Logoपवित्र ग्रंथ

Sri Shodashi Sahasranama Stotram – श्रीषोडशीसहस्रनामस्तोत्रम् (Vamakeshwara Tantra)

Sri Shodashi Sahasranama Stotram – श्रीषोडशीसहस्रनामस्तोत्रम् (Vamakeshwara Tantra)
॥ पूर्व पीठिका ॥ कैलासशिखरे रम्ये नानारत्नोपशोभिते। कल्पपादपमध्यस्थे नानापुष्पोपशोभिते ॥ १॥ मणिमण्डपमध्यस्थे मुनिगन्धर्वसेविते । कदाचित्सुखमासीनं भगवन्तं जगद्गुरुम् ॥ २॥ कपालखट्वाङ्गधरं चन्द्रार्धकृतशेखरम् । हस्तत्रिशूलडमरुं महावृषभवहनम् ॥ ३॥ जटाजूटधरन्देवं कण्ठभूषणवासुकिम् । विभूतिभूषणन्देवं नीलकण्ठन्त्रिलोचनम् ॥ ४॥ द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् । सहस्रादित्यसङ्काशं गिरिजार्द्धाङ्गभूषणम् ॥ ५॥ प्रणम्य शिरसा नाथं कारणं विश्वरूपिणम् । कृताञ्जलि पुटो भूत्वा प्राहैनं शिखवाहनः ॥ ६॥ ॥ कार्तिकेय उवाच ॥ देवदेव जगन्नाथ! सृष्टिस्थितिलयात्मक । त्वमेव परमात्मा च त्वं गतिः सर्वदेहिनाम् ॥ ७॥ त्वङ्गतिः सर्वलोकानां दीनानां च त्वमेव हि । त्वमेव जगदाधारस्त्वमेव विश्वकारणम् ॥ ८॥ त्वमेव पूज्यः सर्वेषां त्वदन्यो नास्ति मे गतिः । किं गुह्यम्परमं लोके किमेकं सर्वसिद्धिदम् ॥ ९॥ किमेकं परमं श्रेष्ठं को योग: स्वर्गमोक्षद: । विना तीर्थेन तपसा विना दानैर्विना मखै: ॥ १०॥ विना लयेन ध्यानेन नरः सिद्धिमवाप्नुयात् । कस्मादुत्पद्यते सृष्टि: कस्मिंश्च प्रलयो भवेत् ॥ ११॥ कस्मादुत्तीर्यते देव ! संसारार्णवसङ्कटात् । तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ! ॥ १२॥ ॥ ईश्वर उवाच ॥ साधु साधु त्वया पृष्टं पार्वतीप्रियनन्दन । अस्ति गुह्यतमम्पुत्र! कथयिष्याम्यसंशयम् ॥ १३॥ सत्वं रजस्तमश्चैव ये चान्ये महदादयः । ये चान्ये बहवो भूताः सर्वे प्रकृतिसम्भवाः ॥ १४॥ सैव देवी पराशक्तिः महात्रिपुरसुन्दरी । सैव प्रसूयते विश्वं विश्वं सैव प्रपास्यति ॥ १५॥ सैव संहरते विश्वं जगदेतच्चराचरम् । आधारः सर्वभूतानां सैव रोगार्तिहारिणी ॥ १६॥ इच्छाज्ञानक्रियाशक्तिरब्रह्मविष्णुशिवात्मिका । त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ॥ १७॥ सृज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते । ह्रियते रुद्ररूपेण जगदेतच्चराचरम् ॥ १८॥ यस्या योनौ जगत्सर्वमद्यापि परिवर्तते । यस्यां प्रलीयते चान्ते यस्यां च जायते पुनः ॥ १९॥ यां समाराध्य त्रैलोक्ये सम्प्राप्यं पदमुत्तमम् । तस्या नामसहस्रं तु कथयामि श‍ृणुष्व तत् ॥ २०॥ ॥ विनियोगः ॥ ॐ अस्य श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् दक्षिणामूर्तिः ऋषिः । जगतीछन्दः । समस्तप्रकटगुप्तसम्प्रदाय कुलकौलोत्तीर्णनिर्गर्भरहस्याचिन्त्यप्रभावती देवता । ॐ बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् । धर्मार्थकाममोक्षार्थे जपे विनियोगः । ॥ ऋष्यादि न्यासः ॥ ॐ श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् दक्षिणामूर्ति ऋषये नमः शिरसि । ॐ जगतीच्छन्दसे नमः मुखे। ॐसमस्तप्रकटगुप्तसम्प्रदायकुलकौलोत्तीर्णनिर्गर्भरहस्याचिन्त्यप्रभावतीदेवतायै नमः हृदये । ॐ ॐ बीजाय नमः नाभौ । ॐ ह्रीं शक्त्ये नमः गुह्ये । ॐ क्लीं कीलकाय नमः पादयोः । ॐ धर्मार्थकाममोक्षार्थे जपे विनियोगाय नमः सर्वाङ्गे । ॥ ध्यानम् ॥ ॐ आधारे तरुणार्कबिम्बरुचिरं हेमप्रभं वाग्भवम् । बीजं मन्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् ॥ विष्णुब्रह्मपदस्थशक्तिकलितं सोमप्रभाभासुरम् । ये ध्यायन्ति पदत्रयं तव शिवे ! ते यान्ति सौख्यं पदम् ॥ ॥ मानस पूजनम् ॥ ॐ लं पृथिव्यात्मकं गन्धं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं परब्रह्मस्वरूपिणी श्रीषोडशीदेवी प्रीतये समर्पयामि नमः । ॥ मूलपाठः ॥ कल्याणी कमला काली कराली कामरूपिणि । कामाख्या कामदा काम्या कामना कामचारिणी ॥ १॥ कालरात्रिर्महारात्रिः कपाली कामरूपिणी । कौमारी करुणा मुक्तिः कलिकल्मषनाशिनी ॥ २॥ कात्यायनी कराधारा कौमुदी कमलप्रिया । किर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ॥ ३॥ माहेश्वरी महामाया महातेजा महेश्वरी । महाजिह्वा महाघोरा महादंष्ट्रा महाभुजा ॥ ४॥ महामोहान्धकारघ्नी महामोक्षप्रदायिनी । महादारिद्र्यनाशा च महाशत्रुविमर्दिनी ॥ ५॥ महामाया महावीर्या महापातकनाशिनी । महामखा मन्त्रमयी मणिपूरकवासिनी ॥ ६॥ मानसी मानदा मान्या मनश्चक्षूरणेचरा । गणमाता च गायत्री गणगन्धर्वसेविता ॥ ७॥ गिरिजा गिरिशा साध्वी गिरिस्था गिरिवल्लभा । चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी ॥ ८॥ चर्विका चर्चिकाकारा चण्डिका चारुरूपिणी । यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ॥ ९॥ यज्ञमाता यज्ञभोक्त्री यज्ञेशी यज्ञसम्भवा । सिद्धयज्ञा क्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षिका ॥ १०॥ यज्ञक्रिया च यज्ञा च यज्ञायज्ञक्रियालया । जालन्धरी जगन्माता जातवेदा जगत्प्रिया ॥ ११॥ जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी । गङ्गा गोदावरी चैव गोमती च शतद्रुका ॥ १२॥ घर्घरा वेदगर्भा च रेचिका समवासिनी । सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती ॥ १३॥ भद्रा रागा विपाशा च गण्डकी विन्धयवासिनी । नर्मदा ताप्ती कावेरी वेत्रवती सुकौशिकी ॥ १४॥ महेन्द्रतनया चैव अहल्या चर्मकावती । अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ॥ १५॥ पुरी द्वारावती तीर्था महाकिल्विषनाशिनी । पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी ॥ १६॥ पद्मवक्त्रा चकोराक्षी पद्मस्था पद्मसम्भवा । ह्रीङ्कारी कुण्डलाधारा हृत्पद्मस्था सुलोचना ॥ १७॥ श्रीङ्कारी भूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी । हरिवक्त्रोद्भवा शान्ता हरिवक्त्रकृतालया ॥ १८॥ हरिवक्त्रोपमा हाला हरिवक्ष:स्थलास्थिता । वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी ॥ १९॥ विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला । विंश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी ॥ २०॥ विश्वनाथा शिवाराध्या शिवनाथा शिवप्रिया । शिवमाता शिवाख्या च शिवदा शिवरूपिणी ॥ २१॥ भवेश्वरी भवाराध्या भवेशी भवनायिका । भवमाता भवगम्या भवकण्टकनाशिनी ॥ २२॥ भवप्रिया भवानन्दा भवानी भवमोहिनी । गायत्री चैव सावित्री ब्रह्माणी ब्रह्मरूपिणी ॥ २३॥ ब्रह्मेशी ब्रह्मदा ब्रह्मा ब्रह्माणी ब्रह्मवादिनी । दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी ॥ २४॥ सुगमा दुर्गमा दान्ता दया दोग्ध्री दुरापहा । दुरितघ्नी दुराध्यक्षा दुरा दुष्कृतनाशिनी ॥ २५॥ पञ्चास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी । सत्त्वस्था सत्त्वरूपा च सत्त्वगा सत्त्वसम्भवा ॥ २६॥ रजस्था च रजोरूपा रजोगुणसमुद्भवा । तमस्था च तमोरूपा तामसी तामसप्रिया ॥ २७॥ तमोगुणसमुद्भूता सात्विकी राजसी कला । काष्ठा मुहूर्ता निमिषा अनिमेषा ततः परम् ॥ २८॥ अर्धमासा च मासा च संवत्सरस्वरूपिणी । योगस्था योगरूपा च कल्पस्था कल्परूपिणी ॥ २९॥ नानारत्नविचित्राङ्गी नानाऽऽभरणमण्डिता । विश्वात्मिका विश्वमाता विश्वपाशविनाशिनी ॥ ३०॥ विश्वासकारिणी विश्वा विश्वशक्तिविचारणा । जपाकुसुमसङ्काशा दाडिमीकुसुमोपमा ॥ ३१॥ चतुरङ्गी चतुर्बाहुश्चतुराचारवासिनी । सर्वेशी सर्वदा सर्वा सर्वदासर्वदायिनी ॥ ३२॥ माहेश्वरी च सर्वाद्या शर्वाणी सर्वमङ्गला । नलिनी नन्दिनी नन्दा आनन्दानन्दवर्द्धिनी ॥ ३३॥ व्यापिनी सर्वभुतेषु भवभारविनाशिनी । सर्वश‍ृङ्गारवेषाढ्या पाशाङ्कुशकरोद्यता ॥ ३४॥ सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना । गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ॥ ३५॥ दावाग्निकोटिदलिनी रुद्रकोट्युग्ररूपिणी । समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ३६॥ आकाशकोटिविस्तारा यमकोटिभयङ्करी । मेरुकोटिसमुछ्राया गणकोटिसमृद्धिदा ॥ ३७॥ निष्कस्तोका निराधरा निर्गुणा गुणवर्जिता । अशोका शोकरहिता तापत्रयविवर्जिता ॥ ३८॥ वसिष्ठा विश्वजननी विश्वाख्या विश्ववर्द्धिनी । चित्रा विचित्रा चित्राङ्गी हेतुगर्भाकुलेश्वरी ॥ ३९॥ इच्छाशक्तिः ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता । शुचिः स्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ॥ ४०॥ महासत्वमयी सत्वा पञ्चतत्त्वोपरिस्थिता । पार्वती हिमवत्पुत्री पारस्था पाररूपिणी ॥ ४१॥ जयन्ती भद्रकाली च अहल्या कुलनायिका । भूतधात्री च भूतेशी भूतस्था भूतभाविनी ॥ ४२॥ महाकुण्डलिनीशक्तिर्महाविभवर्द्धिनी । हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ॥ ४३॥ सोमसूर्याग्निमध्यस्था मणिमण्डलवासिनी । द्वादशारसरोजस्था सूर्यमण्डलवासिनी ॥ ४४॥ अकलङ्का शशाङ्काभा षोडशारनिवासिनी । डाकिनी राकिनी चैव लाकिनी काकिनी तथा ॥ ४५॥ शाकिनी हाकिनी चैव षट् चक्रेषु निवासिनी । सृष्टि स्थितिविनाशिनी सृष्ट्यन्ता सृष्टिकारिणी ॥ ४६॥ श्रीकण्ठप्रिया हृतकण्ठा नन्दाख्या विन्दुमालिनी । चतुष्षष्टि कलाधारा देहदण्डसमाश्रिता ॥ ४७॥ माया काली धृतिर्मेधा क्षुधा तुष्टिर्महाद्युतिः । हिङ्गुला मङ्गला सीता सुषुम्नामध्यगामिनी ॥ ४८॥ परघोरा करालाक्षी विजया जयदायिनी । हृतपद्मनिलया भीमा महाभैरवनादिनी ॥ ४९॥ आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी । महत्सूक्ष्मा च कङ्काली भीमरूपा महाबला ॥ ५०॥ मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा । अन्तरस्था च कूटबीजा चित्रकूटाचलवासिनी ॥ ५१॥ वर्णाख्या वर्णरहिता पञ्चाशद्वर्णभेदिनी । विद्याधरी लोकधात्री अप्सरा अप्सरः प्रिया ॥ ५२॥ दीक्षा दाक्षायणी दक्षा दक्षयज्ञविनाशिनी । यशःपूर्णा यशोदा च यशोदागर्भसम्भवा ॥ ५३॥ देवकी देवमाता च राधिका कृष्णवल्लभा । अरुन्धती शचीन्द्राणी गान्धारी गन्धमालिनी ॥ ५४॥ ध्यानातीता ध्यानगम्या ध्यानज्ञा ध्यानधारिणी । लम्बोदरी च लम्बोष्ठी जाम्बवन्ती जलोदरी ॥ ५५॥ महोदरी मुक्तकेशी मुक्तकामार्थसिद्धिदा । तपस्विनी तपोनिष्ठा सुपर्णा धर्मवासिनी ॥ ५६॥ बाणचापधरा धीरा पाञ्चाली पञ्चमप्रिया । गुह्याङ्गी च सुभीमाङ्गी गुह्यतत्त्वा निरञ्जना ॥ ५७॥ अशरीरा शरीरस्था संसारार्णवतारिणी । अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ॥ ५८॥ चक्रप्रिया च चक्राह्वा पञ्चचक्रादिदिरिणी । पद्मरागप्रतीकाशा निर्मलाकाश सन्निभा ॥ ५९॥ अधःस्था ऊर्ध्वरूपा च ऊरध्वपद्मनिवासिनी । कार्यकारणकर्तृत्वे शश्वद्-रूपेषु-संस्थिता ॥ ६०॥ रसज्ञा रसमध्यस्था गन्धस्था गन्धरूपिणी । परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ॥ ६१॥ शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता । सिद्धिर्बुद्धिर्पराबुद्धिः सन्दीप्तिर्मध्यसंस्थिता ॥ ६२॥ स्वगुह्या शाम्भवीशक्तिः तत्त्वस्था तत्त्वरूपिणी । शाश्वती भूतमाता च महाभूताधिपप्रिया ॥ ६३॥ शुचिप्रेता धर्मसिद्धिः धर्मवृद्धिः पराजिता । कामसन्दीपनी कामा सदाकौतूहलप्रिया ॥ ६४॥ जटाजूटधरा मुक्ता सूक्ष्मा शक्तिविभूषणा । द्वीपिचर्मपरीधाना चीरवल्कलधारिणी ॥ ६५॥ त्रिशूलडमरूधरा नरमालाविभूषणा । अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा ॥ ६६॥ त्रैलोक्यसाधिनी साध्या सिद्धिसाधकवत्सला । सर्वविद्यामयी सारा चासुराणां विनाशिनी ॥ ६७॥ दमनी दामिनी दान्ता दया दोग्घ्री दुरापहा । अग्निजिह्वोपमा घोराघोर घोर तरानना॥ ६८॥ नारायणी नारसिंही नृसिंहहृदयेस्थिता । योगेश्वरी योगरूपा योगमाता च योगिनी ॥ ६९॥ खेचरी खचरी खेला निर्वाणपदसंश्रया । नागिनी नागकन्या च सुवेशा नागनायिका ॥ ७०॥ विषज्वालावती दीप्ता कलाशतविभूषणा । तीव्रवक्त्रा महावक्त्रा नागकोटित्वधारिणी ॥ ७१॥ महासत्वा च धर्मज्ञा धर्मातिसुखदायिनी । कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा वरानना ॥ ७२॥ सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी । सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ॥ ७३॥ सर्वपीडोपशमनी सर्वारिष्टनिवारिणी । सर्वैश्वर्यसमुत्पन्ना सर्वग्रहविनाशिनी ॥ ७४॥ मातङ्गी मत्तमातङ्गी मातङ्गीप्रियमण्डला । अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥ ७५॥ अमृतोदधिमध्यस्था प्रवालवसनाम्बुजा । मणिमण्डलमध्यस्था ईषत्प्रहसितानना ॥ ७६॥ कुमुदा ललिता लोला लाक्षालोहितलोचना । दिग्वासा देवदूती च देवदेवाधिदेवता ॥ ७७॥ सिंहोपरिसमारूढा हिमाचलनिवासिनी । अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी ॥ ७८॥ अत्यग्ररक्तवस्त्राभा नागकेयूरमण्डिता । मुक्ताहारलतोपेता तुङ्गपीनपयोधरा ॥ ७९॥ रक्तोत्पलदलाकारा मदाघूर्णितलोचना । समस्तदेवतामूर्तिः सुरारिक्षयकारिणी ॥ ८०॥ खड्गिनी शूलहस्ता च चक्रिणी चक्रमालिनी । शङ्खिनी चापिनी बाणा वज्रणी वज्रदण्डिनी ॥ ८१॥ आन्नदोदधतिमध्यस्था कटिसूत्रधारापरा । नानाभरणदीप्ताङ्गा नानमणिविभूषिता ॥ ८२॥ जगदानन्दसम्भूता चिन्तामणिगुणान्विता । त्रैलोक्यनमिता तुर्या चिन्मयानन्दरूपिणी ॥ ८३॥ त्रैलोक्यनन्दिनीदेवी दुःख दुःस्वप्ननाशिनी । घोराग्निदाहशमनी राज्यदेवार्थसाधिनी ॥ ८४॥ महाऽपराधराशिघ्नी महाचौरभयापहा । रागादि दोषरहिता जरामरणवर्जिता ॥ ८५॥ चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा । सर्वदेवैःस्तुतादेवी सर्वसिद्धैर्नमस्कृता ॥ ८६॥ अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधि । अस्तिस्वस्तिमयीबाला मलयाचलवासिनी ॥ ८७॥ धात्री विधात्री संहारी रतिज्ञा रतिदायिनी । रुद्राणी रुद्ररूपा च रुद्ररौद्रार्तिनाशिनी ॥ ८८॥ सर्वज्ञाचैवधर्मज्ञा रसज्ञा दीनवत्सला । अनाहता त्रिनयना निर्भारा निर्वृतिःपरा ॥ ८९॥ पराऽघोरा करालाक्षी सुमती श्रेष्ठदायिनी । मन्त्रालिका मन्त्रगम्या मन्त्रमाला सुमन्त्रिणी ॥ ९०॥ श्रद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका । धरिणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ॥ ९१॥ मेरूमन्दरमध्यस्था स्थितिः शङ्करवल्लभा । श्रीमती श्रीमयी श्रेष्ठा श्रीकरी भावभाविनी ॥ ९२॥ श्रीदा श्रीमा श्रीनिवासा श्रीवती श्रीमताङ्गतिः । उमा सारङ्गिणी कृष्णा कुटिला कुटिलालिका ॥ ९३॥ त्रिलोचना त्रिलोकात्मा पुण्यापुण्यप्रकीर्तिता पुण्यपुण्याप्रकीर्तिता । अमृता सत्यसङ्कल्पा सा सत्या ग्रन्थिभेदिनी ॥ ९४॥ परेशी परमासाध्या पराविद्या परात्परा । सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ॥ ९५॥ प्रजा प्रजावती धान्या धनधान्यसमृद्धिदा । ईशानी भुवनेशानी भवानी भुवनेश्वरी ॥ ९६॥ अनन्तानन्तमहिता जगत्सारा जगद्भवा । अचिन्त्यात्माचिन्त्यशक्तिः चिन्त्याचिन्त्यस्वरूपिणी ॥ ९७॥ ज्ञानगम्या ज्ञानमूर्तिः ज्ञानिनी ज्ञानशालिनी । असिता घोररूपा च सुधाधारा सुधावहा ॥ ९८॥ भास्करी भास्वरी भीतिर्भास्वदक्षानुशायिनी । अनसूया क्षमा लज्जा दुर्लभाभरणात्मिका ॥ ९९॥ विश्वध्नी विश्ववीरा व विश्वाशा विश्वसंस्थिता । शीलस्था शीलरूपा च शीला शीलप्रदायिनी ॥ १००॥ बोधिनी बोधकुशला रोधिनीबोधिनी तथा । विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ॥ १०१॥ विश्वयोनिर्महायोनिः कर्मयोनिः प्रियात्मिका । विश्वयोनिः महायोनिः कर्मयोनिः प्रियात्मिका रोहिणी रोगशमनी महारोगज्वरापहा ॥ १०२॥ रसदा पुष्टिदा पुष्टिर्मानदा मानवप्रिया । कृष्णाङ्गवाहिनी कृष्णाऽकला कृष्णसहोदरा ॥ १०३॥ शाम्भवी शम्भुरूपा च शम्भुस्था शम्भुसम्भवा । विश्वोदरी योगमाता योगमुद्रा सुयोगिनी ॥ १०४॥ वागीश्वरी योगनिद्रा योगिनीकोटिसेविता । कौलिका नन्दकन्या च श‍ृङ्गारपीठवासिनी ॥ १०५॥ क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरी । धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ॥ १०६॥ पिनाकी रुद्रवेताली महावेतालरूपिणी । तपिनी तापिनी दीक्षा विष्णुविद्यात्मनाश्रिता ॥ १०७॥ मन्थरा जठरा तीव्राऽग्निजिह्वा च भयापहा । पशुघ्नी पशुपाला च पशुहा पशुवाहिनी ॥ १०८॥ पितामाता च धीरा च पशुपाशविनाशिनी । चन्द्रप्रभा चन्द्ररेखा चन्द्रकान्तिविभूषिणी ॥ १०९॥ कुङ्कमाङ्कितसर्वाङ्गी सुधासद्गुरुलोचना । शुक्लाम्बरधरादेवी वीणापुस्तकधारिणी ॥ ११०॥ ऐरावतपद्मधरा श्वेतपद्मासनस्थिता । रक्ताम्बरधरादेवी रक्तपद्मविलोचना ॥ १११॥ दुस्तरा तारिणी तारा तरुणी ताररूपिणी । सुधाधारा च धर्मज्ञा धर्मसङ्घोपदेशिनी ॥ ११२॥ भगेश्वरी भगाराध्या भगिनी भगनायिका । भगबिम्बा भगक्लिन्ना भगयोनिर्भगप्रदा ॥ ११३॥ भगेशी भगरूपा च भगगुह्या भगावहा । भगोदरी भगानन्दा भगस्था भगशालिनी ॥ ११४॥ सर्वसङ्क्षोभिणीशक्तिः सर्वविद्राविणी तथा । मालिनी माधवी माध्वी मधुरूपा महोत्कटा ॥ ११५॥ भेरुण्डा चन्द्रिका ज्योत्स्ना विश्वचक्षुस्तमोऽपहा । सुप्रसन्ना महादूती यमदूती भयङ्करी ॥ ११६॥ उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता । चैतन्यरूपिणी नित्या क्लिन्ना काममदोद्धता ॥ ११७॥ मदिरानन्दकैवल्या मदिराक्षी मदालसा । सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धसम्भवा ॥ ११८॥ सिद्धर्द्धिः सिद्धमाता च सिद्धःसर्वार्थसिद्धिदा । मनोमयी गुणातीता परञ्ज्योतिःस्वरूपिणी ॥ ११९॥ परेशी परगापारा परासिद्धिः परागतिः । विमला मोहिनी आद्या मधुपानपरायणा ॥ १२०॥ वेदवेदाङ्गजननी सर्वशास्त्रविशारदा । सर्वदेवमयीविद्या सर्वशास्त्रमयी तथा ॥ १२१॥ सर्वज्ञानमयीदेवी सर्वधर्ममयीश्वरी । सर्वयज्ञमयी यज्ञा सर्वमन्त्राधिकारिणी ॥ १२२॥ सर्वसम्पतप्रतिष्ठात्री सर्वविद्राविणी परा । सर्वसङ्क्षोभिणीदेवी सर्वमङ्गलकारिणी ॥ १२३॥ त्रैलोक्याकर्षिणी देवी सर्वाह्लादनकारिणी । सर्वसम्मोहिनीदेवी सर्वस्तम्भनकारिणी॥ १२४॥ त्रैलोक्यजृम्भिणी देवी तथा सर्ववशङ्करी । त्रैलोक्यरञ्जनीदेवी सर्वसम्पत्तिदायिनी ॥ १२५॥ सर्वमन्त्रमयिदेवी सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदादेवी सर्वसम्पत्प्रदायिनी ॥ १२६॥ सर्वप्रियङ्करीदेवी सर्वमङ्गलकारिणी । सर्वकामप्रदादेवी सर्वदुःखविमोचिनी ॥ १२७॥ सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी । सर्वाङ्गसुन्दरीमाता सर्वसौभाग्यदायिनी ॥ १२८॥ सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा । सर्वज्ञानमयीदेवी सर्वव्याधिविनाशिनी ॥ १२९॥ सर्वाधारस्वरूपा च सर्वपापहरा तथा । सर्वानन्दमयीदेवी सर्वेच्छाया:स्वरूपिणी ॥ १३०॥ सर्वलक्ष्मीमयीविद्या सर्वेप्सितफलप्रदा । सर्वारिष्टप्रशमनी परमानन्ददायिनी ॥ १३१॥ त्रिकोणनिलया त्रिस्था त्रिमाता त्रितनुस्थिता। त्रिवेणी त्रिपथा गुण्या त्रिमूर्तिः त्रिपुरेश्वरी ॥ १३२॥ त्रिधाम्नी त्रिदशाध्यक्षा त्रिवित्त्रिपुरवासिनी । त्रयीविद्या च त्रिशिरा त्रैलोक्या च त्रिपुष्करा ॥ १३३॥ त्रिकोटरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका । त्रिपुराश्री त्रिजननी त्रिपुरात्रिपुरसुन्दरी ॥ १३४॥ महामाया महामेधा महाचक्षुः महोक्षजा । महावेधा पराशक्तिः पराप्रज्ञा परम्परा ॥ १३५॥ महालक्ष्या महाभक्ष्या महाकक्ष्याऽकलेश्वरी । कलेश्वरी कलानन्दा कलेशी कलसुन्दरी ॥ १३६॥ कलशा कलशेशी च कुम्भमुद्रा कृशोदरी । कुम्भपा कुम्भमध्येशी कुम्भानन्दप्रदायिनी॥ १३७॥ कुम्भजानन्दनाथा व कुम्भजानन्दवर्द्धिनी । कुम्भजानन्दसन्तोषा कुम्भजतर्पिणीमुदा ॥ १३८॥ वृत्तिः वृत्तीश्वरीऽमोघा विश्ववृत्त्यन्ततर्पिणी। विश्वशान्ति विशालाक्षी मीनाक्षी मीनवर्णदा ॥ १३९॥ विश्वाक्षी दुर्धरा धूमा इन्द्राक्षी विष्णुसेविता । विरञ्चिसेविता विश्वा ईशाना ईशवन्दिता ॥ १४०॥ महाशोभा महालोभा महामोहा महेश्वरी । महाभीमा महाक्रोधा मन्मथा मदनेश्वरी ॥ १४१॥ महानला महाक्रोधा विश्वसंहारताण्डवा । सर्वसंहारवर्णेशी सर्वपालनतत्परा ॥ १४२॥ सर्वादिः सृष्टिकर्त्री च शिवाद्या शम्भुस्वामिनी । महानन्देश्वरी मृत्युर्महास्पन्देश्वरी सुधा ॥ १४३॥ पर्णापर्ण परावर्णाऽपर्णेशी पर्णमानसा । वराही तुण्डदा तुण्डा गणेशी गणनायिका ॥ १४४॥ वटुका वटुकेशी च क्रौचदारणजन्मदा । क ए इ ल महामाया ह स क ह ल मायया ॥ १४५॥ दिवयानामा सदाकामा श्यामा रामा रमा रसा । स क ल ह्रीं तत्स्वरूपा च।श्रीं ह्रीं नामादि रूपिणी ॥ १४६॥ कालज्ञा कालहामूर्तिः सर्वसौभाग्यदा मुदा । उर्वा उर्वेश्वरी खर्वा खर्वपर्वा खगेश्वरी ॥ १४७॥ गरुडा गारुडीमाता गरुडेश्वरपूजिता । अन्तरिक्षान्तरपदा प्रज्ञा प्रज्ञानदा परा ॥ १४८॥ विज्ञाना विश्वविज्ञाना अन्तराक्षा विशारदा । अन्तर्ज्ञानमयी सौम्या मोक्षानन्दविवर्द्धिनी ॥ १४९॥ शिवशक्तिमयीशक्तिः एकानन्दप्रवर्तिनी । श्रीमाता श्रीपराविद्या सिद्धाश्री सिद्धसागरा । सिद्धलक्ष्मी सिद्धविद्या सिद्धा सिद्धेश्वरी सुधा ॥ १५०॥ ॥ फलश्रुतिः ॥ इदं त्रिपुरासुन्दर्याः स्तोत्रनामसहस्रकम् । गुह्याद्गुह्यतरं पुत्र! तव प्रीत्यै प्रकीर्तितम् ॥ १॥ गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः । नातः परतरं पुण्यं नातःपरतरं तपः ॥ २॥ नातः परतरं स्तोत्रं नातः परतरं गतिः । स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिर्गतम् ॥ ३॥ यः पठेत्प्रयतो भक्त्या श‍ृणुयाद्वा समाहितः । मोक्षार्थीं लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥ ४॥ कामांश्च प्राप्नुयातकामी धनार्थी च लभेद्धनम् । विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥ ५॥ कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् । गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ॥ ६॥ मूर्खोऽपि लभते शास्त्रं हीनोऽपि लभते गतिम् । सङ्क्रान्त्यां वार्कामावस्यां अष्टम्यां च विशेषतः ॥ ७॥ पौर्णमास्यां चतुर्दश्यां नवम्यां भौमवासरे । पठेद्वा पाठयेद्वापि श‍ृणुयाद्वा समाहितः ॥ ८॥ स मुक्तो सर्वपापेभ्यः कामेश्वरसमो भवेत् । लक्ष्मीवान् धर्मवांश्चैव वल्लभस्सर्वयोषिताम् ॥ ९॥ तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् । रुद्रं दृष्टवा यथा देवा विष्णुं दृष्ट्वा च दानवाः ॥ १०॥ यथाहिर्गरुडं दृष्ट्वा सिंह दृष्ट्वा यथा गजाः । कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ॥ ११॥ अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत् । पातका विविधाः शन्तिर्मेरुपर्वतसन्निभाः ॥ १२॥ यस्मात्तच्छृणुयाद्विघ्नांस्तृणं वह्निहुतं यथा । एकदा पठनादेव सर्वपापक्षयो भवेत् ॥ १३॥ दशधा पठनादेव वाचा सिद्धः प्रजायते । शतधा पठनाद्वापि खेचरो जायते नरः ॥ १४॥ सहस्रदशसङ्ख्यातं यः पठेद्भक्तिमानसः । माताऽस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ॥ १५॥ लक्षपूर्णे यथा पुत्र! स्तोत्रराजं पठेत्सुधीः । भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ॥ १६॥ सर्वतीर्थेषु यत्पुण्यं सकृज्जप्त्वा लभेन्नरः । सर्ववेदेषु यत्प्रोक्तं तत्फलं परिकीर्तितम् ॥ १७॥ भूत्वा च बलवान् पुत्र धनवान्सर्वसम्पदः । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १८॥ स यास्यति न सन्देहः स्तवराजस्य किर्त्तनात् ॥ १९॥ ॥ इति श्रीवामकेश्वरतन्त्रे षोडश्याः सहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्री षोडशी सहस्रनाम स्तोत्रम् का परिचय

श्री षोडशी सहस्रनाम स्तोत्रम्, श्रीविद्या साधना की परंपरा में एक शिखर के समान है, जिसका स्रोत प्रतिष्ठित "वामकेश्वर तंत्र" है। यह मात्र एक स्तुति नहीं, बल्कि ज्ञान और शक्ति का एक गहरा महासागर है, जो स्वयं आदिगुरु भगवान शिव और उनके जिज्ञासु पुत्र कार्तिकेय (शिखवाहन) के बीच हुए एक महत्वपूर्ण संवाद के रूप में प्रकट हुआ। स्तोत्र की "पूर्व पीठिका" (प्रस्तावना) इस दिव्य घटना का सुंदर वर्णन करती है। कैलास के मणिमंडप में आसीन भगवान शिव से, कुमार कार्तिकेय ब्रह्मांड के सबसे गूढ़ प्रश्न पूछते हैं - संसार का परम रहस्य क्या है? कौन सी एक साधना सभी सिद्धियों को दे सकती है? बिना कठिन तप, तीर्थ या यज्ञ के सिद्धि कैसे प्राप्त हो? (श्लोक ९-१२)।

इन गहन प्रश्नों के उत्तर में, भगवान शिव अत्यंत स्नेह से (श्लोक १३) उस परम रहस्य को उजागर करते हैं। वे बताते हैं कि सृष्टि का मूल कारण कोई और नहीं, बल्कि पराशक्ति 'महात्रिपुरसुन्दरी' हैं। वही ब्रह्मा के रूप में सृष्टि करती हैं, विष्णु के रूप में पालन करती हैं, और रुद्र के रूप में संहार करती हैं (श्लोक १५-१८)। वही समस्त ब्रह्मांड की आधार हैं और उन्हीं की आराधना से परम पद प्राप्त होता है। इसी परम ज्ञान को सुलभ बनाने के लिए, भगवान शिव उन महादेवी के एक हजार दिव्य नामों वाले इस स्तोत्र को प्रकट करते हैं।

यह सहस्रनाम स्तोत्र, जिसके दृष्टा स्वयं ज्ञान के मूर्तिमान स्वरूप भगवान दक्षिणामूर्ति हैं, देवी षोडशी के विराट स्वरूप का काव्यात्मक चित्रण है। षोडशी, जिन्हें ललिता या त्रिपुरसुन्दरी भी कहा जाता है, दस महाविद्याओं में सर्वोच्च मानी जाती हैं। वे सोलह कलाओं से परिपूर्ण, परम सौंदर्य, यौवन और आनंद की प्रतिमूर्ति हैं। यह स्तोत्र उनके इन्हीं अनंत गुणों को 1000 नामों के माध्यम से साधक के समक्ष प्रस्तुत करता है, जिससे साधक उनके स्वरूप में ध्यानमग्न हो सके। इसका पाठ केवल पुण्य अर्जन नहीं है, बल्कि चेतना का ब्रह्मांडीय ऊर्जा के साथ एकीकरण है।

विशिष्ट महत्व (Significance)

इस स्तोत्र की महत्ता इसके स्रोत, इसके ऋषि और इसके स्वरूप में निहित है। यह श्रीविद्या के साधकों के लिए एक अनिवार्य पथ-प्रदर्शक है।

  • गुरु-शिष्य संवाद: यह स्तोत्र आदर्श गुरु (शिव) और आदर्श शिष्य (कार्तिकेय) की परंपरा का प्रतीक है। शिष्य की सच्ची जिज्ञासा ही गुरु के मुख से परम ज्ञान को प्रकट करवाती है।
  • सारलता में सर्वोच्च ज्ञान: कार्तिकेय का प्रश्न था कि बिना जटिल क्रियाओं के सिद्धि कैसे मिले। यह स्तोत्र उसी का उत्तर है। भगवान शिव स्वयं कहते हैं कि इस स्तोत्र से बढ़कर कोई पुण्य, कोई तप या कोई गति नहीं है (फलश्रुति श्लोक २-३)।
  • ब्रह्मांड का ध्वनि-चित्रण: 1000 नाम देवी के ब्रह्मांडीय विस्तार को दर्शाते हैं। ये नाम केवल विशेषण नहीं, बल्कि शक्ति के केंद्र हैं। इनमें देवी के सौम्य (कमला, कल्याणी) और उग्र (कराली, कालरात्रि) दोनों रूपों का समावेश है, जो दर्शाता है कि वे द्वंद्वों से परे हैं।
  • तंत्र का व्यावहारिक रूप: विनियोग, न्यास, ध्यान और मानस पूजा के साथ इसकी संरचना इसे एक पूर्ण तांत्रिक साधना बनाती है, जो साधक के शरीर, मन और आत्मा को रूपांतरित करने की क्षमता रखती है।

फलश्रुति से प्राप्त होने वाले लाभ (Benefits from Phala Shruti)

इस स्तोत्र के अंत में स्वयं भगवान शिव ने इसकी विस्तृत फलश्रुति का वर्णन किया है, जो इसके पाठ से प्राप्त होने वाले अमोघ फलों को बताती है:

  • पुरुषार्थ चतुष्टय की प्राप्ति: यह स्तोत्र धर्म, अर्थ, काम और मोक्ष चारों पुरुषार्थों को प्रदान करता है। मोक्षार्थी को मोक्ष, धनार्थी को धन, विद्यार्थी को विद्या और कामी को कामनाओं की पूर्ति होती है (श्लोक ४-५)।
  • पारिवारिक और सामाजिक सुख: इसके पाठ से कन्या को उत्तम पति और गर्भवती स्त्री को पुत्र रत्न की प्राप्ति होती है। पाठ करने वाला सभी स्त्रियों का प्रिय होता है और समाज में यश प्राप्त करता है (श्लोक ६, ९)।
  • ज्ञान और सिद्धि: मूर्ख व्यक्ति भी शास्त्रज्ञ बन जाता है। दस बार पाठ करने से 'वाचा सिद्धि' (वाणी की सिद्धि) और सौ बार पाठ करने से 'खेचरत्व' (आकाश में गमन की शक्ति) प्राप्त होती है (श्लोक ७, १४)।
  • त्रैलोक्य वशीकरण और शत्रु नाश: पाठ करने वाले के लिए तीनों लोक वशीभूत हो जाते हैं। उसके तेज के सम्मुख शत्रु ऐसे भाग जाते हैं जैसे गरुड़ को देखकर सर्प (श्लोक १०-११)।
  • पाप, भय और विघ्नों का नाश: एक बार के पाठ से ही सभी पाप नष्ट हो जाते हैं। अग्नि और चोर का भय कभी नहीं होता। मेरु पर्वत के समान पाप और विघ्न भी ऐसे जल जाते हैं जैसे अग्नि में तृण (श्लोक १३, १२)।
  • देवी का साक्षात्कार और शिव-तुल्यता: दस हजार पाठ भक्तिपूर्वक करने पर जगज्जननी माँ प्रत्यक्ष दर्शन देती हैं, और एक लाख पाठ पूर्ण करने पर साधक भव-बंधन से मुक्त होकर स्वयं शिव के समान हो जाता है, इसमें कोई संशय नहीं (श्लोक १५-१६)।

पाठ विधि और विशेष अवसर (Ritual Method)

यह एक "गुह्याद्गुह्यतरं" (रहस्यों में भी परम रहस्य) स्तोत्र है, अतः इसका पाठ पूर्ण श्रद्धा, पवित्रता और सही विधि से करना चाहिए।

साधना के नियम

  • पवित्रता और आसन: प्रातःकाल स्नान आदि के बाद, स्वच्छ वस्त्र धारण कर, लाल या कुश के आसन पर पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • न्यास और ध्यान: पाठ से पूर्व स्तोत्र में दिए गए विनियोग, ऋष्यादि न्यास, ध्यान और मानस पूजा को अवश्य संपन्न करें। न्यास शरीर को मंत्र ऊर्जा के लिए तैयार करता है और ध्यान मन को देवी के स्वरूप में स्थिर करता है।
  • पाठ: पूर्ण एकाग्रता और शुद्ध उच्चारण के साथ स्तोत्र का पाठ करें। प्रत्येक श्लोक के अर्थ को समझने का प्रयास करने से भाव और भक्ति गहरी होती है।
  • पूजा: यदि संभव हो तो श्री यंत्र या माँ त्रिपुरसुन्दरी के चित्र के समक्ष घी का दीपक और धूप जलाकर पाठ करें।
  • विशेष अवसर: फलश्रुति के अनुसार, संक्रांति, अमावस्या, पूर्णिमा, अष्टमी, चतुर्दशी, नवमी तिथि और मंगलवार के दिन इस स्तोत्र का पाठ करना विशेष रूप से फलदायी होता है (श्लोक ७-८)। नवरात्रि में इसका पाठ अत्यंत शक्तिशाली माना जाता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्रीषोडशीसहस्रनाम स्तोत्र और नामावली में क्या अंतर है?

यह 'स्तोत्र' है, जो श्लोकों (छंद) के रूप में एक काव्यात्मक स्तुति है। इसे लय के साथ पढ़ा जाता है। 'नामावली' में इन्हीं नामों को "ॐ [नाम] नमः" के प्रारूप में सूचीबद्ध किया जाता है और उसका उपयोग मुख्यतः अर्चना (फूल चढ़ाने) के लिए होता है।

2. इस स्तोत्र का उपदेश शिव ने कार्तिकेय को ही क्यों दिया?

कार्तिकेय, जो स्वयं ज्ञान और शक्ति के प्रतीक हैं, ने एक आदर्श शिष्य की भांति लोक-कल्याण के लिए प्रश्न पूछे। उनकी निःस्वार्थ जिज्ञासा ने ही भगवान शिव को यह परम गोपनीय ज्ञान प्रकट करने के लिए प्रेरित किया।

3. फलश्रुति में 'कामेश्वर समो भवेत्' का क्या अर्थ है?

कामेश्वर भगवान शिव का वह स्वरूप है जो श्रीविद्या के उपास्य हैं और श्री यंत्र के केंद्र में बिंदु रूप में स्थित हैं। 'कामेश्वर के समान होना' का अर्थ है अपार ऐश्वर्य, तेज, आकर्षण और अंततः शिव-स्वरूप को प्राप्त कर लेना।

4. क्या इस स्तोत्र का पाठ बिना गुरु के कर सकते हैं?

पूर्ण भक्ति और श्रद्धा के साथ कोई भी इसका पाठ कर सकता है और लाभ प्राप्त कर सकता है। हालांकि, श्रीविद्या एक गूढ़ और क्रमबद्ध साधना है, इसलिए स्तोत्र को एक अनुष्ठान के रूप में करने या इसकी गहराइयों को समझने के लिए एक योग्य गुरु का मार्गदर्शन सर्वोत्तम माना जाता है।

5. फलश्रुति में वर्णित सिद्धियाँ (जैसे वाचा सिद्धि) क्या वास्तविक हैं?

हाँ, तंत्र और योग साधना में इन सिद्धियों का वर्णन मिलता है। 'वाचा सिद्धि' का अर्थ है कि व्यक्ति जो भी बोलेगा वह सत्य हो जाएगा। ये सिद्धियाँ मंत्र के निरंतर और श्रद्धापूर्वक जप से ध्वनि और चेतना के सामंजस्य के परिणामस्वरूप प्रकट होती हैं।

6. यह स्तोत्र ललिता सहस्रनाम स्तोत्र से कैसे भिन्न है?

दोनों ही स्तोत्र एक ही महादेवी त्रिपुरसुन्दरी को समर्पित हैं, लेकिन उनके स्रोत और संवाद अलग हैं। ललिता सहस्रनाम 'ब्रह्माण्ड पुराण' से है और यह हयग्रीव-अगस्त्य संवाद है। यह स्तोत्र 'वामकेश्वर तंत्र' से है और यह शिव-कार्तिकेय संवाद है। दोनों ही परम शक्तिशाली और प्रामाणिक हैं।

7. ध्यान श्लोक में वर्णित तीन बीजों का क्या अर्थ है?

ध्यान श्लोक में श्रीविद्या के पञ्चदशी मंत्र के तीन कूटों (खंडों) का वर्णन है: 'वाग्भव कूट' (ऐं), 'कामराज कूट' (क्लीं), और 'शक्ति कूट' (सौः)। ये क्रमशः ज्ञान (ब्रह्मा), इच्छा (विष्णु), और क्रिया (शिव) की शक्तियों का प्रतिनिधित्व करते हैं।

8. 'गुह्याद्गुह्यतरं' (रहस्य से भी बढ़कर रहस्य) क्यों कहा गया है?

इसे ऐसा इसलिए कहा गया है क्योंकि इसके शाब्दिक अर्थ के परे गहरे तांत्रिक और दार्शनिक अर्थ छिपे हैं। इसका वास्तविक रहस्य केवल भक्ति, साधना और गुरु की कृपा से ही एक साधक पर प्रकट होता है।

9. क्या स्त्रियाँ इस स्तोत्र का पाठ कर सकती हैं?

हाँ, बिलकुल। देवी की साधना स्त्री-पुरुष कोई भी कर सकता है। वास्तव में, शाक्त परंपरा में स्त्री को शक्ति का स्वरूप ही माना जाता है, इसलिए वे इस साधना की स्वाभाविक अधिकारी हैं।

10. यदि प्रतिदिन पूरा पाठ संभव न हो तो क्या करें?

यदि समय का अभाव हो, तो आप इसे कुछ भागों में बाँटकर पढ़ सकते हैं या केवल पूर्व पीठिका और फलश्रुति का पाठ भी कर सकते हैं। सबसे महत्वपूर्ण है नियम और श्रद्धा। कुछ श्लोकों का भी नित्य श्रद्धापूर्वक पाठ बहुत लाभकारी होता है।