Logoपवित्र ग्रंथ

Sri Shakti Mahimnah Stotram by Durvasa – श्रीशक्तिमहिम्नस्तोत्रम् (त्रिपुराम्बिकामहिम्नस्तोत्रम्)

Sri Shakti Mahimnah Stotram by Durvasa – श्रीशक्तिमहिम्नस्तोत्रम् (त्रिपुराम्बिकामहिम्नस्तोत्रम्)
॥ दुर्वाससाविरचितं श्रीशक्तिमहिम्न अथवा त्रिपुराम्बिकामहिम्नस्तोत्रम् ॥ श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा- सौन्दर्यार्णवमन्थनोद्भव सुधाप्राचुर्यवर्णोज्वलम् । उद्यद्भानुसहस्रनूतनजपापुष्पमभं ते वपुः स्वान्ते मे स्फुरतु त्रिलोकनिलयं ज्योतिर्मयं वाङ्मयम् ॥ १८॥ आदिक्षान्तसमस्तवर्णसुमणिप्रोते वितानप्रभे ब्रह्मादिप्रतिमाभिकीलितषडाधाराब्जकक्षो(क्ष्यो)न्नते । ब्रह्माण्डाब्जवरासने जननि ते मूर्तिं भजे चिन्मयीं सौषुम्नायतपीतपङ्कजमहामध्यत्रिकोणस्थिताम् ॥ १९॥ वन्देवाग्भवमैन्दवात्मसदृशं वेदादिविद्यागिरो भाषा देशसमुद्भवा पशुगता (पशुगताः) छन्दांसि सप्तस्वरान् । तालान् पञ्च महाध्वनीन् प्रकटयत्यात्मप्रसारेण यत् तद्बीजं पदवाक्यमानजनकं श्रीमातृके ते परम् ॥ २०॥ त्रैलोक्पस्फुटमन्त्रतन्त्र महिमां नाप्नोति शश्वद्विना (त्रैलोक्पस्फुटमेत्रमन्त्रमहिम स्वात्मोक्तिरूपं विना) तद्बीजं (यद्बीजं) व्यवहारजालमखिलं नास्त्येव मातस्तव । तज्जाप्यस्मरणप्रसक्तसुमतिस्सर्वज्ञतां प्राप्य कः शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिस्स्पर्धते ॥ २१॥ मात्रा यत्र विराजतेति विशदा तामष्टधामातृकां शक्तिं कुण्डलिनीं चतुर्विधतनुं यस्तत्वविन्मन्वते(मन्यते) । सोऽविद्याखिलजन्मकर्मदुरितारण्य प्रबोधाग्निना (सा विद्याऽखिलजन्मकर्मदुरितानीत्थं प्रबोधाग्निना) भस्मीकृत्य विकल्पजालमखिलं मातः पदं तद्व्रजेत् ॥ २२॥ (भस्मीकृत्य विकल्पजालरहितो मातः पदं ते भजेत्) ॥ २२॥ यत्ते मध्यमबीजमम्ब कलयाम्यादित्यवर्णं क्रिया- ज्ञानेच्छादिमनन्तशक्तिविभवव्यक्तिं व्यनक्ति स्फुटम् । उत्पत्तिस्थितिकल्पकल्पिततनुं स्वात्मप्रसारेण यत् काम्यं ब्रह्महरीश्वरादिविबुधैः कामक्रियायोजितैः ॥ २३॥ (यत्ते मध्यमबीजमम्ब कलयेमादित्यवर्ण क्रिया- ज्ञानेच्छासुखदुःखकल्पित तनु स्वात्मप्रसारेण यत् । काम्यं ब्रह्महरीश्वरादि विबुधैः कामक्रियायोजितैः कामं कारणतां गता नगणिताङ्कार्यैरनेकैर्महि) ॥ २३॥ कामं कारणतां गतानगणितान्कार्यैरनेकैर्मही- मुख्यैस्सर्वमनोगतानधिगतान्मानैरनेकैस्स्फुटम् । कामक्रोधसुलोभमोहमदमात्सर्यादिषट्कञ्च यद्वीजं भ्राजयति (राजयति) प्रणौमि तदहं ते साधु कामेश्वरि ॥ २४॥ यद्भक्ताखिलकामपूरणचणस्वात्मप्रभावं महा- जाड्यध्वान्तनिवारणैकतरणि ज्योतिर्विबोधप्रदम् । यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति श्रीविद्ये तव सर्वराजवशकृत्तत्कामराजं भजे ॥ २५॥ (श्रीविद्ये तव सर्वराजवशकृच्छ्रीकामराजं भजे) ॥ २५॥ यत्ते देवि तृतीयबीजमनलज्वालावलीसन्निभं सर्वाधार तुरीयबीजपरमं (तुरीयशक्तिपरं) ब्रह्माभिधाशब्दितम् । मूर्धन्यान्तविसर्गभूषितमहोङ्कारात्मकं तत्परं संविद्रूपमनन्यतुल्यमहिमं स्वान्ते मम द्योतताम् ॥ २६॥ अगुप्ता गुप्तायास्स्वयमपि महान्तोऽपि लघव- स्सकीला निष्कीला गुरुभिरुपदिष्टा अपि तव । प्रसन्नायां देवि त्वयि सकलमन्त्रार्थफलदा तरोर्मूले सिक्ते विलति खलु शाखाशततमी ॥ २७॥ सर्वं सर्वत एव सर्वविषये कार्येन्द्रियाण्यन्तरा तत्तद्दिव्यहृषीककर्मभिरिदं सव्यस्तुवानापरा । वागर्थव्यवहारकारणतनुश्शक्तिर्जगद्व्यापिनी यद्बीजात्मकतां गता तव शिवे तं नौमि बीजं परम् ॥ २८/२७॥ अग्नीन्दुद्युमणिप्रभञ्जनधरानीरान्तरस्थायिनी शक्तिर्ब्रह्महरीश(हरीन्द्र)वासवमुखामर्त्यासुरात्म(सुरान्त)स्थिता । सृष्ट(दृष्ट्वा , दृष्टा)स्थावरजङ्गमस्थितमहाचैतन्यरूपा च या यद्वीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके(का) ॥ २९/२८॥ स्वात्मश्रीविजिताजविष्णुमघवच्छ्रीपूरणैकव्रतं तद्विद्याकवितावितानलहरीकल्लोलिनीदीपकम्(दीपितम्) । बीजं यत्त्रिगुणप्रवृत्तिजनकं ब्रह्मेति यद्योगिनः शान्ता नित्यमुपासते तदिह ते चित्ते दधे श्रीपरे(श्रीपुरे) ॥ ३०/२९॥ ब्रह्मायोनिरमासुरेश्वरसुहृल्लेखाभियुक्तैस्तथा मार्ताण्डेन्दुमनोभवाभवसुधीमायाभीरुद्राश्रितैः । सोमाम्बुक्षितिशक्तिभिः प्रकटितैर्वर्णाङ्गवेदक्रमैः वर्णैश्श्रीशिवदेशिकेन विदितां विद्यां तवाम्ब श्रये ॥ ३१/- ॥ एकैकं तब मातृके परतरे संयोगि वा (संयोगिनो) योगि वा विद्यादिप्रकटप्रभावजनकं जाड्यान्धकारापहम् । यन्निष्ठाश्चमहोत्पलासनमहाविष्णुप्रहर्तादयो देवास्स्वेषु विधिष्वनन्यमहिमस्फूर्तिं देधे तेऽपि (दधत्येव) तत् ॥ ३२/३०॥ इत्थं त्रीण्यपि मूलवाग्भवमहाश्रीकामराजस्फुरत्(स्मतरत्) शक्त्याख्यानि चतुश्श्रुतिप्रकटितान्युत्कृष्टकूटानि ते । भूतर्तु(र्तुः)श्रुतिसङ्ख्यवर्णविदितान्यारक्तकान्ते शिवे यो जानाति स एव सर्वजगतां सृष्टस्थितिध्वंसकृत् ॥ ३३/३१॥ नित्यं यस्तव मातृकाक्षरसखीं सौभाग्यविद्यां जपे- त्सम्पूज्याक्षर(त्सम्पूज्याखिल)चक्रराजनिलयां सायन्तनाग्निमभाम् । कामाख्यं शिवनामतत्वमुभयं व्याप्यात्मनां(ना) सर्वतो दीव्य(प्य)न्तीमिह तस्य सिद्धिरचिरात्स्याच्चस्वरूपैक्यता ॥ ३४/३२॥ काव्यैर्वा पठितैः किमल्प(प्य)विदुषो घो(जो)घुष्यमाणैः पुनः किं तैर्व्याकरणैर्विबोधिततया किं वाभिधानश्रिया । एतैरम्बनबोभवीति सुकविस्तावत्तव श्रीमतो (एतैरेव न बोभवीति कविता वृत्तैर्वचःश्रीमतो) यावन्नानुसरीसरीति सरणिं पादाब्जयोः पावनीम् ॥ ३५/३३॥ गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवना- त्त्वां वन्दे भवभीतिभञ्जनकरीं गौरी गिरीशप्रियाम् ॥ ३६/३४॥ आद्यैरग्निरवीन्दुबिम्बनिलयैरम्ब त्रिलिङ्गात्मभि- र्मिश्रारक्तसितप्रभैरनुपमैर्युष्मत्पदैस्तैत्रिभिः । स्वात्मोत्पादित (आत्मोद्भासित) काललोकनिगमावस्थामरादि- त्रयैरुद्भूतं (त्रयं तद्भूतं) त्रिपुरेति नाम कलयेयस्ते स धन्यो भवेत् ॥ ३७/३५॥ आद्यो जाप्यतमार्थवाचकतया रूढस्स्वरः पञ्चम- स्सर्वोत्कृष्टतमार्थवाचकतया वर्णः पवर्णात्मकः (पवर्गान्तकः) । वक्त्रत्वेन महाविभूतिसरणिस्त्वाधारगोहृद्रतो भ्रूमध्ये स्थित इत्यतः प्रणवतां ते गीयतेऽम्बागमैः ॥ ३८/३६॥ गायत्री सशिरा तुरीयसहिता सन्ध्यात्रयी त्वा(त्या)गमै- राख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् । तत्तद्दर्शनमुख्यशक्तिरपि च त्वं कर्मब्रह्मेश्वरी कर्ताहं पुरुषो हरिश्र सविता बुद्धश्शिवस्त्वं गुरुः ॥ ३९/३७॥ अन्नप्राणमनः प्रबोधपरमानन्दैश्शिरःपक्षयु- क्पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिद्धीकृतैः । कोशैः पञ्चभिरेभिरम्ब भवतीमेतत्प्रलीनामिति ज्योतिःप्रज्वलदुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ ४०/३८॥ सच्चित्तत्वमसीति वाक्यविदितैरध्यात्मविद्या शिवे ब्रह्माख्यैरतुलप्रभावजनकैस्तत्वैस्त्रिभिस्सद्गुरोः । त्वद्रूपस्य मुखारविन्दकुहरात्सम्प्राप्य दीक्षामतो यस्त्वां विन्दति तत्त्वतस्त(स्त्व)दह(मह)मित्यार्ये स मुक्तो भवेत् ॥ ४१/३९॥ सिद्धान्तैर्बहुभिः प्रमाणगणितैर(तैल)न्यैरविद्यातमो- नक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते । यावत्ते सवितैव सम्मतमिदं नोदेति विश्वान्तरे जन्तोर्जन्मनिवारणैकभिदुरं श्रीशाम्भवि श्रीशिवे ॥ ४२/४०॥ आत्मासौ सकलेन्द्रियाश्रयमतो(नो) बुद्ध्यादिभिश्शोचितः कर्माबद्धतनुर्जनिञ्च मरणं(रमणं) प्राप्नोति यत्कारणात् । यत्ते (तत्ते) देवि महाविलासलहरीविद्यायुधा(सुधा)नां जय- स्तस्मात्त्वां गुरुमभ्युपेत्य कलये त्वामेव चेन्मुच्यते ॥ ४३/४१॥ नानायोनिसहस्रसम्भववशाज्जाता जनन्यः कति प्रख्याता जनकाः कियन्त इति मे सत्स्यन्ति(सेत्स्यन्ति) चाग्रे कति । एतेषां गणनैव नास्ति महतस्संसारवारान्निधे- र्भीतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे ॥ ४४/४२॥ देहक्षोभकरैर्व्रतैर्बहुविधैर्ध्यानैश्च होमैर्जपैः सन्तानैर्हयमेधमुख्यसुमखैर्नानाविधैः कर्मभिः । यत्सङ्कल्पविकल्पजालमलिनं(मिलितं) प्राप्तं पदं तस्य ते दूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ ४५/४३॥ पञ्चाशन्निजदेहजाक्षरभवैर्नानाविधैर्धातुभिः बह्वर्थैः पदवाक्यमानजनकैरर्थाविनाभावितैः । साभिप्रायवदर्थकर्मफलदैः ख्यातैरनन्तैरिदं विश्वं व्याप्य चिदात्मना(ऽ)हमहमित्युज्जृम्भसे मातृके ॥ ४६/४४॥ श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकं विख्यातं तदधिष्ठिताक्षर शिवज्योतिर्मयं सर्वतः । एतन्मन्त्रमयात्मिकाभिररुणश्रीसुन्दरीभिर्वृते(तं) मध्ये बैन्दवसिह्मपीठललिते त्वं ब्रह्मविद्ये शिवे ॥ ४७/४५॥ आताम्रार्कसहस्रदीप्तिसुषुमासौन्दर्यसारैरलं लोका(काला)तीतमहोदयैरुपचितैस्सर्वोपमागोचरैः । नानारत्नविभूषणैरम(ग)णितैर्जाज्वल्यमानाभित- स्त्वं (त्वं) मातस्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ ४८/४६॥ बिन्दुप्राणविसर्गजीवसहितं बिन्दुत्रिजीवात्मकं षट्कूटा विनिपर्यया निगदिता तावत्त्रिबालार्बला । एभिस्सम्पुटितं प्रजप्य विहरेत्प्रासादमन्त्रं परं गुह्याद्रुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ॥ ४९/- ॥ शिञ्जन्नूपुरपादकङ्कणमहामुद्रासुलाक्षारसा- लङ्काराङ्किन्तमङ्घ्रिपङ्कजयुगं श्रीपादुकालङ्कृन्तम् । उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निभं ब्रह्मादित्रिदशा(शैः) मुरार्चितमिदं (समार्चितपदं) मूर्ध्नि स्मराम्यम्बिके ॥ ५०/४६॥ आरक्त(च्)छविनातिमार्दवयुजा निः(नि)श्वासहार्येण य त्कौशेयेन(यैर्न) वि(व)चित्ररत्नघटितैर्मुक्ताफलैरुज्वलैः । कूजत्काञ्चनकिङ्किणीभिरभितस्सन्नद्धकाञ्चीगुणे- रादीप्तं सुनितम्बबिम्बमरुणं ते भावयाम्यम्बिके ॥ ५१/४७॥ कस्तूरीघनसारकुङ्कुमरजोगन्धोत्कटैश्चन्दनै- रादी(लि)प्तं मणिमालया विरचित(सुरुचिर)ग्रैवेयहारादिभिः । दीप्तं दिव्य (दीप्यद्दिव्य) विभूषणैर्जननि ते ज्योतिर्विभास्वत्कुच- व्याजस्वर्णघटद्वयं हरिहरब्रह्मादिपीतं भजे ॥ ५२/४८॥ मुक्तारत्नसुवर्णकान्तिललितास्ते बाहुवल्लीरहं केयूरोत्तमबाहुदण्डवलयैर्हस्ताङ्गुलीभूषणैः । संवृत्ताः (सम्पृक्ताः) कलयामि हीरमणिमन्मुक्ताकलापीकृतं ग्रीवापट्टविभूषणेन सुभगं कण्ठञ्च कम्बुश्रियम् ॥ ५३/४९॥ उद्यत्पूर्णकलानिधीश(श्रि)वदनं भक्तप्रसन्नं सदा सम्फुल्लाम्बुजपत्रकान्तिसुषुमाधिक्कारदक्षेक्षणम् । सानन्दं कृतमन्दहासमसकृत्प्रादुर्भवत्कौतुकं कुन्दाकारसुदन्तपङ्क्तिरुचिरं पूर्णं स्मराम्यम्बिके ॥ ५४/५०॥ तप्तस्वर्णकृतोरुकुण्डलयुगं माणिक्यमुक्तोल्लस- द्धीराबद्धमनन्यतुल्यमपरं हैमञ्च चक्रद्वयम् । शुक्राकारनिकारदक्षममलं मुक्ताफलं सुन्दरं बिभ्रत्कर्णयुगं भजामि ललितं नासाग्रभागं शिवे ॥ ५५/५१॥ जातीचम्पककुन्दकेसर महागन्धोत्किरत्केतकी- (महागन्धोत्करं केतकी)- नीपाशोकशिरीषमुख्यकुसुमप्रोत्तंसिता धूपिता(ताः) । आनीलाञ्जननी(ली)लमत्तमधुपश्रेणी च वेणी तव श्रीमातश्श्रयतां मदीयहृदयाम्भोजे सरोजालये ॥ ५६/५२॥ लेखालभ्यविचित्ररत्नघटितं हैमं किरीटोत्तमं मुक्ताकाञ्चनकिङ्किणीगणमहाहीरप्रबन्धोज्वलम् । चञ्चच्चन्द्रकलाकलापललितं देवद्रुपुष्पार्चितं माल्यैरेवविलम्बितं सुशिखरं विभ्रच्छिरस्ते भजे ॥ ५७/५३॥ प्रोक्षिप्तोच्चसुवर्णदण्डललितं पूर्णेन्दुबिम्बाकृतिं चक्रं (छत्रं) मौक्तिकरत्नचक्रकलितं क्षौमांशुकोत्तंसितम् । मुक्ताजालविलम्बितं सकलशं नानाप्रसूनार्चितं चन्द्रोड्डामरचामरालि दधती(तीः) श्रीदेवि ते स्वस्त्रियः ॥ ५८/५४॥ विद्यामन्त्ररहस्यविन्मुनिगणैः कॢर्प्तोपचारार्चनां देवादिस्तुतिगीयमानचरितां वेदान्दतत्वात्मिकाम् । सर्वास्ताश्च तुरीयतामुपगतास्त्वद्रश्मिदेव्यः परा स्तन्नित्यं (स्त्वां नित्यं) समुपासते स्वविभवैश्श्रीचक्रनाथे शिवे ॥ ५९/५५॥ श‍ृङ्गारादिरसालयं त्रिभुवनं(नी) माल्यैरनेकैर्वृतं सर्वाङ्गीणसदङ्गरागसुरभि श्रीमद्वपुर्धूपितम् । ताम्बूलारुणपल्लवाधरयुतं रम्यं त्रिपुष्टुं वह- त्फालं नन्दनचन्दनेन सुरभि ध्यायामि ते मङ्गलम् ॥ ६०/५६॥ एवं यस्स्मरति प्रबुद्धसुमतिश्श्रीमत्स्वरूपं परं वृद्धो(ऽ)प्याशु युवाभवत्यनुपमस्त्रीणामनङ्गायते । स्पष्टै(सोऽष्टै)श्वर्यतिरस्कृताखिलसुरश्रीजृम्भितात्मालयः पृथ्वीपालकिरीटकोटिवलिभिर्नीराजिताङ्घ्रिर्भवेत् ॥ ६१/५७॥ अथ तव धनुः पुण्ट्रेक्षुकृत्प्रसिद्धमणिद्युति (अथ तव धनुः पुष्पेषुत्व प्रसिद्धमणिद्युति) त्रिभुवनबधूमोहज्योत्स्नाकलानिधिमण्डलम् । अखिलजननि स्मारंस्मारं गतस्मरताञ्जन- स्त्रिभुवनवधूमोहाम्बोधेः प्रपूर्णविधुर्भवेत् ॥ ६२/५८॥ (स्त्रिभुवनवधूमोहे बभ्रे प्रपूर्णविधुर्भवेत्) ॥ ६२/५८॥ प्रसूनशरपञ्चक(चम्पक)प्रकटगुम्फनागुम्फितं त्रिलोकमवलोकयत्यमलचेतसां चञ्चलम् । अशेषरमणीजनस्मरविजृम्भणं यस्सदा पटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ ६३/५९॥ पाशं प्रपूरितमहासुमतिप्रकाशं यो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् । आकर्षणेऽखिलवशीकरणे प्रवीण- श्चित्तेवसन् स भुवनत्वयवश्यकृत्स्यात् ॥ ६४/६०॥ यस्स्वान्ते कलयति कोविदस्त्रिलोकी- स्तम्भारम्भणवेक्षणकृत्यु(मत्यु)दारवीर्यम् । मातस्ते विजयतां कुशं सयोषा (स योषां) देवास्तं भजति (देवां स्तम्भयति) च भूभुजोऽत्र सैन्यम् ॥ ६५/६१॥ पाशध्यानवशाद्भवेद्भवमहामोहाम्भसोज्जृम्भणं प्रख्यातप्रव्यवेषु चिन्तनवशात्तत्तच्छरव्यं सुधीः । चापध्यानवशात्समस्तजगतां मृत्योर्वशत्वं महा- दुर्गस्तम्भमहाङ्कुशस्य मननान्मायाममेयां तरेत् ॥ ६६/- ॥ (पाशध्यानवशात्समस्तवशता मृत्योर्वशत्वं महा- दुर्गस्तम्भमहाङ्कुशस्य मनसा मायाममेयां तरेत् । पाशाध्यानवशाद्भवेद्भवमहामोहाम्भसो जृम्भणं प्रख्यातप्रसवेषुचिन्तनवशात्तत्तच्छरव्यं सुधीः) ॥ -/६२॥ न्यासं कृत्वा गणेशं ग्रहगणमहायोगिनीराशिपीठैः पञ्चाशन्मातृकार्ण(र्णैः) सहितबहुकलैरष्टवाग्देवताभिः । सश्री(स स्त्री) कण्ठादियुग्मैर्निजविमलतनौ केशवाद्यैश्च तत्वै- षट्त्रिंशक्त(द्भिर्धराद्यै)माद्यैर्भगवति भवतीं यस्स्मरेत्स त्वमेव ॥ ६७/६३॥ भगवति तव पादपद्मातिसद्माविक श्री स्त्रिजगति परिहृत्य भद्राय निद्रादिषु । अलि इति कलनादसङ्गीतभङ्गीकृते परिमलमिह किन्तु वन्देति सन्देहितः ॥ ६८/- ॥ सुरपतिपुरलक्ष्मीजृम्भणातीतलक्ष्मीः प्रभवति निजगेहे यस्य देवत्वमार्ये । विधृतबहुकलानां पात्रभूतस्य तस्य त्रिभुवनविदिता सा जृम्भिता कीर्तिरच्छा ॥ ६९/६४॥ मातस्त्वं भूर्भुवस्वर्महिततमतनुस्त्वन्तरिक्षं न सूर्यो (मातस्त्वं भूर्भुवःस्वर्महिततमतनुं त्वन्तरिक्षेन्दुसूर्यै-) राज्ञी(ज्ञा) शुक्रेन्द्रवह्नीन्दुभिरपि निगमब्रह्मभिः प्रोतशक्तिः (क्तिं) । प्राणापानादियुक्तैः (ग्मै) कलयति सकलं मानसं(से) ध्यानयोगा- द्येषां तेषां सपर्या भवति सुरकृता ब्रह्मता (ब्रह्म ते) योग्यता (जानते) च ॥ ७०/६५॥ क्व मे बुद्धिर्वाचः परमविदुषो मन्दसरणिः क्व ते मातर्ब्रह्मप्रमुखविबुधस्वान्तवचसाम् । (क्व ते मातर्ब्रह्मप्रमुखविबुधाः स्वान्तवचसः ।) अभूमा विष्फूर्तिः परतरमहिम्नस्तव नुतौ प्रसीद क्षन्तव्यं बहुलतरचापल्यमपि मे ॥ ७१/६६॥ प्रसीद परदेवते मम हृदि प्रभूतं भयं निवारय दरिद्रतां दलय देहि सर्वज्ञताम् । विधेहि करुणानिधे शिरसि पादयुग्मं स्वकं विदारय जरामृतिं(ती) त्रिपुरसुन्दरि श्रीशिवे ॥ ७२/६७॥ (फलम्) - इति त्रिपुरसुन्दरीस्तुतिमिमां पठेद्यस्सुधीः स सर्वदुरिताटवीपटलचण्डदावानलः । लभेन्मनसि वाञ्छितं प्रचुरसिद्धिरिद्धिर्भवे- दनेकविधसम्पदां पदमनन्यतुल्यो भवेत् ॥ ७३/६८॥ सङ्गीतं सरसं कवित्वसरणिं आम्नायवाक्यस्मृती- व्याख्यानं हृदि तावकीनचरणद्वन्द्वञ्च सर्वज्ञतां । श्रद्धां कर्मणि कालिके तव बलं श्रीजृम्भणं मन्दिरे सौन्दर्यं वपुषि प्रकाशमतुलं अम्बेश्वरि (प्राप्नोति) श्रीशिवे ॥ ७४/६९॥ पृथ्वीपालप्रकटमकुटस्रग्रजोरञ्चिताङ्घ्रिः विद्वत्पूजानतिमतिसमाराधितो बाधितारिः । विद्यास्सर्वाः कलयति हृदा भासयन्ति प्रभाभिः लोकास्सर्वे नवनवपदैरिन्दुबिम्बप्रकाशैः ॥ ७५/७०॥ भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकार(कौमार) तेजाः सुज्ञानं भूरिमानं दिनकरललितं दुर्गमं योगमार्गम् । आयुष्पञ्चाष्टसिद्धिं हरगिरिविशदां कीर्तिमभ्येत्यभूमौ देहान्ते ब्रह्मपारं परमशिवचिदाकारमभ्येति विद्वान् ॥ ७६/७१॥ उच्चेषु नीचेष्वपि दर्शनेषु प्रकाशते देवि तब स्वरूपम् । समुज्वलन्त्येव हि यज्ञवाटे चण्डालवेश्मन्यपि जातवेदाः ॥ ७७/७२॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये दुर्वाससाविरचितं त्रिपुराम्बिकामहिम्नस्तोत्रं सम्पूर्णम् ॥

परिचय: महर्षि दुर्वासा की दिव्य दृष्टि

श्रीशक्तिमहिम्नस्तोत्रम् (या त्रिपुराम्बिकामहिम्नस्तवः) एक अत्यंत दुर्लभ और गूढ़ स्तोत्र है। इसे महर्षि दुर्वासा द्वारा रचित माना जाता है और यह विशाल महाकाव्य "शिवरहस्य" के भवाख्य (द्वितीयांश) में पाया जाता है। महर्षि दुर्वासा को पुराणों में उनके उग्र क्रोध के लिए जाना जाता है, लेकिन तांत्रिक परंपरा (विशेषकर श्रीविद्या) में, उन्हें एक सर्वोच्च ज्ञानवान, 'क्रोध-भैरव' के अवतार और श्रीविद्या के प्रमुख आचार्यों (श्रीविद्या के 12 मुख्य उपासकों में से एक) के रूप में पूजा जाता है। यह स्तोत्र उनकी उसी परम ज्ञानी और तांत्रिक अवस्था का प्रकटीकरण है।

यह स्तोत्र कोई साधारण स्तुति नहीं है। यह श्रीविद्या के पञ्चदशी मंत्र (पंद्रह अक्षरों वाले गुप्त मंत्र) का एक विस्तृत काव्यात्मक और दार्शनिक भाष्य है। श्रीविद्या मंत्र को तीन भागों या 'कूटों' में बांटा गया है: वाग्भव कूट (ज्ञान और वाणी), कामराज कूट (इच्छा और प्रेम), और शक्ति कूट (क्रिया और ऊर्जा)। महर्षि दुर्वासा ने इन श्लोकों में प्रत्येक कूट के रहस्य, उसके अर्थ, उसके देवता और उसके ध्यान से प्राप्त होने वाले फलों का अत्यंत सूक्ष्मता से वर्णन किया है।

स्तोत्र का आरंभ (श्लोक १८) देवी के परम सौंदर्य के वर्णन से होता है - "त्रिलोकीमहासौन्दर्यार्णवमन्थनोद्भव" (तीनों लोकों के महान सौंदर्य रूपी समुद्र के मंथन से उत्पन्न अमृत के समान उज्वल)। कवि प्रार्थना करता है कि देवी का वह ज्योतिर्मय और 'वाङ्मय' (शब्द या मंत्र रूपी) शरीर उनके हृदय में स्फुरित हो। इसके बाद, स्तोत्र सूक्ष्म शरीर के चक्रों (श्लोक १९), और फिर मंत्र के बीजों के गहन विश्लेषण में प्रवेश करता है।

विशिष्ट महत्व: श्रीविद्या के तीन कूटों का रहस्य

इस स्तोत्र का सबसे महत्वपूर्ण पहलू इसका तांत्रिक और मंत्र-शास्त्रीय ज्ञान है। यह पञ्चदशी मंत्र के तीन कूटों को खोलता है:

  • वाग्भव कूट (ज्ञान और वाणी): श्लोक २०-२२ पहले कूट (वाग्भव बीज 'ऐं') का वर्णन करते हैं। दुर्वासा कहते हैं कि यह बीज सभी वेदों, विद्याओं, भाषाओं, छंदों, सात स्वरों और तालों को जन्म देता है। इसके बिना तीनों लोकों का व्यवहार ही संभव नहीं है। जो इस बीज का ध्यान करता है, उसका मुख "शब्दब्रह्म" का निवास बन जाता है और इंद्र आदि देव भी उससे ईर्ष्या करते हैं।
  • कामराज कूट (इच्छा और शक्ति): श्लोक २३-२५ दूसरे (मध्यम) कूट (कामराज बीज 'क्लीं') को समर्पित हैं। यह बीज सूर्य के समान तेजस्वी है और देवी की क्रिया, ज्ञान और इच्छा शक्तियों को प्रकट करता है। यह काम, क्रोध, लोभ आदि को नियंत्रित करने वाला है। इसे जपने वाला सभी राजाओं (अर्थात भौतिक जगत) को अपने वश में कर लेता है।
  • शक्ति कूट (क्रिया और मुक्ति): श्लोक २६ तीसरे कूट (शक्ति बीज 'सौः') का वर्णन करता है। यह बीज अग्नि की ज्वाला के समान है, सभी का आधार है, तुरीय (चतुर्थ) अवस्था का प्रतीक है और सीधे 'संविद्' (परम चेतना) का रूप है। यही वह बीज है जो जीव को मोक्ष की ओर ले जाता है।

इसके अतिरिक्त, यह स्तोत्र अद्वैत वेदांत (श्लोक ४१: "तत्वमसि" महावाक्य का उल्लेख) और पंचकोश (श्लोक ४०: अन्न, प्राण, मन, विज्ञान, आनंद) के सिद्धांतों को भी देवी की उपासना के साथ जोड़ता है। अंतिम श्लोक (७७) इसका सार है: "चाहे दर्शन (शास्त्र) उच्च हों या नीच, आपका स्वरूप ही उनमें प्रकाशित होता है, जैसे अग्नि यज्ञवेदी में भी जलती है और चांडाल के घर में भी।" यह देवी की सर्वव्यापकता को सिद्ध करता है।

फलश्रुति से प्राप्त होने वाले लाभ (Benefits from Phala Shruti)

महर्षि दुर्वासा ने स्तोत्र के अंत (श्लोक ७३-७६) में इसके पाठ से प्राप्त होने वाले भौतिक और आध्यात्मिक लाभों का विस्तार से वर्णन किया है:

  • पापों और संकटों का नाश: जो सुबुद्धि इस स्तोत्र का पाठ करता है, वह पाप रूपी घने जंगल को जलाने के लिए प्रचंड दावानल (अग्नि) के समान हो जाता है। (श्लोक ७३)
  • मनोवांछित फल और संपदा: साधक को मनचाही सिद्धि मिलती है और वह अनेक प्रकार की संपत्तियों को प्राप्त कर अद्वितीय (अनन्यतुल्य) बन जाता है। (श्लोक ७३)
  • विद्या और कलाओं में निपुणता: उसे सरस संगीत, कविता रचने की क्षमता, वेद वाक्यों और स्मृतियों की व्याख्या करने का ज्ञान और सर्वज्ञता प्राप्त होती है। (श्लोक ७४)
  • शारीरिक और मानसिक बल: देवी की कृपा से उसके शरीर में सौंदर्य, कर्मों में श्रद्धा, और अतुलनीय प्रकाश/तेज प्राप्त होता है। (श्लोक ७४)
  • राज-सम्मान और शत्रु नाश: वह राजाओं द्वारा सम्मानित होता है, विद्वानों द्वारा पूजित होता है, और उसके सभी शत्रुओं का नाश हो जाता है। (श्लोक ७५)
  • परम मोक्ष की प्राप्ति: अंततः, पृथ्वी पर आयु, अष्ट सिद्धियाँ और विशद कीर्ति भोगने के बाद, विद्वान साधक देहांत होने पर परब्रह्म (परमशिव चिदाकार) के पार चला जाता है, अर्थात उसे मोक्ष प्राप्त होता है। (श्लोक ७६)

पाठ विधि और तांत्रिक साधना (Ritual Method)

यह एक उच्च-स्तरीय तांत्रिक स्तोत्र है। यद्यपि कोई भी इसे भक्तिभाव से पढ़ सकता है, इसके पूर्ण रहस्यों को उद्घाटित करने के लिए विशेष विधि की आवश्यकता होती है।

  • दीक्षा का महत्व: श्लोक ४१ में दुर्वासा मुनि स्वयं कहते हैं कि जब तक सद्गुरु से दीक्षा प्राप्त न हो, तब तक "अहं ब्रह्म अस्मि" (मैं ही देवी/ब्रह्म हूँ) का वास्तविक अनुभव नहीं हो सकता। इसलिए, श्रीविद्या में दीक्षित साधकों के लिए यह स्तोत्र अमृत के समान है।
  • मानसिक न्यास (श्लोक ६७): स्तोत्र में स्पष्ट निर्देश है कि पाठ से पहले साधक को अपने शरीर में गणेश, नवग्रह, योगिनी, ५० मातृका वर्णों (अक्षरों), वाग्देवताओं, और तत्त्वों का मानसिक न्यास करना चाहिए। इससे शरीर दिव्य बन जाता है।
  • ध्यान: पाठ करते समय, श्लोक १९ में वर्णित ध्यान का अभ्यास करें—सुषुम्ना नाड़ी के मध्य में स्थित पीले कमल के भीतर त्रिकोण में विराजमान देवी की चिन्मयी मूर्ति का चिंतन करें।
  • बीज मंत्रों का मनन: जब आप वाग्भव, कामराज और शक्ति बीजों से संबंधित श्लोकों (२०-२६) का पाठ करें, तो उन बीजों के स्वरूप और ऊर्जा को अपने भीतर (क्रमशः कंठ, हृदय और नाभि/मूलाधार क्षेत्र में) महसूस करने का प्रयास करें।
  • नियमितता: ब्रह्म मुहूर्त में या गोधूलि बेला में, एकांत और पवित्र स्थान पर बैठकर इसका नित्य पाठ करना अत्यधिक फलदायी है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. महर्षि दुर्वासा कौन थे और श्रीविद्या में उनका क्या स्थान है?

महर्षि दुर्वासा अत्रि मुनि और माता अनुसूया के पुत्र थे और उन्हें भगवान शिव (क्रोध-भैरव) का अंशावतार माना जाता है। श्रीविद्या तांत्रिक परंपरा में, वे सर्वोच्च आचार्यों में से एक गिने जाते हैं जिन्होंने देवी की सूक्ष्म साधना को ब्रह्मांड में स्थापित किया।

2. यह स्तोत्र 'शिवरहस्य' ग्रंथ के किस अंश से है?

यह स्तोत्र विशाल महाकाव्य 'शिवरहस्य' के 'भवाख्य' नामक द्वितीय अंश के २९वें अध्याय से उद्धृत किया गया है।

3. वाग्भव, कामराज और शक्ति कूट क्या हैं?

ये श्रीविद्या के पञ्चदशी (१५ अक्षरों वाले) मंत्र के तीन खंड हैं। वाग्भव कूट (ज्ञान और वाणी), कामराज कूट (इच्छा और प्रेम/आकर्षण), और शक्ति कूट (क्रिया और मोक्ष) का प्रतिनिधित्व करते हैं। यह स्तोत्र इन्हीं बीजों की व्याख्या है।

4. श्लोक ४० में वर्णित 'पञ्चकोश' क्या हैं?

पञ्चकोश आत्मा को ढकने वाले पांच आवरण हैं: अन्नमय (भौतिक शरीर), प्राणमय (ऊर्जा), मनोमय (मन), विज्ञानमय (बुद्धि), और आनंदमय (आनंद)। स्तोत्र बताता है कि देवी इन पाँचों कोशों के भीतर ज्योति रूप में प्रकाशित हैं।

5. क्या यह स्तोत्र अद्वैत दर्शन (Advaita) का समर्थन करता है?

जी हाँ, पूरी तरह से। श्लोक ४१ में 'तत्त्वमसि' (तुम वही हो) और 'सोऽहम्' (वह मैं हूँ) का उल्लेख है। यह तंत्र और अद्वैत वेदांत का सुंदर समन्वय है, जहाँ देवी को परब्रह्म के रूप में देखा गया है।

6. क्या मैं इस स्तोत्र का पाठ बिना तांत्रिक दीक्षा के कर सकता हूँ?

हाँ, एक स्तुति के रूप में कोई भी इसे पढ़ सकता है और इससे मानसिक शांति व पापों का नाश होता है। परंतु इसमें वर्णित बीज मंत्रों के रहस्यों का पूर्ण तांत्रिक अनुभव एक श्रीविद्या गुरु से दीक्षा प्राप्त करने के बाद ही संभव है।

7. अंतिम श्लोक (यज्ञवाटे चण्डालवेश्मन्यपि) का क्या संदेश है?

यह श्लोक देवी की सर्वव्यापकता और अद्वैत स्वरूप को दर्शाता है। इसका अर्थ है कि जैसे अग्नि एक पवित्र यज्ञवेदी में भी प्रकाश देती है और एक चांडाल (निचले माने जाने वाले) के घर में भी, वैसे ही देवी हर दर्शन, हर व्यक्ति और हर स्थान पर समान रूप से विद्यमान हैं।

8. इस स्तोत्र के पाठ से वाणी (Speech) पर क्या प्रभाव पड़ता है?

चूँकि इसमें वाग्भव बीज (सरस्वती/ज्ञान का बीज) का विस्तृत ध्यान है, इसके नियमित पाठ से साधक को 'वाचा सिद्धि', अद्भुत काव्य रचने की क्षमता, और शास्त्रार्थ में निपुणता प्राप्त होती है (श्लोक २१, ७४)।

9. 'कुण्डलिनी' का उल्लेख इस स्तोत्र में कैसे है?

श्लोक २२ में स्पष्ट रूप से "शक्तिं कुण्डलिनीं" का उल्लेख है। दुर्वासा कहते हैं कि जो इस शक्ति को पहचान लेता है, वह ज्ञान रूपी अग्नि से अपने सभी संचित कर्मों और पापों को भस्म कर देवी के परम पद को प्राप्त करता है।

10. क्या यह स्तोत्र सौंदर्यलहरी के समान है?

दोनों ही श्रीविद्या के महान स्तोत्र हैं। 'सौंदर्यलहरी' (शंकराचार्य कृत) अधिक काव्यात्मक है और देवी के सौंदर्य पर अधिक केंद्रित है, जबकि यह 'महिम्नस्तोत्रम्' दार्शनिक रूप से अधिक कठोर है और बीज मंत्रों के तांत्रिक यांत्रिकी (mechanics) पर अधिक गहराई से ध्यान केंद्रित करता है।