Logoपवित्र ग्रंथ

Sri Tara Sahasranama Stotram (Akshobhya Samhita) – श्री तारा सहस्रनाम स्तोत्रम्

Sri Tara Sahasranama Stotram (Akshobhya Samhita) – श्री तारा सहस्रनाम स्तोत्रम्
॥ श्रीतारासहस्रनामस्तोत्रम् ॥ श्रीगणेशाय नमः । हिमवदुत्तरे पार्श्वे देवदेवं सदाशिवम् । अम्बाश्चरूपिणं शान्तं नितान्तं योगिनी प्रियम् ॥ १॥ मुदारहसितं प्रीत्या शम्भु पृच्छति कालिका । कालिका उवाचः । अनाद्यन्तं महाकाल कालातीत परात्परः । कलौसिद्धि क्षणार्धेन कथं भवति तद्वदः ॥ २॥ कलौपाय समाकीर्णे सर्वधर्म विवर्जिते । साधकानां कथं सिद्धि चतुर्वर्गार्थसाधनम् ॥ ३॥ गतराज्यं महाराज्यं पदं सर्वार्थसाधनम् । वाञ्छासिद्धि कल्पनिकी मनोरथमयी परः ॥ ४॥ शक्तिपाल त्रिकालत्वं अष्टसिद्धिश्वरात्मकम् । कथं भवति विश्वेश तन्मेवद शिवप्रभो ॥ ५॥ शिव उवाचः । देवदेव महादेव सर्वदेव प्रपूजते । भक्तप्राण प्रिये साध्वी ममहं जिवनौषधि ॥ ६॥ रहस्यातिरहस्यं च कथं तत्प्रवदामिते । एतावत्काल पर्यन्तं गोपितं सर्व जन्तुषु ॥ ७॥ तद्रहस्यं महादेवि कथं तव वदाम्यहम् । त्वं च गोपयसिप्राज्ञेततेतर्हि वदाम्यहम् ॥ ८॥ कालिका उवाच । न प्रकाशौ देवेश ममिभ्युवायापिनोप्रभो । शिव उवाचः । विनापुष्पं विनागन्धं विनादानं विनाशिवे ॥ ९॥ विनामन्त्रं विनाजाप्यं विनाध्यानं विनाबलिम् । भूतशुद्धिविना द्रव्यंहोमशुद्धिविना प्रिये ॥ १०॥ येनसिद्धि क्षणार्धेन तदेव कथते महः । महानिलगिरौपूर्वं महाचोलहृदस्थिताः ॥ ११॥ तस्यत्रोत्तर भगेतुरा कुण्डाभिधं स्थितम् । तत्कुण्डे श्रीमहातारा विधाराती प्रतिष्ठिताः ॥ १२॥ कदाचितत्र सदसिसदस्था देवतागणात् । दृष्ट्वा तारामहाविद्या स्वमेवाव शरन्ददौ ॥ १३॥ ब्रह्मविष्णुमहेशानां कोटिनां तत्रकोटयः । कोटिवक्त्र विरञ्चाद्या महेन्द्राणां मनन्तकम् ॥ १४॥ महाविद्या महामन्त्रा हवनताश्चस मागताः । समस्तां स्तांश्च संविक्ष्य महोग्रादर्शनं ददौः ॥ १५॥ अष्टोतत्र स्वरचत्यस्व स्वकर्मपरायणा । अल्पालीठ पदातारा बटुकादैकणैर्युताः ॥ १६॥ स्वावृति देवता मुक्ता सहस्रा तत्र जायते । शब्दोजाते कहत्येव सर्वाश्चर्य करःपर ॥ १७॥ ककारे ब्रह्मरूपत्वं तत्कादिमतमीरितम् । हकारा शिवरूपत्वं तधादिमतमीरितम् ॥ १८॥ कादिः काली तथा हादिः सुन्दरि सावसक्तित । द्वयं मिलीत्वाद्वेवेश कहत्येवं मनुर्भवेत् ॥ १९॥ कहत्येवं महामन्त्रो हंसवह्नी व मात्रके । उत्तरोर्ध्वाम्नापराज्ञा कहत्येवं महामनुः ॥ २०॥ चन्द्राग्नि यक्षषोडारव परानिर्वतत्परा । शाम्भवं च तथा मेधा कदावपितथाद्भूतम् ॥ २१॥ चन्द्राग्नि रसराज्ञी च कामहंसादि वात्घतः । वासिवृका तपाचार्धे पूर्वाचात्र प्रयोजता ॥ २२॥ उभयत्रभवेन्मेधा द्वयीसाम्राज्यरूपिणी । चन्द्राग्निदेवपञ्चार्णा तयानीलाक्रमेणी च ॥ २३॥ हंसतारा तथा नीला कृमान्मेधा भवेच्छिवे । त्रयोक्ता दिव्यसाम्राज्यमेधा दीक्षाक्रमेभवेत् ॥ २४॥ पूर्वोत्तर द्वयोक्ताचेत्साम्राज्य हृदि सिद्धिदा । पतद्युक्तः कहत्यवंसद्वस्तत्र वभूव च ॥ २५॥ महोग्रतारयातत्र स्वस्यनामसहस्रकम् । कृत्वाक्षोश्वमुखादुक्तं कटाक्षोत्प्रेक्षणेन च ॥ २६॥ कलासोपान मानरूठस्तत्र पाठपरायण । वायुनातन्मुखोत्घात स्पर्शेनापि महेश्वरी ॥ २७॥ स्व स्वस्थानपदं प्राप्य स्वशक्तौ ददुतामियु । कोटिवक्त्र विरञाद्या स्व स्वस्थाना निलेभिरे ॥ २८॥ कटाक्ष दर्शनं दत्वा तत्रैतान्तर धायते । सकामनिरतासर्वे स्व स्वसिद्धि परायणा ॥ २९॥ तदेव नाम सहस्रं तवप्रीत्या निगद्यते । दिव्यसाम्राज्यनामाख्यं नामसाहस्रमुत्तमम् ॥ ३०॥ यथादिव्यौत्पतैर्दिव्यः कुसुमैः पूजिता परा । प्रसिदति तदातेन सदा तारा प्रसिदति ॥ ३१॥ पावकश्चैव सिन्दुरैरष्टगन्धैर्लिखैज्जपेत् । मज्जाभिश्च तथा रक्तैस्तर्पयेत्प्रपठेत्सदा ॥ ३२॥ अनन्त महिमाख्यं च नाम साहस्रकं श‍ृणु । दिव्यसाम्राज्यमेधाख्यं नाम साहस्रकस्य च ॥ ३३॥ अक्षोभ्यस्तु ऋषिः प्रोक्तो बृहति छन्द ईरितम् । ऊग्रतारा देवतास्या कूर्चबीजं प्रकीर्तितम् ॥ ३४॥ कालीतारा महाबीजं तथा छिन्नामयं शिवे । तारा बीजं तथा काल्या शक्ति छिन्नामनुर्भवेत् ॥ ३५॥ अत एव भवेत्कूर्चं चण्डघण्टामयं शिवे । अस्त्र शक्तिश्च भुवना कीलकं नचाङ्गुयक् ॥ ३६॥ प्रत्यक्ष दर्शनाद्यर्थे विनियोग प्रकीर्तितः । ध्यानं मन्त्रवदासाद्य नामसाहस्रकं पठेत् ॥ ३७॥ ॥ विनियोगः ॥ ॐ अस्य श्रीमहोग्रतारा दिव्य साम्राज्य मेधा नाम सहस्रकस्य अक्षोभ्यऋषिः बृहति छन्दः । उग्रतारादित्रिशक्ति देवता हं बीजं फट् शक्तिः हं कीलकं श्रीमहोग्रतारा प्रत्यक्ष दर्शनाद्यर्थे विनियोगः ॥ ३८॥ ॥ अथ स्तोत्रम् ॥ ॐ क्रां तारा स्त्रीहृदयमहातारा क्रमुग्रतारा तारिणी तरिः । महोग्रतारा स्त्रीतारा त्रिकटैकजटाधरा ॥ ३९॥ ततथैय्या भिनपगा तालताण्ड्वरूपिणी । ताण्डवाह्लाद निरत तहणी तहणाकृतिः ॥ ४०॥ तन्त्री वाद्यरता तन्त्रा तन्त्रशास्त्र परायणा । तारूण्यातकल्लोला तारूण्यामृतकन्यका ॥ ४१॥ तारूण्यामृत चान्द्री च तत्त्वदर्शनतत्परा । तीर्थसेवापरातुष्टा त्रां त्रीं त्रूं त्रैं स्वरूपिणी ॥ ४२॥ त्रोङ्कारात्रः स्वरूपा च त्रसा त्रस्तगतीस्तह । तनिम्रालालवृक्षस्था तालीपान परायणा ॥ ४३॥ तरुणीकुण्डनिरता तरुणीकुण्डरूपिणी । तरुणीकुसुमाह्लादा तरुणीबीजरूपिणी ॥ ४४॥ तरुणीगर्भसम्भूता तरुणीध्यानतत्परा । तरुणीपूजनिरता तरुणीभक्ततत्परा ॥ ४५॥ तरुणीलोचनानन्दलहरी तार्क्श्यवाहना । ताररूपा ताम्रपर्णी ताम्रपत्रसमस्थिता ॥ ४६॥ तरुणीकुसुमामोहा तरुणीपुष्परूपिणी । तरुणीताडिकान्नाथा तरुणीमुखगोचरा ॥ ४७॥ तरुणीकेशसंस्था च तरुणीमुखमध्यगा । तरुणीवाक्यमध्या च तरुणीताण्डवर्णवा ॥ ४८॥ तरुणीगानसन्तुष्टा तरुणीभक्ततत्परा । तरुणीमुक्तीमाला च तरुणीभक्तरूपिणी ॥ ४९॥ तरुणीगमनप्रीत्या च तरुणीहास्यतत्परा । तरुणीनामिकानन्ता तरुणीरत्नरूपिणी ॥ ५०॥ तरुणीगमनप्रीत्या तरुणीयोगरूपिणी । तरुणीचुम्बनरता तरुणीलिङ्गरूपिणी ॥ ५१॥ तुला च तुलातल्पा तुलजापुरवासिनी । तनाननास्वरूपा च तथैरूपप्रधारिणी ॥ ५२॥ तोतला तैलसंप्रीता तृप्यतिमार्गपरायणा । तृसिदा तृणरूपा च तार्तीयगुणभूषिता ॥ ५३॥ तार्तीयबीजरूपा च तार्तीयाक्षररूपिणी । तत्त्वज्ञाना तत्त्वबुद्धि तत्त्वनाथा तथामति ॥ ५४॥ तौलिती च त्ववापी च तरस्थारूपिणी । तमातरमध्यस्वरूपा च तरदन्नर तामति ॥ ५५॥ तरुमूलस्थिता तद्रा तुष्टिस्त्रैकाल्यरूपिणी । त्रिकाल्यदा च त्रैर्पक्षताराणापकभूषणा ॥ ५६॥ त्वरिता त्वरितप्रीता तत्त्वदर्शी तमस्विनी । ताराक्षहारिणी तीर्णा तारूण्यकुण्डभोगिनी ॥ ५७॥ थकारवर्णनिलया थकाराक्षररूपिणी । थैथैरूपा थरिग्रूपा थौङ्गदादिकरूपिणी ॥ ५८॥ स्थूलवुध्नी स्थूलतनु स्थातध्यानपरायणा । थेथकुटाक्शरौप्यां थीन्थूङ्काराक्षरमालिनि ॥ ५९॥ थररूपादक्षणा च दानसन्मानदायिनि । दक्षपुत्री दक्षयज्ञनाशिनी दानवी दया ॥ ६०॥ दयाईहृदयादान्ता दैत्यनाशनकारिणी । दयालु दैत्यशमनी द्रव्यहाद्रव्यवत्साली ॥ ६१॥ द्रव्यगीता द्रव्यमाता दान्ता दारिद्र्य नाशिनी । दयार्ता दीपिनी दिशा दीपमार्गपरायणा ॥ ६२॥ दीनप्रीता दीर्घजीव्हा दारिद्र्यनाशिनीदित्ति । दुःखसंहारिणी दुष्टदैत्यविध्वंसनक्षमा ॥ ६३॥ दाडीमिपुष्परूपा च दाडीमिपुष्पपूजिता । दाडीमिवाजदत्ता च दाडीरूपा दरस्थिता ॥ ६४॥ दीर्घाक्षी दीर्घनासा च दीक्षिता दीक्षितेश्वरी । दुर्गा दुर्गविहंत्रि च दुःखप्रणाशिनी दरी ॥ ६५॥ दौर्गासुरविहंत्रि च दुर्गदारणतत्परा । दानदक्षा दानपूजा दानतुष्टा दयातति ॥ ६६॥ दासी दासीकुण्डरति दासीपुष्पपरायणा । दासीबीजरता दाना दीनारदायिनी द्रुती ॥ ६७॥ द्रुतसिद्धकरी दीर्घा दीर्घाका दीक्षितप्रिया । दासीचुम्बनसन्तुष्टा दासीमथनतत्परा ॥ ६८॥ दासीकुण्डप्रीतप्राणा दान्दीन्दून्दैं स्वरूपिणी । दूं बीजजपसन्तुष्टा दूंवुस्वाहा स्वरूपिणी ॥ ६९॥ धनदा धननाथा च धनधान्यविवर्धिनी । धूं बीजनिलया धूम्रा धूधून्धूमावति धृति ॥ ७०॥ धैर्यदा धारिणी धैर्या धरित्री च धराधरा । धर्मिष्ठा धर्मनिरता धर्ममार्गपरायणा ॥ ७१॥ धर्मप्राण धर्मगति धारासम्पातरूपिणी । धिमिथरिहवरूपा च धर्मतारा धनार्चिता ॥ ७२॥ धी धीषणा धीरगति धीराधीरस्वरूपिणी । धात्रीप्रसुनसन्तुष्टा धात्रीफलकुचद्वया ॥ ७३॥ धात्रीध्यानरता ध्याना ध्यानतत्वपरायणा । ध्यानदात्री ध्यानगात्रा ध्यानस्था ध्यानरूपिणी ॥ ७४॥ ध्येयरूपा ध्येयगम्या ध्येयचक्रसमस्थिता । ध्यानपरायणप्रीता ध्यानध्येयस्वरूपिणी ॥ ७५॥ ध्यानगम्या ध्यानतुष्टाः ध्यानगानपरायणा । धिकतान्धिस्वरूपा च धैधैशब्दपरायणा ॥ ७६॥ धर्मिनी धर्मपक्षाङ्गा धर्मकर्मपरायणा । धर्मग्रामरताङ्घ्रिं च ध्रीन्ध्रीन्धून्धौं स्वरूपिणी ॥ ७७॥ नररूपा नरप्रीता नरनाथा नरात्मिका । नारसिंही नतिर्नारी नरपुष्पस्वरूपिणी ॥ ७८॥ नरपुष्पप्रियप्राणा नरपुष्पप्रतर्पिता । नरपुष्पार्चनपुष्पा नरपुष्पक्रियामति ॥ ७९॥ नरपुष्पार्चनानन्दा नरपुष्पाम्बरा नदि । नरयज्ञा नरानन्दा नरयज्ञपरायणा ॥ ८०॥ नरनापूरतानाना नतनानास्वरूपिणी । नानामाना ननननास्वरूपा नाप्रर्विता ॥ ८१॥ नाप्रीता नाप्रशाला नाटिकानन्दतोषिता । नानाभाषाप्ररूढा च नानावर्णश्चरूपिणी ॥ ८२॥ नागिनी नागभूषा च नागार्हार्नागरूपिणी । नगज्वानगसम्भूता नगवंश प्रतोषिता ॥ ८३॥ नादरूपा नादगतिर्नादब्रह्म परायणा । नारदप्रियसन्तुष्टा नारदप्रियमानसा ॥ ८४॥ नारदा नारदेशी च नदीनिम्नस्वरूपिणी । निम्ननाभी निश्चयोनि निम्ननेत्रा नरोत्तमा ॥ ८५॥ नरवाहनसन्तुष्टा नरवाहनतत्परा । नान्नीन्नून्नैन्नौं स्वरूपा च नमोरूपा नमोनमः ॥ ८६॥ नमस्कारप्रिया नित्या नित्यानन्दस्वरूपिणी । नित्यपूजार्चनप्रीता नित्यपूजापरायणा ॥ ८७॥ नित्योत्सवपरानन्दा नीररूपा नीराकृती । नर्मदा नर्मरूपा च नर्मकुण्डवीकानी ॥ ८८॥ नर्मकुण्डलेलिहाना नर्मनटप्रिया । नैमित्तिकार्चनप्रीता नैमित्तिकपरायणा ॥ ८९॥ नर्मदा नर्मदात्री च नर्मकर्मपरायणा । नीवीमोचनसन्तुष्टा नीवीमोचनतत्परा ॥ ९०॥ नारीपुष्पप्रियाप्राणा नारीपुष्पपरायणा । नारीपुष्पमतीप्रीता नारीपुष्पस्वरूपिणी ॥ ९१॥ नैर्यापिका नववीणा च नाडीनादपरायणा । नाडीनादपरानन्दा नाडीनादपरागती ॥ ९२॥ नाडीनादात्मिका नौका नौकाक्रीडापरायणा । पद्मपूजनसन्तुष्टा पद्महोमपरायणा ॥ ९३॥ परमानन्दसन्दोहा परमाकाशरूपिणी । परातीता परागम्या परमात्मा परागति ॥ ९४॥ पम्पातीरनिवासा च प्रद्युम्नाप्रीतिरूपिणी । प्राणवा प्राणवेज्या च परतत्वा परायणा ॥ ९५॥ पद्मपत्रा पद्मतुष्टा तुष्टीपावनरूपिणी । पापसंहारिणी तुष्टा पुण्यदात्री परातरी ॥ ९६॥ पुरी पुरारी गृहिणी पुराणागमरूपिणी । पुराणगम्या पानाट्या पानतोषणतत्परा ॥ ९७॥ पानानन्दा पीततनुस्था तैवपि रसस्वनी । पीनयोनी पीतजङ्घा पीताम्बरधरावति ॥ ९८॥ पीताम्बरा पीतगर्भा पीतपुष्पार्चनप्रिया । पीतपुष्पाञ्जलिरता पीतद्रदनिवासिनी ॥ ९९॥ पीठस्था पीठरूपा च पीठवासपरायणा । परदारप्रिया पत्राधरधार प्रहर्षिणी ॥ १००॥ परदारप्रहरसि परदारविरोधिनी । परदारप्रियापात्रा पात्रतोषणतत्परा ॥ १०१॥ पात्ररूपा पात्रतुष्टी पात्रदानपरायणा । पात्रपुष्पप्रिया पात्रकुण्डानन्दपरेश्वरी ॥ १०२॥ पात्राराधनसन्तुष्टा पात्रप्रासादरूपिणी । पवित्रा पुण्यचारित्रा पवित्रारोपणात्मिका ॥ १०३॥ पवित्ररोपणरता पात्रगानपरायणा । पात्रगीत पात्रनपा पात्रसंयोगरूपिणी ॥ १०४॥ पात्रकुण्डविकसता पात्रकुण्डविलोहिनी । पात्रकुण्डध्वनिरता पात्रकुण्डध्वनिप्रिया ॥ १०५॥ परनिद्राविनिर्मुक्ता परद्रव्यविमोचनी । परस्वनाशिनीप्रीता पार्वती पर्वतात्मजा ॥ १०६॥ पर्वतेज्या पर्वरता पर्वतप्रियरूपिणी । परायणा पारची च पतिधर्मविधारिणी ॥ १०७॥ पतिप्रिया प्रीतिरता पतिगम्या पतिव्रता । पतिव्रतधरा पीनवक्षोजद्वयधारिणी ॥ १०८॥ पिशाचप्रेमसन्तुष्टा प्रेतकोटिसमाकुला । प्रेतगर्भा प्रेतरूपा प्रेतभूषणभूषणी ॥ १०९॥ प्रेतमालाकण्ठभूषा प्रेतलेहनतत्परा । प्रेतशी प्रेतराज्ञी च प्रेतव्रतपरायणा ॥ ११०॥ पिशाचानन्दसन्तोषा पार्थप्रीतिपरायणा । पार्थिवा पार्थवेज्या च पृथुला पृथुरूपिणी ॥ १११॥ पृथ्वी च पृथिवी पिङ्गा पिङ्गनेत्रा च पिङ्कटा । पापान् विनाशिनी पद्या गद्यपद्यपरायणा ॥ ११२॥ पद्यात्मिका पद्यरता पाम्पीम्पूम्पौं स्वरूपिणी । पाम्पीङ्काररता प्राणा प्राणदात्री प्रतापिनी ॥ ११३॥ प्रभावती प्रभाप्रेमा प्रेमयोगपरायणा । प्रज्ञा प्रज्ञावतीप्रज्ञा प्रज्ञानप्रतिभावती ॥ ११४॥ प्रतिभा प्रणतीप्राणा प्रज्ञापतिग्रहस्थिता । प्रजापति प्रियापारा पुरीन्द्रध्वजशोभिता ॥ ११५॥ प्रमतीप्राणधर्तृ च प्रतिज्ञापारगामिनी । फुम्फुङ्कारा च फट्कारा फट्काररूपधारिणी ॥ ११६॥ फ्रीङ्कार फूत्कृतिः फ्रूं च स्फङ्कारारूपधारिणी । फ्रोङ्काराफेरवी फ्राम्फ्रूम्फेत्कारी फणधारिणी ॥ ११७॥ फेणिप्रीता फणेरता फणदर्शनतोषिणी । फणिभूषणसम्भूषा फणिनाथप्रियार्चिता ॥ ११८॥ फणिबन्धसमुद्भूता फणिवंशसुशोभिनी । पशुहस्ता पशुमति परशुरामप्रसादिनी ॥ ११९॥ फेत्कारभैरवी फ्रौण्टा फ्रेत्कारारवभाषिणी । फ्रेत्कारा फाल्गुनानन्दा फली फुल्लप्रिया फुला ॥ १२०॥ फलदात्री फलरता फलरूपा फलात्मिका । फलहोमप्रियस्फाला फलनामपरायणा ॥ १२१॥ बृहस्पतिमुखस्था च बृहतीछन्दरूपिणी । बृहत्सेवा बृहत्ब्रह्मी ब्रह्मीब्रह्मप्रपूजिता ॥ १२२॥ ब्रह्मवृत्तधरावीणा बाण्सन्धानकारिणी । बाणासुरार्चिता ब्रूं च ब्राम्ब्रीम्ब्रैम्ब्रौं स्वरूपिणी ॥ १२३॥ बर्हिपिछुमिया बर्हा बर्हपछविभूषणा । बटुका बटुकेज्या च बटुकप्राणमानसा ॥ १२४॥ बटूकाभैरवरता बटुकार्चनतोषिणी । बटुकार्चनसन्तुष्टा बलीदानप्रियाबली ॥ १२५॥ बलिपूज्या बलिरता बलिदाननिवासिनी । बलिद्वारस्थिता बाला बालां वा बालभैरवी ॥ १२६॥ बालक्रीडामयप्राणा बालकप्रियकारिणी । बलितुष्टा बलिरता बलितोषणकारिणी ॥ १२७॥ बलिमाता बलिमयि बलितत्वात्मिकाबली । बला बलार्चनप्रीता बलधारणतत्परा ॥ १२८॥ बटुकाराधनरता बटुकेज्या बटुप्रिया । बटुकाराधनप्रीता बटुकार्यवतारिणी ॥ १२९॥ बटुतारा बटुछिन्ना बटुकाली बृहन्मयी । बृहत्कुक्षि बृहत्तारा बृहत्तन्त्रागमेश्वरी ॥ १३०॥ बृहद्रुणा बृहद्यन्त्रा बृहत्तन्त्रा बृहत्कला । बृहन्माता बृहज्वाला बृहन्मानमयीबृहत् ॥ १३१॥ बृहत्ताण्डवरूपा च बृहत्तारूण्यरूपिणी । बृहदारण्यसंसेव्या बालचन्द्रकिरीटिनी ॥ १३२॥ बलदा बाहुभूषा च बाहुमालाविभूषणा । बाहुला बाहुलेयेसी बाहुलेयस्वरूपिणी ॥ १३३॥ बहुभाषामयी बुद्ध्या बुद्धिदा बुद्धिदायिनी । बुद्धि बुद्धिमता बौद्धा बौद्धाचारपरायणा ॥ १३४॥ बौद्धमार्गप्रियाप्रीता बौद्धमार्गपवर्तिनी । बृहस्पतिसुताराध्या बुद्धिमाता बुधेश्वरी ॥ १३५॥ बौद्धावारूपिणी भार्या भानवी भानुरूपिणी । भानुमत्ता भानुमयी भानुभार्या भवेश्वरी ॥ १३६॥ भवपत्नी भयहरा भवदानवनाशिनी । भवमाता भवरताश्रवतारणतारिणी ॥ १३७॥ भर्तप्रिया भर्तरता भर्तभावप्रकाशिनी । भर्तनीतिकरी भार्या भर्तदा भीमभीषणी ॥ १३८॥ भीक्षूपूज्या भिक्षूमाता भिक्षूमानसतोषिणी । भीमसेनप्रिया भीमा भीमाक्षी भीमभीतिदा ॥ १३९॥ भ्रान्तहन्त्री भयहरा भवपाशविमोचिनी । भवदावानलघ्नी च भक्तपूज्या भवार्तिहा ॥ १४०॥ भक्ततुष्टा भौममाता भोपा भोपप्रताशिनी । भृगरूपा भृगोपत्नी भृगुताण्डवकारिणी ॥ १४१॥ भृगुत्सेवरता भ्रान्तीहारिणी भारतप्रिया । भारती भानवेश्या च भाषा भीमामयी भवा ॥ १४२॥ भानमती भुक्तिमयी भ्रूं बीजाक्षररूपिणी । भ्राम्भ्रीम्भ्रूम्भ्रैं स्वरूपिणी भ्रमतीवविनाशिनी ॥ १४३॥ भङ्गा भङ्गाप्रिया भृङ्गी भृङ्गध्वनिपरायणा । भ्रातृजाया भगवती भवानी भक्तवत्सला ॥ १४४॥ भवसिद्धा भगेज्या च भगमाला भवेश्वरी । भ्रान्ता भ्रमरिका भीति भ्राजिश्णु भक्तरूपिणी ॥ १४५॥ भक्तमानसन्तुष्टा भवती भ्रमराम्बिका । भ्रामरी भ्रान्तमाला च भवेज्या भवसिद्धिदा ॥ १४६॥ भगरूपा भगरता भगगीतीमयी भगा । भङ्काररूपिणी भ्रामा भगमालाविभूषणा ॥ १४७॥ भगलिङ्गस्वरूपा च भगलिङ्गपरायणा । भगलिङ्गामृतान्दोला भगाविलोलुपा ॥ १४८॥ भगार्चनरतानन्दी भगभाग्यपरायणा । भगतत्वा भगाव्हा च भगलिङ्गध्वनी भगा ॥ १४९॥ भगनी भार्गवेज्या च भगमाला भगाङ्कुरा । भगकुण्डाह्लादरता भगकुण्डविकासिनी ॥ १५०॥ भवित्री भविता भूता भूतमाता च भूपति । भूपेज्या भूपसन्तुष्टा भैक्ष्यचर्वणतत्परा ॥ १५१॥ भगनामस्मृतिपरा भगजापपरायणा । भगतन्त्रा भगामोहा भगगन्धपरायणा ॥ १५२॥ भगवापीस्नानरता भगतीर्थनिवासिनी । भगदर्शनसन्तुष्टा भगचुम्बनतोषिणी ॥ १५३॥ भगजिह्वा भगमुखा भगचक्षु भगाम्बुजा । भूतेशी भूतदुर्गस्था भूपतित्वप्रदायिनी ॥ १५४॥ भूम्भूङ्कारस्वरूपा च भद्रशब्दपरायणा । भहभहारकामहा भाष्यकर्ता भयापहा ॥ १५५॥ भरता भरतेशी च भरताप्राणदायिनी । भरताप्रेमसन्तुष्टा भरताधाररूपिणी ॥ १५६॥ भूभारा भूधराधीशा भूधरा भूधरप्रिया । मामीपानन्दना माया मद्यपानपरायणा ॥ १५७॥ मधुप्रीता मधुरता मधुरा मधुरामधु । मदिरा मदिरोन्मत्ता माननीया मदोद्धता ॥ १५८॥ माध्वीपानरता माता मायाबीजव्हयामती । निमाता मालिनी मात्रा मदनीमृतदर्पिका ॥ १५९॥ मानाक्षी मातुलानी च मोदिनी मदनातुरा । म्राम्म्रीम्म्रूम्रैं स्वरूपा च म्रौम्म्रः सर्वस्वरूपिणी ॥ १६०॥ मिताक्षरा मिताहारा मिताचार मनोमयी । मलिना मलिनी मैत्रा मैत्रवारूणतारुणी ॥ १६१॥ मायावती मानवती महामधुमतिमयी । महीधरसक्ता मात्रा मात्रास्वरविभेदिनी ॥ १६२॥ मीनरूपा मीननाथा मालती मधुलोलुपा । मधुपानरता मारी महामारी महीपति ॥ १६३॥ महाकाली महातारा महाछिन्ना महेश्वरी । माहेशी च मदस्था च मदनस्थानरूपिणी ॥ १६४॥ मदनप्रियकान्ता च महायोगेश्वरी मखी । महामदनसन्तुष्टा महामदनभूषिता ॥ १६५॥ महिता महिला माया मकाराक्षररूपिणी । मकाररूपिणी मुद्रा मुद्रामोदपरायणा ॥ १६६॥ मेहस्था मेहमाता च मेहमित्रा महत्प्रिया । महता मोजसाकारा महतानन्ददायिनी ॥ १६७॥ मधुमांसा मेहतारा मेहप्रस्ताररूपिणी । मेहपुत्री च मीनाक्षी मितभाषा मितार्थवित् ॥ १६८॥ मदनान्तककान्ता च मदनान्तकरूपिणी । महोरगा महोशुषा महती महिषापहा ॥ १६९॥ महिषासुरनिर्नाशी मुण्डमालाविभूषणा । मुण्डप्राकारसंरूपा मुण्डासुरविमर्दिनी ॥ १७०॥ मानसा मानसेसी च मुद्रिण्यम्बास्वरूपिणी । मुद्रिणी मन्त्रिणी मन्त्रा महामन्त्रा महार्णवा ॥ १७१॥ महार्णवस्थिता मोहा मोहिनीनाशिनी मरुत् । मनुर्मनुमयी माद्री मद्रकुञ्जरवासिनी ॥ १७२॥ मद्रकुम्भस्थलारूढा मद्मुक्ताविभूषणा । मुक्ताहारविभूषाढ्या मुक्तकेशी महूर्तदा ॥ १७३॥ मोहकर्ती मोहहीना महामोहपरायणा । मन्त्रप्राणार्पणप्रीता मन्त्रप्राणार्पणार्चिता ॥ १७४॥ महौघानन्दा मन्दगन्धा मद्यपूजनतत्परा । मकारवर्णसर्वाङ्गी मितभोगा मितान्मिता ॥ १७५॥ महाधूम्रावती मुक्ता महामुक्ताविभूषणा । मुक्तारजन्तनासा च मुक्ताछत्रविभूषणा ॥ १७६॥ मुक्तदानरता मध्या मध्यमा मध्यमेश्वरी । मितीर्मीतीमती मीनकेतु मकररूपिणी ॥ १७७॥ मकरस्था महादेवी महादेव मनोमयी । महोत्सवादुर्गा माया महापूजारमेत्यदा ॥ १७८॥ महाग्रहस्वरूपा च मघानक्षत्ररूपिणी । मद्यमांसवृतरता माघस्नानपरायणा ॥ १७९॥ मार्गशीर्षप्रियानन्दा मार्गदर्शनतत्परा । मार्गमार्गामात्रका च मातृकालिपिरूपिणी ॥ १८०॥ मातृकान्याससन्तुष्टा मातृकान्यासरूपिणी । मालिनीन्याससन्तुष्टा मालिनीमोक्षदायिनी ॥ १८१॥ मोक्षदात्री मोक्षगर्ती मोक्षमार्गपरायणा । मुक्ता मुक्तिप्रियकरी मुक्तिस्था मुक्तिताण्डवा ॥ १८२॥ महानन्दा महाकाली महाभुवनतारिणी । महेन्द्रपूज्या माहेशी मतिसागरदायिनी ॥ १८३॥ यक्षा यक्षस्वरूपा च यक्षणी यक्षपूजिता । यादेवी यादवाराध्या यदुवंशसमुद्भवा ॥ १८४॥ यमुना च यजुर्वेदा यजुर्वेदपरायणा । यामिनी यमपूज्या च यममातापतिप्रिया ॥ १८५॥ यात्रा यात्रयशोदा च यशोवर्धनतत्परा । यशकर्पूरधवला योगिनी च यशस्विनी ॥ १८६॥ यांयींयूं याकिनीरूपा यैंयौं यङ्काररूपिणी । योगमाता योगगम्या योगमार्गपरायणा ॥ १८७॥ योगीशा योजना यामा योजनायुतविस्तरा । यथोक्ताचारनिरता यथोक्तफलदायिनी ॥ १८८॥ यक्षकर्दमसम्भूषा यवर्गरूपिणीपति । रमणी रमणीप्रीता रमा रत्नेश्वरी रती ॥ १८९॥ रतिप्रिया रतिरता रतितोषणतत्परा । रत्नगर्भा रत्नबीजा राजीवलोचना रमा ॥ १९०॥ राम्बीजा रींस्वरूपा च रांरींरूंरैं स्वरूपिणी । रौंरः वर्णस्वरूपा च राज्यदातृ रसातुला ॥ १९१॥ रसतुष्टा रसगति रघुवंशसमुद्भवा । रतिरूपा रतान्ता च रतिगर्भपरायणा ॥ १९२॥ राजीवनेत्रा राज्ञी च रमणासुरकन्यका । राजराजेश्वरीद्रष्टा रौद्री रूद्रप्रिया च हट् ॥ १९३॥ हद्रकन्या हद्रजाया हद्रमातारतानन्दा । हद्रेज्या च त्रिरूपा च रात्रिञ्चरविभेदिनी ॥ १९४॥ राक्षसघ्नी रक्षणा च रक्षोविद्रावणी रता । हचिरा हचिरूपा च रोचिषा रोमरूपिणी ॥ १९५॥ रोमगर्भा रोमदेहा रोमभूषणतत्परा । रसा रसवती राज्यलक्ष्मी रावणनाशिनी ॥ १९६॥ रावणेज्या रवदता रावणप्रियदायिनी । रजोवती रजःप्राणा रजोगुणमयी रवा ॥ १९७॥ रतिपुष्पप्रिया रूंरूं राकिणी रेणुका रया । रैं बीजनिलया रैण्णा रेणुरूपा च हाकिनी ॥ १९८॥ हक्वाङ्गदस्यभगिनी हक्यरूपा च रूपभू । रौप्यपरा रौप्यरौप्या रौप्यगेहविभूषणा ॥ १९९॥ रौप्यसिंहासनरता रौप्यदानपरायणा ॥ २००॥ ॥ फलश्रुति ॥ इति श्रीदिव्यसाम्राज्यमेधानामसहस्रकम् । महोग्रानामसाहस्रं तारण्या गदितं पुरा ॥ २०१॥ अक्षोभ्यस्ववरोदत्तप्रसादेन प्रकीर्तितम् । इदमेवपुरादेवी कालेनापि प्रकीर्तितम् ॥ २०२॥ अष्टाधिकसहस्रन्तु नमः स्वाहास्रमेवतु । तवर्गान्तुरकारान्तं तेनतारामयं शिवे ॥ २०३॥ सर्वसिद्धिमयं साक्षात् सर्वापत्तारणं परम् । पूजाकाले विशेषेण सन्ध्यायोभययोरपि ॥ २०४॥ यः पठेत्प्रयतोनित्यं ताराप्रत्यक्षतामियात् । एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ॥ २०५॥ अर्धरात्रे विशेषेण सर्वसिद्धिप्रदं शिवे । कुलका स्मरणं तारा ध्यानं नामप्रकीर्तितम् ॥ २०६॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । सर्व सङ्कट विनिर्मुक्त सर्व सत्व समन्वितः ॥ २०७॥ सर्वसिद्दिश्वरोभूयान्नात्र कार्या विचारणात् । यः पठेद्वापाठयेद्वापि श‍ृणोतिश्रावयैदपि ॥ २०८॥ सर्वपापविनिर्मुक्तसयाति तारणीपदम् । सर्वशास्त्रार्थवेत्ता च महाश्रुत्यधर कविः ॥ २०९॥ शून्यागारे शवे मुण्डे श्मशाने रणमण्डले । राजमञ्चे नदीकुले शय्यायामेकलिङ्गके ॥ २१०॥ चतुष्पथे तडागे च नङ्गागर्भेशिवालये । प्रान्तरे पर्वते घोरे योनौऋतु पतिगृहे ॥ २११॥ वेश्यावासे पीठमध्ये सूतिकाया गृहे तथा । यः स्मरेत्परया भक्त्या ताराभक्तिपरायणा ॥ २१२॥ नान्यनामस्मरेदेवि नान्यचित्तञ्चरेत्क्वचित् । सिन्दूरतिलकोन्नित्यं रक्तचन्दन त्रिपुण्ड्रधृत् ॥ २१३॥ ताराध्यायनपिस्तोत्रं सिद्धिनामधिपो भवेत् । खड्गस्तम्भं जगत्स्तम्भं सैन्यस्तम्भं विवस्वत ॥ २१४॥ ऋतुमत्या भगन्दृष्ट्वा ताराध्यानपरायणः । प्रजपेत् परमेशानि सर्वैश्वर्यमयो भवेत् ॥ २१५॥ अष्टोत्तरशतञ्जप्त्वा भगमामन्त्र पार्वति । भगं विकसितं कृत्वा जपेत् सिद्धिश्वरो भवेत् ॥ २१६॥ तूर्णमाकर्षयेद्रव्यं लक्षपऽचकजापतः । मेष माहिष मार्जार शूकरा सर्व मुख्यकैः ॥ २१७॥ दुग्धैसुक्तिश्चपूजान्ते तारां सन्तपर्येत्पठेत् । तारायादर्शनं प्राप्य त्रैलोक्ये विजयी भवेत् ॥ २१८॥ दिवाशक्तिमुखं तस्यचेस्मालय परायणा । प्रजपेद्यत्नतो देवि सुरेन्द्रसदृशो भवेत् ॥ २१९॥ दूतीयागविधायाथ दूतीसन्तोषभक्तितः । मन्त्रमादौजपे देवि मध्ये नाम सहस्रकम् ॥ २२०॥ पुनर्मन्त्रं जपे देवि शक्तियोगं समेश्वरी । मासमात्र प्रयोगेण सर्व कार्यक्षमो भवेत् ॥ २२१॥ भोगेच्छयान कर्तव्यं ममछायो भवेद्ध्रुवम् । स्वयम्भुः कुसुमैः शुक्रैः जपापावकसंयुतैः ॥ २२२॥ रक्तचन्दनस्यन्दुरैः मत्स्यमांसादिभिः प्रिये । अनन्यभुक्त स्थिरधी मुक्तकेशो दिगम्बरः ॥ २२३॥ केशात्संवर्धये देवि तारा भव परायणा । शिवस्थो वा श्मशानस्थ शून्यालय गतो शिवा ॥ २२४॥ तारिणीं पूजयेदित्या धूपदीपादिभिः शिवे । जप्त्वा तारा महामन्त्रं पठेन्नामसहस्रकम् ॥ २२५॥ सुदर्शनोभवेद्यासु देव गन्धर्व सेवितः । स भवेत्तारिणीं पुत्र इति ख्याति भवेच्छिवे ॥ २२६॥ ॥ इति श्री महोग्राताराक्शोभ्य संवादे अक्षोभ्यसंहितायां शतार्धसहस्रां ताराविरचितं दिव्यसाम्राज्यमेधाख्यं नामसहस्रं विंशति पटलः सम्पूर्णम् ॥

श्री तारा सहस्रनाम स्तोत्रम् — परिचय एवं रहस्य (Introduction & Context)

श्री तारा सहस्रनाम स्तोत्रम् (Sri Tara Sahasranama Stotram) तांत्रिक वाङ्मय के अत्यंत दुर्लभ और गोपनीय ग्रंथ 'अक्षोभ्य संहिता' (Akshobhya Samhita) से उद्धृत है। यह परम पवित्र स्तोत्र भगवान सदाशिव (महाकाल) और माता कालिका के मध्य हुए एक अत्यंत गूढ़ संवाद के रूप में प्रकट हुआ है। दश महाविद्याओं में माता उग्रतारा द्वितीय महाविद्या हैं, जो ज्ञान, वाक् सिद्धि, मोक्ष और अनंत शक्तियों की प्रदाता मानी जाती हैं।

रचना संदर्भ: स्तोत्र के प्रारंभ (श्लोक 1-5) में माता कालिका भगवान शिव से अत्यंत महत्वपूर्ण प्रश्न पूछती हैं — "अनाद्यन्तं महाकाल कालातीत परात्परः। कलौसिद्धि क्षणार्धेन कथं भवति तद्वदः॥" अर्थात् 'हे महाकाल! इस कलि युग में, जहाँ मनुष्य अल्पायु हैं और सर्वधर्म विवर्जित (कठोर नियमों से विमुख) हैं, वहाँ साधक को क्षण भर में अष्ट सिद्धियों की प्राप्ति कैसे हो सकती है?'

महाकाल का उत्तर और रहस्योद्घाटन: माता के इस लोककल्याणकारी प्रश्न के उत्तर में भगवान शिव (श्लोक 6-10) उस 'रहस्यातिरहस्य' (Supreme Secret) को उजागर करते हैं जो अब तक सभी जीवों से गुप्त रखा गया था। भगवान शिव स्पष्ट करते हैं कि कलि युग में — "विनापुष्पं विनागन्धं विनादानं विनाशिवे। विनामन्त्रं विनाजाप्यं विनाध्यानं विनाबलिम्॥" — अर्थात् बिना कठोर बाह्य आडंबरों (पुष्प, गंध, दान, वृहत यज्ञ या बलि) के भी केवल एक दिव्य स्तोत्र के भक्तिपूर्ण पाठ से मनुष्य परम सिद्धि को प्राप्त कर सकता है। वह मार्ग है माँ उग्रतारा के 1000 दिव्य नामों (दिव्यसाम्राज्यमेधाख्यं) का गान।

महानिलगिरि और तारा प्राकट्य: श्लोक 11-15 में भगवान शिव वर्णन करते हैं कि पूर्व काल में 'महानिलगिरि' पर्वत के उत्तरी भाग में 'तुरा कुण्ड' के समीप माता उग्रतारा प्रतिष्ठित हुईं। वहाँ ब्रह्मा, विष्णु, महेश सहित करोड़ों देवताओं ने उनका उग्र स्वरूप देखा और उनकी स्तुति की। इसी दिव्य प्राकट्य के साथ कादि (Kadi) और हादि (Hadi) मतों का समन्वय होकर अमोघ तारा मंत्र प्रकट हुआ।

विशिष्ट महत्व (Significance of Divya Samrajya Medha)

अक्षोभ्य संहिता का यह सहस्रनाम "दिव्य साम्राज्य मेधा" (Divya Samrajya Medha) के नाम से विख्यात है। 'दिव्य साम्राज्य' का तात्पर्य भौतिक और आध्यात्मिक दोनों जगतों पर आधिपत्य (Supreme Control) से है, और 'मेधा' का अर्थ असीमित बुद्धि, प्रज्ञा और ज्ञान (Intellect and Wisdom) से है।

तंत्र शास्त्र में माँ तारा को 'नीलसरस्वती' (Neela Saraswati) भी कहा जाता है। इसलिए यह सहस्रनाम वाक् सिद्धि (Vak Siddhi - Power of Speech) का अमोघ अस्त्र है। जो भी साधक इस नाम माला का नित्य पाठ करता है, उसकी वाणी में साक्षात् सरस्वती का वास हो जाता है (श्लोक 209 - सर्वशास्त्रार्थवेत्ता च महाश्रुत्यधर कविः)। वह सभी शास्त्रों का ज्ञाता और एक महान कवि बन जाता है।

यह पाठ कलि युग के दोषों को नष्ट करने वाला है। जहाँ अन्य तांत्रिक साधनाओं में जरा सी भी त्रुटि होने पर विपरीत परिणाम (दोष) का भय रहता है, वहीं इस सहस्रनाम में भगवान शिव स्वयं गारंटी देते हैं कि पूर्ण श्रद्धा और आंतरिक पवित्रता (Mental Devotion) ही इसमें प्रमुख है। यह स्तोत्र भौतिक कामनाओं (धन, ऐश्वर्य) की पूर्ति के साथ-साथ जीवन के सर्वोच्च लक्ष्य 'मोक्ष' (चतुर्वर्गार्थसाधनम्) को भी एक साथ प्रदान करने में सक्षम है।

सहस्रनाम स्तोत्र के लाभ — फलश्रुति (Phala Shruti Benefits)

श्लोक 204 से 226 तक वर्णित 'फलश्रुति' में भगवान शिव ने इस सहस्रनाम के चमत्कारी और त्वरित लाभों का अत्यंत विस्तृत वर्णन किया है:

  • तारा का प्रत्यक्ष दर्शन (Direct Vision): "यः पठेत्प्रयतोनित्यं ताराप्रत्यक्षतामियात्" (श्लोक 205) — जो साधक नियमपूर्वक नित्य इसका पाठ करता है, उसे माँ तारा का प्रत्यक्ष दर्शन प्राप्त होता है।
  • सर्व संकट मुक्ति: "सर्व सङ्कट विनिर्मुक्त सर्व सत्व समन्वितः" (श्लोक 207) — यह पाठ जीवन के हर प्रकार के भारी संकटों, दरिद्रता और बाधाओं से तत्काल मुक्ति दिलाता है (सर्वापत्तारणं परम्)।
  • ज्ञान और कवित्व (Wisdom & Eloquence): "सर्वशास्त्रार्थवेत्ता च महाश्रुत्यधर कविः" (श्लोक 209) — साधक सभी शास्त्रों के गूढ़ अर्थ को समझने वाला, उत्तम स्मरण शक्ति वाला (महाश्रुत्यधर) और श्रेष्ठ कवि बन जाता है।
  • शत्रु और सैन्य स्तम्भन (Paralyzing Enemies): "खड्गस्तम्भं जगत्स्तम्भं सैन्यस्तम्भं विवस्वत" (श्लोक 214) — इस स्तोत्र के प्रभाव से शत्रुओं के शस्त्र (खड्ग), उनकी विशाल सेना (सैन्य) यहाँ तक कि संपूर्ण विरोधी जगत स्तम्भित (Paralyzed) हो जाता है।
  • त्रैलोक्य विजय: "तारायादर्शनं प्राप्य त्रैलोक्ये विजयी भवेत्" (श्लोक 218) — तारा का आशीर्वाद प्राप्त कर साधक तीनों लोकों में विजयी होता है और देव-गंधर्वों द्वारा सम्मानित होता है (सुरेन्द्रसदृशो भवेत्)।
  • अखंड ऐश्वर्य: "सर्वैश्वर्यमयो भवेत्" (श्लोक 215) — धन, धान्य और समस्त प्रकार के ऐश्वर्य की प्राप्ति निश्चित रूप से होती है।

पाठ विधि एवं तांत्रिक विधान (Ritual Method & Tantric Practices)

भगवान शिव ने श्लोक 205-226 के मध्य इस महान स्तोत्र के पाठ की विशेष तांत्रिक विधियों का वर्णन किया है। यह पाठ सामान्य और उग्र (वीर भाव) दोनों साधकों के लिए उपयोगी है।

सामान्य (सौम्य) साधना विधान

  • समय (Time): श्लोक 206 के अनुसार इसका पाठ "अर्धरात्रे विशेषेण" (मध्य रात्रि/निशीथ काल) में करने से विशेष और त्वरित सिद्धि प्राप्त होती है। वैसे इसे एक, दो या तीनों संध्याओं (त्रिकालं) में किया जा सकता है।
  • श शारीरिक वेशभूषा: साधक को माथे पर सिंदूर का तिलक और रक्त चंदन का त्रिपुण्ड (सिन्दूरतिलकोन्नित्यं रक्तचन्दन त्रिपुण्ड्रधृत् - श्लोक 213) धारण करना चाहिए।
  • पुष्प एवं अर्पण: माँ तारा को लाल रंग अत्यंत प्रिय है। अतः जपाकुसुम (गुड़हल के फूल) और रक्त चंदन (रक्तचन्दनस्यन्दुरैः... जपापावकसंयुतैः - श्लोक 222-223) से उनकी पूजा करनी चाहिए।

वीर भाव साधना (तांत्रिक प्रयोग)

श्लोक 210-212 में उन विशिष्ट और उग्र स्थानों का वर्णन है जहाँ वीर साधक (अघोरी/तांत्रिक) इसका पाठ करते हैं:

  • विशिष्ट स्थान: "शून्यागारे शवे मुण्डे श्मशाने रणमण्डले... चतुष्पथे" — सूने घर, शव या मुंड के समीप, श्मशान घाट, युद्ध भूमि, चौराहे, या नदी के किनारे। इन स्थानों पर निर्भय होकर पाठ करने से अष्ट सिद्धियां प्राप्त होती हैं।
  • आंतरिक शुद्धि (Internal Purity): श्लोक 223 (मुक्तकेशो दिगम्बरः) यह इंगित करता है कि बाह्य आवरण और वस्त्रों से अधिक साधक की आंतरिक दृढ़ता (स्थिरधी) और समर्पण का महत्व है। भौतिक बंधनों से मुक्त होकर (दिगंबर भाव में) केवल भगवती पर ध्यान केंद्रित करना चाहिए (नान्यचित्तञ्चरेत्क्वचित्)।
  • मूल मंत्र के साथ सम्पुट: श्लोक 220 के अनुसार, पहले मूल मंत्र का जप करें, मध्य में सहस्रनाम का पाठ करें, और अंत में पुनः मंत्र जपें। इससे मास मात्र (एक महीने) के प्रयोग से साधक सर्वकार्य-सक्षम हो जाता है (मासमात्र प्रयोगेण सर्व कार्यक्षमो भवेत् - श्लोक 221)।

अक्सर पूछे जाने वाले प्रश्न (Frequently Asked Questions)

1. श्री तारा सहस्रनाम स्तोत्र किस तांत्रिक ग्रंथ से लिया गया है?

यह अत्यंत दुर्लभ स्तोत्र 'अक्षोभ्य संहिता' (Akshobhya Samhita) से उद्धृत है। इसके बीसवें पटल (अध्याय) में भगवान शिव (अक्षोभ्य रूप) और माता पार्वती (कालिका) के मध्य संवाद के रूप में इसका वर्णन मिलता है।

2. 'अक्षोभ्य' कौन हैं और तारा से उनका क्या संबंध है?

तंत्र शास्त्र (विशेषकर मुंडमाला तंत्र और तारा तंत्र) के अनुसार, 'अक्षोभ्य' भगवान शिव का वह स्वरूप है जिसने हलाहल विष का पान किया था, फिर भी वे क्षुब्ध (विचलित) नहीं हुए। माँ तारा अक्षोभ्य शिव के मस्तक पर विराजमान रहती हैं या उन्हें अपनी गोद में धारण कर दुग्धपान कराती हैं, जिससे शिव का विष-ताप शांत होता है। इसलिए तारा के भैरव 'अक्षोभ्य' कहलाते हैं।

3. माता कालिका ने भगवान शिव से क्या प्रश्न किया था?

श्लोक 2-3 में माता कालिका ने पूछा कि कलि युग में जहाँ लोग अल्पायु हैं, वेदों और धर्म के मार्ग से भटक गए हैं, और कठिन तपस्या करने में असमर्थ हैं, ऐसे समय में बिना किसी कठोर साधना के साधक क्षण भर में अष्ट सिद्धियां कैसे प्राप्त कर सकता है?

4. 'दिव्य साम्राज्य मेधा' का क्या अर्थ है?

इस स्तोत्र को 'दिव्यसाम्राज्यमेधाख्यं' कहा गया है। इसका अर्थ है वह ज्ञान या शक्ति (मेधा) जो साधक को 'दिव्य साम्राज्य' (लौकिक और अलौकिक दोनों जगतों पर नियंत्रण) प्रदान करती है। यह बुद्धि, तर्क क्षमता और वाक् शक्ति की सर्वोच्च अवस्था है।

5. क्या इस स्तोत्र के पाठ में बाह्य पूजन या कठोर नियमों का पालन अनिवार्य है?

नहीं। श्लोक 9-10 में शिव जी स्पष्ट कहते हैं— "विनापुष्पं विनागन्धं... विनाध्यानं विनाबलिम्"। कलि युग में केवल मानसिक श्रद्धा और पूर्ण विश्वास के साथ इस सहस्रनाम का पाठ करने से भी वही फल मिलता है जो वर्षों की कठिन साधना और होम-बलि से मिलता है।

6. पाठ का सबसे उपयुक्त समय कौन सा बताया गया है?

यद्यपि इसका पाठ दिन या रात के किसी भी समय किया जा सकता है (एक काल, द्विकाल या त्रिकाल), लेकिन श्लोक 206 के अनुसार "अर्धरात्रे विशेषेण" (मध्य रात्रि या निशीथ काल) में किया गया पाठ त्वरित और सर्वोच्च सिद्धि प्रदान करने वाला माना गया है।

7. कादि (Kadi) और हादि (Hadi) मत का उल्लेख यहाँ क्यों है?

श्लोक 18-19 में 'ककार' (कादि मत - काली का स्वरूप) और 'हकार' (हादि मत - सुंदरी/श्रीविद्या का स्वरूप) का वर्णन है। माँ तारा का तंत्र इन दोनों मतों का समन्वय है। यह दर्शाता है कि उग्रतारा के स्वरूप में विनाश (उग्रता) और सृष्टि (सौंदर्य) दोनों शक्तियों का पूर्ण संतुलन विद्यमान है।

8. फलश्रुति में 'खड्गस्तम्भं जगत्स्तम्भं' का क्या तात्पर्य है?

श्लोक 214 के अनुसार, माँ तारा स्तम्भन (Paralyzing force) की भी महान देवी हैं। इस पाठ के प्रभाव से यदि कोई शक्तिशाली शत्रु खड्ग (शस्त्र) लेकर भी आए, तो उसका शस्त्र और सेना स्तम्भित (जड़वत) हो जाते हैं। यह साधक की पूर्ण सुरक्षा की गारंटी है।

9. क्या इस सहस्रनाम का पाठ घर पर किया जा सकता है?

हाँ, सात्विक भाव से कल्याण और वाक् सिद्धि के लिए इसे घर के पवित्र स्थान पर किया जा सकता है। श्लोक 213 के अनुसार साधक को नित्य रक्त चंदन का त्रिपुंड और सिंदूर लगाकर पाठ करना चाहिए। परंतु उग्र साधनाएँ (श्मशान या शून्यागार) केवल गुरु के निर्देशन में ही करनी चाहिए।

10. श्मशान, चतुष्पथ और नदी तट जैसे स्थानों पर पाठ का क्या महत्व है?

श्लोक 210-212 में वर्णित ये स्थान (श्मशान, चौराहा, सूना घर) 'वीर भाव' (Vira Bhava) के तांत्रिकों के लिए सिद्ध पीठ माने जाते हैं। यहाँ प्राकृतिक रूप से उग्र ऊर्जा का वास होता है। इन स्थानों पर भयमुक्त होकर पाठ करने से कुण्डलिनी शक्ति तीव्र गति से जाग्रत होती है और प्रत्यक्ष दर्शन प्राप्त होते हैं।

11. क्या बिना गुरु दीक्षा के तारा सहस्रनाम पढ़ा जा सकता है?

पूर्णतः तांत्रिक विधि, बीज मंत्रों (कूर्च, माया, तार बीज) के सम्पुट और उग्र प्रयोगों के लिए एक योग्य गुरु से दीक्षा (Initiation) अत्यंत आवश्यक है। हालांकि, भगवान शिव के प्रति निश्छल भक्ति भाव से केवल एक स्तोत्र के रूप में (सौम्य भाव से) पाठ करने से भी यह अत्यंत लाभकारी है।