Logoपवित्र ग्रंथ

Sri Kamakala Kali Sahasranama Stotram – श्री कामकलाकाली सहस्रनाम स्तोत्रम्

Sri Kamakala Kali Sahasranama Stotram – श्री कामकलाकाली सहस्रनाम स्तोत्रम्
॥ श्री गणेशाय नमः ॥ ॥ श्री कामकलाकाली सहस्रनाम स्तोत्रम् ॥ ॥ श्रीमहाकालसंहितायां कामकलाखण्डे द्वादशपटले ॥ ॥ देव्युवाच ॥ त्वत्तः श्रुतं मया नाथ देव देव जगत्पते । देव्याः कामकलाकाल्या विधानं सिद्धिदायकम् ॥ १ ॥ त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया । तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २ ॥ इदानीं जायते नाथ शुश्रूषा मम भूयसी । नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३ ॥ श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि । ॥ श्रीमहाकाल उवाच ॥ भाग्यवत्यसि धन्यासि सन्देहो नात्र भाविनि ॥ ४ ॥ सहस्रनामश्रवणे यस्मात्ते निश्चितं मनः । तस्या नाम्नां तु लक्षाणि विद्यन्ते चाथ कोटयः ॥ ५ ॥ तान्यल्पायुर्मतित्वेन नृभिर्धारयितुं सदा । अशक्यानि वरारोहे पठितुं च दिने दिने ॥ ६ ॥ तेभ्यो नामसहस्राणि साराण्युद्धृत्य शम्भुना । अमृतानीव दुग्धाब्धेर्भूदेवेभ्यः समर्पितम् ॥ ७ ॥ कानिचित्तत्र गौणानि गदितानि शुचिस्मिते । रूढाण्याकारहीनत्वाद्गौणानि गुणयोगतः ॥ ८ ॥ राहित्याद्रूढिगुणयोस्तानि साङ्केतिकान्यपि । त्रिविधान्यपि नामानि पठितानि दिने दिने ॥ ९ ॥ राधयन्तीप्सितानर्थान् ददत्यमृतमव्ययम् । क्षपयन्त्यपमृत्युं च मारयन्ति द्विषोऽखिलान् ॥ १० ॥ घ्नन्ति रोगानथोत्पातान्मङ्गलं कुर्वतेऽन्वहम् । किमुतान्यत् सदा सन्निधापयत्यर्थिकामपि ॥ ११ ॥ त्रिपुरघ्नोऽप्यदो नामसहस्रं पठति प्रिये । तदाज्ञयाप्यहमपि कीर्तयामि दिनेदिने ॥ १२ ॥ भवत्यपीदमस्मत्तः शिक्षित्वा तु पठिष्यति । भविष्यति च निर्णीतं चतुर्वर्गस्य भाजनम् ॥ १३ ॥ मनोऽन्यतो निराकृत्य सावधाना निशामय । नाम्नां कामकलाकाल्याः सहस्रं मुक्तिदायकम् ॥ १४ ॥ ॥ विनियोग ॥ अस्य श्रीकामकलाकाली सहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः । अनुष्टुप् छन्दः । त्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली देवता । क्लीं बीजं । स्फ्रों शक्तिः । हूं कीलकं । क्ष्रौं तत्त्वं । श्रीकामकलाकाली सहस्रनामस्तोत्र पाठे विनियोगः । ॥ अथ सहस्रनाम ॥ ओं क्लीं कामकलाकाली कालरात्रिः कपालिनी । कात्यायनी च कल्याणी कालाकारा करालिनी ॥ १५ ॥ उग्रमूर्तिर्महाभीमा घोररावा भयङ्करा । भूतिदा भयहन्त्री च भवबन्धविमोचिनी ॥ १६ ॥ भव्या भवानी भोगाढ्या भुजङ्गपतिभूषणा । महामाया जगद्धात्री पावनी परमेश्वरी ॥ १७ ॥ योगमाता योगगम्या योगिनी योगिपूजिता । गौरी दुर्गा कालिका च महाकल्पान्तनर्तकी ॥ १८ ॥ अव्यया जगदादिश्च विधात्री कालमर्दिनी । नित्या वरेण्या विमला देवाराध्यामितप्रभा ॥ १९ ॥ भारुण्डा कोटरी शुद्धा चञ्चला चारुहासिनी । अग्राह्यातीन्द्रियाऽगोत्रा चर्चरोर्ध्वशिरोरुहा ॥ २० ॥ कामुकी कमनीया च श्रीकण्ठमहिषी शिवा । मनोहरा माननीया मतिदा मणिभूषणा ॥ २१ ॥ श्मशाननिलया रौद्रा मुक्तकेश्यट्टहासिनी । चामुण्डा चण्डिका चण्डी चार्वङ्गी चरितोज्ज्वला ॥ २२ ॥ घोरानना धूम्रशिखा कम्पना कम्पितानना । वेपमानतनुर्भीदा निर्भया बाहुशालिनी ॥ २३ ॥ उल्मुकाक्षी सर्पकर्णी विशोका गिरिनन्दिनी । ज्योत्स्नामुखी हास्यपरा लिङ्गा लिङ्गधरा सती ॥ २४ ॥ अविकारा महाचित्रा चन्द्रवक्त्रा मनोजवा । अदर्शना पापहरा श्यामला मुण्डमेखला ॥ २५ ॥ मुण्डावतंसिनी नीला प्रपन्नानन्ददायिनी । लघुस्तनी लम्बकुचा घूर्णमाना हराङ्गना ॥ २६ ॥ विश्वावासा शान्तिकरी दीर्घकेश्यरिखण्डिनी । रुचिरा सुन्दरी कम्रा मदोन्मत्ता मदोत्कटा ॥ २७ ॥ अयोमुखी वह्निमुखी क्रोधनाऽभयदेश्वरी । कुडम्बिका साहसिनी खड्गकी रक्तलेहिनी ॥ २८ ॥ विदारिणी पानरता रुद्राणी मुण्डमालिनी । अनादिनिधना देवी दुर्निरीक्ष्या दिगम्बरा ॥ २९ ॥ विद्युज्जिह्वा महादंष्ट्रा वज्रतीक्ष्णा महास्वना । उदयार्कसमानाक्षी विन्ध्यशैलसमाकृतिः ॥ ३० ॥ नीलोत्पलदलश्यामा नागेन्द्राष्टकभूषिता । अग्निज्वालकृतावासा फेत्कारिण्यहिकुण्डला ॥ ३१ ॥ पापघ्नी पालिनी पद्मा पूण्या पुण्यप्रदा परा । कल्पान्ताम्भोदनिर्घोषा सहस्रार्कसमप्रभा ॥ ३२ ॥ सहस्रप्रेतराट् क्रोधा सहस्रेशपराक्रमा । सहस्रधनदैश्वर्या सहस्रान्ध्रिकराम्बिका ॥ ३३ ॥ सहस्रकालदुष्प्रेक्ष्या सहस्रेन्द्रियसञ्चया । सहस्रभूमिसदना सहस्राकाशविग्रहा ॥ ३४ ॥ सहस्रचन्द्रप्रतिमा सहस्रग्रहचारिणी । सहस्ररुद्रतेजस्का सहस्रब्रह्मसृष्टिकृत् ॥ ३५ ॥ सहस्रवायुवेगा च सहस्रफणकुण्डला । सहस्रयन्त्रमथिनी सहस्रोदधिसुस्थिरा ॥ ३६ ॥ सहस्रबुद्धकरुणा महाभागा तपस्विनी । त्रैलोक्यमोहिनी सर्वभूतदेववशङ्करी ॥ ३७ ॥ सुस्निग्धहृदया घण्टाकर्णा च व्योमचारिणी । शङ्खिनी चित्रिणीशानी कालसङ्कर्षिणी जया ॥ ३८ ॥ अपराजिता च विजया कमला कमलाप्रदा । जनयित्री जगद्योनिर्हेतुरूपा चिदात्मिका ॥ ३९ ॥ अप्रमेया दुराधर्षा ध्येया स्वच्छन्दचारिणी । शातोदरी शाम्भविनी पूज्या मानोन्नताऽमला ॥ ४० ॥ ओङ्काररूपिणी ताम्रा बालार्कसमतारका । चलज्जिह्वा च भीमाक्षी महाभैरवनादिनी ॥ ४१ ॥ सात्त्विकी राजसी चैव तामसी घर्घराऽचला । माहेश्वरी तथा ब्राह्मी कौमारी मानिनीश्वरा ॥ ४२ ॥ सौपर्णी वायवी चैन्द्री सावित्री नैरृती कला । वारुणी शिवदूती च सौरी सौम्या प्रभावती ॥ ४३ ॥ वाराही नारसिंही च वैष्णवी ललिता स्वरा । मैत्र्यार्यम्णी च पौष्णी च त्वाष्ट्रो वासव्युमारतिः ॥ ४४ ॥ राक्षसी पावनी रौद्री दास्री रोदस्युदुम्बरी । सुभगा दुर्भगा दीना चञ्चुरीका यशस्विनी ॥ ४५ ॥ महानन्दा भगानन्दा पिच्छिला भगमालिनी । अरुणा रेवती रक्ता शकुनी श्येनतुण्डिका ॥ ४६ ॥ सुरभी नन्दिनी भद्रा बला चातिबलामला । उलूपी लम्बिका खेटा लेलिहानान्त्रमालिनी ॥ ४७ ॥ वैनायिकी च वेताली त्रिजटा भृकुटी सती । कुमारी युवती प्रौढा विदग्धा घस्मरा तथा ॥ ४८ ॥ जरती रोचना भीमा दोलमाला पिचिण्डिला । अलम्बाक्षी कुम्भकर्णी कालकर्णी महासुरी ॥ ४९ ॥ घण्टारवाथ गोकर्णी काकजङ्घा च मूषिका । महाहनुर्महाग्रीवा लोहिता लोहिताशनी ॥ ५० ॥ कीर्तिः सरस्वती लक्ष्मीः श्रद्धा बुद्धिः क्रिया स्थितिः । चेतना विष्णुमाया च गुणातीता निरञ्जना ॥ ५१ ॥ निद्रा तन्द्रा स्मिता छाया जृम्भा क्षुदशनायिता । तृष्णा क्षुधा पिपासा च लालसा क्षान्तिरेव च ॥ ५२ ॥ विद्या प्रज्ञा स्मृतिः कान्तिरिच्छा मेधा प्रभा चितिः । धरित्री धरणी धन्या धोरणी धर्मसन्ततिः ॥ ५३ ॥ हालाप्रिया हाररतिर्हारिणी हरिणेक्षणा । चण्डयोगेश्वरी सिद्धिकराली परिडामरी ॥ ५४ ॥ जगदान्या जनानन्दा नित्यानन्दमयी स्थिरा । हिरण्यगर्भा कुण्डलिनी ज्ञानं धैर्यं च खेचरी ॥ ५५ ॥ नगात्मजा नागहारा जटाभारा प्रतर्दिनी । खड्गिनी शूलिनी चक्रवती बाणवती क्षितिः ॥ ५६ ॥ घृणिधर्त्री नालिका च कर्त्री मत्यक्षमालिनी । पाशिनी पर्शुहस्ता च नागहस्ता धनुर्धरा ॥ ५७ ॥ महामुद्गरहस्ता च शिवापोतधरापि च । नारखर्परिणी लम्बत्कचमुण्डप्रधारिणी ॥ ५८ ॥ पद्मावत्यन्नपूर्णा च महालक्ष्मीः सरस्वती । दुर्गा च विजया घोरा तथा महिषमर्दिनी ॥ ५९ ॥ धनलक्ष्मी जयदाश्चाऽश्वारूढा जयभैरवी । शूलिनी राजमातङ्गी राजराजेश्वरी तथा ॥ ६० ॥ त्रिपुटोच्छिष्टचाण्डाली अघोरा त्वरितापि च । राज्यलक्ष्मीर्जयमहाचण्डयोगेश्वरी तथा ॥ ६१ ॥ गुह्या महाभैरवी च विश्वलक्ष्मीररुन्धती । यन्त्रप्रमथिनी चण्डयोगेश्वर्यप्यलम्बुषा ॥ ६२ ॥ किराती च महाचण्डभैरवी कल्पवल्लरी । त्रैलोक्यविजया सम्पत्प्रदा मन्थानभैरवी ॥ ६३ ॥ महामन्त्रेश्वरी वज्रप्रस्तारिण्यङ्गचर्पटा । जयलक्ष्मीश्चण्डरूपा जलेशी कामदायिनी ॥ ६४ ॥ स्वर्णकूटेश्वरी रुण्डा मर्मरी बुद्धिवर्धिनी । वार्ताली चण्डवार्ताली जयवार्तालिका तथा ॥ ६५ ॥ उग्रचण्डा श्मशानोग्रा चण्डा वै रुद्रचण्डिका । अतिचण्डा चण्डवती प्रचण्डा चण्डनायिका ॥ ६६ ॥ चैतन्यभैरवी कृष्णा मण्डली तुम्बुरेश्वरी । वाग्वादिनी मुण्डमधुमत्यनर्घ्या पिशाचिनी ॥ ६७ ॥ मञ्जीरा रोहिणी कुल्या तुङ्गा पूर्णेश्वरी वरा । विशाला रक्तचामुण्डा अघोरा चण्डवारुणी ॥ ६८ ॥ धनदा त्रिपुरा वागीश्वरी च जयमङ्गला । दैगम्बरी कुब्जिका च कुडुक्का कालभैरवी ॥ ६९ ॥ कुक्कुटी सङ्कटा वीरा कर्पटा भ्रमराम्बिका । महार्णवेश्वरी भोगवती लङ्केश्वरी तथा ॥ ७० ॥ पुलिन्दी शवरी म्लेच्छी पिङ्गला शवरेश्वरी । मोहिनी सिद्धिलक्ष्मीश्च बाला त्रिपुरसुन्दरी ॥ ७१ ॥ उग्रतारा चैकजटा महानीलसरस्वती । त्रिकण्टकी छिन्नमस्ता महिषघ्नी जयावहा ॥ ७२ ॥ हरसिद्धानङ्गमाला फेत्कारी लवणेश्वरी । चण्डेश्वरी नाकुली च हयग्रीवेश्वरी तथा ॥ ७३ ॥ कालिन्दी वज्रवाराही महानीलपताकिका । हंसेश्वरी मोक्षलक्ष्मीर्भूतिनी जातरेतसा ॥ ७४ ॥ शातकर्णा महानीला वामा गुह्येश्वरी भ्रमिः । एकानंशाऽभया तार्क्षी बाभ्रवी डामरी तथा ॥ ७५ ॥ कोरङ्गी चर्चिका विन्ना संशिका ब्रह्मवादिनी । त्रिकालवेदिनी नीललोहिता रक्तदन्तिका ॥ ७६ ॥ क्षेमङ्करी विश्वरूपा कामाख्या कुलकुट्‍टनी । कामाङ्कुशा वेशिनी च मायूरी च कुलेश्वरी ॥ ७७ ॥ इभाक्षी घोणकी शार्ङ्गी भीमा देवी वरप्रदा । धूमावती महामारी मङ्गला हाटकेश्वरी ॥ ७८ ॥ किराती शक्तिसौपर्णी बान्धवी चण्डखेचरी । निस्तन्द्रा भवभूतिश्च ज्वालाघण्टाग्निमर्दिनी ॥ ७९ ॥ सुरङ्गा कौलिनी रम्या नटी नारायणी धृतिः । अनन्ता पुञ्जिका जिह्मा धर्माधर्मप्रवर्तिका ॥ ८० ॥ बन्दिनी बन्दनीया च बेलाऽहस्करिणी सुधा । अरणी माधवी गोत्रा पताका वाङ्मयी श्रुतिः ॥ ८१ ॥ गूढा त्रिगूढा विस्पष्टा मृगाङ्का च निरिन्द्रिया । मेनानन्दकरी वोध्री त्रिनेत्रा वेदवाहना ॥ ८२ ॥ कलस्वना तारिणी च सत्यासत्यप्रियाऽजडा । एकवक्त्रा महावक्त्रा बहुवक्त्रा घनानना ॥ ८३ ॥ इन्दिरा काश्यपी ज्योत्स्ना शवारूढा तनूदरी । महाशङ्खधरा नागोपवीतिन्यक्षताशया ॥ ८४ ॥ निरिन्धना धराधारा व्याधिघ्नी कल्पकारिणी । विश्वेश्वरी विश्वधात्री विश्वेशी विश्ववन्दिता ॥ ८५ ॥ विश्वा विश्वात्मिका विश्वव्यापिका विश्वतारिणी । विश्वसंहारिणी विश्वहस्ता विश्वोपकारिका ॥ ८६ ॥ विश्वमाता विश्वगता विश्वातीता विरोधिता । त्रैलोक्यत्राणकर्त्री च कूटाकारा कटङ्कटा ॥ ८७ ॥ क्षामोदरी च क्षेत्रज्ञा क्षयहीना क्षयज्जिता । [क्षरवर्जिता] क्षपा क्षोभकरी क्षेम्याऽक्षोभ्या क्षेमदुघा क्षिया ॥ ८८ ॥ सुखदा सुमुखी सौम्या स्वङ्गा सुरपरा सुधीः । सर्वान्तर्यामिनी सर्वा सर्वाराध्या समाहिता ॥ ८९ ॥ तपिनी तापिनी तीव्रा तपनीया तु नाभिगा । हैमी हैमवती ऋद्धिर्वृद्धिर्ज्ञानप्रदा नरा ॥ ९० ॥ महाजटा महापादा महाहस्ता महाहनुः । महाबला महारोषा महाधैर्या महाघृणा ॥ ९१ ॥ महाक्षमा पुण्यपापध्वजिनी घुर्घुरारवा । डाकिनी शाकिनी रम्या शक्तिः शक्तिस्वरूपिणी ॥ ९२ ॥ तमिस्रा गन्धरा शान्ता दान्ता क्षान्ता जितेन्द्रिया । महोदया ज्ञानिनीच्छा विरागा सुखिताकृतिः ॥ ९३ ॥ वासना वासनाहीना निवृत्तिर्निर्वृतिः कृतिः । अचला हेतुरुन्मुक्ता जयिनी संस्मृतिः च्युता ॥ ९४ ॥ कपर्दिनी मुकुटिनी मत्ता प्रकृतिरूर्जिता । सदसत्साक्षिणी स्फीता मुदिता करुणामयी ॥ ९५ ॥ पूर्वोत्तरा पश्चिमा च दक्षिणाविदिगुद्गता । आत्मारामा शिवारामा रमणी शङ्करप्रिया ॥ ९६ ॥ वरेण्या वरदा वेणी स्तम्भिन्याकर्षिणी तथा । उच्चाटनी मारणी च द्वेषिणी वशिनी मही ॥ ९७ ॥ भ्रमणी भारती भामा विशोका शोकहारिणी । सिनीवाली कुहू राकानुमति पद्मिनीतिहृत् ॥ ९८ ॥ सावित्री वेदजननी गायत्र्याहुतिसाधिका । चण्डाट्‍टहासा तरुणी भूर्भुवःस्वःकलेवरा ॥ ९९ ॥ अतनुरतनुप्राणदात्री मातङ्गगामिनी । निगमाब्धिमणिः पृथ्वी जन्ममृत्युजरौषधी ॥ १०० ॥ प्रतारिणी कलालापा वेद्या छेद्या वसुन्धरा । प्रक्षुन्ना वासिता कामधेनुर्वाञ्छितदायिनी ॥ १०१ ॥ सौदामिनी मेघमाला शर्वरी सर्वगोचरा । डमरुर्डमरुका च निःस्वरा परिनादिनी ॥ १०२ ॥ आहतात्मा हता चापि नादातीता विलेशया । पराऽपारा च पश्यन्ती मध्यमा वैखरी तथा ॥ १०३ ॥ प्रथमा च जघन्या च मध्यस्थान्तविकाशिनी । पृष्ठस्था च पुरःस्था च पार्श्वस्थोर्ध्वतलस्थिता ॥ १०४ ॥ नेदिष्ठा च दविष्ठा च बर्हिष्ठा च गुहाशया । अप्राप्या बृंहिता पूर्णा पुण्यैर्वेद्या ह्यनामया ॥ १०५ ॥ सुदर्शना च त्रिशिखा बृहती सन्ततिर्विभा । फेत्कारिणी दीर्घस्रुक्का भावना भववल्लभा ॥ १०६ ॥ भागीरथी जाह्नवी च कावेरी यमुनाह्वया । सिप्रा गोदावरी वेल्ला विपाशा नर्मदा धुनी ॥ १०७ ॥ त्रेता स्वाहा सामिधेनी स्रुक्स्रुवा च ध्रुवावसुः । गर्विता मानिनी मेना नन्दिता नन्दनन्दिनी ॥ १०८ ॥ नारायणी नारकघ्नी रुचिरा रणशालिनी । आधारणाधारतमा धर्माध्वन्या धनप्रदा ॥ १०९ ॥ अभिज्ञा पण्डिता मूका बालिशा वागवादिनी । ब्रह्मवल्ली मुक्तिवल्ली सिद्धिवल्ली विपह्नवी ॥ ११० ॥ आह्लादिनी जितामित्रा साक्षिणी पुनराकृतिः । किर्मरी सर्वतोभद्रा स्वर्वेदी मुक्तिपद्धतिः ॥ १११ ॥ सुषमा चन्द्रिका वन्या कौमुदी कुमुदाकरा । त्रिसन्ध्याम्नायसेतुश्च चर्चाऽर्छापारिनैष्ठिकी ॥ ११२ ॥ कला काष्ठा तिथिस्तारा सङ्क्रातिर्विषुवत्तथा । मञ्जुनादा महावल्गु भग्नभेरीस्वनाऽरटा ॥ ११३ ॥ चिन्ता सुप्तिः सुषुप्तिश्च तुरीया तत्त्वधारणा । मृत्युञ्जया मृत्युहरी मृत्युमृत्युविधायिनी ॥ ११४ ॥ हंसी परमहंसी च बिन्दुनादान्तवासिनी । वैहायसी त्रैदशी च भैमी वासातनी तथा ॥ ११५ ॥ दीक्षा शिक्षा अनूढा च कङ्काली तैजसी तथा । सुरी दैत्या दानवी च नरी नाथा सुरीत्वरी ॥ ११६ ॥ माध्वा स्वना खरा रेखा निष्कला निर्ममा मृतिः । महती विपुला स्वल्पा क्रूरा क्रूराशयापि च ॥ ११७ ॥ उन्माथिनी धृतिमती वामनी कल्पचारिणी । वाडवी वडवाश्वोढा कोला पितृवनालया ॥ ११८ ॥ प्रसारिणी विशारा च दर्पिता दर्पणप्रिया । उत्तानाधोमुखी सुप्ता वञ्चन्याकुञ्चनी त्रुटिः ॥ ११९ ॥ क्रादिनी यातनादात्री दुर्गा दुर्गतिनाशिनी । धराधरसुता धीरा धराधरकृतालया ॥ १२० ॥ सुचरित्री तथात्री च पूतना प्रेतमालिनी । रम्भोर्वशी मेनका च कलिहृत्कालकृत्कशा ॥ १२१ ॥ हरीष्टदेवी हेरम्बमाता हर्यक्षवाहना । शिखण्डिनी कोण्डपिनी वेतुण्डी मन्त्रमय्यपि ॥ १२२ ॥ वज्रेश्वरी लोहदण्डा दुर्विज्ञेया दुरासदा । जालिनी जालपा याज्या भगिनी भगवत्यपि ॥ १२३ ॥ भौजङ्गी तुर्वरा बभ्रु महनीया च मानवी । श्रीमती श्रीकरी गार्ध्री सदानन्दा गणेश्वरी ॥ १२४ ॥ असन्दिग्धा शाश्वता च सिद्धा सिद्धेश्वरीडिता । ज्येष्ठा श्रेष्ठा वरिष्ठा च कौशाम्बी भक्तवत्सला ॥ १२५ ॥ इन्द्रनीलनिभा नेत्री नायिका च त्रिलोचना । बार्हस्पत्या भार्गवी च आत्रेयाङ्गिरसी तथा ॥ १२६ ॥ धुर्याधिहर्त्री धारित्री विकटा जन्ममोचिनी । आपदुत्तारिणी दृप्ता प्रमिता मितिवर्जिता ॥ १२७ ॥ चित्ररेखा चिदाकारा चञ्चलाक्षी चलत्पदा । वलाहकी पिङ्गसटा मूलभूता वनेचरी ॥ १२८ ॥ खगी करन्धमा ध्माक्षी संहिता केररीन्धना । अपुनर्भविनी वान्तरिणी च यमगञ्जिनी ॥ १२९ ॥ वर्णातीताश्रमातीता मृडानी मृडवल्लभा । दयाकरी दमपरा दम्भहीना दृतिप्रिया ॥ १३० ॥ निर्वाणदा च निर्बन्धा भावाभावविधायिनी । नैःश्रेयसी निर्विकल्पा निर्बीजा सर्वबीजिका ॥ १३१ ॥ अनाद्यन्ता भेदहीना बन्धोन्मूलिन्यबाधिता । निराभासा मनोगम्या सायुज्यामृतदायिनी ॥ १३२ ॥ ॥ फलश्रुति ॥ इतीदं नामसाहस्रं नामकोटिशताधिकम् । देव्याः कामकलाकाल्या मया ते प्रतिपादितम् ॥ १३३ ॥ नानेन सदृशं स्तोत्रं त्रिषु लोकेषु विद्यते । यद्यप्यमुष्य महिमा वर्णितुं नैव शक्यते ॥ १३४ ॥ प्ररोचनातया कश्चित्तथापि विनिगद्यते । प्रत्यहं य इदं देवि कीर्तयेद्वा शृणोति वा ॥ १३५ ॥ गुणाधिक्यमृते कोऽपि दोषो नैवोपजायते । अशुभानि क्षयं यान्ति जायन्ते मङ्गलान्यथा ॥ १३६ ॥ पारत्रिकामुष्मिकौ द्वौ लोकौ तेन प्रसाधितौ । ब्राह्मणो जायते वाग्मी वेदवेदाङ्गपारगः ॥ १३७ ॥ ख्यातः सर्वासु विद्यासु धनवान् कविपण्डितः । युद्धे जयी क्षत्रियः स्याद्दाता भोक्ता रिपुञ्जयः ॥ १३८ ॥ आहर्ता चाश्वमेधस्य भाजनं परमायुषाम् । समृद्धो धन धान्येन वैश्यो भवति तत्क्षणात् ॥ १३९ ॥ नानाविधपशूनां हि समृद्ध्या स समृद्धते । शूद्रः समस्तकल्याणमाप्नोति श्रुतिकीर्तनात् ॥ १४० ॥ भुङ्क्ते सुखानि सुचिरं रोगशोकौ परित्यजन् । एवं नार्यपि सौभाग्यं भर्तृहार्दं सुतानपि ॥ १४१ ॥ प्राप्नोति श्रवणादस्य कीर्तनादपि पार्वति । स्वस्वाभीष्टमथान्येऽपि लभन्तेऽस्य प्रसादतः ॥ १४२ ॥ आप्नोति धार्मिको धर्मानर्थानाप्नोति दुर्गतः । मोक्षार्थिनस्तथा मोक्षं कामुकाः कामिनीं वराम् ॥ १४३ ॥ युद्धे जयं नृपाः क्षीणाः कुमार्यः सत्पतिं तथा । आरोग्यं रोगिणश्चापि तथा वंशार्थिनः सुतान् ॥ १४४ ॥ जयं विवादे कलिकृत् सिद्धीः सिद्धीच्छुरुत्तमाः । वियुक्ता बन्धुभिः सङ्गं गतायुश्चायुषाञ्चयम् ॥ १४५ ॥ सदा य एतत्पठति निशीथे भक्तिभावितः । तस्यासाध्यमथाप्राप्यं त्रैलोक्ये नैव विद्यते ॥ १४६ ॥ कीर्तिं भोगान् स्त्रियः पुत्रान् धनं धान्यं हयान् गजान् । ज्ञातिश्रैष्ठ्यं पशून् भूमिं राजवश्यं च मान्यताम् ॥ १४७ ॥ लभते प्रेयसि क्षुद्रजातिरप्यस्य कीर्तनात् । नास्य भीतिर्न दौर्भाग्यं नाल्पायुष्यं न रोगिता ॥ १४८ ॥ न प्रेतभूताभिभवो न दोषो ग्रहजस्तथा । जायते पतितो नैव क्वचिदप्येष सङ्कटे ॥ १४९ ॥ यदीच्छसि परं श्रेयस्तर्तुं सङ्कटमेव च । पठान्वहमिदं स्तोत्रं सत्यं सत्यं सुरेश्वरि ॥ १५० ॥ सा चास्मिन् नामसाहस्रे स्तोत्रे तिष्ठति बद्धवत् । पठनीयं विदित्वैवं स्तोत्रमेतत् सुदुर्लभम् ॥ १५६ ॥ देवीं कामकलाकालीं भजन्तः सिद्धिदायिनीम् । स्तोत्रं चादः पठन्तो हि साधयन्तीप्सितान् स्वकान् ॥ १५७ ॥ ॥ इति श्रीमहाकालसंहितायां कामकलाखण्डे द्वादशपटले श्रीकामकलाकाली सहस्रनामस्तोत्रं सम्पूर्णम् ॥

सहस्रनाम परिचय

श्री कामकलाकाली सहस्रनाम स्तोत्रम् तंत्र साहित्य का अत्यंत महत्वपूर्ण और दुर्लभ स्तोत्र है। यह महाकाल संहिता के कामकलाखण्ड के द्वादश (12वें) पटल में वर्णित है। इस सहस्रनाम में माँ कामकला काली के 1000 से भी अधिक दिव्य नामों का संग्रह है।
यह स्तोत्र भगवान महाकाल और देवी पार्वती के संवाद रूप में है। देवी पार्वती ने महाकाल से सहस्रनाम सुनने की इच्छा प्रकट की और महाकाल ने कहा - "हे वरारोहे! माँ के नामों की लाखों-करोड़ों संख्या है, किन्तु मनुष्य की अल्प आयु और बुद्धि के कारण वे सब पढ़ना संभव नहीं है। इसलिए शम्भु ने समुद्र से अमृत की भाँति सार रूप में 1000 नामों का संग्रह किया।"
इस स्तोत्र की विशेषता यह है कि स्वयं त्रिपुरघ्न (भगवान शिव) भी इसका प्रतिदिन पाठ करते हैं। महाकाल कहते हैं - "त्रिपुरघ्न भी इस सहस्रनाम का पाठ करते हैं, उनकी आज्ञा से मैं भी प्रतिदिन इसका कीर्तन करता हूँ।"

विनियोग विवरण

ग्रंथश्रीमहाकाल संहिता - कामकलाखण्ड, द्वादश पटल
ऋषिश्री त्रिपुरघ्न (भगवान शिव - त्रिपुरासुर को मारने वाले)
छंदअनुष्टुप् (32 अक्षर प्रति श्लोक)
देवतात्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली
बीज मंत्रक्लीं (कामबीज - आकर्षण शक्ति)
शक्तिस्फ्रों
कीलकहूं
तत्त्वक्ष्रौं
श्लोक संख्या157 (1000+ नाम)

कामकला काली कौन हैं?

कामकला शब्द दो भागों से बना है - काम (इच्छा, कामना, सृष्टि की मूल प्रेरणा) और कला (शक्ति, अंश, कौशल)। कामकला वह परम शक्ति है जो सृष्टि की इच्छा को साकार करती है।
तंत्र शास्त्र में कामकला को श्रीयंत्र के केंद्र में स्थित माना जाता है। यह तीन बिन्दुओं (त्रिकोण) का प्रतीक है - शिव, शक्ति और उनके मिलन से उत्पन्न सृष्टि।
कामकला काली की विशेषताएं:
  • त्रिजगन्मयी: तीनों जगत (स्वर्ग, पृथ्वी, पाताल) में व्याप्त
  • त्रैलोक्यविजया: त्रिलोक को जीतने वाली मंत्र की अधिष्ठात्री
  • सृष्टि-स्थिति-संहार कर्त्री: ब्रह्मा-विष्णु-शिव के कार्यों की मूल शक्ति
  • कामबीज स्वरूपा: क्लीं मंत्र की देवी
  • परम आकर्षण शक्ति: समस्त विश्व को आकर्षित करने वाली

महाकाल संहिता क्या है?

महाकाल संहिता तंत्र साहित्य का एक प्रमुख ग्रंथ है जो काली उपासना का विस्तृत वर्णन करता है। यह ग्रंथ कई खण्डों में विभाजित है:
  • कामकला खण्ड: कामकला काली की उपासना (यह सहस्रनाम इसी से है)
  • गुह्यकाली खण्ड: गुह्य काली साधना
  • दक्षिणकाली खण्ड: दक्षिणा काली की विधियाँ
इस ग्रंथ में मंत्र, यंत्र, न्यास, ध्यान, पूजा विधि, होम और सहस्रनाम सभी का विस्तृत वर्णन है।

प्रमुख नाम श्रेणियाँ

इस सहस्रनाम में माँ के 1000+ नाम विभिन्न श्रेणियों में आते हैं:
श्रेणीउदाहरण नामअर्थ
काली स्वरूपकालरात्रि, कपालिनी, कालाकारा, करालिनीकाल की शक्ति
भयंकर रूपउग्रमूर्ति, महाभीमा, घोररावा, भयङ्कराशत्रुनाशक
देवी रूपगौरी, दुर्गा, भवानी, महामाया, जगद्धात्रीसौम्य स्वरूप
योग शक्तियोगमाता, योगगम्या, योगिनी, कुण्डलिनी, खेचरीसाधना शक्ति
सप्त/अष्ट मातृकाब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, नारसिंहीदेवताओं की शक्तियाँ
दश महाविद्यातारा, त्रिपुरसुन्दरी, भुवनेश्वरी, छिन्नमस्ता, धूमावती10 तांत्रिक देवियाँ
पवित्र नदियाँगङ्गा, यमुना, गोदावरी, नर्मदा, कावेरी, सिप्रापवित्रता स्वरूप
सहस्र शक्तिसहस्रार्कसमप्रभा, सहस्रचन्द्रप्रतिमा, सहस्रफणकुण्डलाअसीम शक्ति

चतुर्वर्ण फल (फलश्रुति)

फलश्रुति में चारों वर्णों को मिलने वाले विशेष फलों का वर्णन है:
वर्णफलमूल श्लोक
ब्राह्मणवाग्मी (वक्ता), वेद-वेदांग पारंगत, सभी विद्याओं में प्रसिद्ध, धनवान, कवि-पण्डित"ब्राह्मणो जायते वाग्मी वेदवेदाङ्गपारगः"
क्षत्रिययुद्ध में विजय, दानी, भोगी, शत्रु विजयी, अश्वमेध यज्ञ का अधिकारी, दीर्घायु"युद्धे जयी क्षत्रियः स्याद्दाता भोक्ता रिपुञ्जयः"
वैश्यतुरंत धन-धान्य से समृद्ध, अनेक प्रकार के पशुओं से सम्पन्न"समृद्धो धन धान्येन वैश्यो भवति तत्क्षणात्"
शूद्रसमस्त कल्याण प्राप्त, दीर्घकाल सुख भोग, रोग-शोक से मुक्ति"शूद्रः समस्तकल्याणमाप्नोति"
स्त्रीसौभाग्य, पति का प्रेम (भर्तृहार्द), उत्तम पुत्र प्राप्ति"एवं नार्यपि सौभाग्यं भर्तृहार्दं सुतानपि"

चतुर्वर्ग फल

इस सहस्रनाम से चतुर्वर्ग (धर्म-अर्थ-काम-मोक्ष) सभी प्राप्त होते हैं:
  • धर्म: धार्मिक व्यक्ति को उत्तम धर्म की प्राप्ति
  • अर्थ: निर्धन और दुर्गत व्यक्ति को धन-सम्पत्ति
  • काम: कामना करने वाले को उत्तम कामिनी (पत्नी)
  • मोक्ष: मोक्षार्थी को परम मुक्ति
इसके अतिरिक्त:
  • राजा को: युद्ध में विजय
  • कुमारी को: उत्तम पति
  • रोगी को: आरोग्य
  • वंश की इच्छा वाले को: पुत्र
  • विवाद में: जय
  • सिद्धि चाहने वाले को: उत्तम सिद्धियाँ
  • बंधुओं से बिछड़े को: पुनर्मिलन
  • अल्पायु को: आयु की वृद्धि

पाठ विधि

  • उत्तम समय: रात्रि (निशीथ) में पाठ करने से विशेष फल। फलश्रुति में कहा - "सदा य एतत्पठति निशीथे भक्तिभावितः"
  • भाव: भक्तिभावित होकर, मन को एकाग्र करके पाठ करें
  • नियम: प्रतिदिन पाठ या कम से कम श्रवण करें
  • विशेष तिथियाँ: अमावस्या, नवरात्रि, काली चतुर्दशी, मंगलवार, शनिवार
  • आसन: काले या लाल आसन पर बैठें
  • दीप: सरसों के तेल का दीपक जलाएं
  • पुष्प: लाल पुष्प, कनेर, जवा (हिबिस्कस) अर्पित करें

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. कामकला का क्या अर्थ है?

कामकला दो शब्दों से बना है - काम (इच्छा, कामना, सृष्टि की मूल प्रेरणा) और कला (शक्ति, अंश)। तंत्र में कामकला को श्रीयंत्र के केंद्र में स्थित तीन बिन्दुओं (शिव-शक्ति-नाद) का प्रतीक माना जाता है। यह वह परम शक्ति है जो ब्रह्माण्ड की सृष्टि की इच्छा को साकार करती है।

2. त्रिपुरघ्न ऋषि कौन हैं?

त्रिपुरघ्न भगवान शिव का एक नाम है जिसका अर्थ है "त्रिपुरासुर को मारने वाले"। त्रिपुरासुर तीन दैत्य भाइयों (तारकाक्ष, कमलाक्ष, विद्युन्माली) का सामूहिक नाम था जिन्होंने तीन पुरियाँ बनाई थीं। शिव ने एक बाण से तीनों पुरियों को नष्ट किया। यह सहस्रनाम त्रिपुरघ्न शिव द्वारा प्रकट किया गया है।

3. क्लीं बीज का क्या महत्व है?

क्लीं को कामबीज कहा जाता है। इसका विग्रह है - = कामदेव/काली, = इन्द्र/पृथ्वी तत्व, = संतोष/महामाया, ं (अनुस्वार) = नाद/ब्रह्मरंध्र। यह बीज मंत्र आकर्षण शक्ति का प्रतीक है और कामकला काली का मूल मंत्र है।

4. महाकाल संहिता कितने खण्डों में है?

महाकाल संहिता मुख्य रूप से कई खण्डों में विभाजित है जिनमें कामकला खण्ड, गुह्यकाली खण्ड और सिद्धिखण्ड प्रमुख हैं। कामकला खण्ड में कामकला काली की साधना, मंत्र, यंत्र और यह सहस्रनाम है। यह ग्रंथ काली उपासना का सबसे प्रामाणिक स्रोत माना जाता है।

5. रात्रि में पाठ क्यों करना चाहिए?

फलश्रुति में स्पष्ट कहा गया है - "निशीथे भक्तिभावितः" अर्थात् रात्रि में भक्तिपूर्वक पाठ करने से विशेष फल मिलता है। काली देवी रात्रि की अधिष्ठात्री हैं, इसलिए रात्रि उनकी उपासना के लिए सर्वोत्तम समय है। अर्धरात्रि (निशीथ) काल विशेष शक्तिशाली माना जाता है।

6. स्फ्रों शक्ति और हूं कीलक का क्या अर्थ है?

शक्ति मंत्र का वह भाग है जो उसे ऊर्जा प्रदान करता है। स्फ्रों एक तांत्रिक बीज है जो विस्तार और प्रसार का प्रतीक है। कीलक का अर्थ है "कील" या "ताला" - यह मंत्र को बांधकर रखता है और साधक की रक्षा करता है। हूं कीलक शिव का बीज है जो रक्षा और शक्ति प्रदान करता है।

7. क्या गृहस्थ इस सहस्रनाम का पाठ कर सकते हैं?

हाँ, बिल्कुल। यह सहस्रनाम सभी के लिए है। फलश्रुति में चारों वर्णों और स्त्रियों को मिलने वाले फलों का वर्णन है, जो दर्शाता है कि यह सार्वभौमिक स्तोत्र है। गृहस्थ भक्तिपूर्वक पाठ या श्रवण करके सभी लाभ प्राप्त कर सकते हैं। विशेष तांत्रिक प्रयोग के लिए गुरु मार्गदर्शन आवश्यक है।

8. "नामकोटिशताधिकम्" का क्या अर्थ है?

फलश्रुति में कहा गया है - "इतीदं नामसाहस्रं नामकोटिशताधिकम्" - यह सहस्रनाम सौ करोड़ नामों से भी अधिक फल देने वाला है। इसका तात्पर्य है कि यद्यपि इसमें 1000 नाम हैं, किन्तु इसका फल करोड़ों नामों के पाठ के समान है क्योंकि यह सार रूप में संग्रहित है।

9. इस सहस्रनाम में कितने प्रकार के नाम हैं?

महाकाल ने बताया कि इसमें तीन प्रकार के नाम हैं - रूढ़ (मूल नाम जैसे काली, दुर्गा), गौण (गुण आधारित नाम जैसे भयहन्त्री, पापघ्नी), और सांकेतिक (प्रतीकात्मक नाम)। तीनों प्रकार के नाम समान रूप से फलदायी हैं।

10. "त्रिपुरघ्नोऽप्यदो नामसहस्रं पठति" का क्या महत्व है?

यह श्लोक इस सहस्रनाम की महिमा का सर्वोच्च प्रमाण है। इसका अर्थ है - "त्रिपुरघ्न (शिव) भी इस सहस्रनाम का पाठ करते हैं।" जब स्वयं भगवान शिव इसका पाठ करते हैं, तो इसकी दिव्यता और शक्ति का अनुमान लगाया जा सकता है। यह दर्शाता है कि यह स्तोत्र देवताओं के लिए भी पूज्य है।

11. क्या केवल श्रवण से भी फल मिलता है?

हाँ, फलश्रुति में स्पष्ट कहा है - "प्रत्यहं य इदं देवि कीर्तयेद्वा शृणोति वा" - जो प्रतिदिन इसका कीर्तन करता है या सुनता है, दोनों को समान फल मिलता है। यह उन लोगों के लिए विशेष रूप से लाभकारी है जो संस्कृत पाठ में कठिनाई अनुभव करते हैं।

12. पूर्ण सहस्रनाम का पाठ कहाँ से प्राप्त करें?

पूर्ण सहस्रनाम (157 श्लोक, 1000+ नाम) महाकाल संहिता के कामकलाखण्ड के द्वादश पटल में उपलब्ध है। यह ग्रंथ संस्कृत में है और विभिन्न प्रकाशकों द्वारा प्रकाशित है। ऑनलाइन भी PDF उपलब्ध हो सकती है। गुरु परम्परा से प्राप्त पाठ सर्वोत्तम माना जाता है।