Logoपवित्र ग्रंथ

Sri Shani Sahasranama Stotram – श्री शनैश्चर सहस्रनाम स्तोत्रम्

Sri Shani Sahasranama Stotram – श्री शनैश्चर सहस्रनाम स्तोत्रम्
॥ श्री शनैश्चर सहस्रनाम स्तोत्रम् ॥ ॥ विनियोगः ॥ अस्य श्रीशनैश्चर सहस्रनामस्तोत्र महामन्त्रस्य, काश्यप ऋषिः, अनुष्टुप् छन्दः, शनैश्चरो देवता, शं बीजं, नं शक्तिः, मं कीलकं, शनैश्चरप्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ शनैश्चराय अङ्गुष्ठाभ्यां नमः । मन्दगतये तर्जनीभ्यां नमः । अधोक्षजाय मध्यमाभ्यां नमः । सौरये अनामिकाभ्यां नमः । शुष्कोदराय कनिष्ठिकाभ्यां नमः । छायात्मजाय करतलकरपृष्ठाभ्यां नमः । ॥ हृदयादिन्यासः ॥ शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् । सौरये कवचाय हुम् । शुष्कोदराय नेत्रत्रयाय वौषट् । छायात्मजाय अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । ॥ ध्यानम् ॥ चापासनो गृध्रधरस्तु नीलः प्रत्यङ्मुखः काश्यप गोत्रजातः । सशूलचापेषु गदाधरोऽव्यात् सौराष्ट्रदेशप्रभवश्च शौरिः ॥ नीलाम्बरो नीलवपुः किरीटी गृध्रासनस्थो विकृताननश्च । केयूरहारादिविभूषिताङ्गः सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥ ॥ स्तोत्रम् ॥ ओम् ॥ अमिताभाष्यघहरः अशेषदुरितापहः । अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ १ ॥ अनन्तो अन्नदाता चाऽश्वत्थमूलजपे प्रियः । अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ २ ॥ अपराजितोऽद्वितीयः अतितेजोऽभयप्रदः । अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ ३ ॥ अतिदारुण अक्षोभ्यः अप्सरोभिः प्रपूजितः । अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४ ॥ अनुग्राह्यो अप्रमेय पराक्रम विभीषणः । असाध्ययोगो अखिलदोषघ्नः अपराकृतः ॥ ५ ॥ अप्रमेयोऽतिसुखदः अमराधिपपूजितः । अवलोकात् सर्वनाशः अश्वत्थाम द्विरायुधः ॥ ६ ॥ अपराधसहिष्णुश्च अश्वत्थामसुपूजितः । अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ ७ ॥ अवलोकात् सर्ववन्द्यः अक्षीणकरुणानिधिः । अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ ८ ॥ आनन्दपरिपूर्णश्च आयुष्कारक एव च । आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ ९ ॥ आनन्दमय आनन्दकरो आयुधधारकः । आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ १० ॥ आयुष्करो आनुपूर्व्यः आत्मायत्तजगत्त्रयः । आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ ११ ॥ आदित्यसम्भवो आर्तिभञ्जनो आत्मरक्षकः । आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ १२ ॥ आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रदः । आनुकूल्यो आत्मरूपप्रतिमादानसुप्रियः ॥ १३ ॥ आत्मारामो आदिदेवो आपन्नार्तिविनाशनः । इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ १४ ॥ इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः । इष्टापूर्तिप्रदो इन्दुमतीष्टवरदायकः ॥ १५ ॥ इन्दिरारमणः प्रीतः इन्द्रवंशनृपार्चितः । इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ १६ ॥ ईन्द्रियो ईश्वरप्रीतः ईषणात्रयवर्जितः । उमास्वरूप उद्बोध्यः उशना उत्सवप्रियः ॥ १७ ॥ उमादेव्यर्चनप्रीतः उच्चस्थोच्चफलप्रदः । उरुप्रकाशो उच्चस्थयोगदः उरुपराक्रमः ॥ १८ ॥ ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः । ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ १९ ॥ ऋषिप्रोक्त पुराणज्ञः ऋषिभिः परिपूजितः । ऋग्वेदवन्द्यो ऋग्रूपी ऋजुमार्गप्रवर्तकः ॥ २० ॥ लुलितोद्धारको लूतभवपाशप्रभञ्जनः । लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ २१ ॥ एकाधिपत्यसाम्राज्यप्रदो एनौघनाशनः । एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥ २२ ॥ एकोनविंशतिवर्षदशो एणाङ्कपूजितः । ऐश्वर्यफलदो ऐन्द्र ऐरावतसुपूजितः ॥ २३ ॥ ओङ्कारजपसुप्रीत ओङ्कारपरिपूजितः । ओङ्कारबीजो औदार्यहस्तो औन्नत्यदायकः ॥ २४ ॥ औदार्यगुण औदार्यशीलो औषधकारकः । करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥ २५ ॥ कालः कठिनचित्तश्च कालमेघसमप्रभः । किरीटी कर्मकृत् कारयिता कालसहोदरः ॥ २६ ॥ कालाम्बरः काकवाहः कर्मठः काश्यपान्वयः । कालचक्रप्रभेदी च कालरूपी च कारणः ॥ २७ ॥ कारिमूर्तिः कालभर्ता किरीटमकुटोज्वलः । कार्यकारण कालज्ञः काञ्चनाभरथान्वितः ॥ २८ ॥ कालदंष्ट्रः क्रोधरूपः कराली कृष्णकेतनः । कालात्मा कालकर्ता च कृतान्तः कृष्णगोप्रियः ॥ २९ ॥ कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भवः । कृष्णवर्णहयश्चैव कृष्णगोक्षीरसुप्रियः ॥ ३० ॥ कृष्णगोघृतसुप्रीतः कृष्णगोदधिषुप्रियः । कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रियः ॥ ३१ ॥ कृष्णगोदत्तहृदयः कृष्णगोरक्षणप्रियः । कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकः ॥ ३२ ॥ कृष्णगोदान शान्तस्य सर्वशान्तफलप्रदः । कृष्णगोस्नान कामस्य गङ्गास्नानफलप्रदः ॥ ३३ ॥ कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदः । कृष्णगावप्रियश्चैव कपिलापशुषु प्रियः ॥ ३४ ॥ कपिलाक्षीरपानस्य सोमपानफलप्रदः । कपिलादानसुप्रीतः कपिलाज्यहुतप्रियः ॥ ३५ ॥ कृष्णश्च कृत्तिकान्तस्थः कृष्णगोवत्ससुप्रियः । कृष्णमाल्याम्बरधरः कृष्णवर्णतनूरुहः ॥ ३६ ॥ कृष्णकेतुः कृशकृष्णदेहः कृष्णाम्बरप्रियः । क्रूरचेष्टः क्रूरभावः क्रूरदंष्ट्रः कुरूपि च ॥ ३७ ॥ कमलापतिसंसेव्यः कमलोद्भवपूजितः । कामितार्थप्रदः कामधेनुपूजनसुप्रियः ॥ ३८ ॥ कामधेनुसमाराध्यः कृपायुषविवर्धनः । कामधेन्वैकचित्तश्च कृपराजसुपूजितः ॥ ३९ ॥ कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजितः । कृष्णाङ्गमहिषीदोग्धा कृष्णेन कृतपूजनः ॥ ४० ॥ कृष्णाङ्गमहिषीदानप्रियः कोणस्थ एव च । कृष्णाङ्गमहिषीदानलोलुपः कामपूजितः ॥ ४१ ॥ क्रूरावलोकनात्सर्वनाशः कृष्णाङ्गदप्रियः । खद्योतः खण्डनः खड्गधरः खेचरपूजितः ॥ ४२ ॥ खरांशुतनयश्चैव खगानां पतिवाहनः । गोसवासक्तहृदयो गोचरस्थानदोषहृत् ॥ ४३ ॥ गृहराश्याधिपश्चैव गृहराजमहाबलः । गृध्रवाहो गृहपतिर्गोचरो गानलोलुपः ॥ ४४ ॥ घोरो घर्मो घनतमो घर्मी घनकृपान्वितः । घननीलाम्बरधरो ङादिवर्णसुसञ्ज्ञितः ॥ ४५ ॥ चक्रवर्तिसमाराध्यश्चन्द्रमत्यासमर्चितः । चन्द्रमत्यार्तिहारी च चराचरसुखप्रदः ॥ ४६ ॥ चतुर्भुजश्चापहस्तश्चराचरहितप्रदः । छायापुत्रश्छत्रधरश्छायादेवीसुतस्तथा ॥ ४७ ॥ जयप्रदो जगन्नीलो जपतां सर्वसिद्धिदः । जपविध्वस्तविमुखो जम्भारिपरिपूजितः ॥ ४८ ॥ जम्भारिवन्द्यो जयदो जगज्जनमनोहरः । जगत्त्रयप्रकुपितो जगत्त्राणपरायणः ॥ ४९ ॥ जयो जयप्रदश्चैव जगदानन्दकारकः । ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिःशास्त्रप्रवर्तकः ॥ ५० ॥ झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रियः । ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ५१ ॥ ज्ञानप्रबोधकश्चैव ज्ञानदृष्ट्यावलोकितः । टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ५२ ॥ टङ्कारकारकश्चैव टङ्कृतो टाम्भदप्रियः । ठकारमय सर्वस्वष्ठकारकृतपूजितः ॥ ५३ ॥ ढक्कावाद्यप्रीतिकरो डमड्डमरुकप्रियः । डम्बरप्रभवो डम्भो ढक्कानादप्रियङ्करः ॥ ५४ ॥ डाकिनीशाकिनीभूतसर्वोपद्रवकारकः । डाकिनीशाकिनीभूतसर्वोपद्रवनाशकः ॥ ५५ ॥ ढकाररूपो ढाम्भीको णकारजपसुप्रियः । णकारमयमन्त्रार्थः णकारैकशिरोमणिः ॥ ५६ ॥ णकारवचनानन्दः णकारकरुणामयः । णकारमयसर्वस्वः णकारैकपरायणः ॥ ५७ ॥ तर्जनीधृतमुद्रश्च तपसां फलदायकः । त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धरः ॥ ५८ ॥ तपस्वी तपसादग्धदेहस्ताम्राधरस्तथा । त्रिकालवेदितव्यश्च त्रिकालमतितोषितः ॥ ५९ ॥ तुलोच्चयस्त्रासकरस्तिलतैलप्रियस्तथा । तिलान्नसन्तुष्टमनास्तिलदानप्रियस्तथा ॥ ६० ॥ तिलभक्ष्यप्रियश्चैव तिलचूर्णप्रियस्तथा । तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा ॥ ६१ ॥ तिलहोमप्रियश्चैव तापत्रयनिवारकः । तिलतर्पणसन्तुष्टस्तिलतैलान्नतोषितः ॥ ६२ ॥ तिलैकदत्तहृदयस्तेजस्वी तेजसान्निधिः । तेजसादित्यसङ्काशस्तेजोमय वपुर्धरः ॥ ६३ ॥ तत्त्वज्ञस्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः । तुष्टिदस्तुष्टिकृत् तीक्ष्णस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६४ ॥ तिलदीपप्रियश्चैव तस्य पीडानिवारकः । तिलोत्तमामेनकादिनर्तनप्रिय एव च ॥ ६५ ॥ त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा । स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ६६ ॥ दशरथार्चितपादश्च दशरथस्तोत्रतोषितः । दशरथप्रार्थनाक्लुप्त दुर्भिक्षविनिवारकः ॥ ६७ ॥ दशरथप्रार्थनाक्लुप्तवरद्वयप्रदायकः । दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः ॥ ६८ ॥ दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधरः । दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः ॥ ६९ ॥ दशरथस्तोत्रसन्तुष्टो दशरथेनसुपूजितः । द्वादशाष्टमजन्मस्थो देवपुङ्गवपूजितः ॥ ७० ॥ देवदानवदर्पघ्नो दिनं प्रतिमुनिस्तुतः । द्वादशस्थो द्वादशात्मा सुतो द्वादशनामभृत् ॥ ७१ ॥ द्वितीयस्थो द्वादशार्कसूनुर्दैवज्ञपूजितः । दैवज्ञचित्तवासी च दमयन्त्या सुपूजितः ॥ ७२ ॥ द्वादशाब्दन्तु दुर्भिक्षकारी दुःस्वप्ननाशनः । दुराराध्यो दुराधर्षो दमयन्तीवरप्रदः ॥ ७३ ॥ दुष्टदूरो दुराचारशमनो दोषवर्जितः । दुस्सहो दोषहन्ता च दुर्लभो दुर्गमस्तथा ॥ ७४ ॥ दुःखप्रदो दुःखहन्ता दीप्तरञ्जित दिङ्मुखः । दीप्यमानमुखाम्भोजः दमयन्त्याः शिवप्रदः ॥ ७५ ॥ दुर्निरीक्ष्यो दृष्टमात्रदैत्यमण्डलनाशकः । द्विजदानैकनिरतो द्विजाराधनतत्परः ॥ ७६ ॥ द्विजसर्वार्तिहारी च द्विजराजसमर्चितः । द्विजदानैकचित्तश्च द्विजराजप्रियङ्करः ॥ ७७ ॥ द्विजो द्विजप्रियश्चैव द्विजराजेष्टदायकः । द्विजरूपो द्विजश्रेष्ठो दोषदो दुःसहोऽपि च ॥ ७८ ॥ देवादिदेवो देवेशो देवराजसुपूजितः । देवराजेष्टवरदो देवराजप्रियङ्करः ॥ ७९ ॥ देवादिवन्दितो दिव्यतनुर्देवशिखामणिः । देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥ ८० ॥ द्विजात्मजसमाराध्यो ध्येयो धर्मी धनुर्धरः । धनुष्मान् धनदाता च धर्माधर्मविवर्जितः ॥ ८१ ॥ धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतनः । धर्मराजप्रियकरो धर्मराजस्सुपूजितः ॥ ८२ ॥ धर्मराजेष्टवरदो धर्माभीष्टफलप्रदः । नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा ॥ ८३ ॥ निजपीडार्तिहारी च निजभक्तेष्टदायकः । निर्मांसदेहो नीलश्च निजस्तोत्रबहुप्रियः ॥ ८४ ॥ नलस्तोत्रप्रियश्चैव नलराजसुपूजितः । नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥ ८५ ॥ नित्यार्चितपदाम्भोजो निजाज्ञापरिपालकः । नवग्रहवरो नीलवपुर्नलकरार्चितः ॥ ८६ ॥ नलप्रियानन्दितश्च नलक्षेत्रनिवासकः । नलपाकप्रियश्चैव नलपद्भञ्जनक्षमः ॥ ८७ ॥ नलसर्वार्तिहारी च नलेनात्मार्थपूजितः । निपाटवीनिवासश्च नलाभीष्टवरप्रदः ॥ ८८ ॥ नलतीर्थसकृत् स्नानसर्वपीडानिवारकः । नलेशदर्शनस्याशु साम्राज्यपदवीप्रदः ॥ ८९ ॥ नक्षत्रराश्याधिपश्च नीलध्वजविराजितः । नित्ययोगरतश्चैव नवरत्नविभूषितः ॥ ९० ॥ नवधा भज्यदेहश्च नवीकृतजगत्त्रयः । नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥ ९१ ॥ नवात्मा नवचक्रात्मा नवतत्त्वाधिपस्तथा । नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥ ९२ ॥ निष्कण्टको निस्पृहश्च निरपेक्षो निरामयः । नागराजार्चितपदो नागराजप्रियङ्करः ॥ ९३ ॥ नागराजेष्टवरदो नागाभरणभूषितः । नागेन्द्रगाननिरतो नानाभरणभूषितः ॥ ९४ ॥ नवमित्रस्वरूपश्च नानाश्चर्यविधायकः । नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ ९५ ॥ नानारूपजगत्स्रष्टा नानारूपजनाश्रयः । नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ ९६ ॥ नानारूपाधिकारी च नवरत्नप्रियस्तथा । नानाविचित्रवेषाढ्यो नानाचित्रविधायकः ॥ ९७ ॥ नीलजीमूतसङ्काशो नीलमेघसमप्रभः । नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ ९८ ॥ नीचभाषाप्रचारज्ञो नीचेस्वल्पफलप्रदः । नानागमविधानज्ञो नानानृपसमावृतः ॥ ९९ ॥ नानावर्णाकृतिश्चैव नानावर्णस्वरार्तवः । नागलोकान्तवासी च नक्षत्रत्रयसम्युतः ॥ १०० ॥ नभादिलोकसम्भूतो नामस्तोत्रबहुप्रियः । नामपारायणप्रीतो नामार्चनवरप्रदः ॥ १०१ ॥ नामस्तोत्रैकचित्तश्च नानारोगार्तिभञ्जनः । नवग्रहसमाराध्यो नवग्रहभयापहः ॥ १०२ ॥ नवग्रहसुसम्पूज्यो नानावेदसुरक्षकः । नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥ १०३ ॥ नवग्रहमयज्योतिर्नवग्रहवरप्रदः । नवग्रहाणामधिपो नवग्रहसुपीडितः ॥ १०४ ॥ नवग्रहाधीश्वरश्च नवमाणिक्यशोभितः । परमात्मा परब्रह्म परमैश्वर्यकारणः ॥ १०५ ॥ प्रपन्नभयहारी च प्रमत्तासुरशिक्षकः । प्रासहस्तः पङ्गुपादः प्रकाशात्मा प्रतापवान् ॥ १०६ ॥ पावनः परिशुद्धात्मा पुत्रपौत्रप्रवर्धनः । प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण एव च ॥ १०७ ॥ प्रजापत्यः प्रियकरः प्रणतेप्सितराज्यदः । प्रजानां जीवहेतुश्च प्राणिनां परिपालकः ॥ १०८ ॥ प्राणरूपी प्राणधारी प्रजानां हितकारकः । प्राज्ञः प्रशान्तः प्रज्ञावान् प्रजारक्षणदीक्षितः ॥ १०९ ॥ प्रावृषेण्यः प्राणकारी प्रसन्नोत्सववन्दितः । प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधनः ॥ ११० ॥ प्रजाकरः प्रातिकूल्यः पिङ्गलाक्षः प्रसन्नधीः । प्रपञ्चात्मा प्रसविता पुराणपुरुषोत्तमः ॥ १११ ॥ पुराणपुरुषश्चैव पुरुहूतः प्रपञ्चधृत् । प्रतिष्ठितः प्रीतिकरः प्रियकारी प्रयोजनः ॥ ११२ ॥ प्रीतिमान् प्रवरस्तुत्यः पुरूरवसमर्चितः । प्रपञ्चकारी पुण्यश्च पुरुहूतसमर्चितः ॥ ११३ ॥ पाण्डवादिसुसंसेव्यः प्रणवः पुरुषार्थदः । पयोदसमवर्णश्च पाण्डुपुत्रार्तिभञ्जनः ॥ ११४ ॥ पाण्डुपुत्रेष्टदाता च पाण्डवानां हितङ्करः । पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदः ॥ ११५ ॥ पञ्चपाण्डवपुत्राणां सर्वारिष्टनिवारकः । पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च प्रपञ्चभृत् ॥ ११६ ॥ परचक्रप्रभेदी च पाण्डवेषुवनप्रदः । परब्रह्मस्वरूपश्च पराज्ञा परिवर्जितः ॥ ११७ ॥ परात्परः पाशहन्ता परमाणुः प्रपञ्चकृत् । पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः ॥ ११८ ॥ प्रसन्नात्सर्वसुखदः प्रपञ्चोद्भवसम्भवः । प्रसन्नः परमोदारः पराहङ्कारभञ्जनः ॥ ११९ ॥ परः परमकारुण्यः परब्रह्ममयस्तथा । प्रपन्नभयहारी च प्रणतार्तिहरस्तथा ॥ १२० ॥ प्रसादकृत् प्रपञ्चश्च पराशक्तिसमुद्भवः । प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकरः ॥ १२१ ॥ प्रपञ्चात्मा प्रपञ्चोपशमनः पृथिवीपतिः । परशुरामसमाराध्यः परशुरामवरप्रदः ॥ १२२ ॥ परशुरामचिरञ्जीविप्रदः परमपावनः । परमहंसस्वरूपश्च परमहंससुपूजितः ॥ १२३ ॥ पञ्चनक्षत्राधिपश्च पञ्चनक्षत्रसेवितः । प्रपञ्चरक्षितश्चैव प्रपञ्चस्य भयङ्करः ॥ १२४ ॥ फलदानप्रियश्चैव फलहस्तः फलप्रदः । फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः ॥ १२५ ॥ फुटच्छमित पापौघः फल्गुनेन प्रपूजितः । फणिराजप्रियश्चैव फुल्लाम्बुजविलोचनः ॥ १२६ ॥ बलिप्रियो बली बभ्रुर्ब्रह्मविष्ण्वीशक्लेशकृत् । ब्रह्मविष्ण्वीशरूपश्च ब्रह्मशक्रादिदुर्लभः ॥ १२७ ॥ बासदर्ष्ट्या प्रमेयाङ्गो बिभ्रत्कवचकुण्डलः । बहुश्रुतो बहुमतिर्ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२८ ॥ बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः । बालार्कद्युतिमान् बालो बृहद्वक्षो बृहत्तनुः ॥ १२९ ॥ ब्रह्माण्डभेदकृच्चैव भक्तसर्वार्थसाधकः । भव्यो भोक्ता भीतिकृच्च भक्तानुग्रहकारकः ॥ १३० ॥ भीषणो भैक्षकारी च भूसुरादिसुपूजितः । भोगभाग्यप्रदश्चैव भस्मीकृतजगत्त्रयः ॥ १३१ ॥ भयानको भानुसूनुर्भूतिभूषितविग्रहः । भास्वद्रतो भक्तिमतां सुलभो भ्रुकुटीमुखः ॥ १३२ ॥ भवभूतगणैस्स्तुत्यो भूतसङ्घसमावृतः । भ्राजिष्णुर्भगवान् भीमो भक्ताभीष्टवरप्रदः ॥ १३३ ॥ भवभक्तैकचित्तश्च भक्तिगीतस्तवोन्मुखः । भूतसन्तोषकारी च भक्तानां चित्तशोधकः ॥ १३४ ॥ भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः । भूतिदो भूतिकृद्भोज्यो भूतात्मा भुवनेश्वरः ॥ १३५ ॥ मन्दो मन्दगतिश्चैव मासमेव प्रपूजितः । मुचुकुन्दसमाराध्यो मुचुकुन्दवरप्रदः ॥ १३६ ॥ मुचुकुन्दार्चितपदो महारूपो महायशाः । महाभोगी महायोगी महाकायो महाप्रभुः ॥ १३७ ॥ महेशो महदैश्वर्यो मन्दारकुसुमप्रियः । महाक्रतुर्महामानी महाधीरो महाजयः ॥ १३८ ॥ महावीरो महाशान्तो मण्डलस्थो महाद्युतिः । महासुतो महोदारो महनीयो महोदयः ॥ १३९ ॥ मैथिलीवरदायी च मार्ताण्डस्य द्वितीयजः । मैथिलीप्रार्थनाक्लुप्तदशकण्ठशिरोपहृत् ॥ १४० ॥ मरामरहराराध्यो महेन्द्रादिसुरार्चितः । महारथो महावेगो मणिरत्नविभूषितः ॥ १४१ ॥ मेषनीचो महाघोरो महासौरिर्मनुप्रियः । महादीर्घो महाग्रासो महदैश्वर्यदायकः ॥ १४२ ॥ महाशुष्को महारौद्रो मुक्तिमार्गप्रदर्शकः । मकरकुम्भाधिपश्चैव मृकण्डुतनयार्चितः ॥ १४३ ॥ मन्त्राधिष्ठानरूपश्च मल्लिकाकुसुमप्रियः । महामन्त्रस्वरूपश्च महायन्त्रस्थितस्तथा ॥ १४४ ॥ महाप्रकाशदिव्यात्मा महादेवप्रियस्तथा । महाबलिसमाराध्यो महर्षिगणपूजितः ॥ १४५ ॥ मन्दचारी महामायी माषदानप्रियस्तथा । माषोदनप्रीतचित्तो महाशक्तिर्महागुणः ॥ १४६ ॥ यशस्करो योगदाता यज्ञाङ्गोऽपि युगन्धरः । योगी योग्यश्च याम्यश्च योगरूपी युगाधिपः ॥ १४७ ॥ यज्ञभृद्यजमानश्च योगो योगविदां वरः । यक्षराक्षसवेतालकूष्माण्डादिप्रपूजितः ॥ १४८ ॥ यमप्रत्यधिदेवश्च युगपद्भोगदायकः । योगप्रियो योगयुक्तो यज्ञरूपो युगान्तकृत् ॥ १४९ ॥ रघुवंशसमाराध्यो रौद्रो रौद्राकृतिस्तथा । रघुनन्दनसल्लापो रघुप्रोक्तजपप्रियः ॥ १५० ॥ रौद्ररूपी रथारूढो राघवेष्टवरप्रदः । रथी रौद्राधिकारी च राघवेण समर्चितः ॥ १५१ ॥ रोषात्सर्वस्वहारी च राघवेण सुपूजितः । राशिद्वयाधिपश्चैव रघुभिः परिपूजितः ॥ १५२ ॥ राज्यभूपाकरश्चैव राजराजेन्द्र वन्दितः । रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः ॥ १५३ ॥ रघुपौरुषसन्तुष्टो रघुस्तोत्रबहुप्रियः । रघुवंशनृपैः पूज्यो रणन्मञ्जीरनूपुरः ॥ १५४ ॥ रविनन्दन राजेन्द्रो रघुवंशप्रियस्तथा । लोहजप्रतिमादानप्रियो लावण्यविग्रहः ॥ १५५ ॥ लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रियः । लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ॥ १५६ ॥ लोकाध्यक्षो लोकवन्द्यो लक्ष्मणाग्रजपूजितः । वेदवेद्यो वज्रदेहो वज्राङ्कुशधरस्तथा ॥ १५७ ॥ विश्ववन्द्यो विरूपाक्षो विमलाङ्गविराजितः । विश्वस्थो वायसारूढो विशेषसुखकारकः ॥ १५८ ॥ विश्वरूपी विश्वगोप्ता विभावसुसुतस्तथा । विप्रप्रियो विप्ररूपो विप्राराधनतत्परः ॥ १५९ ॥ विशालनेत्रो विशिखो विप्रदानबहुप्रियः । विश्वसृष्टिसमुद्भूतो वैश्वानरसमद्युतिः ॥ १६० ॥ विष्णुर्विरिञ्चिर्विश्वेशो विश्वकर्ता विशां पतिः । विराडाधारचक्रस्थो विश्वभुग्विश्वभावनः ॥ १६१ ॥ विश्वव्यापारहेतुश्च वक्रक्रूरविवर्जितः । विश्वोद्भवो विश्वकर्मा विश्वसृष्टि विनायकः ॥ १६२ ॥ विश्वमूलनिवासी च विश्वचित्रविधायकः । विश्वाधारविलासी च व्यासेन कृतपूजितः ॥ १६३ ॥ विभीषणेष्टवरदो वाञ्छितार्थप्रदायकः । विभीषणसमाराध्यो विशेषसुखदायकः ॥ १६४ ॥ विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदः । वासवात्मजसुप्रीतो वसुदो वासवार्चितः ॥ १६५ ॥ विश्वत्राणैकनिरतो वाङ्मनोतीतविग्रहः । विराण्मन्दिरमूलस्थो वलीमुखसुखप्रदः ॥ १६६ ॥ विपाशो विगतातङ्को विकल्पपरिवर्जितः । वरिष्ठो वरदो वन्द्यो विचित्राङ्गो विरोचनः ॥ १६७ ॥ शुष्कोदरः शुक्लवपुः शान्तरूपी शनैश्चरः । शूली शरण्यः शान्तश्च शिवायामप्रियङ्करः ॥ १६८ ॥ शिवभक्तिमतां श्रेष्ठः शूलपाणिः शुचिप्रियः । श्रुतिस्मृतिपुराणज्ञः श्रुतिजालप्रबोधकः ॥ १६९ ॥ श्रुतिपारगसम्पूज्यः श्रुतिश्रवणलोलुपः । श्रुत्यन्तर्गतमर्मज्ञः श्रुत्येष्टवरदायकः ॥ १७० ॥ श्रुतिरूपः श्रुतिप्रीतः श्रुतीप्सितफलप्रदः । शुचिश्रुतः शान्तमूर्तिः श्रुतिश्रवणकीर्तनः ॥ १७१ ॥ शमीमूलनिवासी च शमीकृतफलप्रदः । शमीकृतमहाघोरः शरणागतवत्सलः ॥ १७२ ॥ शमीतरुस्वरूपश्च शिवमन्त्रज्ञमुक्तिदः । शिवागमैकनिलयः शिवमन्त्रजपप्रियः ॥ १७३ ॥ शमीपत्रप्रियश्चैव शमीपर्णसमर्चितः । शतोपनिषदस्तुत्यः शान्त्यादिगुणभूषितः ॥ १७४ ॥ शान्त्यादिषड्गुणोपेतः शङ्खवाद्यप्रियस्तथा । श्यामरक्तसितज्योतिः शुद्धपञ्चाक्षरप्रियः ॥ १७५ ॥ श्रीहालास्यक्षेत्रवासी श्रीमान् शक्तिधरस्तथा । षोडशद्वयसम्पूर्णलक्षणः षण्मुखप्रियः ॥ १७६ ॥ षड्गुणैश्वर्यसम्युक्तः षडङ्गावरणोज्ज्वलः । षडक्षरस्वरूपश्च षट्चक्रोपरिसंस्थितः ॥ १७७ ॥ षोडशी षोडशान्तश्च षट्छक्तिव्यक्तमूर्तिमान् । षड्भावरहितश्चैव षडङ्गश्रुतिपारगः ॥ १७८ ॥ षट्कोणमध्यनिलयः षट्छास्त्रस्मृतिपारगः । स्वर्णेन्द्रनीलमकुटः सर्वाभीष्टप्रदायकः ॥ १७९ ॥ सर्वात्मा सर्वदोषघ्नः सर्वगर्वप्रभञ्जनः । समस्तलोकाभयदः सर्वदोषाङ्गनाशकः ॥ १८० ॥ समस्तभक्तसुखदः सर्वदोषनिवर्तकः । सर्वनाशक्षमः सौम्यः सर्वक्लेशनिवारकः ॥ १८१ ॥ सर्वात्मा सर्वदा तुष्टः सर्वपीडानिवारकः । सर्वरूपी सर्वकर्मा सर्वज्ञः सर्वकारकः ॥ १८२ ॥ सुकृती सुलभश्चैव सर्वाभीष्टफलप्रदः । सूर्यात्मजः सदातुष्टः सूर्यवंशप्रदीपनः ॥ १८३ ॥ सप्तद्वीपाधिपश्चैव सुरासुरभयङ्करः । सर्वसङ्क्षोभहारी च सर्वलोकहितङ्करः ॥ १८४ ॥ सर्वौदार्यस्वभावश्च सन्तोषात्सकलेष्टदः । समस्तऋषिभिः स्तुत्यः समस्तगणपावृतः ॥ १८५ ॥ समस्तगणसंसेव्यः सर्वारिष्टविनाशनः । सर्वसौख्यप्रदाता च सर्वव्याकुलनाशनः ॥ १८६ ॥ सर्वसङ्क्षोभहारी च सर्वारिष्टफलप्रदः । सर्वव्याधिप्रशमनः सर्वमृत्युनिवारकः ॥ १८७ ॥ सर्वानुकूलकारी च सौन्दर्यमृदुभाषितः । सौराष्ट्रदेशोद्भवश्च स्वक्षेत्रेष्टवरप्रदः ॥ १८८ ॥ सोमयाजिसमाराध्यः सीताभीष्टवरप्रदः । सुखासनोपविष्टश्च सद्यःपीडानिवारकः ॥ १८९ ॥ सौदामनीसन्निभश्च सर्वानुल्लङ्घ्यशासनः । सूर्यमण्डलसञ्चारी संहारास्त्रनियोजितः ॥ १९० ॥ सर्वलोकक्षयकरः सर्वारिष्टविधायकः । सर्वव्याकुलकारी च सहस्रजपसुप्रियः ॥ १९१ ॥ सुखासनोपविष्टश्च संहारास्त्रप्रदर्शितः । सर्वालङ्कारसम्युक्तकृष्णगोदानसुप्रियः ॥ १९२ ॥ सुप्रसन्नः सुरश्रेष्ठः सुघोषः सुखदः सुहृत् । सिद्धार्थः सिद्धसङ्कल्पः सर्वज्ञः सर्वदः सुखी ॥ १९३ ॥ सुग्रीवः सुधृतिः सारः सुकुमारः सुलोचनः । सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ १९४ ॥ हरिश्चन्द्रसमाराध्यो हेयोपादेयवर्जितः । हरिश्चन्द्रेष्टवरदो हंसमन्त्रादिसंस्तुतः ॥ १९५ ॥ हंसवाहसमाराध्यो हंसवाहवरप्रदः । हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १९६ ॥ हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः । हविर्होता हंसगतिर्हंसमन्त्रादिसंस्तुतः ॥ १९७ ॥ हनूमदर्चितपदो हलधृत् पूजितः सदा । क्षेमदः क्षेमकृत् क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ॥ १९८ ॥ क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः । क्षमाधरः क्षयद्वारो नाम्नामष्टसहस्रकम् ॥ १९९ ॥ ॥ फलश्रुति ॥ वाक्येनैकेन वक्ष्यामि वाञ्चितार्थं प्रयच्छति । तस्मात्सर्वप्रयत्नेन नियमेन जपेत्सुधीः ॥ २०० ॥ ॥ इति श्री शनैश्चर सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

सहस्रनाम का महत्व (Power of 1000 Names)

'सहस्रनाम' (1000 नाम) किसी भी देवता की स्तुति का सबसे पूर्ण रूप माना जाता है। इसमें देवता के हर गुण, हर रूप और हर शक्ति का वर्णन होता है। शनि सहस्रनाम में 200 श्लोक हैं, जिनमें कुल 1008 नाम समाहित हैं।



विशेष फल:
  • साढ़े साती निवारण: यह पाठ साढ़े साती के अशुभ प्रभावों को जड़ से शांत करने की क्षमता रखता है।
  • शत्रु और भय नाश: इसमें शनि के उग्र रूप (जैसे भीषण, रौद्र, कालदंष्ट्र) का भी वर्णन है जो शत्रुओं और भय का नाश करते हैं।
  • आरोग्य और धन: आरोग्यदा, पुष्टिदा जैसे नाम स्वास्थ्य और समृद्धि प्रदान करते हैं।

प्रमुख नामों का रहस्य (Decoding Key Names)

अश्वत्थमूलजपे प्रियः (Ashwatthamula-jape-priyah):
अर्थ: जिन्हें पीपल (अश्वत्थ) की जड़ के पास किया गया जाप अत्यंत प्रिय है। यह शनि उपासना का सबसे महत्वपूर्ण सूत्र है।
छायात्मज (Chayatmaja):
अर्थ: माता छाया के पुत्र। यह नाम शनि की उत्पत्ति और उनके मातृ-प्रेम का प्रतीक है।
अधोक्षज (Adhokshaja):
अर्थ: जो इंद्रियों से परे है या जो नीचे के लोकों (पाताल) को भी देखने की क्षमता रखता है। यह विष्णु का भी नाम है।
शुष्कोदर (Shushkodara):
अर्थ: जिनका पेट (उदर) सूखा हुआ या धंसा हुआ है। यह उनकी घोर तपस्या और वैराग्य रूप को दर्शाता है।
काल (Kaala):
अर्थ: समय (Time)। शनि स्वयं 'समय' हैं। वे न जल्दी करते हैं, न देर। वे 'काल' के नियंत्रक हैं।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. शनि सहस्रनाम पाठ करने में कितना समय लगता है?

चूँकि इसमें लगभग 200 श्लोक हैं, एक सामान्य लय में पाठ करने में 30 से 45 मिनट का समय लग सकता है। अभ्यस्त होने पर यह समय कम हो सकता है।

2. क्या यह पाठ साढ़े साती में करना अनिवार्य है?

अनिवार्य नहीं, पर 'सर्वोत्तम' अवश्य है। जब कष्ट बहुत अधिक हो, तो छोटे स्तोत्रों की जगह सहस्रनाम (1000 नाम) का प्रभाव बहुत व्यापक और तीव्र होता है।

3. क्या इसके लिए किसी विशेष दीक्षा की आवश्यकता है?

यह एक स्तोत्र है, तंत्र नहीं। इसे कोई भी शुद्ध अंतःकरण से पढ़ सकता है। फिर भी, यदि 'विनियोग' और 'न्यास' (शरीर के अंगों का स्पर्श) समझ न आए, तो सीधे 'स्तोत्रम्' से पाठ शुरू कर सकते हैं।

4. 'अश्वत्थमूलजपे प्रियः' (श्लोक 2) का क्या अर्थ है?

इसका अर्थ है कि शनि देव को 'अश्वत्थ' (पीपल) के पेड़ की जड़ के पास जाप करना अत्यंत प्रिय है। पीपल के नीचे बैठकर यह पाठ करना 100 गुणा अधिक फलदायी माना गया है।

5. शनि को 'छायात्मज' क्यों कहते हैं?

'छाया' उनकी माता का नाम है और 'आत्मज' का अर्थ है पुत्र। यह नाम उनकी वंशावली और माता के प्रति उनके प्रेम को दर्शाता है।

6. क्या स्त्रियां शनि सहस्रनाम पढ़ सकती हैं?

पूर्ण श्रद्धा के साथ स्त्रियां इसका पाठ कर सकती हैं। केवल मूर्ति स्पर्श वर्जित माना जाता है, पर वाणी से स्तुति करने में कोई दोष नहीं है।

7. 'पङ्गू' और 'मन्दगति' नाम का रहस्य क्या है?

शनि की चाल धीमी (मन्द) है। पौराणिक कथाओं में उनके पैर में चोट लगने (पङ्गू/लंगड़ा) का वर्णन है। यह दर्शाता है कि कर्म का फल आने में देर लग सकती है, पर वह आता जरूर है।

8. पाठ के बाद क्या करना चाहिए?

पाठ के अंत में शनि देव की आरती करें और क्षमा प्रार्थना करें। यदि संभव हो तो काला तिल, तेल या उड़द का दान (विशेषकर शनिवार को) करें।

9. 'कोटराक्ष' का क्या अर्थ है?

जिनकी आँखें 'कोटर' (गड्ढे/गुफा) की तरह गहरी हैं। यह शनि की तीव्र और भेदी दृष्टि का प्रतीक है जिससे कोई कर्म नहीं छिपता।

10. इस स्तोत्र के ऋषि कौन हैं?

विनियोग के अनुसार, इस महामंत्र के ऋषि 'काश्यप' हैं। (श्लोक 7: श्रीशनैश्चर सहस्रनामस्तोत्र महामन्त्रस्य, काश्यप ऋषिः)।