Logoपवित्र ग्रंथ

श्रीविष्णु सहस्रनामावलिः

Shri Vishnu Sahasranamavali

श्रीविष्णु सहस्रनामावलिः
श्रीवेदव्यास उवाच --- ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥ श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥
अथ न्यासः- ॐ शिरसि वेदव्यासऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मदेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः । सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः । करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥ इति ऋषयादिन्यासः ॥
अथ करन्यासः- ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः । अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः । निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः । रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ।
अथ षडङ्गन्यासः- ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः । अमृतांशूद्भवो भानुरिति शिरसे स्वाहा । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् । सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् । निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् । रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् । इति षडङ्गन्यासः ॥ श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः । ध्यानम्- शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ अथ श्रीविष्णुसहस्रनामावलिः- ॐ विश्वस्मै नमः । ॐ विष्णवे नमः । ॐ वषट्काराय नमः । ॐ भूतभव्यभवत्प्रभवे नमः । ॐ भूतकृते नमः । ॐ भूतभृते नमः । ॐ भावाय नमः । ॐ भूतात्मने नमः । ॐ भूतभावनाय नमः । ॐ पूतात्मने नमः । ॐ परमात्मने नमः । ॐ मुक्तानां परमायै गतये नमः । ॐ अव्ययाय नमः । ॐ पुरुषाय नमः । ॐ साक्षिणे नमः । ॐ क्षेत्रज्ञाय नमः । ॐ अक्षराय नमः । ॐ योगाय नमः । ॐ योगविदां नेत्रे नमः । ॐ प्रधानपुरुषेश्वराय नमः । ॐ नारसिंहवपुषे नमः । ॐ श्रीमते नमः । ॐ केशवाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ सर्वस्मै नमः । ॐ शर्वाय नमः । ॐ शिवाय नमः । ॐ स्थाणवे नमः । ॐ भूतादये नमः । ॐ निधयेऽव्ययाय नमः । ॐ सम्भवाय नमः । ॐ भावनाय नमः । ॐ भर्त्रे नमः । ॐ प्रभवाय नमः । ॐ प्रभवे नमः । ॐ ईश्वराय नमः । ॐ स्वयम्भुवे नमः । ॐ शम्भवे नमः । ॐ आदित्याय नमः । ॐ पुष्कराक्षाय नमः । ॐ महास्वनाय नमः । ॐ अनादिनिधनाय नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ॐ धातवे उत्तमाय नमः । ॐ अप्रमेयाय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ अमरप्रभवे नमः । ॐ विश्वकर्मणे नमः । ॐ मनवे नमः । ॐ त्वष्ट्रे नमः । ॐ स्थविष्ठाय नमः । ॐ स्थविराय ध्रुवाय नमः । ॐ अग्राह्याय नमः । ॐ शाश्वताय नमः । ॐ कृष्णाय नमः । ॐ लोहिताक्षाय नमः । ॐ प्रतर्दनाय नमः । ॐ प्रभूताय नमः । ॐ त्रिककुब्धाम्ने नमः । ॐ पवित्राय नमः । ॐ मङ्गल पराय नमः । ॐ ईशानाय नमः । ॐ प्राणदाय नमः । ॐ प्राणाय नमः । ॐ ज्येष्ठाय नमः । ॐ श्रेष्ठाय नमः । ॐ प्रजापतये नमः । ॐ हिरण्यगर्भाय नमः । ॐ भूगर्भाय नमः । ॐ माधवाय नमः । ॐ मधुसूदनाय नमः । ॐ ईश्वराय नमः । ॐ विक्रमिणे नमः । ॐ धन्विने नमः । ॐ मेधाविने नमः । ॐ विक्रमाय नमः । ॐ क्रमाय नमः । ॐ अनुत्तमाय नमः । ॐ दुराधर्षाय नमः । ॐ कृतज्ञाय नमः । ॐ कृतये नमः । ॐ आत्मवते नमः । ॐ सुरेशाय नमः । ॐ शरणाय नमः । ॐ शर्मणे नमः । ॐ विश्वरेतसे नमः । ॐ प्रजाभवाय नमः । ॐ अह्ने नमः । ॐ संवत्सराय नमः । ॐ व्यालाय नमः । ॐ प्रत्ययाय नमः । ॐ सर्वदर्शनाय नमः । ॐ अजाय नमः । ॐ सर्वेश्वराय नमः । ॐ सिद्धाय नमः । ॐ सिद्धये नमः । ॐ सर्वादये नमः । ॐ अच्युताय नमः । ॐ वृषाकपये नमः । ॐ अमेयात्मने नमः । ॐ सर्वयोगविनिःसृताय नमः । ॐ वसवे नमः । ॐ वसुमनसे नमः । ॐ सत्याय नमः । ॐ समात्मने नमः । ॐ सम्मिताय नमः । ॐ समाय नमः । ॐ अमोघाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ वृषकर्मणे नमः । ॐ वृषाकृतये नमः । ॐ रुद्राय नमः । ॐ बहुशिरसे नमः । ॐ बभ्रवे नमः । ॐ विश्वयोनये नमः । ॐ शुचिश्रवसे नमः । ॐ अमृताय नमः । ॐ शाश्वतस्थाणवे नमः । ॐ वरारोहाय नमः । ॐ महातपसे नमः । ॐ सर्वगाय नमः । ॐ सर्वविद्भानवे नमः । ॐ विष्वक्सेनाय नमः । ॐ जनार्दनाय नमः । ॐ वेदाय नमः । ॐ वेदविदे नमः । ॐ अव्यङ्गाय नमः । ॐ वेदाङ्गाय नमः । ॐ वेदविदे नमः । ॐ कवये नमः । ॐ लोकाध्यक्षाय नमः । ॐ सुराध्यक्षाय नमः । ॐ धर्माध्यक्षाय नमः । ॐ कृताकृताय नमः । ॐ चतुरात्मने नमः । ॐ चतुर्व्यूहाय नमः । ॐ चतुर्दंष्त्राय नमः । ॐ चतुर्भुजाय नमः । ॐ भ्राजिष्णवे नमः । ॐ भोजनाय नमः । ॐ भोक्त्रे नमः । ॐ सहिष्णवे नमः । ॐ जगदादिजाय नमः । ॐ अनघाय नमः । ॐ विजयाय नमः । ॐ जेत्रे नमः । ॐ विश्वयोनये नमः । ॐ पुनर्वसवे नमः । ॐ उपेन्द्राय नमः । ॐ वामनाय नमः । ॐ प्रांशवे नमः । ॐ अमोघाय नमः । ॐ शुचये नमः । ॐ ऊर्जिताय नमः । ॐ अतीन्द्राय नमः । ॐ सङ्ग्रहाय नमः । ॐ सर्गाय नमः । ॐ धृतात्मने नमः । ॐ नियमाय नमः । ॐ यमाय नमः । ॐ वेद्याय नमः । ॐ वैद्याय नमः । ॐ सदायोगिने नमः । ॐ वीरघ्ने नमः । ॐ माधवाय नमः । ॐ मधवे नमः । ॐ अतीन्द्रियाय नमः । ॐ महामायाय नमः । ॐ महोत्साहाय नमः । ॐ महाबलाय नमः । ॐ महाबुद्धये नमः । ॐ महावीर्याय नमः । ॐ महाशक्तये नमः । ॐ महाद्युतये नमः । ॐ अनिर्देश्यवपुषे नमः । ॐ श्रीमते नमः । ॐ अमेयात्मने नमः । ॐ महाद्रिधृषे नमः । ॐ महेष्वासाय नमः । ॐ महीभर्त्रे नमः । ॐ श्रीनिवासाय नमः । ॐ सतां गतये नमः । ॐ अनिरुद्धाय नमः । ॐ सुरानन्दाय नमः । ॐ गोविन्दाय नमः । ॐ गोविदां पतये नमः । ॐ मरीचये नमः । ॐ दमनाय नमः । ॐ हंसाय नमः । ॐ सुपर्णाय नमः । ॐ भुजगोत्तमाय नमः । ॐ हिरण्यनाभाय नमः । ॐ सुतपसे नमः । ॐ पद्मनाभाय नमः । ॐ प्रजापतये नमः । ॐ अमृत्यवे नमः । ॐ सर्वदृशे नमः । ॐ सिंहाय नमः । ॐ सन्धात्रे नमः । ॐ सन्धिमते नमः । ॐ स्थिराय नमः । ॐ अजाय नमः । ॐ दुर्मर्षणाय नमः । ॐ शास्त्रे नमः । ॐ विश्रुतात्मने नमः । ॐ सुरारिघ्ने नमः । ॐ गुरुवे नमः । ॐ गुरुतमाय नमः । ॐ धाम्ने नमः । ॐ सत्याय नमः । ॐ सत्यपराक्रमाय नमः । ॐ निमिषाय नमः । ॐ अनिमिषाय नमः । ॐ स्रग्वीणे नमः । ॐ वाचस्पतये उदारधिये नमः । ॐ अग्रण्ये नमः । ॐ ग्रामण्ये नमः । ॐ श्रीमते नमः । ॐ न्यायाय नमः । ॐ नेत्रे नमः । ॐ समीरणाय नमः । ॐ सहस्रमूर्ध्ने नमः । ॐ विश्वात्मने नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपदे नमः । ॐ आवर्तनाय नमः । ॐ निवृत्तात्मने नमः । ॐ संवृताय नमः । ॐ सम्प्रमर्दनाय नमः । ॐ अहःसंवर्तकाय नमः । ॐ वह्नये नमः । ॐ अनिलाय नमः । ॐ धरणीधराय नमः । ॐ सुप्रसादाय नमः । ॐ प्रसन्नात्मने नमः । ॐ विश्वधृषे नमः । ॐ विश्वभुजे नमः । ॐ विभवे नमः । ॐ सत्कर्त्रे नमः । ॐ सत्कृताय नमः । ॐ साधवे नमः । ॐ जह्नवे नमः । ॐ नारायणाय नमः । ॐ नराय नमः । ॐ असङ्ख्येयाय नमः । ॐ अप्रमेयात्मने नमः । ॐ विशिष्टाय नमः । ॐ शिष्टकृते नमः । ॐ शुचये नमः । ॐ सिद्धार्थाय नमः । ॐ सिद्धसङ्कल्पाय नमः । ॐ सिद्धिदाय नमः । ॐ सिद्धिसाधाय नमः । ॐ वृषाहिने नमः । ॐ वृषभाय नमः । ॐ विष्णवे नमः । ॐ वृषपर्वणे नमः । ॐ वृषोदराय नमः । ॐ वर्धनाय नमः । ॐ वर्धमानाय नमः । ॐ विविक्ताय नमः । ॐ श्रुतिसागराय नमः । ॐ सुभुजाय नमः । ॐ दुर्धराय नमः । ॐ वाग्मिने नमः । ॐ महेन्द्राय नमः । ॐ वसुदाय नमः । ॐ वसवे नमः । ॐ नैकरूपाय नमः । ॐ बृहद्रूपाय नमः । ॐ शिपिविष्टाय नमः । ॐ प्रकाशाय नमः । ॐ ओजस्तेजोद्युतिधराय नमः । ॐ प्रकाशात्मने नमः । ॐ प्रतापनाय नमः । ॐ ऋद्धाय नमः । ॐ स्पष्टाक्षराय नमः । ॐ मन्त्राय नमः । ॐ चन्द्रांशवे नमः । ॐ भास्करद्युतये नमः । ॐ अमृतांशूद्भवाय नमः । ॐ भानवे नमः । ॐ शशबिन्दवे नमः । ॐ सुरेश्वराय नमः । ॐ औषधाय नमः । ॐ जगतः सेतवे नमः । ॐ सत्यधर्मपराक्रमाय नमः । ॐ भूतभव्यभवन्नाथाय नमः । ॐ पवनाय नमः । ॐ पावनाय नमः । ॐ अनलाय नमः । ॐ कामघ्ने नमः । ॐ कामकृते नमः । ॐ कान्ताय नमः । ॐ कामाय नमः । ॐ कामप्रदाय नमः । ॐ प्रभवे नमः । ॐ युगादिकृते नमः । ॐ युगावर्ताय नमः । ॐ नैकमायाय नमः । ॐ महाशनाय नमः । ॐ अदृश्याय नमः । ॐ अव्यक्तरूपाय नमः । ॐ सहस्रजिते नमः । ॐ अनन्तजिते नमः । ॐ इष्टाय नमः । ॐ विशिष्टाय नमः । ॐ शिष्टेष्टाय नमः । ॐ शिखण्डिने नमः । ॐ नहुषाय नमः । ॐ वृषाय नमः । ॐ क्रोधघ्ने नमः । ॐ क्रोधकृत्कर्त्रे नमः । ॐ विश्वबाहवे नमः । ॐ महीधराय नमः । ॐ अच्युताय नमः । ॐ प्रथिताय नमः । ॐ प्राणाय नमः । ॐ प्राणदाय नमः । ॐ वासवानुजाय नमः । ॐ अपां निधये नमः । ॐ अधिष्ठानाय नमः । ॐ अप्रमत्ताय नमः । ॐ प्रतिष्ठिताय नमः । ॐ स्कन्दाय नमः । ॐ स्कन्दधराय नमः । ॐ धुर्याय नमः । ॐ वरदाय नमः । ॐ वायुवाहनाय नमः । ॐ वासुदेवाय नमः । ॐ बृहद्भानवे नमः । ॐ आदिदेवाय नमः । ॐ पुरन्दराय नमः । ॐ अशोकाय नमः । ॐ तारणाय नमः । ॐ ताराय नमः । ॐ शूराय नमः । ॐ शौरये नमः । ॐ जनेश्वराय नमः । ॐ अनुकूलाय नमः । ॐ शतावर्ताय नमः । ॐ पद्मिने नमः । ॐ पद्मनिभेक्षणाय नमः । ॐ पद्मनाभाय नमः । ॐ अरविन्दाक्षाय नमः । ॐ पद्मगर्भाय नमः । ॐ शरीरभृते नमः । ॐ महर्द्धये नमः । ॐ ऋद्धाय नमः । ॐ वृद्धात्मने नमः । ॐ महाक्षाय नमः । ॐ गरुडध्वजाय नमः । ॐ अतुलाय नमः । ॐ शरभाय नमः । ॐ भीमाय नमः । ॐ समयज्ञाय नमः । ॐ हविर्हरये नमः । ॐ सर्वलक्षणलक्षण्याय नमः । ॐ लक्ष्मीवते नमः । ॐ समितिञ्जयाय नमः । ॐ विक्षराय नमः । ॐ रोहिताय नमः । ॐ मार्गाय नमः । ॐ हेतवे नमः । ॐ दामोदराय नमः । ॐ सहाय नमः । ॐ महीधराय नमः । ॐ महाभागाय नमः । ॐ वेगवते नमः । ॐ अमिताशनाय नमः । ॐ उद्भवाय नमः । ॐ क्षोभणाय नमः । ॐ देवाय नमः । ॐ श्रीगर्भाय नमः । ॐ परमेश्वराय नमः । ॐ करणाय नमः । ॐ कारणाय नमः । ॐ कर्त्रे नमः । ॐ विकर्त्रे नमः । ॐ गहनाय नमः । ॐ गुहाय नमः । ॐ व्यवसायाय नमः । ॐ व्यवस्थानाय नमः । ॐ संस्थानाय नमः । ॐ स्थानदाय नमः । ॐ ध्रुवाय नमः । ॐ परर्द्धये नमः । ॐ परमस्पष्टाय नमः । ॐ तुष्टाय नमः । ॐ पुष्टाय नमः । ॐ शुभेक्षणाय नमः । ॐ रामाय नमः । ॐ विरामाय नमः । ॐ विरजसे नमः । ॐ मार्गाय नमः । ॐ नेयाय नमः । ॐ नयाय नमः । ॐ अनयाय नमः । ॐ वीराय नमः । ॐ शक्तिमतां श्रेष्ठाय नमः । ॐ धर्माय नमः । ॐ धर्मविदुत्तमाय नमः । ॐ वैकुण्ठाय नमः । ॐ पुरुषाय नमः । ॐ प्राणाय नमः । ॐ प्राणदाय नमः । ॐ प्रणवाय नमः । ॐ पृथवे नमः । ॐ हिरण्यगर्भाय नमः । ॐ शत्रुघ्नाय नमः । ॐ व्याप्ताय नमः । ॐ वायवे नमः । ॐ अधोक्षजाय नमः । ॐ ऋतवे नमः । ॐ सुदर्शनाय नमः । ॐ कालाय नमः । ॐ परमेष्ठिने नमः । ॐ परिग्रहाय नमः । ॐ उग्राय नमः । ॐ संवत्सराय नमः । ॐ दक्षाय नमः । ॐ विश्रामाय नमः । ॐ विश्वदक्षिणाय नमः । ॐ विस्ताराय नमः । ॐ स्थावरस्थाणवे नमः । ॐ प्रमाणाय नमः । ॐ बीजायाव्ययाय नमः । ॐ अर्थाय नमः । ॐ अनर्थाय नमः । ॐ महाकोशाय नमः । ॐ महाभोगाय नमः । ॐ महाधनाय नमः । ॐ अनिर्विण्णाय नमः । ॐ स्थविष्ठाय नमः । ॐ अभुवे नमः । ॐ धर्मयूपाय नमः । ॐ महामखाय नमः । ॐ नक्षत्रनेमये नमः । ॐ नक्षत्रिणे नमः । ॐ क्षमाय नमः । ॐ क्षामाय नमः । ॐ समीहनाय नमः । ॐ यज्ञाय नमः । ॐ इज्याय नमः । ॐ महेज्याय नमः । ॐ क्रतवे नमः । ॐ सत्राय नमः । ॐ सतां गतये नमः । ॐ सर्वदर्शिने नमः । ॐ विमुक्तात्मने नमः । ॐ सर्वज्ञाय नमः । ॐ ज्ञानाय उत्तमाय नमः । ॐ सुव्रताय नमः । ॐ सुमुखाय नमः । ॐ सूक्ष्माय नमः । ॐ सुघोषाय नमः । ॐ सुखदाय नमः । ॐ सुहृदे नमः । ॐ मनोहराय नमः । ॐ जितक्रोधाय नमः । ॐ वीरबाहवे नमः । ॐ विदारणाय नमः । ॐ स्वापनाय नमः । ॐ स्ववशाय नमः । ॐ व्यापिने नमः । ॐ नैकात्माने नमः । ॐ नैककर्मकृते नमः । ॐ वत्सराय नमः । ॐ वत्सलाय नमः । ॐ वत्सिने नमः । ॐ रत्नगर्भाय नमः । ॐ धनेश्वराय नमः । ॐ धर्मगुपे नमः । ॐ धर्मकृते नमः । ॐ धर्मिणे नमः । ॐ सते नमः । ॐ असते नमः । ॐ क्षराय नमः । ॐ अक्षराय नमः । ॐ अविज्ञात्रे नमः । ॐ सहस्रांशवे नमः । ॐ विधात्रे नमः । ॐ कृतलक्षणाय नमः । ॐ गभस्तिनेमये नमः । ॐ सत्त्वस्थाय नमः । ॐ सिंहाय नमः । ॐ भूतमहेश्वराय नमः । ॐ आदिदेवाय नमः । ॐ महादेवाय नमः । ॐ देवेशाय नमः । ॐ देवभृद्गुरवे नमः । ॐ उत्तरस्मै नमः । ॐ गोपतये नमः । ॐ गोप्त्रे नमः । ॐ ज्ञानगम्याय नमः । ॐ पुरातनाय नमः । ॐ शरीरभूतभृते नमः । ॐ भोक्त्रे नमः । ॐ कपीन्द्राय नमः । ॐ भूरिदक्षिणाय नमः । ॐ सोमपाय नमः । ॐ अमृतपाय नमः । ॐ सोमाय नमः । ॐ पुरुजिते नमः । ॐ पुरुसत्तमाय नमः । ॐ विनयाय नमः । ॐ जयाय नमः । ॐ सत्यसन्धाय नमः । ॐ दाशार्हाय नमः । ॐ सात्वतां पतये नमः । ॐ जीवाय नमः । ॐ विनयितासाक्षिणे नमः । ॐ मुकुन्दाय नमः । ॐ अमितविक्रमाय नमः । ॐ अम्भोनिधये नमः । ॐ अनन्तात्मने नमः । ॐ महोदधिशयाय नमः । ॐ अन्तकाय नमः । ॐ अजाय नमः । ॐ महार्हाय नमः । ॐ स्वाभाव्याय नमः । ॐ जितामित्राय नमः । ॐ प्रमोदनाय नमः । ॐ आनन्दाय नमः । ॐ नन्दनाय नमः । ॐ नन्दाय नमः । ॐ सत्यधर्माय नमः । ॐ त्रिविक्रमाय नमः । ॐ महर्षये कपिलाचार्याय नमः । ॐ कृतज्ञाय नमः । ॐ मेदिनीपतये नमः । ॐ त्रिपदाय नमः । ॐ त्रिदशाध्यक्षाय नमः । ॐ महाश‍ृङ्गाय नमः । ॐ कृतान्तकृते नमः । ॐ महावराहाय नमः । ॐ गोविन्दाय नमः । ॐ सुषेणाय नमः । ॐ कनकाङ्गदिने नमः । ॐ गुह्याय नमः । ॐ गभीराय नमः । ॐ गहनाय नमः । ॐ गुप्ताय नमः । ॐ चक्रगदाधराय नमः । ॐ वेधसे नमः । ॐ स्वाङ्गाय नमः । ॐ अजिताय नमः । ॐ कृष्णाय नमः । ॐ दृढाय नमः । ॐ सङ्कर्षणाच्युताय नमः । ॐ वरुणाय नमः । ॐ वारुणाय नमः । ॐ वृक्षाय नमः । ॐ पुष्कराक्षाय नमः । ॐ महामनसे नमः । ॐ भगवते नमः । ॐ भगघ्ने नमः । ॐ आनन्दिने नमः । ॐ वनमालिने नमः । ॐ हलायुधाय नमः । ॐ आदित्याय नमः । ॐ ज्योतिरादित्याय नमः । ॐ सहिष्णवे नमः । ॐ गतिसत्तमाय नमः । ॐ सुधन्वने नमः । ॐ खण्डपरशवे नमः । ॐ दारुणाय नमः । ॐ द्रविणप्रदाय नमः । ॐ दिविस्पृशे नमः । ॐ सर्वदृग्व्यासाय नमः । ॐ वाचस्पतये अयोनिजाय नमः । ॐ त्रिसाम्ने नमः । ॐ सामगाय नमः । ॐ साम्ने नमः । ॐ निर्वाणाय नमः । ॐ भेषजाय नमः । ॐ भिषजे नमः । ॐ संन्यासकृते नमः । ॐ शमाय नमः । ॐ शान्ताय नमः । ॐ निष्ठायै नमः । ॐ शान्त्यै नमः । ॐ परायणाय नमः । ॐ शुभाङ्गाय नमः । ॐ शान्तिदाय नमः । ॐ स्रष्ट्रे नमः । ॐ कुमुदाय नमः । ॐ कुवलेशयाय नमः । ॐ गोहिताय नमः । ॐ गोपतये नमः । ॐ गोप्त्रे नमः । ॐ वृषभाक्षाय नमः । ॐ वृषप्रियाय नमः । ॐ अनिवर्तिने नमः । ॐ निवृत्तात्मने नमः । ॐ सङ्क्षेप्त्रे नमः । ॐ क्षेमकृते नमः । ॐ शिवाय नमः । ॐ श्रीवत्सवक्षसे नमः । ॐ श्रीवासाय नमः । ॐ श्रीपतये नमः । ॐ श्रीमतां वराय नमः । ॐ श्रीदाय नमः । ॐ श्रीशाय नमः । ॐ श्रीनिवासाय नमः । ॐ श्रीनिधये नमः । ॐ श्रीविभावनाय नमः । ॐ श्रीधराय नमः । ॐ श्रीकराय नमः । ॐ श्रेयसे नमः । ॐ श्रीमते नमः । ॐ लोकत्रयाश्रयाय नमः । ॐ स्वक्षाय नमः । ॐ स्वङ्गाय नमः । ॐ शतानन्दाय नमः । ॐ नन्द्ये नमः । ॐ ज्योतिर्गणेश्वराय नमः । ॐ विजितात्मने नमः । ॐ अविधेयात्मने नमः । ॐ सत्कीर्तये नमः । ॐ छिन्नसंशयाय नमः । ॐ उदीर्णाय नमः । ॐ सर्वतश्चक्षुषे नमः । ॐ अनीशाय नमः । ॐ शाश्वतस्थिराय नमः । ॐ भूशयाय नमः । ॐ भूषणाय नमः । ॐ भूतये नमः । ॐ विशोकाय नमः । ॐ शोकनाशनाय नमः । ॐ अर्चिष्मते नमः । ॐ अर्चिताय नमः । ॐ कुम्भाय नमः । ॐ विशुद्धात्मने नमः । ॐ विशोधनाय नमः । ॐ अनिरुद्धाय नमः । ॐ अप्रतिरथाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अमितविक्रमाय नमः । ॐ कालनेमिनिघ्ने नमः । ॐ वीराय नमः । ॐ शौरये नमः । ॐ शूरजनेश्वराय नमः । ॐ त्रिलोकात्मने नमः । ॐ त्रिलोकेशाय नमः । ॐ केशवाय नमः । ॐ केशिघ्ने नमः । ॐ हरये नमः । ॐ कामदेवाय नमः । ॐ कामपालाय नमः । ॐ कामिने नमः । ॐ कान्ताय नमः । ॐ कृतागमाय नमः । ॐ अनिर्देश्यवपुषे नमः । ॐ विष्णवे नमः । ॐ वीराय नमः । ॐ अनन्ताय नमः । ॐ धनञ्जयाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मकृते नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मविवर्धनाय नमः । ॐ ब्रह्मविदे नमः । ॐ ब्राह्मणाय नमः । ॐ ब्रह्मिणे नमः । ॐ ब्रह्मज्ञाय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ महाक्रमाय नमः । ॐ महाकर्मणे नमः । ॐ महातेजसे नमः । ॐ महोरगाय नमः । ॐ महाक्रतवे नमः । ॐ महायज्वने नमः । ॐ महायज्ञाय नमः । ॐ महाहविषे नमः । ॐ स्तव्याय नमः । ॐ स्तवप्रियाय नमः । ॐ स्तोत्राय नमः । ॐ स्तुतये नमः । ॐ स्तोत्रे नमः । ॐ रणप्रियाय नमः । ॐ पूर्णाय नमः । ॐ पूरयित्रे नमः । ॐ पुण्याय नमः । ॐ पुण्यकीर्तये नमः । ॐ अनामयाय नमः । ॐ मनोजवाय नमः । ॐ तीर्थकराय नमः । ॐ वसुरेतसे नमः । ॐ वसुप्रदाय नमः । ॐ वसुप्रदाय नमः । ॐ वासुदेवाय नमः । ॐ वसवे नमः । ॐ वसुमनसे नमः । ॐ हविषे नमः । ॐ सद्गतये नमः । ॐ सद्कृतये नमः । ॐ सत्तायै नमः । ॐ सद्भूतये नमः । ॐ सत्परायणाय नमः । ॐ शूरसेनाय नमः । ॐ यदुश्रेष्ठाय नमः । ॐ सन्निवासाय नमः । ॐ सूयामुनाय नमः । ॐ भूतावासाय नमः । ॐ वासुदेवाय नमः । ॐ सर्वासुनिलयाय नमः । ॐ अनलाय नमः । ॐ दर्पघ्ने नमः । ॐ दर्पदाय नमः । ॐ दृप्ताय नमः । ॐ दुर्धराय नमः । ॐ अपराजिताय नमः । ॐ विश्वमूर्तये नमः । ॐ महामूर्तये नमः । ॐ दीप्तमूर्तये नमः । ॐ अमूर्तिमते नमः । ॐ अनेकमूर्तये नमः । ॐ अव्यक्ताय नमः । ॐ शतमूर्तये नमः । ॐ शताननाय नमः । ॐ एकस्मै नमः । ॐ नैकाय नमः । ॐ सवाय नमः । ॐ काय नमः । ॐ कस्मै नमः । ॐ यस्मै नमः । ॐ तस्मै नमः । ॐ पदायानुत्तमाय नमः । ॐ लोकबन्धवे नमः । ॐ लोकनाथाय नमः । ॐ माधवाय नमः । ॐ भक्तवत्सलाय नमः । ॐ सुवर्णवर्णाय नमः । ॐ हेमाङ्गाय नमः । ॐ वराङ्गाय नमः । ॐ चन्दनाङ्गदिने नमः । ॐ वीरघ्ने नमः । ॐ विषमाय नमः । ॐ शून्याय नमः । ॐ घृताशीषे नमः । ॐ अचलाय नमः । ॐ चलाय नमः । ॐ अमानिने नमः । ॐ मानदाय नमः । ॐ मान्याय नमः । ॐ लोकस्वामिने नमः । ॐ त्रिलोकधृषे नमः । ॐ सुमेधसे नमः । ॐ मेधजाय नमः । ॐ धन्याय नमः । ॐ सत्यमेधसे नमः । ॐ धराधराय नमः । ॐ तेजोवृषाय नमः । ॐ द्युतिधराय नमः । ॐ सर्वशस्त्रभृतां वराय नमः । ॐ प्रग्रहाय नमः । ॐ निग्रहाय नमः । ॐ व्यग्राय नमः । ॐ नैकश‍ृङ्गाय नमः । ॐ गदाग्रजाय नमः । ॐ चतुर्मूर्तये नमः । ॐ चतुर्बाहवे नमः । ॐ चतुर्व्यूहाय नमः । ॐ चतुर्गतये नमः । ॐ चतुरात्मने नमः । ॐ चतुर्भावाय नमः । ॐ चतुर्वेदविदे नमः । ॐ एकपदे नमः । ॐ समावर्ताय नमः । ॐ अनिवृत्तात्मने नमः । ॐ दुर्जयाय नमः । ॐ दुरतिक्रमाय नमः । ॐ दुर्लभाय नमः । ॐ दुर्गमाय नमः । ॐ दुर्गाय नमः । ॐ दुरावासाय नमः । ॐ दुरारिघ्ने नमः । ॐ शुभाङ्गाय नमः । ॐ लोकसारङ्गाय नमः । ॐ सुतन्तवे नमः । ॐ तन्तुवर्धनाय नमः । ॐ इन्द्रकर्मणे नमः । ॐ महाकर्मणे नमः । ॐ कृतकर्मणे नमः । ॐ कृतागमाय नमः । ॐ उद्भवाय नमः । ॐ सुन्दराय नमः । ॐ सुन्दाय नमः । ॐ रत्ननाभाय नमः । ॐ सुलोचनाय नमः । ॐ अर्काय नमः । ॐ वाजसनाय नमः । ॐ श‍ृङ्गिणे नमः । ॐ जयन्ताय नमः । ॐ सर्वविज्जयिने नमः । ॐ सुवर्णबिन्दवे नमः । ॐ अक्षोभ्याय नमः । ॐ सर्ववागीश्वरेश्वराय नमः । ॐ महाहृदाय नमः । ॐ महागर्ताय नमः । ॐ महाभूताय नमः । ॐ महानिधये नमः । ॐ कुमुदाय नमः । ॐ कुन्दराय नमः । ॐ कुन्दाय नमः । ॐ पर्जन्याय नमः । ॐ पावनाय नमः । ॐ अनिलाय नमः । ॐ अमृताशाय नमः । ॐ अमृतवपुषे नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वतोमुखाय नमः । ॐ सुलभाय नमः । ॐ सुव्रताय नमः । ॐ सिद्धाय नमः । ॐ शत्रुजिते नमः । ॐ शत्रुतापनाय नमः । ॐ न्यग्रोधाय नमः । ॐ उदुम्बराय नमः । ॐ अश्वत्थाय नमः । ॐ चाणूरान्ध्रनिषूदनाय नमः । ॐ सहस्रार्चिषे नमः । ॐ सप्तजिह्वाय नमः । ॐ सप्तैधसे नमः । ॐ सप्तवाहनाय नमः । ॐ अमूर्तये नमः । ॐ अनघाय नमः । ॐ अचिन्त्याय नमः । ॐ भयकृते नमः । ॐ भयनाशनाय नमः । ॐ अणवे नमः । ॐ बृहते नमः । ॐ कृशाय नमः । ॐ स्थूलाय नमः । ॐ गुणभृते नमः । ॐ निर्गुणाय नमः । ॐ महते नमः । ॐ अधृताय नमः । ॐ स्वधृताय नमः । ॐ स्वास्याय नमः । ॐ प्राग्वंशाय नमः । ॐ वंशवर्धनाय नमः । ॐ भारभृते नमः । ॐ कथिताय नमः । ॐ योगिने नमः । ॐ योगीशाय नमः । ॐ सर्वकामदाय नमः । ॐ आश्रमाय नमः । ॐ श्रमणाय नमः । ॐ क्षामाय नमः । ॐ सुपर्णाय नमः । ॐ वायुवाहनाय नमः । ॐ धनुर्धराय नमः । ॐ धनुर्वेदाय नमः । ॐ दण्डाय नमः । ॐ दमयित्रे नमः । ॐ दमाय नमः । ॐ अपराजिताय नमः । ॐ सर्वसहाय नमः । ॐ नियन्त्रे नमः । ॐ नियमाय नमः । ॐ यमाय नमः । ॐ सत्त्ववते नमः । ॐ सात्त्विकाय नमः । ॐ सत्याय नमः । ॐ सत्यधर्मपरायणाय नमः । ॐ अभिप्रायाय नमः । ॐ प्रियार्हाय नमः । ॐ अर्हाय नमः । ॐ प्रियकृते नमः । ॐ प्रीतिवर्धनाय नमः । ॐ विहायसगतये नमः । ॐ ज्योतिषे नमः । ॐ सुरुचये नमः । ॐ हुतभुजे नमः । ॐ विभवे नमः । ॐ रवये नमः । ॐ विरोचनाय नमः । ॐ सूर्याय नमः । ॐ सवित्रे नमः । ॐ रविलोचनाय नमः । ॐ अनन्ताय नमः । ॐ हुतभुजे नमः । ॐ भोक्त्रे नमः । ॐ सुखदाय नमः । ॐ नैकजाय नमः । ॐ अग्रजाय नमः । ॐ अनिर्विण्णाय नमः । ॐ सदामर्षिणे नमः । ॐ लोकाधिष्ठानाय नमः । ॐ अद्भूताय नमः । ॐ सनाते नमः । ॐ सनातनतमाय नमः । ॐ कपिलाय नमः । ॐ कपये नमः । ॐ अप्ययाय नमः । ॐ स्वस्तिदाय नमः । ॐ स्वस्तिकृते नमः । ॐ स्वस्तये नमः । ॐ स्वस्तिभुजे नमः । ॐ स्वस्तिदक्षिणाय नमः । ॐ अरौद्राय नमः । ॐ कुण्डलिने नमः । ॐ चक्रिणे नमः । ॐ विक्रमिणे नमः । ॐ उर्जितशासनाय नमः । ॐ शब्दातिगाय नमः । ॐ शब्दसहाय नमः । ॐ शिशिराय नमः । ॐ शर्वरीकराय नमः । ॐ अक्रूराय नमः । ॐ पेशलाय नमः । ॐ दक्षाय नमः । ॐ दक्षिणस्यै नमः । ॐ क्षमिणां वराय नमः । ॐ विद्वत्तमाय नमः । ॐ वीतभयाय नमः । ॐ पुण्यश्रवणकीर्तनाय नमः । ॐ उत्तारणाय नमः । ॐ दुष्कृतिघ्ने नमः । ॐ पुण्याय नमः । ॐ दुःस्वप्ननाशनाय नमः । ॐ वीरघ्ने नमः । ॐ रक्षणाय नमः । ॐ सद्भ्यो नमः । ॐ जीवनाय नमः । ॐ पर्यवस्थिताय नमः । ॐ अनन्तरूपाय नमः । ॐ अनन्तश्रिये नमः । ॐ जितमन्यवे नमः । ॐ भयापहाय नमः । ॐ चतुरस्राय नमः । ॐ गभीरात्मने नमः । ॐ विदिशाय नमः । ॐ व्यादिशाय नमः । ॐ दिशाय नमः । ॐ अनादये नमः । ॐ भूर्भुवे नमः । ॐ लक्ष्म्यै नमः । ॐ सुवीराय नमः । ॐ रुचिराङ्गदाय नमः । ॐ जननाय नमः । ॐ जनजन्मादये नमः । ॐ भीमाय नमः । ॐ भीमपराक्रमाय नमः । ॐ आधारनिलयाय नमः । ॐ अधात्रे नमः । ॐ पुष्पहासाय नमः । ॐ प्रजागराय नमः । ॐ ऊर्ध्वगाय नमः । ॐ सत्पथाचाराय नमः । ॐ प्राणदाय नमः । ॐ प्रणवाय नमः । ॐ पणाय नमः । ॐ प्रमाणाय नमः । ॐ प्राणनिलयाय नमः । ॐ प्राणभृते नमः । ॐ प्राणजीवनाय नमः । ॐ तत्त्वाय नमः । ॐ तत्त्वविदे नमः । ॐ एकात्मने नमः । ॐ जन्ममृत्युजरातिगाय नमः । ॐ भूर्भुवःस्वस्तरवे नमः । ॐ ताराय नमः । ॐ सवित्रे नमः । ॐ प्रपितामहाय नमः । ॐ यज्ञाय नमः । ॐ यज्ञपतये नमः । ॐ यज्वने नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञवाहनाय नमः । ॐ यज्ञभृते नमः । ॐ यज्ञकृते नमः । ॐ यज्ञिने नमः । ॐ यज्ञभुजे नमः । ॐ यज्ञसाधनाय नमः । ॐ यज्ञान्तकृते नमः । ॐ यज्ञगुह्याय नमः । ॐ अन्नाय नमः । ॐ अन्नादाय नमः । ॐ आत्मयोनये नमः । ॐ स्वयंजाताय नमः । ॐ वैखानाय नमः । ॐ सामगायनाय नमः । ॐ देवकीनन्दनाय नमः । ॐ स्रष्ट्रे नमः । ॐ क्षितीशाय नमः । ॐ पापनाशनाय नमः । ॐ शङ्खभृते नमः । ॐ नन्दकिने नमः । ॐ चक्रिणे नमः । ॐ शार्ङ्गधन्वने नमः । ॐ गदाधराय नमः । ॐ रथाङ्गपाणये नमः । ॐ अक्षोभ्याय नमः । ॐ सर्वप्रहरणायुधाय नमः । सर्वप्रहरणायुधॐ नम इति ॥ वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ श्री वासुदेवोऽभिरक्षतुॐ नम इति । ॥ इति श्रीमहाभारते अनुशासनपर्वणि श्रीविष्णुसहस्रनामावलीइः सम्पूर्णा ॥

श्रीविष्णु सहस्रनामावलिः का महत्व
(Significance)

श्रीविष्णु सहस्रनामावलि भगवान विष्णु के एक हजार दिव्य नामों का संग्रह है। यह केवल नामों की सूची नहीं है, बल्कि यह परमात्मा (Supreme Soul) के विभिन्न गुणों, शक्तियों और रूपों का सार है। हिंदू धर्मग्रंथों में इसे सबसे पवित्र और शक्तिशाली स्तोत्रों में से एक माना जाता है। विशेष रूप से कलियुग में, जब धर्म और शांति (Peace) बनाए रखना कठिन होता है, तब इस नामावलि का पाठ सभी प्रकार के भय, रोग और कष्टों को दूर करने का अचूक उपाय माना जाता है। इसका नियमित पाठ करने से व्यक्ति को न केवल भौतिक सुखों की प्राप्ति होती है, बल्कि वह जन्म और मृत्यु के चक्र से मुक्ति (मोक्ष) की ओर भी अग्रसर होता है। यह नामावलि भक्त और भगवान के बीच सीधा संबंध स्थापित करती है.

उत्पत्ति और रचना का संदर्भ
(Origin and Context)

यह दिव्य सहस्रनामावलि मूल रूप से महाभारत के अनुशासन पर्व (Anushasana Parva) में पाई जाती है। जब धर्मराज युधिष्ठिर ने भीष्म पितामह से पूछा कि सभी दुखों से मुक्ति पाने और परम कल्याण (Welfare) प्राप्त करने का सबसे सरल मार्ग क्या है, तब भीष्म ने उन्हें भगवान विष्णु के एक हजार नामों का उपदेश दिया। इस नामावलि के रचयिता स्वयं श्री वेदव्यास (Shri Ved Vyasa) भगवान हैं, जिन्होंने महाभारत की रचना की। इस पाठ की शुरुआत में ही श्रीवेदव्यास उवाच (Shri Ved Vyasa Said) कहकर ऋषि, छंद, और देवता का उल्लेख किया गया है, जो इसकी प्रामाणिकता और शास्त्रीय आधार को स्थापित करता है.

विनियोग और न्यास का गूढ़ अर्थ
(Deep Meaning of Viniyoga and Nyasa)

किसी भी वैदिक या तांत्रिक पाठ को शुरू करने से पहले विनियोग (Dedication) और न्यास (Placement) करना अनिवार्य होता है। विनियोग वह प्रक्रिया है जिसके द्वारा पाठक यह घोषित करता है कि वह किस उद्देश्य (जैसे श्रीकृष्णप्रीत्यर्थे), किस ऋषि (वेदव्यास), किस छंद (अनुष्टुप्), और किस देवता (श्रीमहाविष्णु) के लिए यह पाठ कर रहा है। यह पाठ को एक निश्चित ऊर्जा और दिशा प्रदान करता है। इसके बाद, करन्यास (Hand Nyasa) और षडङ्गन्यास (Six-Limb Nyasa) किए जाते हैं। इन न्यासों में, मंत्रों के विशिष्ट भागों को शरीर के विभिन्न अंगों (हृदय, सिर, शिखा, कवच, नेत्र, अस्त्र) पर स्पर्श करके स्थापित किया जाता है। यह क्रिया शरीर को मंत्र की शक्ति से अभिमंत्रित करती है, जिससे पाठक स्वयं एक चलता-फिरता कवच (Armor) बन जाता है और पाठ के लिए मानसिक रूप से तैयार हो जाता है.

ध्यानम् श्लोक का आध्यात्मिक विश्लेषण
(Spiritual Analysis of Dhyanam Shloka)

पाठ शुरू करने से पहले किया जाने वाला ध्यानम् (Meditation) श्लोक (शान्ताकारं भुजगशयनं...) भगवान विष्णु के संपूर्ण स्वरूप का वर्णन करता है। यह श्लोक भक्त को भगवान के दिव्य रूप पर ध्यान केंद्रित करने में सहायता करता है। इसमें वर्णित मुख्य विशेषताएं हैं:
  • शान्ताकारं (Peaceful Form): जो परम शांति (Tranquility) का प्रतीक है।
  • भुजगशयनं (Sleeping on Serpent): जो काल और भय पर नियंत्रण दर्शाता है।
  • मेघवर्णं शुभाङ्गम् (Cloud-colored, Auspicious Body): जो उनकी व्यापकता और सौंदर्य को दर्शाता है।
  • योगिभिर्ध्यानगम्यं (Attainable by Yogis through Meditation): जो बताता है कि वे केवल गहन योग (Yoga) द्वारा ही प्राप्त किए जा सकते हैं।
यह ध्यान श्लोक पाठक को भौतिक संसार से हटाकर सीधे परमात्मा के दिव्य लोक में स्थापित करता है।

नामावलि के पाठ से प्राप्त होने वाले विशिष्ट लाभ
(Specific Benefits of Reciting the Namavali)

विष्णु सहस्रनामावलि का पाठ करने के अनेक लाभ शास्त्रों में बताए गए हैं। यह न केवल आध्यात्मिक उन्नति प्रदान करता है, बल्कि दैनिक जीवन की समस्याओं का भी समाधान करता है।
  • रोग मुक्ति (Freedom from Disease): जो व्यक्ति नियमित रूप से पाठ करता है, उसे आरोग्य (Health) और दीर्घायु प्राप्त होती है।
  • भय निवारण (Removal of Fear): यह सभी प्रकार के मानसिक और बाहरी भय (जैसे शत्रु भय) को दूर करता है।
  • धन और समृद्धि (Wealth and Prosperity): यह नामावलि लक्ष्मीपति विष्णु से जुड़ी है, इसलिए यह ऐश्वर्य (Opulence) और भौतिक समृद्धि प्रदान करती है।
  • पाप नाश (Destruction of Sins): यह पिछले जन्मों और वर्तमान जीवन के संचित पापों को नष्ट करने की शक्ति रखती है।
  • मोक्ष प्राप्ति (Attainment of Liberation): अंतिम लक्ष्य के रूप में, यह व्यक्ति को परमगति (Ultimate Goal) और मोक्ष की ओर ले जाती है।

नामावलि पाठ करने की सही विधि
(Correct Method of Recitation)

नामावलि का पूर्ण फल प्राप्त करने के लिए शास्त्रीय विधि का पालन करना आवश्यक है।
  1. शुद्धि और संकल्प: प्रातःकाल स्नान करके शुद्ध वस्त्र धारण करें। भगवान विष्णु या श्रीकृष्ण की मूर्ति के सामने बैठें और संकल्प (Intention) लें कि आप यह पाठ श्रीकृष्णप्रीत्यर्थे कर रहे हैं।
  2. विनियोग और न्यास: सबसे पहले विनियोग पढ़ें, जिसमें ऋषि, छंद, देवता आदि का उल्लेख होता है। इसके बाद ऋषयादिन्यास, करन्यास और षडङ्गन्यास करें।
  3. ध्यान: 'शान्ताकारं...' श्लोक का पाठ करते हुए भगवान विष्णु के रूप का मन में ध्यान (Concentration) करें।
  4. नामावलि पाठ: अब 'ॐ विश्वस्मै नमः' से शुरू करके सभी 1000 नामों का पाठ करें। नामावलि के रूप में पाठ करते समय प्रत्येक नाम के अंत में 'नमः' लगाना आवश्यक है।
  5. समर्पण: पाठ समाप्त होने पर, अपने पाठ को भगवान श्रीकृष्ण को समर्पित करें।