Logoपवित्र ग्रंथ

Sri Lalita Sahasranama Stotram (Purvabhaga & Phalashruti) – श्री ललिता सहस्रनाम स्तोत्रम् (पूर्वभाग एवं फलश्रुति)

Sri Lalita Sahasranama Stotram (Purvabhaga & Phalashruti) – श्री ललिता सहस्रनाम स्तोत्रम् (पूर्वभाग एवं फलश्रुति)
॥ श्रीललितासहस्रनामस्तोत्रम् पूर्वपीठिका फलश्रुति सहितम् ॥ मातः श्रीललिते प्रसीद ! लौहित्यनिर्जित जपाकुसुमानुरागां पाशाङ्कुशौ धनुरिषूनपि धारयन्तीम् । ताम्रेक्षणामरुणमाल्यविशेषभूषां ताम्बूलपूरितमुखीं त्रिपुरां नमामि ॥ १॥ मधुरान्मधुरा महितान्महिता मृदुलान्मृदुला सुलभात्सुलभा । अरुणादरुणा सदयात्सदया ललिताल्ललिता ललिताऽवतु माम् ॥ २॥ ललितं चरणसरोजे ललिततरं वदनशीतरुचिबिम्बे । ललिततमं स्मितरोचिषि ललिताख्यं वसतु मे पुरतः ॥ ३॥ त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः । त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ ४॥ त्वयार्जितमिदं सर्वं तव स्वं परमेश्वरि । त्वदधीनं करोमीह त्वदर्थे तन्नियोजये ॥ ५॥ तव देवि वशे वर्ते तवाज्ञामेव पालयन् । तव नामानि गणयन् त्वयि लीये गृहाण माम् ॥ ६॥ एषा भक्त्या तव विरचिता या देवि सेवा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७॥ ॥ श्रीललितासहस्रनामस्तोत्रम् ॥ (उपोद्धाताख्या प्रथमा कला) गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥ वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ २॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ ३॥ त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् । त्रिगुणैर्देवैर्विनुतामेकान्तां बिन्दुगां महारम्भाम् ॥ १॥ ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः । परिभाषा भाष्यन्ते सङ्क्षेपात्कौलिकप्रमोदाय ॥ २॥ पञ्चाशदेक आदौ नामसु सार्धद्व्यशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ ३॥ दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम् । मुनिसूतहयाम्बाश्वोक्तिर्ध्यानमेकेन ॥ ४॥ अगस्त्य उवाच - अश्वानन महाबुद्धे सर्वशास्त्रविशारद । कथितं ललितादेव्याः चरितं परमाद्भुतम् ॥ १॥ पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् । भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २॥ वर्णितं श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३॥ षोढान्यासादयो देव्याः न्यासखण्डे समीरिताः । अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४॥ महायागाक्रमश्चापि पूजाखण्डे समीरिताः । पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५॥ होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः । चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः ॥ ६॥ रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् । स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७॥ मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके । न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८॥ तत्र मे संशयो जातो हयग्रीव दयानिधे । किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९॥ मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् । किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १०॥ सूत उवाच - इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना । प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ ११॥ श्रीहयग्रीव उवाच - लोपामुद्रापतेऽगस्त्य सावधानमनाः श‍ृणु । नाम्रां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२॥ रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा । पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३॥ ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः । भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४॥ न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् । श्रीमातृभक्तियुक्त्ताय श्रीविद्याराजवेदिने ॥ १५॥ उपासकाय शुद्धाय देयं नामसहस्रकम् । यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ १६॥ तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने । श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७॥ पुराणां श्रीपुरमिव शक्तीनां ललिता यथा । श्रीविद्योपासकानां च यथा देवः परः शिवः ॥ १८॥ तथा नामसहस्रेषु परमेतत्प्रकीर्तितम् । यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९॥ अन्यनामसहस्रस्य पाठान्न प्रीयते तथा । श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २०॥ बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् । पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ २१॥ सदा प्रसादं कुरुते तस्य सिंहासनेश्वरी । चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२॥ जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् । जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम् ॥ २३॥ साङ्गार्चने साङ्गजपे यत्फलं तदाप्नुयात् । उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४॥ इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् । चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६॥ तत्र हेतुं प्रवक्ष्यामि श‍ृणु त्वं कुम्भसम्भव । पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७॥ वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् । देव्युवाच - वाग्देवता वशिन्याद्याः श‍ृणुध्वं वचनं मम ॥ २८॥ भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९॥ मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः । मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३०॥ कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः । येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१॥ हयग्रीव उवाच - इत्याज्ञप्तास्ततो देव्यः श्रीदेव्या ललिताम्बया । रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२॥ रहस्यं नामसाहस्रमिति तद्विश्रुतं परम् । ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३॥ स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव । सेवार्थमागतास्तत्र तु वाणीस्रष्टुकोटयः ॥ ३४॥ लक्ष्मीनारायणानां च कोटयः समुपागताः । गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५॥ मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यास्समागताः । शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ ३६॥ दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः । तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७॥ तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् । ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८॥ उत्थाय वशिनीमुख्या बद्धांजलिपुटास्तदा । अस्तुवन्नामसाहस्रैः स्वकृतैर्लंलिताम्बिकाम् ॥ ३९॥ श्रुत्वा स्तवं प्रसन्नाऽभूल्ल्लिता परमेश्वरी । ते सर्वे विस्मयं जग्भुर्ये तत्र सदसि स्थिताः ॥ ४०॥ ततः प्रोवाच ललिता सदस्यान् देवतागणान् । ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१॥ अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः । तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२॥ प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् । इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ ४३॥ स मे प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् । श्रीचक्रे मां सदाभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४॥ पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये । मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५॥ कीर्तयेन्नामसहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान् कामांल्लभते नात्र संशयः ॥ ४६॥ तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् । श्रीहयग्रीव उवाच - इति श्रीललितेशानी शास्ति देवान्सहानुगान् ॥ ४७॥ तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः । शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८॥ पठन्ति भक्त्या सततं ललितापरितुष्टये । तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९॥ आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर । इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया श‍ृणु ॥ ५०॥ इति ललितासहस्रनाम्न्युपोद्धातप्रकरणं समाप्तम् ॥ ॥ न्यासः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादयो वाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललिता परमेश्वरी देवता । श्रीमद्बाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । ध्यानम् । मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः । ॥ करन्यासः ॥ ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । सौः अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । ऐं करतलकरपृष्ठाभ्यां नमः । ॥ अङ्गन्यासः ॥ ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । सौः कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । ऐं अस्त्राय फट् । भूर्भवस्सुवरोमिति दिग्बन्धः । ॥ ध्यानम् ॥ सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् तारा नायक शेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सतत मभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्व सम्पत्प्रदात्रीम् ॥ सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ लमित्यादिपञ्चपूजा लं पृथिवीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि । हं आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि । यं वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि । रं वह्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि । वं अमृततत्त्वामिकायै श्रीललितादेव्यै अमृतं महानैवेद्यं परिकल्पयामि । सं सर्वतत्त्वात्मिकायै श्रीललितादेव्यै सर्वोपचारपूजां परिकल्पयामि । ॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥ (द्वितीया तापिनी कला १-१०० नामानि) श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १॥ उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता । रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥ मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३॥ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा । कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४॥ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता । मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५॥ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका । वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६॥ नवचम्पकपुष्पाभनासादण्डविराजिता । ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७॥ कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा । ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८॥ पद्मरागशिलादर्शपरिभाविकपोलभूः । नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९॥ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला । कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ १०॥ निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी । मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११॥ अनाकलितसादृश्यचिबुकश्रीविराजिता । कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२॥ कनकाङ्गदकेयूरकमनीयभुजान्विता । रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३॥ कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी । नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४॥ लक्ष्यरोमलताधारतासमुन्नेयमध्यमा । स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ १५॥ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी । रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६॥ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता । माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ १७॥ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका । गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८॥ नखदीधितिसञ्छन्ननमज्जनतमोगुणा । पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९॥ सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा । मरालीमन्दगमना महालावण्यशेवधिः ॥ २०॥ सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता । शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१॥ सुमेरुमध्यश‍ृङ्गस्था श्रीमन्नगरनायिका । चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२॥ महापद्माटवीसंस्था कदम्बवनवासिनी । सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३॥ देवर्षिगणसङ्घातस्तूयमानात्मवैभवा । भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४॥ सम्पत्करीसमारूढसिन्धुरव्रजसेविता । अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५॥ चक्रराजरथारूढसर्वायुधपरिष्कृता । गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६॥ किरिचक्ररथारूढदण्डनाथापुरस्कृता । ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७॥ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता । नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८॥ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता । मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९॥ विशुक्रप्राणहरणवाराहीवीर्यनन्दिता । कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३०॥ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता । भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१॥ कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः । महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२॥ कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका । ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३॥ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः । श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४॥ कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी । शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५॥ मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा । कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ३६॥ कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी । अकुला समयान्तस्था समयाचारतत्परा ॥ ३७॥ मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी । (तृतीया धूम्रिका कला १०१-२०० नामानि) मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८॥ आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी । सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९॥ तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता । महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४०॥ भवानी भावनागम्या भवारण्यकुठारिका । भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१॥ भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२॥ शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना । शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३॥ निर्लेपा निर्मला नित्या निराकारा निराकुला । निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४॥ नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया । नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५॥ निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा । नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६॥ निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी । निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७॥ निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी । निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८॥ निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९॥ निस्तुला नीलचिकुरा निरपाया निरत्यया । दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५०॥ दुष्टदूरा दुराचारशमनी दोषवर्जिता । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१॥ (चतुर्थी मरीच्याख्या कला २०१-३०० नामानि) सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा । सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२॥ सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी । माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३॥ महारूपा महापूज्या महापातकनाशिनी । महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४॥ महाभोगा महैश्वर्या महावीर्या महाबला । महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५॥ महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६॥ महेश्वरमहाकल्पमहाताण्डवसाक्षिणी । महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७॥ चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी । महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८॥ मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा । चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९॥ चराचरजगन्नाथा चक्रराजनिकेतना । पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६०॥ पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी । चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१॥ ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता । विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२॥ सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता । सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३॥ संहारिणी रुद्ररूपा तिरोधानकरीश्वरी । सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४॥ भानुमण्डलमध्यस्था भैरवी भगमालिनी । पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५॥ उन्मेषनिमिषोत्पन्नविपन्नभुवनावली । सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६॥ आब्रह्मकीटजननी वर्णाश्रमविधायिनी । निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७॥ श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका । सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८॥ पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी । अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९॥ नारायणी नादरूपा नामरूपविवर्जिता । (पञ्चमी ज्वालिनी कला ३०१-४०० नामानि) ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७०॥ राजराजार्चिता राज्ञी रम्या राजीवलोचना । रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१॥ रमा राकेन्दुवदना रतिरूपा रतिप्रिया । रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२॥ काम्या कामकलारूपा कदम्बकुसुमप्रिया । कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३॥ कलावती कलालापा कान्ता कादम्बरीप्रिया । वरदा वामनयना वारुणीमदविह्वला ॥ ७४॥ विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी । विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५॥ क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी । क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६॥ विजया विमला वन्द्या वन्दारुजनवत्सला । वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७॥ भक्तिमत्कल्पलतिका पशुपाशविमोचिनी । संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८॥ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका । तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥ चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी । स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८०॥ परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता । मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१॥ कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता । श‍ृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२॥ ओड्याणपीठनिलया बिन्दुमण्डलवासिनी । रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३॥ सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४॥ नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी । नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५॥ प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी । मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६॥ (षष्ठी रुच्याख्या कला ४०१-५०० नामानि) व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी । महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७॥ भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः । शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८॥ शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९॥ चिच्छक्तिश् चेतनारूपा जडशक्तिर्जडात्मिका । गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥ ९०॥ तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता । निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१॥ मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः । चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२॥ कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी । कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३॥ कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः । शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४॥ तेजोवती त्रिनयना लोलाक्षीकामरूपिणी । मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५॥ सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका । कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥ वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता । सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७॥ विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना । खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८॥ पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी । अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९॥ अनाहताब्जनिलया श्यामाभा वदनद्वया । दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १००॥ कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया । महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१॥ मणिपूराब्जनिलया वदनत्रयसंयुता । वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२॥ (सप्तमी सुषुम्णा कला ५०१-६०० नामानि) रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा । समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३॥ स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा । शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४॥ मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता । दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५॥ मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता । अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६॥ मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी । आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७॥ मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता । हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८॥ सहस्रदलपद्मस्था सर्ववर्णोपशोभिता । सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९॥ सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी । स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥ ११०॥ पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना । पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १११॥ विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः । सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२॥ अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी । कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३॥ ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा । मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४॥ नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी । मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५॥ परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी । माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६॥ महाकैलासनिलया मृणालमृदुदोर्लता । महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ ११७॥ आत्मविद्या महाविद्या श्रीविद्या कामसेविता । श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८॥ कटाक्षकिङ्करीभूतकमलाकोटिसेविता । शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९॥ हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका । दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२०॥ (अष्टमी भोगदा कला ६०१-७०० नामानि) दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी । गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥ १२१॥ देवेशी दण्डनीतिस्था दहराकाशरूपिणी । प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२॥ कलात्मिका कलानाथा काव्यालापविनोदिनी । सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३॥ आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः । अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४॥ क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी । त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १२५॥ त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता । उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६॥ विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी । ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७॥ सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी । लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ॥ १२८॥ अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता । योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९॥ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी । सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३०॥ अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी । एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१॥ अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी । बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२॥ भाषारूपा बृहत्सेना भावाभावविवर्जिता । सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३॥ राजराजेश्वरी राज्यदायिनी राज्यवल्लभा । राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४॥ राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी । साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५॥ दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी । सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६॥ (नवमी विश्वा कला ७०१-८०० नामानि) देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७॥ सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता । सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८॥ कुलोत्तीर्णा भगाराध्या माया मधुमती मही । गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९॥ स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी । सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४०॥ चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी । नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१॥ मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी । लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२॥ भवदावसुधावृष्टिः पापारण्यदवानला । दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३॥ भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना । रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १४४॥ महेश्वरी महाकाली महाग्रासा महाशना । अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५॥ क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी । त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥ स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः । ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७॥ दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया । महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८॥ वीराराध्या विराड्रूपा विरजा विश्वतोमुखी । प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९॥ मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः । त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥ सत्यज्ञानानन्दरूपा सामरस्यपरायणा । कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१॥ कलानिधिः काव्यकला रसज्ञा रसशेवधिः । (दशमी बोधिनी कला ८०१-९०० नामानि) पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२॥ परञ्ज्योतिः परन्धाम परमाणुः परात्परा । पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३॥ मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका । सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४॥ ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता । प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥ प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी । विश‍ृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६॥ मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी । भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७॥ छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी । उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ १५८॥ जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी । सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९॥ गम्भीरा गगनान्तस्था गर्विता गानलोलुपा । कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६०॥ कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता । कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१॥ अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी । अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२॥ त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी । निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३॥ संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता । यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४॥ धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी । विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६ऽ५॥ विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी । अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ १६६॥ (एकादशी धारिणी कला ९०१-१००० नामानि) वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी । विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७॥ तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी । सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८॥ सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी । स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९॥ चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया । सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७०॥ दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा । कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१॥ स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा । मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२॥ विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥ व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४॥ पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी । शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५॥ धराधरसुता धन्या धर्मिणी धर्मवर्धिनी । लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६॥ बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी । सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७॥ सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा । बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८॥ दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी । ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९॥ योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा । अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८०॥ अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी । अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ १८१॥ आबालगोपविदिता सर्वानुल्लङ्घ्यशासना । श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२॥ श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका । एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥ ॥ इति श्रीब्रह्माण्ड पुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामस्तोत्रकथनं सम्पूर्णम् ॥ ॥ फलश्रुतिः ॥ (क्षमाख्या द्वादशी कला) इत्येतन्नामसाहस्रं कथितं ते घटोद्भव । रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १॥ अनेन सदृशं स्तोत्रं न भूतं न भविष्यति । सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २॥ सर्वापमृत्युशमनं कालमृत्युनिवारणम् । सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३॥ पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् । इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४॥ जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः । प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५॥ पूजागृहं ततो गत्वा चक्रेराजं समर्चयेत् । विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ ६॥ रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः । जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७॥ तस्य पुण्यफलं वक्ष्ये श‍ृणु त्वं कुम्भसम्भव । गङ्गादि सर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ॥ ८॥ कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके । कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९॥ कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु । यः कोटिं हयमेधानामाहरेद् गाङ्गरोधसि ॥ १०॥ आचरेत्कूपकोटीर्यो निर्जले मरुभूतले । दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११॥ श्रद्धया परया कुर्यात्सहस्रोपरिवत्सरान् । तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमम् ॥ १२॥ रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् । रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३॥ तस्य पापानि नश्यन्ति महान्त्यपि न संशयः । नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४॥ यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् । बहुनात्र किमुक्तेन श‍ृणु त्वं कुम्भसम्भव ॥ १५॥ अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने । तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६॥ यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति । स हि शीतनिवृत्यर्थं हिमशैले निषेवते ॥ १७॥ भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् । तस्मै श्रीलितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८॥ अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति । नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ॥ १९॥ संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने । नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २०॥ कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः । पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१॥ पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् । सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ॥ २२॥ अयमायुष्करो नाम प्रयोगः कल्पचोदितः । ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३॥ तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च । सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४॥ तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् । जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५॥ अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्क्षणात् । सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६॥ यः पठेन्नामसाहस्रं विषं तस्य विनश्यति । वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७॥ नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् । देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८॥ ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् । आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९॥ राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः । त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ॥ ३०॥ स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् । आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१॥ तस्मै राज्यं च कोशं च ददात्येव वशं गतः । रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२॥ तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने । यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३॥ तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः । यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४॥ निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥ ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५॥ तानन्धान्कुरुते क्षिप्रं स्वयं मार्तण्डभैरवः । धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६॥ यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् । विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७॥ तस्य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी । यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८॥ चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम् । यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९॥ लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे । मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४०॥ भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः । यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१॥ मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् । यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२॥ तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः । यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३॥ अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन । श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४॥ यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः । तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५॥ न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः । पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६॥ परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः । श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७॥ देवता ललितातुल्या यथा नास्ति घटोद्भव । रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८॥ लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् । समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९॥ बहुनात्र किमुक्तेना श‍ृणु त्वं कुम्भसम्भव । नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५०॥ तस्मादुपासको नित्यं कीर्तयेदिदमादरात् । एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१॥ पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः । चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः ॥ ५२॥ उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः । अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३॥ तस्य पुण्यफलं वक्त्तुं न शक्नोति महेश्वरः । सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४॥ अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः । प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५॥ रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् । स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६॥ न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् । महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७॥ अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता । यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८॥ चक्रराजे महादेवीं तस्य पुण्यफलं श‍ृणु । सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान्यथेप्सितान् । अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६०॥ प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः । यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः ॥ ६१॥ समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः । तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२॥ न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते । निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३॥ ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् । धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४॥ विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् । नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५॥ कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः । चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६॥ स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये । कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७॥ नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत्परायणम् । लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८॥ विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् । शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥ ६९॥ देवीनामसहस्राणि कोटिशः सन्ति कुम्भज । तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७०॥ गङ्गा भवानी गायत्री काली लक्ष्मीः सरस्वती । राजराजेश्वरी बाला श्यामला ललिता दश ॥ ७१॥ रहस्यनामसाहस्रमिदं शस्तं दशस्वपि । तस्मात्सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७२॥ मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः । विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७३॥ न कश्चिदपि लोकेषु ललितानामतत्परः । येनान्य देवतानाम कीर्तितं जन्मकोटिषु ॥ ७४॥ तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने । चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७५॥ नामसाहस्रपाठश्च तथा चरमजन्मनि । यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७६॥ तथैव विरलो गुह्यनामसाहस्रपाठकः । मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७७॥ रहस्यनामपाठश्च नाल्पस्य तपसः फलम् । अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७८॥ स चक्षुषा विना रूपं पश्येदेव विमूढधीः । रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७९॥ स भोजनं विना नूनं क्षुन्-निवृत्तिमभीप्सति । यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ८०॥ नान्यथा प्रीयते देवी कल्पकोटिशतैरपि । तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८१॥ इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव । नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८२॥ यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने । पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८३॥ यो ददाति विमूढात्मा श्रीविद्यारहिताय च । तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ॥ ८४॥ रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदम् । स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ॥ ८५॥ ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् । तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ८६॥ श्रीसूत उवाच - इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् । आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७॥

श्री ललिता सहस्रनाम स्तोत्रम् का परिचय

श्री ललिता सहस्रनाम स्तोत्रम् (Sri Lalita Sahasranama Stotram) शाक्त परम्परा और श्री विद्या के उपासकों के लिए एक अत्यंत महत्वपूर्ण और पवित्र ग्रंथ है। यह स्तोत्र ब्रह्माण्ड पुराण के उत्तरखण्ड में "ललितोपाख्यान" नामक अध्याय का एक अभिन्न अंग है। इसमें देवी ललिता त्रिपुरसुन्दरी, जो परब्रह्म का स्त्री स्वरूप और सृष्टि की सर्वोच्च शक्ति मानी जाती हैं, के एक हजार दिव्य नामों का संग्रह है। इन नामों में देवी के गुण, स्वरूप, लीलाएँ, और उनकी ब्रह्मांडीय शक्तियों का गहन दार्शनिक और तांत्रिक वर्णन समाहित है। इस स्तोत्र की अद्वितीयता इस बात में है कि यह स्वयं देवी ललिता की आज्ञा पर आठ वाग्देवियों (वशिनि, कामेश्वरी, मोदिनी, विमला, अरुणा, जयिनी, सर्वेश्वरी और कौलिनी) द्वारा रचा गया था।

यह दिव्य ज्ञान भगवान विष्णु के हयग्रीव अवतार और परम तपस्वी अगस्त्य मुनि के बीच एक संवाद के रूप में प्रकट हुआ। जब अगस्त्य मुनि ने भगवान हयग्रीव से सभी सिद्धियों और अंततः मोक्ष को प्राप्त करने का सबसे सरल और प्रभावी मार्ग पूछा, तो भगवान हयग्रीव ने उन्हें इस "रहस्य नाम सहस्र" (हजार गुप्त नाम) का उपदेश दिया। उन्होंने स्पष्ट किया कि यह स्तोत्र अन्य सभी सहस्रनामों में श्रेष्ठ है और देवी ललिता को अत्यंत प्रिय है। इसकी रचना में किसी भी नाम की पुनरावृत्ति नहीं हुई है और न ही किसी व्यर्थ के शब्द (जैसे च, वै, तु) का प्रयोग किया गया है, जो इसे व्याकरण और काव्य की दृष्टि से अद्वितीय बनाता है।

यह सहस्रनाम केवल एक स्तुति नहीं, बल्कि एक संपूर्ण मंत्र-शास्त्र है। इसके प्रत्येक नाम में गूढ़ अर्थ और बीजाक्षर मंत्रों की शक्ति निहित है। इसका पाठ साधक को न केवल भौतिक समृद्धि, स्वास्थ्य और सुरक्षा प्रदान करता है, बल्कि कुंडलिनी जागरण और आत्म-साक्षात्कार के मार्ग पर भी अग्रसर करता है। नामों का क्रम देवी के 'केशादि-पाद' (सिर से लेकर पैरों तक) के दिव्य स्वरूप का वर्णन करता है, और साथ ही श्री चक्र में उनकी स्थिति और उनके पंचकृत्यों (सृष्टि, स्थिति, संहार, तिरोधान और अनुग्रह) की भी व्याख्या करता है। यह स्तोत्र श्री विद्या साधना का आधार स्तंभ है, जो साधक को देवी के साथ एकाकार होने का मार्ग दिखाता है और उसे भोग एवं मोक्ष, दोनों ही प्रदान करने में सक्षम है।

स्तोत्र का विशिष्ट महत्व

श्री ललिता सहस्रनाम की महिमा अद्वितीय और सर्वोपरि मानी जाती है। स्वयं भगवान हयग्रीव ने अगस्त्य मुनि को बताया कि यह स्तोत्र "रहस्यों का रहस्य" है और देवी ललिता को प्रसन्न करने वाला सर्वश्रेष्ठ साधन है। इसकी कुछ विशिष्टताएँ इसे अन्य सभी स्तोत्रों से अलग करती हैं:

  • अपौरुषेय रचना: अन्य कई स्तोत्रों के विपरीत, जिनकी रचना ऋषियों या मनुष्यों ने की है, ललिता सहस्रनाम की रचना स्वयं आठ वाग्देवियों ने की थी, और वह भी देवी ललिता की सीधी आज्ञा और प्रेरणा से। यह इसे वेदों के समान ही 'अपौरुषेय' (मानव-निर्मित नहीं) का दर्जा देता है।
  • मंत्रात्मक संरचना: इसका प्रत्येक नाम एक शक्तिशाली मंत्र है। कई नामों में श्री विद्या के गूढ़ बीजाक्षर छिपे हुए हैं, जो इसके पाठ को केवल स्तुति नहीं, बल्कि एक गहन मंत्र-साधना बना देते हैं।
  • त्रुटिहीन काव्य: यह एकमात्र सहस्रनाम है जिसमें एक भी नाम दोहराया नहीं गया है। साथ ही, छंद और मीटर को बनाए रखने के लिए किसी भी पूरक शब्द (filler words) का उपयोग नहीं किया गया है। यह इसकी काव्य और भाषाई उत्कृष्टता को प्रमाणित करता है।
  • श्री विद्या का सार: यह स्तोत्र श्री विद्या साधना का सार प्रस्तुत करता है। इसमें देवी के स्वरूप, श्री चक्र की संरचना, कुंडलिनी योग के चक्र और ग्रंथियों (ब्रह्म ग्रंथि, विष्णु ग्रंथि, रुद्र ग्रंथि) का भेदन, और पंच-कृत्यों का विस्तृत वर्णन है।
  • सर्वोच्च फलदायक: फलश्रुति में स्पष्ट रूप से कहा गया है कि इस स्तोत्र के समान न कोई स्तोत्र हुआ है और न होगा। यह सभी तंत्रों और मंत्रों से अधिक शक्तिशाली है और साधक को वह सब कुछ प्रदान कर सकता है जिसकी वह कामना करता है, चाहे वह भौतिक हो या आध्यात्मिक।

फलश्रुति से प्राप्त होने वाले लाभ

इस स्तोत्र के अंत में दी गई फलश्रुति में भगवान हयग्रीव ने इसके पाठ से मिलने वाले अनगिनत लाभों का वर्णन किया है। यह साधक के जीवन के हर पहलू को सकारात्मक रूप से प्रभावित करने की क्षमता रखता है:

  • सर्व रोग निवारण: इसका नियमित पाठ सभी प्रकार के रोगों, विशेषकर ज्वर (बुखार) को शांत करता है। ज्वर से पीड़ित व्यक्ति के सिर पर हाथ रखकर पाठ करने से तत्काल राहत मिलती है।
  • दीर्घायु और अकाल मृत्यु से रक्षा: यह स्तोत्र पाठ करने वाले को दीर्घ और स्वस्थ जीवन प्रदान करता है और अकाल मृत्यु या अपमृत्यु के भय को दूर करता है।
  • धन-धान्य और समृद्धि: जो व्यक्ति छह महीने तक भक्तिपूर्वक इसका पाठ करता है, उसके घर में देवी लक्ष्मी स्थायी रूप से निवास करती हैं। यह जीवन में सभी आवश्यकताओं की पूर्ति सुनिश्चित करता है।
  • संतान प्राप्ति: निःसंतान स्त्रियाँ यदि इस सहस्रनाम से अभिमंत्रित मक्खन का सेवन करें, तो उन्हें निश्चित रूप से पुत्र रत्न की प्राप्ति होती है।
  • शत्रुओं पर विजय और सुरक्षा: जो व्यक्ति इस स्तोत्र का पाठ करता है, भगवान शरभेश्वर स्वयं उसके शत्रुओं का नाश करते हैं। पाठ करने वाले पर किया गया कोई भी अभिचार (काला जादू) उल्टा करने वाले पर ही चला जाता है क्योंकि देवी प्रत्यंगिरा स्वयं उसकी रक्षा करती हैं।
  • ज्ञान और वाक्-सिद्धि: जो साधक एक महीने तक प्रतिदिन तीन बार पाठ करता है, उसकी जिह्वा पर देवी सरस्वती नृत्य करती हैं, अर्थात उसे अद्भुत वाक्-शक्ति प्राप्त होती है।
  • पाप और कर्मों का नाश: इस सहस्रनाम के केवल एक नाम का जप भी बड़े से बड़े पापों को नष्ट करने की क्षमता रखता है।
  • ग्रह दोष शांति: सहस्रनाम से अभिमंत्रित जल से अभिषेक करने पर ग्रह-बाधाएं और अन्य नकारात्मक प्रभाव शांत हो जाते हैं।
  • भोग और मोक्ष की प्राप्ति: यह एकमात्र ऐसा स्तोत्र है जो साधक को उसकी कामना के अनुसार भोग (सांसारिक सुख) और मोक्ष (आध्यात्मिक मुक्ति) दोनों प्रदान करने में समान रूप से सक्षम है।

पाठ विधि और विशेष अवसर

श्री ललिता सहस्रनाम का पूर्ण लाभ प्राप्त करने के लिए, इसे उचित विधि और श्रद्धा के साथ करना चाहिए। फलश्रुति में और विभिन्न आध्यात्मिक गुरुओं द्वारा बताई गई सामान्य विधि इस प्रकार है:

दैनिक पाठ की सामान्य विधि

  • समय: पाठ के लिए सबसे उत्तम समय ब्रह्म मुहूर्त (सूर्योदय से पहले) या सांध्यकाल (सूर्यास्त के समय) है।
  • तैयारी: स्नान करके स्वच्छ वस्त्र धारण करें। एक शांत और स्वच्छ स्थान चुनें, जहाँ कोई विघ्न न हो। पूजा स्थान पर देवी ललिता का चित्र या श्री यंत्र स्थापित करें।
  • आरंभ: सबसे पहले भगवान गणेश का ध्यान करें ताकि कोई बाधा न आए। इसके बाद गुरु का ध्यान करें।
  • न्यास और ध्यान: पाठ से पहले पूर्वभाग में दिए गए न्यास (करन्यास, अंगन्यास) और ध्यान श्लोकों का पाठ करें। ध्यान श्लोक देवी के स्वरूप को मन में स्थापित करने में मदद करते हैं।
  • पाठ: सहस्रनाम का पाठ स्पष्ट उच्चारण और मध्यम गति से करें। यदि आप संस्कृत नहीं पढ़ सकते, तो सुनकर सीखने का प्रयास करें।
  • समापन: पाठ के बाद फलश्रुति का पाठ अवश्य करें और अंत में देवी से क्षमा प्रार्थना करें।

विशेष अवसर

  • पूर्णिमा: पूर्णिमा की रात्रि में चन्द्रमा के बिम्ब में देवी का ध्यान करते हुए पाठ करने से सभी रोग नष्ट होते हैं और दीर्घायु की प्राप्ति होती है।
  • शुक्रवार: शुक्रवार का दिन देवी की पूजा के लिए अत्यंत शुभ माना जाता है। इस दिन पाठ करना विशेष फलदायी है।
  • नवरात्रि: नवरात्रि के नौ दिन, विशेषकर महानवमी के दिन, श्री चक्र पर सहस्रनाम से पूजा करने वाले को मुक्ति सहज ही प्राप्त हो जाती है।
  • अन्य पुण्य दिवस: संक्रांति, विषुव, अयन (उत्तरायण/दक्षिणायन), और अपने जन्मदिन पर भी इसका पाठ करना कल्याणकारी होता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. श्री ललिता सहस्रनाम स्तोत्र की उत्पत्ति कहाँ से हुई है?

यह स्तोत्र ब्रह्माण्ड पुराण के उत्तरखण्ड में स्थित 'ललितोपाख्यान' नामक अध्याय से लिया गया है। यह भगवान हयग्रीव और अगस्त्य ऋषि के बीच हुए संवाद का अंश है।

2. इस सहस्रनाम की रचना किसने की?

इसकी रचना स्वयं माँ ललिता की आज्ञा से आठ वाग्देवियों (वशिनि, कामेश्वरी आदि) ने की थी। इसलिए इसे मानव-रचित नहीं, बल्कि दिव्य और अपौरुषेय माना जाता है।

3. क्या इस स्तोत्र का पाठ कोई भी कर सकता है?

हाँ, कोई भी व्यक्ति जो देवी में श्रद्धा रखता है, इस स्तोत्र का पाठ कर सकता है। हयग्रीव कहते हैं कि व्यक्ति इस स्तोत्र तक तभी पहुँच पाता है जब देवी स्वयं उसकी इच्छा करती हैं। शुद्धता और भक्ति का ध्यान रखना महत्वपूर्ण है।

4. क्या इस पाठ के लिए गुरु दीक्षा आवश्यक है?

यद्यपि श्री विद्या मार्ग में गुरु दीक्षा का अत्यधिक महत्व है, तथापि सामान्य भक्ति-भाव से पाठ करने के लिए इसे अनिवार्य नहीं माना जाता। हालांकि, यदि आप इसे एक साधना के रूप में अपनाना चाहते हैं, तो गुरु का मार्गदर्शन सर्वोत्तम है।

5. इस सहस्रनाम में और विष्णु सहस्रनाम में क्या श्रेष्ठ है?

फलश्रुति के अनुसार, भगवान शिव के हजार नामों का फल विष्णु सहस्रनाम से अधिक है, और देवी के एक नाम का फल शिव सहस्रनाम से भी अधिक है। सभी देवी सहस्रनामों में, ललिता सहस्रनाम को सर्वश्रेष्ठ बताया गया है।

6. पाठ करने में कितना समय लगता है?

प्रवाह और गति के आधार पर, पूरे सहस्रनाम (पूर्वभाग, स्तोत्र और फलश्रुति) का पाठ करने में आमतौर पर 30 से 45 मिनट लगते हैं।

7. क्या महिलाएँ मासिक धर्म के दौरान इसका पाठ कर सकती हैं?

पारंपरिक मान्यताओं के अनुसार, मासिक धर्म के दौरान शारीरिक शुद्धि के कारण मंत्र जाप और स्तोत्र पाठ से बचने की सलाह दी जाती है। इस अवधि में मानसिक स्मरण या श्रवण किया जा सकता है। पांचवें दिन स्नान के बाद पाठ पुनः आरंभ कर सकते हैं।

8. यदि संस्कृत उच्चारण कठिन हो तो क्या करें?

यदि उच्चारण में कठिनाई हो, तो प्रामाणिक ऑडियो रिकॉर्डिंग को सुनकर अभ्यास करना सबसे अच्छा तरीका है। भाव और भक्ति उच्चारण से अधिक महत्वपूर्ण हैं, लेकिन सही उच्चारण का प्रयास करना हमेशा श्रेष्ठ होता है।

9. "रहस्य नाम सहस्र" का क्या अर्थ है?

इसे "हजार गुप्त नाम" भी कहा जाता है क्योंकि इसके प्रत्येक नाम में श्री विद्या के गहरे तांत्रिक और दार्शनिक रहस्य छिपे हुए हैं, जो केवल एक योग्य साधक या गुरु कृपा से ही समझ सकता है।

10. फलश्रुति का पाठ करना क्यों महत्वपूर्ण है?

फलश्रुति स्तोत्र का अभिन्न अंग है। यह न केवल पाठ के लाभों को बताती है, बल्कि साधक के मन में विश्वास और श्रद्धा को भी दृढ़ करती है। इसका पाठ करने से स्तोत्र की पूर्णता होती है और बताए गए सभी फलों की प्राप्ति सुनिश्चित होती है।