Logoपवित्र ग्रंथ

उमासहाचार्य विरचितं श्री मातङ्गी स्तोत्रम्

Uma Sahacharya Virachitam Sri Matangi Stotram

उमासहाचार्य विरचितं श्री मातङ्गी स्तोत्रम्
॥ उमासहाचार्यविरचितं मातङ्गी स्तोत्रम् ॥ ॥ ॐ क्लीं मातङ्ग्यै नमः ॥ मातङ्गी नवयावकार्द्रचरणां प्रोल्लासिकृष्णांशुकां वीणोल्लासिकरां समुन्नतकुचां मुक्ताप्रवालावलीम् । हृद्याङ्गीं सितशङ्खकुण्डलधरां बिम्बाधरां सुस्मितां आकीर्णालकवेणिमब्जनयनां ध्यायेत् शुक-श्यामलाम् ॥ १॥ कलाधीशोत्तंसां करकलितवीणाहितरसां कलिन्दापत्याभां कलितहृदयारक्तवसनाम् । पुराणीं कल्याणीं पुरमथनपुण्योदयकलां अधीराक्षीमेनामवटुतटसन्नद्धकबरीम् ॥ २॥ करोदञ्चद्वीणं कनकदलताटङ्कनिहितं स्तनाभ्यामानम्रं तरुणमिहिरारक्तवसनम् । महः कल्याणं तन्मधुमदभराताम्रनयनं तमालश्यामं नः स्तबकयतु सौख्यानि सततम् ॥ ३॥ कराञ्चितविपञ्चिकां कलितचन्द्रचूडामणिं कपोलविलसन्महःकनकपत्रताटङ्किनीम् । तपःकलमधीशितस्तरुणभानुरक्ताम्बरां तमालदलमेचकां तरललोचनामाश्रये ॥ ४॥ कस्तूरीरचिताभिरामतिलका कल्याणताटङ्किनी बाला शीतमयूखशोणवसना प्रालम्बिधम्मिल्लका । हारोदञ्चितपीवरस्तनतटा हालामदोल्लासिनी श्यामा काञ्चन कामिनी विजयते चञ्चद्विपञ्चीकरा ॥ ५॥ माता मरकतश्यामा, मातङ्गी मृदुभाषिणी । कटाक्षये तु कल्याणी कदम्बवनवासिनी ॥ ६॥ शृङ्गे सुमेरोः सहचारिणीभिर्गीयन्ति मातङ्गि तवावदानम् । आमोदिनीमागलमापिबन्तः कादम्बरीमम्बरवासिनस्ते ॥ ७॥ एकेन चापमपरेण करेण बाणा- नन्येन पाशमितरेण शृणिं दधाना । आनन्दकन्दलितविद्रुमबालवल्ली संविन्मयी स्फुरतु काञ्चन देवता मे ॥ ८॥ गजदानकलङ्किकण्ठमूला कबरीवेष्टनकाङ्क्षणीयगुञ्जा । कुरुताद् दुरिताद् विमोक्षणं मे कुहुना भिल्लकुटुम्बिनी भवानी ॥ ९॥ पाणौ मृणालसगुणं दधतीक्षुचापं पृष्ठे लसत्कनककेतकबाणकोशौ । अङ्गे प्रवालकवचं वनवासिनी सा पञ्चाननं मृगयते कदलीवनान्ते ॥ १०॥ वामे विस्तृतिशालिनि स्तनतटे विन्यस्य वीणामुखं तन्त्रीं तारविराविणीमसकलैरास्फालयन्ती नखैः । अर्द्धोन्मीलदपाङ्गदिक्षुवलितग्रीवं मुखं बिभ्रती माया काञ्चन मोहिनी विजयते मातङ्गकन्यामयी ॥ ११॥ प्रतिक्षणपयोधर-प्रविलसद्विपञ्चीगुण- प्रसारि करपङ्कजं बलभिदश्मपुञ्जोपमम् । कदम्बवनमालिकाशशिकलासमुद्भासितं मतङ्गकुलमण्डनं मनसि मे महो जृम्भताम् ॥ १२॥ लाक्षालोहितपादपङ्कजदलामापीनतुङ्गस्तनीं कर्पूरोज्ज्वलचारुशङ्खवलयां काश्मीरपत्राङ्कुराम् । तन्त्रीताडनपाटलाङ्गुलिदलां अन्दामह् मातरं मातङ्गीं मदमन्थरां मरकतश्यामां मनोहारिणीम् ॥ १३॥ स्रस्तं केशरदामभिर्वलयितं धम्मिल्लमाबिभ्रती तालीपत्रपुटान्तरैः सुघटितैस्ताटङ्किनी मौक्तिकैः । मूले कल्पतरोर्मदस्खलितदृग् दृष्ट्यैव सम्मोहिनी काचिद् गायनदेवता विजयते वीणावती वासना ॥ १४॥ यत् षट्पत्रं कमलमुदितं तस्य यत्कर्णिकान्त- र्ज्योतिस्तस्याप्युदरकुहरे यत्तदोङ्कारपीठम् । तस्याप्यन्तः स्तनभरनतां कुण्डलीति प्रसिद्धां श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ १५॥ निशि निशि बलिमस्यै भुक्तशेषेण दत्त्वा मनु मनु गणनाथो मन्त्रजापं वितन्वन् । भवति नृपतिपूज्यो योषितां प्रीतिपात्रं व्रजति च पुनरन्ते शाश्वतीं मूर्तिमाद्याम् ॥ १६॥ कासारन्ति पयोधयो विषधराः कर्पूरहारन्ति च श्रीखण्डन्ति दवानला वनगजाः सारङ्गशावन्ति च । दासन्त्यद्भुतशात्रवाः किमपरं पुष्यन्ति वज्राण्यपि श्रीदामोदरसोदरे भगवति ! त्वत्पादनिष्ठात्मनाम् ॥ १७॥ कुवलयनिभा कौशेयार्द्धोरुका मुकुटोज्ज्वला हलमुशलिनी सद्भक्तेभ्यो वराभयदायिनी । कपिलनयना मध्येक्षामा कठोरघनस्तनी जयति जगतां मातः ! सा ते वराहमुखी तनुः ॥ १८॥ अमृतमहोदधिमध्ये रत्नद्वीपे सकल्पवृक्षवने । नवमणिमण्डपमध्ये मणिमयसिंहासनस्योर्द्ध्वम् ॥ १९॥ मातङ्गीं भूषिताङ्गीं मधुमदमुदितां घूर्णमाणाक्षियुग्मां स्विद्यद्वक्त्रां कदम्बप्रसवपरिलसद्वेणिकामात्तवीणाम् । बिम्बोष्ठीं रक्तवस्त्रां मृगमदतिलकामिन्दुलेखावतंसां कर्णोद्यच्छङ्खपत्रां कठिनकुचभराक्रान्तकान्तावलग्नाम् ॥ २०॥ उन्मीलद्यौवनाढ्यां निबिडमदभरोद्वेगलीलावकाशां रत्नग्रैवेयहाराङ्गदकटककटीसूत्रमञ्जीरभूषाम् । आनीयार्थानभीष्टान् स्मितमधुरदृशा साधकं तर्पयन्तीं ध्यायेद् देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥ २१॥ अमृतोदधिमध्येऽत्र रत्नद्वीपे मनोरमे । कदम्बबिल्वनिलये कल्पवृक्षोपशोभिते ॥ २२॥ तस्य मध्ये सुखास्तीर्णे रत्नसिंहासने शुभे । त्रिकोणकर्णिकामध्ये तद्बहिः पञ्चपत्रकम् ॥ २३॥ अष्टपत्रं महापद्मं केसराढ्यं सकर्णिकम् । तत्पार्श्वेऽष्टदलं प्रोक्तं चतुःपत्रं पुनः प्रिये ॥ २४॥ चतुरस्रं च तद्बाह्ये एवं देव्यासनं भवेत् । तस्य मध्ये सुखासीनां श्यामवर्णां शुचिस्मिताम् ॥ २५॥ कदम्बमालापरितः प्रान्तबद्धशिरोरुहाम् । प्रालम्बालकसंयुक्तां चन्द्रलेखावतंसकाम् ॥ २६॥ ललाटतिलकोपेतां ईषत्प्रहसिताननाम् । किञ्चित्स्वेदाम्बुरचितललाटफलकोज्ज्वलाम् ॥ २७॥ त्रिवलीतरङ्गमध्यस्थरोमराजिविराजिताम् । सर्वालङ्कारसंयुक्तां सर्वाभरणभूषणाम् ॥ २८॥ नूपुरै रत्नखचितैः कटिसूत्रैरलङ्कृताम् । वलयै रत्नरचितैः केयूरैर्मणिभूषणैः ॥ २९॥ भूषितां द्विभुजां बालां मदाघूर्णितलोचनाम् । वादयन्तीं सदा वीणां शङ्खकुण्डलभूषणाम् ॥ ३0॥ प्रालम्बिकर्णाभरणां कर्णोत्तंसविराजिताम् । यौवनोन्मादिनीं वीरां रक्तांशुकपरिग्रहाम् ॥ ३१॥ तमालनीलां तरुणीं मदमत्तां मतङ्गिनीम् । चतुःषष्टिकलारूपां पार्श्वस्थशुकसारिकाम् ॥ ३२॥ मातङ्गेशीं महादेवीं निःश्वस्यैनान्तरात्मना । सूर्यकोटिप्रतीकाशां जपाकुसुमसन्निभाम् ॥ ३३॥ अथवा पीतवर्णां च श्यामामेवापरां श्रये । निष्पापस्य मनुष्यस्य किं न सिद्ध्यति भूतले ॥ ३४॥ कामवच्चरते भूमौ साक्षाद् वैश्रवणायते । गद्यपद्यमयी वाणी तस्य वक्त्राद् विनिर्गता ॥ ३५॥ भैरवी त्रिपुरा लक्ष्मीर्वाणी मातङ्गिनीति च । पर्यायवाचका ह्येते सत्यमेतद् ब्रवीमि ते ॥ ३६॥ त्रिक-पञ्चकाष्टयुगलं षोडशकोष्ठाष्टकं चतुःषष्टौ । ध्यात्वाऽङ्गदेवतानां देव्याः परितो यजेत भावेन ॥ ३७॥ मातङ्गि ! मातरीशे ! मधुमथनाराधिते ! महामाये ! । मोहिनि ! मोहप्रमथिनि ! मन्मथमथनप्रिये नमस्तेऽस्तु ॥ ३८॥ स्तुतिषु तव देवि ! विधिरपि विहितमतिर्भवति चाप्यविहितमतिः । यद्यपि भक्तिर्मामपि भवतीं स्तोतुं विलोभयति ॥ ३९॥ यतिजनहृदयावासे ! वासववन्द्ये वराङ्गि मातङ्गि ! । वीणावाद्यविनोद्यैर्नारदगीते ! नमो देवि ! ॥ ४०॥ देवि ! प्रसीद सुन्दरि पीनस्तनि कम्बुकण्ठि घनकेशि! । श्यामाङ्गि विद्रुमोष्ठि स्मितमुखि मुग्धाक्षि मौक्तिकाभरणे! ॥ ४१॥ भरणे त्रिविष्टपस्य प्रभवसि तत एव भैरवी त्वमसि । त्वद्भक्तिलब्धविभवो भवति क्षुद्रोऽपि भुवनपतिः ॥ ४२॥ पतितः कृपणो मूकोऽप्यम्ब! भवत्याः प्रसादलेशेन । पूज्यः सुभगो वाग्मी भवति जडश्चापि सर्वज्ञः ॥ ४३॥ ज्ञानात्मके जगन्मयि निरञ्जने नित्यशुद्धपदे! । निर्वाणरूपिणि परे त्रिपुरे! शरणं प्रपन्नस्त्वाम् ॥ ४४॥ त्वां मनसि क्षणमपि यो ध्यायति मुक्तावृतां श्यामाम् । तस्य जगत्त्रितयेऽस्मिन् कास्ता या न स्त्रियः साध्याः ॥ ४५॥ साध्याक्षरगर्भितपञ्चनवत्यक्षरात्मिके जगन्मातः! । भगवति मातङ्गेश्वरि ! नमोऽस्तु तुभ्यं महादेवि ! ॥ ४६॥ विद्याधरसुरकिन्नरगुह्यकगन्धर्वसिद्धयक्षवरैः । आराधिते ! नमस्तेऽस्तु प्रसीद कृपयैव मातङ्गि! ॥ ४७॥ मातङ्गीस्तुतिरियमन्वहं प्रजप्ता जन्तूनां वितरति कौशलं क्रियासु । वाग्मित्वं श्रियमधिकां च मानशक्तिं सौभाग्यं नृपतिभिरर्चनीयतां स याति ॥ ४८॥ मातङ्गीमनुदिनमेवमर्चयन्तः श्रीमन्तः सुभगतराः कवित्वभाजः । प्राप्यान्ते सकलसमीहितार्थवर्गं देहान्ते विमलतरं विशन्ति धाम ॥ ४९॥ अवटुतटघटितचोलीं ताडितताडीं पलाशताटङ्काम् । वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ५०॥ वीणावादननिरतं तदलाबुस्थगितवामकृतकुचम् । श्यामलकोमलगात्रं पाटलनयनं परं भजे धाम ॥ ५१॥ अङ्कितपाणिचतुष्टयमङ्कुशपाशेक्षुपुष्पचापशरैः । शङ्करजीवितमित्रं पङ्कजनयनं परं भजे धाम ॥ ५२॥ करकलितकनकवीणालाबुककदलीकृतैककुचकमला । जयति जगदेकमाता मातङ्गी मङ्गलायतना ॥ ५३॥ अङ्गलालितमनङ्गविद्विषस्तुङ्गपीनकुचभारभङ्गुरम् । श्यामलं शशिनिभाननं भजे कोमलं कुटिलकुन्तलं महः ॥ ५४॥ वीणावाद्यविनोदगीतनिरतां लीलाशुकोल्लासिनीं बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् । हृद्याङ्गीं सितशङ्खकुण्डलधरालङ्कारवेषोज्वलां मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ ५५॥ वेणीमूलविराजितेन्दुशकलां वीणानिनादप्रियां क्षोणीपालसुरेन्द्रपन्नगगणैराराधितांह्रिद्वयाम् । एणीचञ्चललोचनां सुवदनां वाणीं पुराणोज्ज्वलां श्रोणीभारभरालसामनिमिषां पश्यामि विश्वेश्वरीम् ॥ ५६॥ कुचकलशनिषण्णकेलिवीणां कलमधुरध्वनिकम्पितोत्तमाङ्गीम् । मरकतमणिभङ्गमेचकाभां मदनविरोधिमनस्विनीमुपासे ॥ ५७॥ ताडीदलोल्लसितकोमलकर्णपालीं केशावलीकलितदीर्घसुनीलवेणीम् । वक्षोजपीठनिहितोज्ज्वलनादवीणां वाणीं नमामि मदिरारुणनेत्रयुग्माम् ॥ ५८॥ यामामनन्ति मुनयः प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदो गृणन्ति । तामर्द्धपल्लवितशङ्कररूपमुद्रां देवीमनन्यशरणः शरणं प्रपद्ये ॥ ५९॥ यः स्फाटिकाक्षवरपुस्तककुण्डिकाढ्यां व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् । पद्मासनां च हृदये भवतीमुपास्ते । मातः! स विश्वकवितार्किकचक्रवर्ती ॥ ६०॥ बर्हावतंसघनबन्धुरकेशपाशां गुञ्जावलीकृतघनस्तनहारशोभाम् । श्यामां प्रवालवसनां शरचापहस्तां तामेव नौमि शबरीं शबरस्य नाथाम् ॥ ६१॥ अज्ञातसम्भवमनाकलितान्ववायं भिक्षुं कपालिनमवाससमद्वितीयम् । पूर्वं करग्रहणमङ्गलतो भवत्याः शम्भुः क एव बुबुधे गिरिराजकन्ये ! ॥ ६२॥ चर्माम्बरं च शवभस्मविलेपनं च भिक्षाटनं च नटनं च परेतभूमौ । वेतालसंहतिपरिग्रहतां च शम्भोः शोभां वहन्ति गिरिजे ! तव साहचर्यात् ॥ ६३॥ गले गुञ्जाबीजावलिमपि च कर्णे शिखिशिखां शिरो रङ्गे नृत्यत्कनककदलीमञ्जुलदलम् । धनुर्वामे चांसे शरमपरपाणौ च दधतीं नितम्बे बर्हालीं कुटिलकबरीं सिद्धशबरीम् ॥ ६४॥ लसद्गुञ्जापुञ्जाभरणकिरणारक्तनयनां जपाकर्णाभूषां शिखिवरकलापाम्बरवतीम् । नदज्झिल्लीपल्लीवनतरुदलैः सम्परिवृताम् । नमामि वामोरुं कुटिलकबरीं सिद्धशबरीम् ॥ ६५॥ अपर्णाहोपर्णां सिरसकदलीसम्भवमलं भवं जेतुं प्रौढिं किल मनसि बाला विदधती । नदज्झिल्लीपल्लीवनतरुषु हल्लीसकरुचि- र्लसत्पल्लीभिल्ली करकलितभल्ली विजयते ॥ ६६॥ धनिनामविनाभवन्मदानां भवनद्वारि दुराशया शयानाम् । अवलोकय मामगेन्द्रकन्ये! करुणाकन्दलितैः कटाक्षमोक्षैः ॥ ६७॥ कुवलयदलनीलं बर्बरस्निग्धकेशं पृथुतरकुचभाराक्रान्तकान्तावलग्नम् । किमिति बहुभिरुक्तैस्त्वत्स्वरूपं पदं नः सकलजननि मातः ! सन्ततं सन्निधत्ताम् ॥ ६८॥ मिथः केशाकेशि प्रधननिधनास्तर्कघटना बहुश्रद्धाभक्तिप्रणतिविषयाश्चाप्तविधयः । प्रसीद प्रत्यक्षीभव गिरिसुते! देहि शरणं निरालम्बे ! चेतः परिलुठति पारिप्लवमिदम् ॥ ६९॥ लसद्गुञ्जाहारस्तनभरनमन्मध्यलतिका- मुदञ्चद्घर्माम्भःकणगुणितवक्त्राम्बुजरुचम् । शिवं पार्थत्राणप्रणवमृगयाकारकरणं शिवामन्वक्यान्तीं शरणमहमन्वेमि शबरीम् ॥ ७०॥ शिरसि धनुरटन्या ताड्यमानस्य शम्भो- रलक-नयन-कोणे किञ्चिदालज्यमाने । उपनिषदुपगीतं रुद्रमुद्घोषयन्ती परिहरति मृडानी मध्यमं पाण्डवानाम् ॥ ७१॥ यद्गलाभरणतन्तुवैभवान् नायको गरलमागलं पपौ । तां चराचरगुरोः कुटुम्बिनीं नौमि यौवनभरेण लालसाम् ॥ ७२॥ सुधामप्यास्वाद्य प्रतिभयहरा मृत्युहरणीं विपद्यन्ते सर्वे विधि-शतमखाद्या दिविषदः । करालं यत् क्ष्वेडं कवलितवतः कालकलना न शम्भोस्तन्मूलं जननि ! तव ताटङ्कमहिमा ॥ ७३॥ करोपान्ते कान्ते वितरणिनिशान्ते विदधतीं लसद्वीणाशोणां नखरुचिभिरेणाङ्कवदनाम् । सदा वन्दे सन्देतरुरुहवशन्देशकवशात् कृपालम्बामम्बां कुसुमितकदम्बाङ्गणगृहाम् ॥ ७४॥ कर्णलम्बितकदम्बमञ्जरीकेसरारुणकपोलमण्डलम् । केवलं निगमवादगोचरं नीलिमानमवलोकयामहे ॥ ७५॥ अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे । अरुणाधरमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥ ७६॥ अनभङ्गुरकेशपाशमम्ब! प्रभया कीचकमेचकं वपुस्ते । परितः परितो विलोकयामः प्रतिपच्चन्द्रकलाधिरूढचूडम् ॥ ७7॥ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामगात्रीं न्यस्तैकाङ्घ्रीसरोजे शशिशकलधरां वल्लकीं वादयन्तीम् । कह्लाराबद्धभालां नियमितविलसच्चूलिकां रक्तवस्त्रां मातङ्गीं शङ्खपत्रां मधुमदविवशां चित्रकोद्भासिभालाम् ॥ ७८॥ आराध्य मातश्चरणाम्बुजं ते ब्रह्मादयो विश्रुतकीर्तिमापुः । अन्ये परं वाग्विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये ॥ ७९॥ नमामि देवीं नवचन्द्रमौलिं मातङ्गिनीं चन्द्रकलावतंसाम् । आम्नायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं शुकमादरेण ॥ ८०॥ विनम्रदेवासुरमौलिरत्नैर्नीराजितं ते चरणारविन्दम् । भजन्ति ये देवि ! महीपतीनां परां श्रियं भक्तिमुपाश्रयन्ति ॥ ८१॥ मातङ्गि! लीलागमने ! भवत्याः सञ्जातमञ्जीरमिषाद् भजन्ते । मातस्त्वदीयं चरणारविन्दं अकृत्रिमाणां वचसां विगुम्फाः ॥ ८2॥ पदात्पदं सिञ्जितनूपुराभ्यां कृतार्थयन्ती पदवीं पदाभ्याम् । आस्फालयन्ती कलवल्लकीं तां मातङ्गिनी मे हृदयं धिनोतु ॥ ८३॥ लीलांशुकाबद्धनितम्बबिम्बां ताडीदलेनार्पितकर्णभूषाम् । माध्वीमदाघूर्णितनेत्रपद्मां घनस्तनीं शम्भुवधूं स्मरामि ॥ ८४॥ तडिल्लताकान्तमलब्धभूषम्, चिरेण लक्ष्यं नवरोमराज्या । स्मरामि भक्त्या जगतामधीशि ! वलित्रयाङ्कं तव मध्यमम्ब! ॥ ८५॥ नीलोत्पलानां श्रियमाहरन्तीं कान्त्याः कटाक्षैः कमलाकराणाम् । कदम्बमालाञ्चितकेशपाशां मातङ्गकन्यां हृदि भावयामि ॥ ८६॥ ध्यायेयमारक्तकपोलकान्तं बिम्बाधरं न्यस्तललाटरम्यम् । आलोललीलायितमायताक्षं मन्दस्मितं ते वदनं महेशि ! ॥ ८७॥ वामस्तनासङ्गसखीं विपञ्चीं उद्घाटयन्तीमरुणाङ्गुलीभिः । तदुत्थसौभाग्यविलोलमौलिं श्यामां भजे यौवनभारखिन्नाम् ॥ ८८॥ स्तुत्यानया शङ्कर-धर्मपत्नीं मातङ्गिनीं वागधिदेवतां ताम् । स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं भक्तिमुपाश्रयन्ति ॥ ८९॥ गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति मृत्युर्वैद्यति दूषणं च गुणति क्ष्मावल्लभो दासति । वज्रं पुष्पति पन्नगोऽब्जनलति हालाहलं भुज्यति द्वेषी मित्रति पातकं सुकृतति त्वत्पादसञ्चिन्तनात् ॥ ९०॥ एह्येहि मातस्त्रिपुरे पवित्रे ! यन्त्रान्तरे त्वं वसतिं विधेहि । गृह्णस्व गृह्णस्व बलिं प्रपूजां त्रिकोणषट्कोणदलेऽष्टकुण्डे ॥ ९१॥ एह्येहि मातस्त्रिपुरे मदीये नेत्रे निवासं कुरु मञ्जुनेत्रे । भूतात्मकं विश्वमिदं नरस्य मे दर्शय त्वं तव चित्स्वरूपम् ॥ ९२॥ एह्येहि मातस्त्रिपुरे मदीये वक्त्रे निवासं कुरु चन्द्रवक्त्रि !। परापवादं वचनं नरस्य वागीश्वरं मे वदतां कुरुष्व ॥ ९३॥ एह्येहि मातस्त्रिपुरे मदीये चित्ते निवासं कुरु कल्पवल्लि ! । वेगेन जाड्यादि तमो निरस्य विधेहि दीप्तं तव चित्स्वरूपम् ॥ ९४॥ अनेन स्तोत्रपाठेन सर्वपापहरेण वै । प्रीयतां परमा शक्तिर्मातङ्गी सर्वकामदा ॥ ९५॥ ॥ इत्यागमसारे उमासहाचार्यविरचितं श्रीमातङ्गीस्तोत्रं सम्पूर्णम् ॥

स्तोत्र का महत्त्व और पृष्ठभूमि (Significance & Background)

यह 95 श्लोकों का अत्यंत विस्तृत और महाशक्तिशाली स्तोत्र है। इसकी रचना प्रसिद्ध कौल तांत्रिक 'उमासहाचार्य' द्वारा की गई है और यह श्लोक-संग्रह 'आगमसार' नामक तंत्र ग्रंथ में उपलब्ध है। यह स्तोत्र दश महाविद्याओं में नवम 'मातङ्गी' की उपासना का विश्वकोष माना जा सकता है क्योंकि इसमें देवी के स्वरूप-ध्यान (Dhyan), यन्त्र-मंडल (Yantra), अष्टसिद्धियों के फल और दार्शनिक तत्त्वों का अद्भुत समन्वय है।

शुक-श्यामला (Shuka Shyamala):
देवी का ध्यान श्लोक 1 में ही बता दिया गया है — "शुक-श्यामलाम्"। देवी श्यामवर्ण (हरे-नीले आभा युक्त) हैं और उनके पास सदैव एक शुक (तोता) रहता है। 'शुक' रटन्त (निरंतर जप) और स्पष्ट वाणी का प्रतीक है। इसलिए मातङ्गी को 'वाक्-सिद्धि' (Speech Perfection) की अधिष्ठात्री माना गया है।

महाविभूति (Supreme Miracles):
श्लोक 90 (गेहं नाकति गर्वितः...) इस स्तोत्र का सबसे आश्चर्यजनक वचन है। जो भक्त मातङ्गी का नित्य स्मरण करता है, उसका घर 'नाक' (स्वर्ग) बन जाता है, मृत्यु उसके लिए केवल एक वैद्य (उपचारक) के समान होती है, वज्र पुष्प बन जाता है, सर्प कमलनाल हो जाता है, विष (हालाहल) भोजन बन जाता है और शत्रु भी मित्र के समान हो जाते हैं।

असंभव को संभव:
श्लोक 43 कहता है: "मूक (गूंगा) व्यक्ति श्रेष्ठ वक्ता बन जाता है, जड (मूर्ख) भी सर्वज्ञ हो जाता है।" यह माँ मातङ्गी की बौद्धिक और सांगीतिक कृपा का चरम वाक्य है।

यन्त्र एवं पूजन निर्देश (Mandala & Yantra Worship)

श्लोक 22 से 25 तक रत्नद्वीप (Manidweepa) और देवी के यन्त्र (Yantra) का वर्णन है:
"अमृतोदधिमध्येऽत्र रत्नद्वीपे मनोरमे... त्रिकोणकर्णिकामध्ये तद्बहिः पञ्चपत्रकम्... अष्टपत्रं... चतुःपत्रं..."

साधक को यह भावना करनी चाहिए कि अमृत के सागर में एक रत्नद्वीप है जहाँ कल्पवृक्षों का वन है। उसके मध्य में एक रत्नजटित सिंहासन है। उस सिंहासन पर देवी का यन्त्र स्थापित है — जो भीतर से बाहर की ओर त्रिकोण (Triangle), पञ्चदल (5 Petals), अष्टदल (8 Petals), चतुर्दल (4 petals) और अंत में भूपुर (चतुरस्र / 4 corners) से घिरा है।

श्लोक 91-94 में देवी से प्रार्थना की गई है कि वे साधक के द्वारा रचित यन्त्र में, उसके नेत्रों में, उसके मुख में और उसके चित्त (हृदय) में निवास करें। जब देवी साधक के मुख (वक्त्र) में आ जाती हैं, तब वह 'वागीश्वर' (ब्रह्म के समान ज्ञानी वक्ता) बन जाता है।

पाठ के नियम (Rules for Chanting)

  • समय: इस 95 श्लोकों के बृहद् स्तोत्र का पाठ महानिशा काल (रात 10 बजे से 2 बजे के मध्य) तंत्र साधना की दृष्टि से सर्वश्रेष्ठ माना गया है। सामान्य जन सूर्यास्त के बाद या ब्रह्म मुहूर्त में इसे पढ़ सकते हैं।
  • आसन और संकल्प: स्तोत्र के पाठ से पूर्व लाल या हरे रंग का आसन लें। मन में स्पष्ट कामना (यथा विद्या प्राप्ति, वाक् सिद्धि या शत्रु शमन) का संकल्प करें।
  • भाव-शुद्धि: यद्यपि इसमें वामाचार के संकेत हैं, किन्तु गृहस्थ को सात्विक भाव (भक्त-माता संबंध) से ही देवी आराधन करना चाहिए। श्लोक 44 में देवी को 'जगन्मयी निरञ्जना नित्यशुद्धपद' कहा गया है।
  • दीक्षा: 'उमासहाचार्य' जैसे तांत्रिकों की रचना को सकाम सिद्धि के लिए पढ़ने हेतु गुरु-परंपरा से प्राप्त दीक्षा का होना अत्यधिक अनुकूल रहता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. यह स्तोत्र किसके द्वारा रचित है?

यह महाशक्तिशाली और दुर्लभ स्तोत्र महान तांत्रिक साधक 'उमासहाचार्य' द्वारा रचित है, और इसका वर्णन आगम तंत्र के प्रख्यात ग्रंथ 'आगमसार' में मिलता है।

2. इस स्तोत्र में कितने श्लोक हैं?

इस सम्पूर्ण स्तोत्र में कुल 95 श्लोक हैं (बीजमन्त्र सहित), जो इसे मातङ्गी देवी के सबसे विस्तृत और व्यापक स्तोत्रों में से एक बनाता है।

3. इस स्तोत्र में 'शुक-श्यामला' का क्या अर्थ है?

शुक (तोता) और श्यामला (हरे/नीले वर्ण वाली)। तोता स्पष्ट और मधुर वाणी का प्रतीक है। देवी शुक-श्यामला रूप में साधक को पूर्ण 'वाक्-सिद्धि' प्रदान करती हैं।

4. इस स्तोत्र के पाठ से क्या लाभ होते हैं?

स्तोत्र के श्लोक 43 एवं 90 के अनुसार: गूंगा भी श्रेष्ठ वक्ता बन जाता है, जडबुद्धि सर्वज्ञ हो जाता है, दरिद्र राजा बन जाता है, और शत्रु मित्र हो जाते हैं। व्यक्ति वागीश्वर बन जाता है।

5. श्लोक 90 (गेहं नाकति गर्वितः...) का क्या अर्थ है?

यह सर्वातिशायी सिद्धि का वर्णन है: देवी की पूर्ण कृपा से घर स्वर्ग बन जाता है, वज्र कोमल फूल जैसा हो जाता है, विष अमृत हो जाता है, और विपत्ति स्वयं नष्ट हो जाती है। सब कुछ साधक के अनुकूल हो जाता है।

6. इस स्तोत्र में वर्णित 'यन्त्र-पूजा' क्या है?

श्लोक 23-25 में देवी के यन्त्र का विवरण है: मध्य में त्रिकोण, फिर पञ्चदल, फिर अष्टदल और सबसे बाहर चतुरस्र (भूपुर)। साधक इस यन्त्र का ध्यान कर देवी की भावना करता है।

7. क्या यह वामाचार साधना का स्तोत्र है?

हाँ, तंत्र विधान होने के कारण इसमें वामाचार के संकेत हैं ('हलाहल भुज्यति', 'मदमन्थरां')। इसका अर्थ है कौलाचार योग, जहाँ लौकिक बंधनों से मुक्त होकर परा-शक्ति की उपासना की जाती है।

8. इस पाठ के लिए कौन सा समय श्रेष्ठ है?

चूंकि इसमें 95 श्लोक हैं, इसका पूर्ण पाठ महानिशा (मध्यरात्रि) या देवी के विशेष पर्वों (नवरात्रि, पूर्णिमा, शिवरात्रि, शुक्र-अष्टमी) पर करना अत्यधिक फलदायी है।