Logoपवित्र ग्रंथ

Lakshmi Shatakam (Yajna Varaha) – लक्ष्मीशतकम्

Lakshmi Shatakam (Yajna Varaha) – लक्ष्मीशतकम्
॥ लक्ष्मीशतकम् (यज्ञवराह कृत) ॥ आनन्दं दिशतु श्रीहस्तिगिरौ स्वस्तिदा सदा मह्यम् । या कौतुकं विधत्ते साकृतेनावलोकनेन हरेः ॥ १॥ यन्नाम कीर्तनीयं श्रीरित्यादौ प्रियं हरेर्नाम्नाम् । सा मे समस्तजननी सन्ततमुदयाय भूयसे भूयात् ॥ २॥ श्रीवरदेश्वरदयिते वाञ्छामि त्वां यथामति स्तोतुम् । स्वल्पोऽपि डिम्भजल्पो मातुः प्रीतिं कथं न सञ्जनयेत् ॥ ३॥ मुररिपुमोहनधाम्ने मूर्तिविनिर्धूतविष्फुरद्धेम्ने । दिविषदमेयविभूम्ने लक्ष्मीनाम्ने परं नमो भुम्ने ॥ ४॥ करिगिरिनायककान्ते दान्तजनस्वान्तपङ्कजनिशान्ते । मयि भवमरणाश्रान्ते करुणां शरणागते कुरु प्रगुणाम् ॥ ५॥ वाचामकृत्रिमाणामपि मुनिमनसामगोचरे देवि! । त्वद्वर्णने मदीयां काङ्क्षां सफलां करोतु ते करुणा ॥ ६॥ माखद्विधु विम्बास्ये मङ्गलसौम्याकृते गुरुश्रोणि ! । भृगुनन्दिनि मन्दगते रोमलताहे जयाब्धिकुलकेतो ! ॥ ७॥ धन्यं प्रसूनगर्भं धम्मिल्लं देवि तावकं मन्ये । प्रसवशरेण न्यस्तं तूणं बाणौघपूर्णमर्णवजे ॥ ८॥ त्वत्केशपाशशोभापरिमोषाणां फलं पयोदानाम् । देवि तटिद्गुणवन्धो नोदनमनिलैः पलायनं दिक्षु ॥ ९॥ निन्दति नीरधिकन्ये ! कचनिचयस्ते कलापिनं कान्त्या । अस्यति बर्हं न कथं भुजङ्गवृत्तिश्च पक्षपाती च ॥ १०॥ जयतु विपक्षं पद्मे ! बर्हिणवर्हं त्वदीयकेशभरम् । त्वत्कान्तस्य सपक्षं घनमपि कान्त्या कथं पराकुरुते ॥ ११॥ वर्हं विगर्हिताभं शस्तेनानेन केशहस्तेन । मत्वाभवन्मयूरा मन्दाशा जीविते वृतविषाशाः ॥ १२॥ दिव्यामम्बुधिकन्ये! दृष्ट्वा केशश्रियं तवाम्भोदाः ! आरुह्याद्रिश्रेष्ठं कुरुते त्रपयेव जीवनत्यागम् ॥ १३॥ सिन्दूरसुन्दरी ते पद्मे ! सीमन्तपद्धतिर्भाति । वर्षावलाहकस्था विद्युल्लेखेव वीतचाञ्चल्या ॥ १४॥ वेणीमम्बुधिकन्ये ! भृङ्गश्रेणीमिव स्फुरन्ती ते । शम्बरवैरिकृपाणीं शङ्के मानापहारिणीं शौरेः ॥ १५॥ फालेनाभिमुखेन प्रतिमाकाङ्क्षी तवेन्दुरम्बुधिजे ! । अर्धाकृतिः कलाभिः पूर्णो भवति क्रियासमभिहारात् ॥ १६॥ कर्णावतंसलक्ष्मी कलयति कमले ! विशालदृष्टिस्ते । नीलोत्पलस्य कृत्यं किमिति श्रुतिमूलशालिनी चिन्त्यम् ॥ १७॥ वन्दीकृतं कटाक्षैरिन्दीवरमेतदिन्दिरे ! श्रवसि । न्यस्तं पुनः पुनस्तन्नित्यं शङ्कीव वीक्षते चक्षुः ॥ १८॥ नयनमुदञ्चत्करुणं नानाश‍ृङ्गारमङ्गळाकारम् । देवि त्वदाश्रितानां कर्णमतिक्रव्य काइक्षितं दत्ते ॥ १९॥ कल्लोलिनीशकन्ये ! त्वल्लोचनकान्तिलिप्सया किं वा । द्विजराजपादसेवां जीवञ्जीवः करोति सर्वोऽपि ॥ २०॥ स्फुरति तव श्रुत्यन्ते पतिरिति यत् प्राहुरम्ब ! वेदविदः । श्रुत्यन्तमेति तत्ते दृष्टिः कान्तावलोकनासक्ता ॥ २१॥ उल्लङ्घितश्रुतीनामुदधिसुते ! शोभनं नहीति मृषा । येन तवेदं व्यक्तं श्रुतिपथमुल्लङ्घ्य शोभनं नयनम् ॥ २२॥ श्रुत्यन्ते कृतवसतिः पाद्मरुचिं ते प्रकाशयन्त्यब्जे ! । परमार्गदृष्टिसृष्टां दृष्टिरियं वैष्णवीं च दूषयति ॥ २३॥ देवि ! निमित्तगुणस्य क्वापि न दृष्टं हि कार्यसङ्क्रमणम् । अनृतमितीदं वचनं यत्वदपाङ्गादनङ्गसद्भावः ॥ २४॥ आद्यावतारशोभामङ्गीकुर्वाणसात्मनाथस्य । निरुपमसुषमं को वा चक्षुस्तव देवि ! दक्षिणः स्तोतुम् ॥ २५॥ असृजत् कमलं धाता तुलनां देवीक्षणस्य ते वाञ्छन् । असदृशभावादमुना नाम प्राप्तं जलजमित्युचितम् ॥ २६॥ लोकजनन्यतिभास्वल्लोचनशफरीविराजमानं ते । कान्तं नासावंशं केतुं मदनस्य के न शंसन्ति ॥ २७॥ त्वनासिकात्तगन्धस्त्रपयेवाघोमुखस्तिलप्रसवः । मुहुरश्रूणि प्रायो मुञ्चति मातर्मरन्दविन्दुमिषात् ॥ २८॥ नासामौक्तिकमेतन्मन्ये वाराशिकन्यके! धन्यम् । तव मुखताराधिपतेः कामादेकं कळञमङ्गगतम् ॥ २९॥ मुक्तोत्पत्तिस्थानं सरसिजमिति यत् समस्तकविसिद्धम् । तद्वयक्तीकरणं ते नासामुक्ताफलस्य देवि ! फलम् ॥ ३०॥ परिभूतकुन्दकुसुमं भासा नासाग्रभास्वरं पद्मे ! । मुक्ताफलं मुरारेर्मोहनगुडिकेव मान्मथी भाति ॥ ३१॥ भासा विराजमानं नासामुक्ताफलं मम स्फुरति । अम्ब ! तवाननपद्मे स्मितरुचिहंसीप्रसूतमण्डमिव ॥ ३२॥ दुर्वृत्तः खलु लोके कमले ! कुर्यात् सतां तिरस्कारम् । नित्यसुवृत्तेन कथं नासामणिना सतां तिरस्कारः ॥ ३३॥ कर्णेन तेऽब्धिकन्ये! ताटङ्कादेः प्रतीयते शोभा । कर्णस्य हि स्वभावः श्रीमन्तं यत् स्वमाश्रयं कुरुते ॥ ३४॥ तर्को ममाब्धिकन्ये! हाटकताटङ्कचक्रमर्क इति । यद्येतदेष न स्यात् कर्णासक्तिः कथं भवेदस्य ॥ ३५॥ भाति कपोलः कमले! पत्युः श‍ृङ्गारमणिमयादर्शः । प्रतिफलिततन्मुखोऽयं हृद इव सोऽधोविकस्वराम्बुरुहः ॥ ३६॥ मधुरवचोगणनायां मातस्त्वद्गीरभूदियं प्रथमा । नैव द्वितीयवार्ता कोकिलवादे कुतो नु पञ्चमता ॥ ३७॥ साम्याभिलाषदोषं सम्मार्ष्टुं त्वद्विरा चिरादिक्षोः । चक्रे पञ्चशरस्तं चापानमनापदेशतः प्रणतम् ॥ ३८॥ अर्णवकन्ये ! धन्यामाकर्णयतस्त्वदीरितां वाचम् । शुकपिकवचनश्रवणं श्रुतिपुटकटु देवि ! कस्य वा न भवेत् ॥ ३९॥ कस्य गिरस्ते श्रोतुः कमले वदनारविन्दकन्दळिताः । न भवेन्महती प्रीतिर्नारदमेकं विना मुनीशानम् ॥ ४०॥ मकरन्दाः सुनरसाः शुकपिकवाचोऽपि विस्वरा येन । वीणाः परिवादिन्यस्तेन किलाब्जे ! तवोपमा न गिराम् ॥ ४१॥ अम्बाभिजातवाणीधनरसमाधुर्यचौर्यकारी ते । अतिमर्दनासहिष्णुर्मुषितरसानेष मुञ्चतीवेक्षुः ॥ ४२॥ नीरतयेव मरन्दो भाव्यश्श्रवणे तवाब्धिजे ! वाचाम् । स्वादित एव सुधायाः स्वाद्येति ख्यातिरपि न माधुर्यात् ॥ ४३॥ अधरेण बन्धुजीवं मुखतः प्राभातिकं च राजीवम् । दूरीकरोषि किं वा देवि ! त्वं सर्वजीवकरुणार्द्रा ॥ ४४॥ अन्ते वसन् द्विजानामवदातानामतिस्फुरद्रूपः । अम्ब ! तवाधिकमधरो बिम्बप्रतिबिम्बयोग्योऽभूत् ॥ ४५॥ सन्ततपल्लवयोगे मुक्तिर्न शुचेरपीति वाङ् मिथ्या । देवि! तवाधर पल्लवसंयोगेऽध्यमला द्विजा मुक्ताः ॥ ४६॥ तव तटिनीपतिकन्थे ! द्विजपटली वदनशुक्तिमुक्ताश्रीः । अतनुयशोबीजानामङ्कुरपङ्क्तिः परिस्फुरन्तीव ॥ ४७॥ वदनं सुधाकरस्ते वारिधिकन्ये ! न तत्र सन्देहः । वचनापदेशमेतन्नो चेदमृतं कथं ततः प्रभवेत् ॥ ४८॥ भ्रूयुगळं भृगुतनये ! कुसुमशरस्येव सव्यसाचितया । आरोपिताक्षिबाणं कोदण्डद्वन्द्वमिति मतिं दत्ते ॥ ४९॥ अब्जद्वयमपि विजितं तव कमले! वक्त्रशोभया तत्र । अम्बरमेकं शरणं शम्बरमपरं च सत्वरं प्रापत् ॥ ५०॥ चन्द्रोऽभवद् विषादी चारु मुखं देवि! तावकं वीक्ष्य । कुक्षिगतं गरमस्य प्राहुः पङ्कं कळङ्कमित्येके ॥ ५१॥ विजितस्त्वन्मुखकान्त्या देवि ! निराशो निशाकरो जीवे । भृगुपतनं कुरुतेऽसावस्तमथ व्याजतोऽन्वहं तूर्णम् ॥ ५२॥ अम्ब ! यतस्ते नितरामाननकान्त्या तृणीकृतश्चन्द्रः । आतः किल तृणबुद्धया मुञ्चति नैनं मृगः कदाचिदपि ॥ ५३॥ देवि ! तवाननतुलनामभिलषतां सागसां सरोजानाम् । मज्जनमप्सु च बन्धः शैवलपाशेन षट्पदैः प्रसृतिः ॥ ५४॥ द्विजराजस्याप्यब्जे ! त्वद्वक्त्रेणोपमानरहितेन । समताभिलाषदोषाद्दोषाकरता विधोर्दुरन्ताभृत् ॥ ५५॥ पद्मे ! परस्वहरणं दोषायेति प्रभाषणं मिथ्या । अपहृत्य राजलक्ष्मीमपदोषं यद्विभाति ते वक्त्रेम् ॥ ५६॥ निर्जित्य नीरजातं निखिलं मुरवैरिसुन्दरि ! मुखेन । आसनमाकलितं ते नूनं पद्मासनासि तेनैव ॥ ५७॥ त्वद्वदनाभिभवोद्यत्तापातिशयं दिवानिशं पद्मम् । अम्भसि वासं कुरुते नूनं तस्यापनोदनायाब्जे ! ॥ ५८॥ सन्ततमित्रविरोधी दोषासक्तः कलङ्कवानिन्दुः । तव वदनेन कथं वा कमले! कल्याणगुणभुवा तुल्यः ॥ ५९॥ देवि! तवाननचन्द्रप्रसादभिक्षाटनेन राजापि । पूर्णश्चन्द्रिकयाहो जीवञ्जीवस्य तृप्तिमातनुते ॥ ६०॥ त्वत्कण्ठकान्तिभाग्यं दृष्ट्वा शङ्खास्सहस्रशो देवि ! । तल्लाभाय पयोधेरन्तं गत्वा चिरं तपस्यन्ति ॥ ६१॥ कण्ठेन ते हृतश्रीः कमले ! विमलोऽपि सन्ततं कम्बुः । घुमुघुमुनिनदव्याजात् क्रोशति राज्ञां पुरः समयदर्शी ॥ ६२॥ त्वत्कण्ठकान्तिजनितं भञ्जनमाख्यातुमुद्यता जलजाः । विस्तृतजनशब्दतया पद्मिन्याम्रेडयन्ति भं भमिति ॥ ६३॥ कम्बुभ्रमेण कण्ठं चक्रभ्रान्त्या नितम्बबिम्बमपि । परिमृशति ते कराभ्यां पतिरतिदुर्भेदशङ्खचक्राभ्याम् ॥ ६४॥ बाहू शिरीषमालामार्दवकीतन्दुमर्दने राहू । सेतू समग्रशोभासिन्धोर्मन्ये समुद्रकन्ये ! ते ॥ ६५॥ अतिसुरभिः करपद्मो वाञ्छितदानैर्न केवलं गन्धैः । वारिधिपुत्रि ! वदान्यं कविमुक्तं देवि! कल्पमातनुते ॥ ६६॥ देवि ! करेण भवत्या दत्तसमस्तेप्सितेन भक्तानाम् । स्पर्शनदूरीकरणं सोदरगीर्वाणशाखिनामुचितम् ॥ ६७॥ देवि ! तवाननभासा परिभूतः पर्वचन्द्रमा नूनम् । तेन हि शश्वत् परिधिव्याजप्राकारमध्यमध्यास्ते ॥ ६८॥ पद्मकुलं परिभूतं पद्मे ! त्वत्पाणिपद्मरागेण । तत्प्रेषितं सदैकं त्वत्पाणिं सेवते सरोजातम् ॥ ६९॥ अनुदिनमर्काभिमुखं वनभुवि शैवालवल्कलं कमलम् । तप्त्वा तपोऽतितीव्रं प्रापत् त्वत्पाणिपद्मसाधर्म्यम् ॥ ७०॥ हारा विभान्ति गौरा हरिदयिते ! ते मुखोडुराजस्य । सेवार्थमागतानां ताराणामिव गणाः पुरोगाणाम् ॥ ७१॥ हारलता तब पद्मे ! सुकुमारस्याङ्गभूकुमारस्य । क्रीडामृणाळडोळाशङ्कां नाङ्क्रूरयत्यसौ कस्य ॥ ७२॥ तव कुचगिरितटवासी कृतरोमाळीनकन्यकास्नानः । कश्चन मुक्ताहारो योगीवाभाति नित्यशुद्धात्मा ॥ ७३॥ उन्नतिमुरोजयुग्मे ! पद्मे दृष्टैव पर्वतास्त्रपया । उदधौ चिरं निलीना भीत्या शक्रादिति प्रथामात्रम् ॥ ७४॥ तव कुचकुम्भद्वन्द्वे बद्धस्पर्धानि डाडिमफलानि । तुलनाहीनाः कीरास्तुण्डैरेतानि खण्डयन्त्यब्जे ! ॥ ७५॥ कोदण्डस्य पुरारेरुद्दण्डस्यापि हन्त बाणस्य । कबळीकुरुते मानं पुगळी कुचयोस्तवेन्दिरे ! युगपत् ॥ ७६॥ सन्ततमुक्ताहारावपि तव पीनौ पयोधरौ भातः । तेन कथं पीनत्वं देवि ! भवेद्रात्रिभोजने मानम् ॥ ७७॥ कनकमहीघरगौरवकबलीकरणादिवातिपीनमपि । मुक्ताहारवदास्ते स्तनयुगलं देवि ! तावकं चित्रम् ॥ ७८॥ इति किल दर्शनरीतिः कार्यमुपादानकारणाभित्रम् । देवि! तव स्तनकुम्भौ चक्राभिन्नौ कथं न दृश्येते ॥ ७९॥ कलयति दण्डः कलशं सर्वैर्बहुशः श्रुतं च दृष्टं च । जननि ! तव स्तनकलशो जनयति मधुवैरिमानदण्डमहो ! ॥ ८०॥ सर्वारीणां जेता दुर्वारेणैव देवि! चक्रेण । हन्त कथं ते विजितः कान्तो वक्षोरुहात्मचक्रेण ॥ ८१॥ कल्लोलिनीशकन्ये ! कलये रोमावलिप्रभेदेन । तव कान्तिवार्धिमध्ये नवजलदश्यामको हरिः शेते ॥ ८२॥ नामीसरोवनान्तः क्रीडन्मदनद्विपाधिपोत्क्षिताम् । शैवालवल्लरीं ते रोमलतां देवि ! कथयन्ति ॥ ८३॥ मध्यः प्रथमं मानं महितगुणौघस्तवानुमानमपि । वपुरप्युपमितिशब्दं दूरीकुरुतेऽम्ब ! केन वर्ण्यासि ॥ ८४॥ तव कुचकुम्भस्य गुरोरन्तेवासी विवेकहीनस्य । दर्शनयोग्यो नाभून्मध्यस्ते देवि ! नास्तिवादरतः ॥ ८५॥ प्रत्यक्षाविषयत्वादतिरिक्तत्वादनङ्गजनकत्वात् । देवि ! वलिश्रीभजनान्मध्यस्ते कान्तविभ्रमं तनुते ॥ ८६॥ चिन्तामणिवादस्ते करयोर्द्दशि कामशास्त्रवादोऽब्जे ! । मध्ये मायावादो गौरववादः पयोधरद्वन्द्वे ॥ ८७॥ महदणुपरिमाणगतं विश्रान्तं देवि तारतम्यं ते । वक्षोरुहे च मध्ये न व्योमादौ न चापि परमाणौ ॥ ८८॥ कठिनात्माघः कुरुते सर्वं कमले! कृथं सनामिगतम् । दृष्टमितीदमुरोजे मध्यं कृशमेव कुर्वति स्पष्टम् ॥ ८९॥ तुङ्गपयोधरशैलद्वन्द्वोद्वहनेन सन्ततं देवि ! । पश्यामि कार्यमुचितं मध्यस्य श्रीमतोऽपि ते मातः ! ॥ ९०॥ तव रोमराजियमुनानित्यस्फीतेऽपि मध्यदेशेऽस्मिन् । क्षामकथा कथमब्जे ! नाभीसरसीपरिष्कृतेऽपि सदा ॥ ९१॥ रोमाळियूपदण्डे चितपशुं बद्धुमम्ब ! ते पत्युः । सम्पादितेव रशना त्रिवलिमिषेणाङ्गजन्मनाध्वरिणा ॥ ९२॥ आभाति नाभिरब्जे ! तव तनुजनुषा निषादवीरेण । पातयितुं हरिचित्तं मत्तभं सम्भृतो यथा गर्तः ॥ ९३॥ शङ्के तवाम्ब ! नाभिं शम्बररिपुणा विजित्य दैत्यारिम् । रोमाळिनीलरत्नस्तम्भनिखाताय सम्भृतं वभ्रम् ॥ ९४॥ निवसन्ति येऽधिकाञ्चि प्रायः शुद्धा भवन्ति ते मुक्ताः । इति मणिरशनांविकसन्मुक्तावल्याम्ब ! दर्शयस्यद्धा ॥ ९५॥ अवनतमौलिरियं त्वामञ्जलिमभिनीय कुसुमकोशमिषात् । रम्भा तवोरुविजिता सम्भावयतीति मे तर्कः ॥ ९६॥ कुम्भीन्द्रकुम्भवृत्तं जानुद्वन्द्वं तवाप्रतिद्वन्द्वम् । हन्त हरेरपि धैर्यं हरते दुर्धर्षमब्धिराजसुते ! ॥ ९७॥ जङ्घा निषङ्गशङ्कामङ्कूरयत्यङ्गजेन्मनो देवि ! । तत् खलु तदग्रभागे पश्चशरस्फूर्तिमङ्गुलिव्याजात् ॥ ९८॥ तव पदभावः प्राप्तस्तामरसेनेति नात्र सन्देहः । कथमन्यथा स योगो भावी कान्तेन हंसकेनाब्जे ! ॥ ९९॥ पादतले परिदृश्यं पद्मे ! रेखात्मना स्वयं गूढम् । तव चरणश्रीमिक्षाचरणं विदधाति सज्यमम्बुरुहम् ॥ १००॥ अर्कोऽपि यस्य भजनादजनि श्रीमाननेन जनितश्रीः । पद्मं कथं नु तुलनामर्हति पादेन तावकेनाब्जे ! ॥ १०१॥ जलजं कृतसङ्कोचं द्विजराजस्थापि दर्शने देवि ! । मानितमधुपं शिरसा कथमधिरोहेत् पदेन ते तुलनाम् ॥ १०२॥ साम्राज्येऽम्बुरुहाणां तव पदमीडेऽभिषिच्यमानमिव । जानुस्मृतां जनानां हेतुः सञ्चिन्तितार्थसिद्धीनाम् ॥ १०३॥ मदनदरीजनकबरीनलिनैरुद्यन्मरन्दसंसारे । पातु पराकृतपद्मं मातुर्जगतां पदाम्बुजातं माम् ॥ १०४॥ सम्भावितापचारं ज्ञानाज्ञानात्तव स्तुतिव्याजात् । देवि सहस्व दयालो ! देहि मम श्रीपतौ परां भक्तिम् ॥ १०५॥ जगति ख्यातिरशेषात्त्वकुलेयेति सर्वसिद्धान्तम् । जननि कथं ते ख्यातेरुत्पत्तिः श्रूयते पुराणादौ ॥ १०६॥ यज्ञवराहः श्रीमान् वाधूलम्बालजो धीमान् । लक्ष्मी शतकमतानीदक्षीणानन्दकन्दळीकन्दम् ॥ १०७॥ ॥ इति यज्ञवराहकृतं लक्ष्मीशतकं सम्पूर्णम् ॥

लक्ष्मीशतकम् (यज्ञवराह कृत) — काव्यात्मक एवं आध्यात्मिक परिचय

लक्ष्मीशतकम् एक अत्यंत उत्कृष्ट साहित्यिक और आध्यात्मिक स्तोत्र है। इसके रचयिता वाधूल गोत्र में उत्पन्न महान विद्वान यज्ञवराह हैं। यह स्तोत्र दक्षिण भारत के प्रसिद्ध तीर्थ स्थल कांचीपुरम (तमिलनाडु) में स्थित हस्तिगिरि पर्वत पर विराजमान माँ महालक्ष्मी को समर्पित है। यहाँ भगवान विष्णु 'वरदराज पेरुमाल' और माता लक्ष्मी 'पेरुंदेवी तायर' के रूप में पूजी जाती हैं।

नख-शिख सौंदर्य का वर्णन: 107 श्लोकों के इस 'शतक' में कवि ने माता लक्ष्मी के दिव्य रूप का नख-शिख वर्णन किया है। श्लोक 8 से लेकर 104 तक, कवि माँ के केशपाश (बाल), सीमंत (मांग), मुखमंडल, नेत्र, नासिका (नाक), अधर (होंठ), वक्षस्थल, कटि (कमर) और अंत में चरण-कमलों के अलौकिक सौंदर्य का अत्यंत काव्यात्मक वर्णन करते हैं।

कवि की कल्पना शक्ति अद्भुत है। उदाहरण के लिए, श्लोक 26 में वे कहते हैं— "धाता (ब्रह्मा) ने आपके नेत्रों की तुलना करने के लिए कमल को बनाया, लेकिन जब कमल आपके नेत्रों के समान सुंदर नहीं बन सका, तो वह लज्जावश पानी (जल) में जाकर छिप गया और तभी से उसे 'जलज' कहा जाने लगा।"

भक्ति और क्षमा याचना: यद्यपि यह स्तोत्र भौतिक सौंदर्य का वर्णन करता है, किन्तु इसका उद्देश्य आध्यात्मिक है। कवि माता के सौंदर्य के माध्यम से उनकी अनंत करुणा का दर्शन करता है। स्तोत्र के अंत (श्लोक 105) में कवि क्षमा मांगते हुए कहते हैं— "हे दयालु माँ! मेरी स्तुति में यदि ज्ञान या अज्ञानवश कोई अपराध हो गया हो, तो उसे क्षमा करें और मुझे श्रीपति (भगवान विष्णु) के चरणों में परम भक्ति प्रदान करें।"

स्तोत्र के लाभ और फलश्रुति (Spiritual Benefits)

इस काव्यात्मक महास्तोत्र का पाठ करने से साधक को भौतिक और आध्यात्मिक दोनों दृष्टियों से अपार लाभ होता है:

  • आकर्षण और तेज: जो साधक नित्य माँ के सौंदर्य का वर्णन करने वाले इस स्तोत्र का पाठ करता है, उसके मुखमंडल पर एक अलौकिक तेज, शांति और आकर्षण (Aura) आ जाता है।
  • मानसिक आनंद की प्राप्ति: श्लोक 107 में इसे "अक्षीणानन्दकन्दळीकन्दम्" (अखंड आनंद का मूल स्रोत) कहा गया है। यह डिप्रेशन, दुख और हताशा को दूर कर जीवन में उत्साह भर देता है।
  • दरिद्रता का नाश: माँ की स्तुति स्वभाव से ही 'श्री' (धन और समृद्धि) प्रदान करने वाली है। हस्तिगिरि की महालक्ष्मी अपने भक्तों को कभी खाली हाथ नहीं लौटातीं।
  • हरि-भक्ति: जो भक्त इस स्तोत्र का गान करते हैं, उन्हें स्वतः ही भगवान विष्णु की अटूट भक्ति प्राप्त हो जाती है, क्योंकि माँ लक्ष्मी विष्णु के हृदय में निवास करती हैं।
  • वाक् सिद्धि: इस क्लिष्ट और अलंकारिक संस्कृत काव्य का पाठ करने से साधक की वाणी शुद्ध होती है और उसमें कवित्व शक्ति (काव्य रचना की क्षमता) जाग्रत होती है।

साधना विधि एवं पाठ का नियम (Ritual Method)

चूँकि यह स्तोत्र बहुत बड़ा (107 श्लोक) और काव्यात्मक है, अतः इसके पाठ में पूर्ण एकाग्रता और समय की आवश्यकता होती है।

  • समय और पवित्रता: इस स्तोत्र का पाठ शुक्रवार की सुबह या गोधूलि बेला (संध्या समय) में शांत चित्त होकर करना चाहिए।
  • ध्यान का भाव: पाठ करते समय मन में यह कल्पना करें कि आप कांचीपुरम के वरदराज मंदिर में 'हस्तिगिरि' पर्वत पर खड़े हैं और माता पेरुंदेवी (महालक्ष्मी) के साक्षात दर्शन कर रहे हैं।
  • श्रृंगार अर्पण: चूँकि इस स्तोत्र में माता के श्रृंगार का वर्णन है, इसलिए पाठ से पूर्व माता की मूर्ति या चित्र पर कुमकुम, सिंदूर, पुष्पों की माला (मल्लिका/चमेली) और आभूषण अर्पित करना अत्यंत शुभ होता है।
  • नैवेद्य: पाठ की समाप्ति पर माँ को मिश्री, पंचामृत या दूध से बनी मिठाई का भोग लगाएं।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. लक्ष्मीशतकम् की रचना किसने की है?

इस अद्वितीय और काव्यात्मक स्तोत्र की रचना 'यज्ञवराह' (वाधूल गोत्र में उत्पन्न) नामक एक महान विद्वान और भक्त ने की है।

2. यह स्तोत्र किस विशेष मंदिर या क्षेत्र से संबंधित है?

यह स्तोत्र दक्षिण भारत के प्रसिद्ध तीर्थ कांचीपुरम (तमिलनाडु) में स्थित 'हस्तिगिरि' (श्री वरदराज पेरुमाल मंदिर) की अधिष्ठात्री माँ महालक्ष्मी (पेरुंदेवी तायर) को समर्पित है।

3. लक्ष्मीशतकम् में कितने श्लोक हैं?

नाम 'शतकम्' (सौ श्लोकों का समूह) होने के बावजूद, इस स्तोत्र में 107 श्लोक हैं, जो माता के दिव्य सौंदर्य और महिमा का वर्णन करते हैं।

4. इस स्तोत्र की विषयवस्तु (Theme) क्या है?

यह स्तोत्र मुख्य रूप से एक 'नख-शिख वर्णन' (पैरों से लेकर सिर तक सौंदर्य का वर्णन) है। इसमें उच्च कोटि के अलंकारों का प्रयोग कर माँ के भौतिक और आध्यात्मिक सौंदर्य का गान किया गया है।

5. श्लोक 26 में कमल का नाम 'जलज' क्यों बताया गया है?

कवि कल्पना करते हैं कि ब्रह्मा जी ने माँ के नेत्रों से तुलना करने के लिए कमल को बनाया, लेकिन कमल उनके नेत्रों के समान सुंदर न हो सका, इसलिए लज्जावश वह जल में उत्पन्न (जल-ज) होने लगा।

6. क्या यह स्तोत्र धन प्राप्ति के लिए है?

यद्यपि यह एक भक्ति और सौंदर्य प्रधान काव्य है, फिर भी माँ महालक्ष्मी की स्तुति होने के कारण यह साधक को अपार धन, मानसिक शांति और वैकुंठ की प्राप्ति कराता है।

7. पाठ के लिए कौन सा समय श्रेष्ठ है?

सौंदर्य और भक्ति से पूर्ण इस शतक का पाठ प्रातःकाल (ब्रह्म मुहूर्त) या संध्या के समय एकांत में शांत चित्त होकर करना चाहिए।

8. इस स्तोत्र में 'शम्बरवैरि' और 'पुगळी' जैसे शब्दों का क्या अर्थ है?

ये शब्द कामदेव (मन्मथ) के लिए प्रयुक्त हुए हैं। कवि कहते हैं कि माता का सौंदर्य इतना दिव्य है कि वह कामदेव के गर्व को भी परास्त कर देता है।

9. पाठ के दौरान क्या भावना रखनी चाहिए?

पाठ करते समय साधक को यह अनुभव करना चाहिए कि वह साक्षात हस्तिगिरि पर्वत पर खड़े होकर माँ पेरुंदेवी (महालक्ष्मी) के साक्षात दर्शन कर रहा है।

10. स्तोत्र के अंत में कवि ने क्या क्षमा मांगी है?

श्लोक 105 में कवि कहते हैं, 'हे दयालु माँ! ज्ञान या अज्ञानवश आपकी स्तुति करने में मुझसे जो भी अपराध हुए हों, उन्हें क्षमा करें और मुझे श्रीपति (विष्णु) की परम भक्ति प्रदान करें।'