८ ॥ सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च । जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा ॥ १४९ ॥ स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च । जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ॥ १५० ॥ विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा । भुवनाधिपतिश्चैव भुवनानां नियामकः ॥ १५१ ॥ पातालवासी पातालं सर्वज्वरविनाशनः । परमानन्दरूपी च धर्माणां च प्रवर्तकः ॥ १५२ ॥ सुलभो दुर्लभश्चैव प्राणायामपरस्तथा । प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ॥ १५३ ॥ प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः । अग्राहश्चैव गौरश्च सर्वः शुचिरभिष्टुतः ॥ १५४ ॥ वषट्कारो वषड्वौषट् स्वाहा स्वधा रतिस्तथा । पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा ॥ १५५ ॥ ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः । नदी नन्दी च नन्दीशो भारतस्तरुनाशनः ॥ १५६ ॥ चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् । ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ॥ १५७ ॥ पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च । भरतो जनको जन्यः सर्वाकारविवर्जितः ॥ १५८ ॥ निराकारो निर्निमित्तो निरातङ्को निराश्रयः ॥ ॥ फलश्रुति ॥ इति नामसहस्रं ते वृषभध्वज कीर्तितम् । देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९ ॥ पठन् द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् । वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६० ॥ ॥ इति श्रीगारुडे महापुराणे आचारकाण्डे श्री विष्णु सहस्रनाम स्तोत्रं सम्पूर्णम् ॥

श्री विष्णु सहस्रनाम (गरुडपुराण): भगवान शिव और विष्णु का संवाद (Introduction)

श्री विष्णु सहस्रनाम स्तोत्रम् (Sri Vishnu Sahasranama Stotram) के अनेक संस्करण उपलब्ध हैं, जिनमें गरुडपुराण (Garuda Purana) का संस्करण अत्यंत विशिष्ट और प्रभावशाली माना जाता है। यह स्तोत्र गरुडपुराण के 'आचारकाण्ड' के १५वें अध्याय में स्थित है। इसकी महत्ता इस तथ्य में निहित है कि यह साक्षात् भगवान शिव (रुद्र) और भगवान विष्णु (हरि) के बीच हुए एक परम पावन संवाद का परिणाम है। जब महादेव ने जनार्दन से पूछा कि घोर संसार-सागर के दुखों से मुक्त होने का सर्वोत्तम उपाय क्या है, तब श्रीहरि ने अपने इन १०८ नामों की महिमा को सहस्र नामों के रूप में प्रकट किया।

महाभारत के अनुशासन पर्व में भीष्म पितामह द्वारा उपदिष्ट विष्णु सहस्रनाम की तुलना में गरुडपुराण का यह पाठ अधिक तांत्रिक और दार्शनिक संकेतों से युक्त है। इसमें भगवान विष्णु को केवल एक रक्षक नहीं, बल्कि 'कारण' (Cause) के रूप में पूजा गया है। मन्त्र ४८ से ६१ तक निरंतर 'कारणम्' शब्द का प्रयोग हुआ है, जो यह सिद्ध करता है कि ब्रह्मा, इंद्र, अग्नि, वायु, और यहाँ तक कि संपूर्ण ब्रह्मांड की बुद्धि और मन का मूल कारण श्रीहरि ही हैं।

यह स्तोत्र साधक को यह बोध कराता है कि परमात्मा 'सकल' (आकार युक्त) और 'निष्कल' (निराकार) दोनों हैं। गरुडपुराण के अनुसार, जो व्यक्ति एकाग्रचित्त होकर इस पाठ का अनुष्ठान करता है, वह जन्म-मृत्यु के चक्र से उसी प्रकार मुक्त हो जाता है जैसे गरुड़ देव आकाश में स्वतंत्र उड़ान भरते हैं। यह पाठ विशेष रूप से पितृ दोष शांति और अकाल मृत्यु के निवारण हेतु भी सिद्ध माना गया है।

विशिष्ट आध्यात्मिक महत्व एवं दार्शनिक पक्ष (Significance)

गरुडपुराण में वर्णित विष्णु सहस्रनाम का महत्व इसके 'सर्वव्यापक' दृष्टिकोण में है। जहाँ अन्य स्तोत्रों में केवल अवतारों का वर्णन होता है, यहाँ १००० नामों के माध्यम से यह समझाया गया है कि प्रत्येक इंद्रिय, प्रत्येक तत्व और प्रत्येक ज्ञान का आधार 'वासुदेव' ही हैं।

  • कारण स्वरूप: श्लोक ४९-५५ में भगवान को बुद्धि, मन, चेतस, अहंकार और पंचमहाभूतों का कारण बताया गया है। यह अद्वैत दर्शन की पराकाष्ठा है।
  • ब्रह्म और रुद्र से अभिन्नता: श्लोक ६७ में भगवान को 'इन्द्रात्मा', 'ब्रह्मात्मा' और 'रुद्रात्मा' कहा गया है, जो त्रिदेवों की एकता को सिद्ध करता है।
  • अवतार और लीला: इसमें मत्स्य, कूर्म, वराह, नृसिंह, वामन, परशुराम, राम, कृष्ण और बुद्ध अवतारों का नाम संकीर्तन है, जो भक्त को प्रभु की लीलाओं से जोड़ता है।
  • साक्षी भाव: 'सर्वसाक्षी' और 'विश्वसाक्षी' जैसे नाम साधक को यह याद दिलाते हैं कि ईश्वर प्रत्येक कर्म का गवाह है, जिससे साधक के आचरण में शुद्धि आती है।

इस स्तोत्र का पाठ करने से साधक के ओरा (Aura) में सात्विक ऊर्जा का संचार होता है। 'मोहप्रध्वंसक' और 'क्लेशहन्ता' नामों का उच्चारण मानसिक अवसाद और भ्रम को दूर करने में औषधि के समान कार्य करता है।

फलश्रुति: गरुडपुराणोक्त सहस्रनाम के अमोघ लाभ (Benefits)

स्तोत्र के अंतिम श्लोकों और पुराण के अनुसार, इस पाठ के निम्नलिखित लाभ सुनिश्चित होते हैं:

  • चतुर्वर्ण फल प्राप्ति: श्लोक १६० के अनुसार, द्विज (ब्राह्मण) को विष्णुत्व, क्षत्रिय को विजय, वैश्य को धन और शूद्र को सुख की प्राप्ति होती है।
  • समस्त पापों का नाश: "सर्वपापविनाशनम्" — जानकर या अनजाने में किए गए जघन्य पापों का भी इस नाम-संकीर्तन से क्षय हो जाता है।
  • ग्रह शांति और अनुकूलता: शनि, राहु-केतु और अन्य ग्रहों के प्रतिकूल प्रभावों को शांत करने के लिए यह स्तोत्र रामबाण है।
  • मानसिक शांति और भयमुक्ति: 'सर्वज्वरविनाशन' और 'भयहा' होने के कारण यह स्तोत्र अकाल मृत्यु और अज्ञात भयों से रक्षा करता है।
  • मोक्ष की प्राप्ति: जो भक्त निष्काम भाव से इसका पाठ करते हैं, वे अंततः 'परम पद' (वैकुंठ) को प्राप्त करते हैं और पुनर्जन्म से मुक्त होते हैं।

पाठ विधि एवं विशेष साधना अनुष्ठान (Ritual Method)

भगवान विष्णु की यह साधना पूर्ण श्रद्धा और पवित्रता की मांग करती है। अधिकतम लाभ हेतु निम्न विधि अपनाएं:

१. श्रेष्ठ समय और दिन:

पाठ के लिए ब्रह्म मुहूर्त (प्रातः ४ से ६ बजे) सर्वोत्तम है। गुरुवार और एकादशी तिथि इसके लिए विशेष फलदायी है। प्रत्येक मास की 'कृष्णाष्टमी' पर इसका पाठ अमोघ माना गया है।

२. शुद्धि एवं वस्त्र:

स्नान के उपरांत स्वच्छ पीले वस्त्र धारण करें। उत्तर या पूर्व दिशा की ओर मुख करके कुशा या ऊनी आसन पर बैठें।

३. पूजन एवं अर्पण:

सामने भगवान विष्णु या श्रीकृष्ण की प्रतिमा स्थापित करें। शुद्ध घी का दीपक जलाएं। प्रभु को तुलसी दल और पीले पुष्प अर्पित करें। पाठ से पूर्व 'ॐ नमो भगवते वासुदेवाय' मन्त्र का एक माला जप करें।

४. मानसिक पाठ:

प्रत्येक नाम के साथ भगवान के उस स्वरूप का ध्यान करें। जैसे 'वराह' नाम पर पृथ्वी के उद्धारक का और 'नृसिंह' नाम पर भक्त प्रह्लाद के रक्षक का। यह 'ध्यान' पाठ की शक्ति को अनंत गुना बढ़ा देता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. गरुडपुराण का विष्णु सहस्रनाम महाभारत वाले से कैसे अलग है?

महाभारत का पाठ भीष्म-युधिष्ठिर संवाद है, जबकि गरुडपुराण का पाठ शिव-विष्णु संवाद है। गरुडपुराण के संस्करण में 'कारण' तत्वों (Elements) पर अधिक बल दिया गया है और इसमें कई तांत्रिक नाम भी सम्मिलित हैं।

2. क्या इस स्तोत्र का पाठ घर पर किया जा सकता है?

हाँ, घर के पूजा स्थल पर इसका पाठ करना अत्यंत कल्याणकारी है। यह घर की नकारात्मक ऊर्जा को नष्ट कर सुख-शांति का वातावरण निर्मित करता है।

3. क्या महिलाएं यह स्तोत्र पढ़ सकती हैं?

निश्चित रूप से। भगवान की भक्ति में कोई भेद नहीं है। महिलाएं पूर्ण शुद्धि और श्रद्धा के साथ अपने और अपने परिवार के कल्याण के लिए इसका पाठ कर सकती हैं।

4. इस स्तोत्र में भगवान शिव का क्या योगदान है?

स्वयं भगवान शिव ने इस स्तोत्र के महत्व के बारे में पूछा था, और वे इसके प्रथम श्रोता और उपासक हैं। इसीलिए पाठ में उन्हें 'रुद्र' और 'वृषभध्वज' के रूप में संबोधित किया गया है।

5. क्या यह स्तोत्र अकाल मृत्यु को टाल सकता है?

जी हाँ, गरुडपुराण के अनुसार 'मरणेन विवर्जितः' और 'कालहन्तृनिकृन्तनः' जैसे नामों का जप अकाल मृत्यु के योगों को शांत कर दीर्घायु प्रदान करता है।

6. पाठ के लिए सबसे उत्तम माला कौन सी है?

भगवान विष्णु की साधना के लिए तुलसी की माला सर्वश्रेष्ठ मानी जाती है। स्तोत्र पाठ मात्र के लिए माला की आवश्यकता नहीं है, परंतु जप हेतु इसका प्रयोग करें।

7. क्या बिना संस्कृत जाने भी इसका लाभ मिल सकता है?

हाँ, मंत्रों की ध्वनि तरंगे अपना प्रभाव डालती हैं। यदि आप संस्कृत नहीं पढ़ सकते, तो इसका हिंदी अर्थ समझकर भावपूर्वक सुनने या पाठ करने से भी पूर्ण फल प्राप्त होता है।

8. 'वासुदेव' नाम का इस स्तोत्र में क्या महत्व है?

'वासुदेव' का अर्थ है वह जो सर्वत्र वास करता है। गरुडपुराण में वासुदेव को ही समस्त कारणों का कारण और अंतिम आश्रय माना गया है।

9. क्या यह स्तोत्र पितृ शांति के लिए भी प्रभावी है?

जी हाँ, गरुडपुराण मुख्य रूप से पितरों की गति और मोक्ष का ग्रंथ है। इस सहस्रनाम का पाठ करने से पितरों को शांति मिलती है और वंश की वृद्धि होती है।

10. पाठ का फल कितने दिनों में प्राप्त होता है?

यह साधक की श्रद्धा और निरंतरता पर निर्भर है। २१ या ४१ दिनों तक नित्य पाठ करने से जीवन में सकारात्मक परिवर्तन, सुरक्षा और आत्म-बल का अनुभव होने लगता है।