Logoपवित्र ग्रंथ

Sri Dattatreya Sahasranama Stotram 2 – श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २

Sri Dattatreya Sahasranama Stotram 2 – श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २
॥ श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ ॥ ॥ प्रस्तावना ॥ कदाचिच्छङ्कराचार्यश्चिन्तयित्वा दिवाकरम् । किं साधितं मया लोके पूजया स्तुतिवन्दनैः ॥ १ ॥ बहुकाले गते तस्य दत्तात्रेयात्मको मुनिः । स्वप्ने प्रदर्शयामास सूर्यरूपमनुत्तमम् ॥ २ ॥ उवाच शङ्करं तत्र पतद्रूपमधारयत् । प्राप्यसे त्वं सर्वसिद्धिकारणं स्तोत्रमुत्तमम् ॥ ३ ॥ उपदेक्ष्ये दत्तनामसहस्रं देवपूजितम् । दातुं वक्तुमशक्यं च रहस्यं मोक्षदायकम् ॥ ४ ॥ जपेषु पुण्यतीर्थेषु चान्द्रायणशतेषु च । यज्ञव्रतादिदानेषु सर्वपुण्यफलप्रदम् ॥ ५ ॥ शतवारं जपेन्नित्यं कर्मसिद्धिर्न संशयः । एकेनोच्चारमात्रेण तत्स्वरूपं लभेन्नरः ॥ ६ ॥ योगत्रयं च लभते सर्वयोगान्न संशयः । मातृपितृगुरूणां च हत्यादोषो विनश्यति ॥ ७ ॥ अनेन यः किमित्युक्त्वा रौरवं नरकं व्रजेत् । पठितव्यं श्रावितव्यं श्रद्धाभक्तिसमन्वितैः ॥ ८ ॥ सङ्करीकृतपापैश्च मलिनीकरणैरपि । पापकोटिसहस्रैश्च मुच्यते नात्र संशयः ॥ ९ ॥ यद्गृहे संस्थितं स्तोत्रं दत्तनामसहस्रकम् । सर्वावश्यादिकर्माणि समुच्चार्य जपेद्ध्रुवम् ॥ १० ॥ तत्तत्कार्यं च लभते मोक्षवान् योगवान् भवेत् ॥ ॥ विनियोगः ॥ ओं अस्य श्रीदत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मऋषिः । अनुष्टुप्छन्दः । श्रीदत्तपुरुषः परमात्मा देवता । ओं हंसहंसाय विद्महे इति बीजम् । सोऽहं सोऽहं च धीमहि इति शक्तिः । हंसः सोऽहं च प्रचोदयात् इति कीलकम् । श्रीपरमपुरुषपरमहंसपरमात्मप्रीत्यर्थे जपे विनियोगः ॥ ॥ न्यासः ॥ ओं हंसो गणेशाय अङ्गुष्ठाभ्यां नमः । ओं हंसी प्रजापतये तर्जनीभ्यां नमः । ओं हंसूं महाविष्णवे मध्यमाभ्यां नमः । ओं हंसैः शम्भवे अनामिकाभ्यां नमः । ओं हंसौ जीवात्मने कनिष्ठिकाभ्यां नमः । ओं हंसः परमात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिषडङ्गन्यासः । ओं हंसः सोऽहं हंसः इति दिग्बन्धः ॥ ॥ ध्यानम् ॥ बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् । ब्रह्माद्यैः सनकादिभिः परिवृतं सिद्धैर्महायोगिभिः दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिनाम् ॥ १ ॥ ॥ सहस्रनाम स्तोत्रम् ॥ ओं श्रीमान्देवो विरूपाक्षो पुराणपुरुषोत्तमः । ब्रह्मा परो यतीनाथो दीनबन्धुः कृपानिधिः ॥ १ ॥ सारस्वतो मुनिर्मुख्यस्तेजस्वी भक्तवत्सलः । धर्मो धर्ममयो धर्मी धर्मदो धर्मभावनः ॥ २ ॥ भाग्यदो भोगदो भोगी भाग्यवान् भानुरञ्जनः । भास्करो भयहा भर्ता भावभूर्भवतारणः ॥ ३ ॥ कृष्णो लक्ष्मीपतिर्देवः पारिजातापहारकः । सिंहाद्रिनिलयः शम्भुर्व्यकटाचलवासकः ॥ ४ ॥ कोल्लापुरः श्रीजपवान् माहुरार्जितभिक्षुकः । सेतुतीर्थविशुद्धात्मा रामध्यानपरायणः ॥ ५ ॥ रामार्चितो रामगुरुः रामात्मा रामदैवतः । श्रीरामशिष्यो रामज्ञो रामैकाक्षरतत्परः ॥ ६ ॥ श्रीराममन्त्रविख्यातो राममन्त्राब्धिपारगः । रामभक्तो रामसखा रामवान् रामहर्षणः ॥ ७ ॥ अनसूयात्मजो देवदत्तश्चात्रेयनामकः । सुरूपः सुमतिः प्राज्ञः श्रीदो वैकुण्ठवल्लभः ॥ ८ ॥ विरजस्थानकः श्रेष्ठः सर्वो नारायणः प्रभुः । कर्मज्ञः कर्मनिरतो नृसिंहो वामनोऽच्युतः ॥ ९ ॥ कविः काव्यो जगन्नाथो जगन्मूर्तिरनामयः । मत्स्यः कूर्मो वराहश्च हरिः कृष्णो महास्मयः ॥ १० ॥ रामो रामो रघुपतिर्बुद्धः कल्की जनार्दनः । गोविन्दो माधवो विष्णुः श्रीधरो देवनायकः ॥ ११ ॥ त्रिविक्रमः केशवश्च वासुदेवो महेश्वरः । सङ्कर्षणः पद्मनाभो दामोदरपरः शुचिः ॥ १२ ॥ श्रीशैलवनचारी च भार्गवस्थानकोविदः । अहोबलनिवासी च स्वामी पुष्करणीप्रियः ॥ १३ ॥ कुम्भकोणनिवासी च काञ्चिवासी रसेश्वरः । रसानुभोक्ता सिद्धेशः सिद्धिमान् सिद्धवत्सलः ॥ १४ ॥ सिद्धरूपः सिद्धविधिः सिद्धाचारप्रवर्तकः । रसाहारो विषाहारो गन्धकादि प्रसेवकः ॥ १५ ॥ योगी योगपरो राजा धृतिमान् मतिमान्सुखी । बुद्धिमान्नीतिमान् बालो ह्युन्मत्तो ज्ञानसागरः ॥ १६ ॥ योगिस्तुतो योगिचन्द्रो योगिवन्द्यो यतीश्वरः । योगादिमान् योगरूपो योगीशो योगिपूजितः ॥ १७ ॥ काष्ठयोगी दृढप्रज्ञो लम्बिकायोगवान् दृढः । खेचरश्च खगः पूषा रश्मिवान्भूतभावनः ॥ १८ ॥ ब्रह्मज्ञः सनकादिभ्यः श्रीपतिः कार्यसिद्धिमान् । स्पृष्टास्पृष्टविहीनात्मा योगज्ञो योगमूर्तिमान् ॥ १९ ॥ मोक्षश्रीर्मोक्षदो मोक्षी मोक्षरूपो विशेषवान् । सुखप्रदः सुखः सौख्यः सुखरूपः सुखात्मकः ॥ २० ॥ रात्रिरूपो दिवारूपः सन्ध्याऽऽत्मा कालरूपकः । कालः कालविवर्णश्च बालः प्रभुरतुल्यकः ॥ २१ ॥ सहस्रशीर्षा पुरुषो वेदात्मा वेदपारगः । सहस्रचरणोऽनन्तः सहस्राक्षो जितेन्द्रियः ॥ २२ ॥ स्थूलसूक्ष्मो निराकारो निर्मोहो भक्तमोहवान् । महीयान्परमाणुश्च जितक्रोधो भयापहः ॥ २३ ॥ योगानन्दप्रदाता च योगो योगविशारदः । नित्यो नित्यात्मवान् योगी नित्यपूर्णो निरामयः ॥ २४ ॥ दत्तात्रेयो देवदत्तयोगी परमभास्करः । अवधूतः सर्वनाथः सत्कर्ता पुरुषोत्तमः ॥ २५ ॥ ज्ञानी लोकविभुः कान्तः शीतोष्णसमबुद्धकः । विद्वेषी जनसंहर्ता धर्मबुद्धिविचक्षणः ॥ २६ ॥ नित्यतृप्तो विशोकश्च द्विभुजः कामरूपकः । कल्याणोऽभिजनो धीरो विशिष्टः सुविचक्षणः ॥ २७ ॥ श्रीमद्भागवतार्थज्ञो रामायणविशेषवान् । अष्टादशपुराणज्ञो षड्दर्शनविजृम्भकः ॥ २८ ॥ निर्विकल्पः सुरश्रेष्ठो ह्युत्तमो लोकपूजितः । गुणातीतः पूर्णगुणी ब्रह्मण्यो द्विजसंवृतः ॥ २९ ॥ दिगम्बरो महाज्ञेयो विश्वात्माऽऽत्मपरायणः । वेदान्तश्रवणो वेदी कलावान्निष्कलत्रवान् ॥ ३० ॥ मितभाष्य मिताभाषी सौम्यो रामो जयः शिवः । सर्वजित् सर्वतोभद्रो जयकाङ्क्षी सुखावहः ॥ ३१ ॥ प्रत्यर्थिकीर्तिसंहर्ता मन्दरार्चितपादुकः । वैकुण्ठवासी देवेशो विरजास्नानमानसः ॥ ३२ ॥ श्रीमेरुनिलयो योगी बालार्कसमकान्तिमान् । रक्ताङ्गः श्यामलाङ्गश्च बहुवेषो बहुप्रियः ॥ ३३ ॥ महालक्ष्म्यन्नपूर्णेशः स्वधाकारो यतीश्वरः । स्वर्णरूपः स्वर्णदायी मूलिकायन्त्रकोविदः ॥ ३४ ॥ अनीतमूलिकायन्त्रो भक्ताभीष्टप्रदो महान् । शान्ताकारो महामायो माहुरस्थो जगन्मयः ॥ ३५ ॥ बद्धासनश्च सूक्षमांशी मिताहारो निरुद्यमः । ध्यानात्मा ध्यानयोगात्मा ध्यानस्थो ध्यानसत्प्रियः ॥ ३६ ॥ सत्यध्यानः सत्यमयः सत्यरूपो निजाकृतिः । त्रिलोकगुरुरेकात्मा भस्मोद्धूलितविग्रहः ॥ ३७ ॥ प्रियाप्रियसमः पूर्णो लाभालाभसमप्रियः । सुखदुःखसमो ह्रीमान् हिताहितसमः परः ॥ ३८ ॥ गुरुर्ब्रह्मा च विष्णुश्च महाविष्णुः सनातनः । सदाशिवो महेन्द्रश्च गोविन्दो मधुसूदनः ॥ ३९ ॥ कर्ता कारयिता रुद्रः सर्वचारी तु याचकः । सम्पत्प्रदो वृष्टिरूपो मेघरूपस्तपःप्रियः ॥ ४० ॥ तपोमूर्तिस्तपोराशिस्तपस्वी च तपोधनः । तपोमयस्तपःशुद्धो जनको विश्वसृग्विधिः ॥ ४१ ॥ तपःसिद्धस्तपःसाध्यस्तपःकर्ता तपःक्रतुः । तपःशमस्तपःकीर्तिस्तपोदारस्तपोऽत्ययः ॥ ४२ ॥ तपोरेतस्तपोज्योतिस्तपात्मा चात्रिनन्दनः । निष्कल्मषो निष्कपटो निर्विघ्नो धर्मभीरुकः ॥ ४३ ॥ वैद्युतस्तारकः कर्मवैदिको ब्राह्मणो यतिः । नक्षत्रतेजो दीप्तात्मा परिशुद्धो विमत्सरः ॥ ४४ ॥ जटी कृष्णाजिनपदो व्याघ्रचर्मधरो वशी । जितेन्द्रियश्चीरवासी शुक्लवस्त्राम्बरो हरिः ॥ ४५ ॥ चन्द्रानुजश्चन्द्रमुखः शुकयोगी वरप्रदः । दिव्ययोगी पञ्चतपो मासर्तुवत्सराननः ॥ ४६ ॥ भूतज्ञो वर्तमानज्ञ ह्येयज्ञो धर्मवत्सलः । प्रजाहितः सर्वहितो ह्यनिन्द्यो लोकवन्दितः ॥ ४७ ॥ आकुञ्चयोगसम्बद्धमलमूत्ररसादिकः । कनकीभूतमलवान् राजयोगविचक्षणः ॥ ४८ ॥ शकटादिविशेषज्ञो लम्बिकानीतितत्परः । प्रपञ्चरूपी बलवान् एककौपीनवस्त्रकः ॥ ४९ ॥ दिगम्बरः सोत्तरीयः सजटः सकमण्डलुः । निर्दण्डश्चासिदण्डश्च स्त्रीवेषः पुरुषाकृतिः ॥ ५० ॥ तुलसीकाष्ठमाली च रौद्रः स्फटिकमालिकः । निर्मालिकः शुद्धतरः स्वेच्छा अमरवान् परः ॥ ५१ ॥ उर्ध्वपुण्ड्रस्त्रिपुण्ड्राङ्को द्वन्द्वहीनः सुनिर्मलः । निर्जटः सजटो हेयो भस्मशायी सुभोगवान् ॥ ५२ ॥ मूत्रस्पर्शो मलस्पर्शोजातिहीनः सुजातिकः । अभक्ष्यभक्षो निर्भक्षो जगद्वन्दितदेहवान् ॥ ५३ ॥ भूषणो दूषणसमः कालाकालो दयानिधिः । बालप्रियो बालरुचिर्बालवानतिबालकः ॥ ५४ ॥ बालक्रीडो बालरतो बालसङ्घवृतो बली । बाललीलाविनोदश्च कर्णाकर्षणकारकः ॥ ५५ ॥ क्रयानीतवणिक्पण्यो गुडसूपादिभक्षकः । बालवद्गीतसन्दृष्टो मुष्टियुद्धकरश्चलः ॥ ५६ ॥ अदृश्यो दृश्यमानश्च द्वन्द्वयुद्धप्रवर्तकः । पलायमानो बालाढ्यो बालहासः सुसङ्गतः ॥ ५७ ॥ प्रत्यागतः पुनर्गच्छच्चक्रवद्गमनाकुलः । चोरवद्धृतसर्वस्वो जनताऽऽर्तिकदेहवान् ॥ ५८ ॥ प्रहसन्प्रवदन्दत्तो दिव्यमङ्गलविग्रहः । मायाबालश्च मायावी पूर्णलीलो मुनीश्वरः ॥ ५९ ॥ माहुरेशो विशुद्धात्मा यशस्वी कीर्तिमान् युवा । सविकल्पः सच्चिदाभो गुणवान् सौम्यभावनः ॥ ६० ॥ पिनाकी शशिमौली च वासुदेवो दिवस्पतिः । सुशिराः सूर्यतेजश्च श्रीगम्भीरोष्ठ उन्नतिः ॥ ६१ ॥ दशपद्मा त्रिशीर्षश्च त्रिभिर्व्याप्तो द्विशुक्लवान् । त्रिसमश्च त्रितात्मश्च त्रिलोकश्च त्रयम्बकः ॥ ६२ ॥ चतुर्द्वन्द्वस्त्रियवनस्त्रिकामो हंसवाहनः । चतुष्कलश्चतुर्दंष्ट्रो गतिः शम्भुः प्रियाननः ॥ ६३ ॥ चतुर्मतिर्महादंष्ट्रो वेदाङ्गी चतुराननः । पञ्चशुद्धो महायोगी महाद्वादशवानकः ॥ ६४ ॥ चतुर्मुखो नरतनुरजेयश्चाष्टवंशवान् । चतुर्दशसमद्वन्द्वो मुकुराङ्को दशांशवान् ॥ ६५ ॥ वृषाङ्को वृषभारूढश्चन्द्रतेजः सुदर्शनः । सामप्रियो महेशानश्चिदाकारोः नरोत्तमः ॥ ६६ ॥ यावान् करुणापूर्णो महेन्द्रो माहुरेश्वरः । वीरासनसमासीनो रामो रामपरायणः ॥ ६७ ॥ इन्द्रो वह्निर्यमः कालो निरृतिर्वरुणो यमः । वायुश्च रुद्रश्चेशानो लोकपालो महायशः ॥ ६८ ॥ यक्षगन्धर्वनागाश्च किन्नरः शुद्धरूपकः । विद्याधरश्चाहिपतिश्चारणः पन्नगेश्वरः ॥ ६९ ॥ चण्डिकेशः प्रचण्डश्च घण्टानादरतः प्रियः । वीणाध्वनिर्वैनतेयो नारदस्तुम्बरुर्हरः ॥ ७० ॥ वीणाप्रचण्डसौन्दर्यो राजीवाक्षश्च मन्मथः । चन्द्रो दिवाकरो गोपः केसरी सोमसोदरः ॥ ७१ ॥ सनकः शुकयोगी च नन्दी षण्मुखरागकः । गणेशो विघ्नराजश्च चन्द्राभो विजयो जयः ॥ ७२ ॥ अतीतकालचक्रश्च तामसः कालदण्डवान् । विष्णुचक्रः त्रिशूलेन्द्रो ब्रह्मदण्डो विरुद्धकः ॥ ७३ ॥ ब्रह्मास्त्ररूपो सत्येन्द्रः कीर्तिमान्गोपतिर्भवः । वसिष्ठो वामदेवश्च जाबाली कण्वरूपकः ॥ ७४ ॥ संवर्तरूपो मौद्गल्यो मार्कण्डेयश्च काश्यपः । त्रिजटो गार्ग्यरूपी च विषनाथो महोदयः ॥ ७५ ॥ त्वष्टा निशाकरः कर्मकाश्यपश्च त्रिरूपवान् । जमदग्निः सर्वरूपः सर्वनादो यतीश्वरः ॥ ७६ ॥ अश्वरूपी वैद्यपतिर्गरकण्ठोऽम्बिकार्चितः । चिन्तामणिः कल्पवृक्षो रत्नाद्रिरुदधिप्रियः ॥ ७७ ॥ महामण्डूकरूपी च कालाग्निसमविग्रहः । आधारशक्तिरूपी च कूर्मः पञ्चाग्निरूपकः ॥ ७८ ॥ क्षीरार्णवो महारूपो वराहश्च धृतावनिः । ऐरावतो जनः पद्मो वामनः कुमुदात्मवान् ॥ ७९ ॥ पुण्डरीकः पुष्पदन्तो मेघच्छन्नोऽभ्रचारकः । सितोत्पलाभो द्युतिमान् दृढोरस्कः सुरार्चितः ॥ ८० ॥ पद्मनाभः सुनाभश्च दशशीर्षः शतोदरः । अवाङ्मुखो पञ्चवक्त्रो रक्षाख्यात्मा द्विरूपकः ॥ ८१ ॥ स्वर्णमण्डलसञ्चारी वेदिस्थः सर्वपूजितः । स्वप्रसन्नः प्रसन्नात्मा स्वभक्ताभिमुखो मृदुः ॥ ८२ ॥ आवाहितः सन्निहितो वरदो ज्ञानवस्थितः । शालिग्रामात्मको ध्यातो रत्नसिंहासनस्थितः ॥ ८३ ॥ अर्घ्यप्रियः पाद्यतुष्टश्चाचम्यार्चितपादुकः । पञ्चामृतः स्नानविधिः शुद्धोदकसुसञ्चितः ॥ ८४ ॥ गन्धाक्षतसुसम्प्रीतः पुष्पालङ्कारभूषणः । अङ्गपूजाप्रियः सर्वो महाकीर्तिर्महाभुजः ॥ ८५ ॥ नामपूजाविशेषज्ञः सर्वनामस्वरूपकः । धूपितो दिव्यधूपात्मा दीपितो बहुदीपवान् ॥ ८६ ॥ बहुनैवेद्यसंहृष्टो निराजनविराजितः । सर्वातिरञ्जितानन्दः सौख्यवान् धवलार्जुनः ॥ ८७ ॥ विरागो निर्विरागश्च यज्ञार्चाङ्गो विभूतिकः । उन्मत्तो भ्रान्तचित्तश्च शुभचित्तः शुभाहुतिः ॥ ८८ ॥ सुरैरिष्टो लघिष्टश्च बहिष्ठो बहुदायकः । महिष्ठः सुमहौजाश्च बलिष्ठः सुप्रतिष्ठितः ॥ ९० ॥ काशीगङ्गाम्बुमज्जश्च कुलश्रीमन्त्रजापकः । चिकुरान्वितभालश्च सर्वाङ्गलिप्तभूतिकः ॥ ९० ॥ अनादिनिधनो ज्योतिभार्गवाद्यः सनातनः । तापत्रयोपशमनो मानवासो महोदयः ॥ ९१ ॥ ज्येष्ठः श्रेष्ठो महारौद्रः कालमूर्तिः सुनिश्चयः । ऊर्ध्वः समूर्ध्वलिङ्गश्च हिरण्यो हेमलिङ्गवान् ॥ ९२ ॥ सुवर्णः स्वर्णलिङ्गश्च दिव्यमूर्तिर्दिवस्पतिः । दिव्यलिङ्गो भवो भव्यः सर्वलिङ्गस्तु सर्वकः ॥ ९३ ॥ शिवलिङ्गः शिवो मायो ज्वलस्तूज्ज्वललिङ्गवान् । आत्मा चैवात्मलिङ्गश्च परमो लिङ्गपारगः ॥ ९४ ॥ सोमः सूर्यः सर्वलिङ्गः पाणियन्त्रपवित्रवान् । सद्योजातस्तपोरूपो भवोद्भव अनीश्वरः ॥ ९५ ॥ तत्सविद्रूपसविता वरेण्यश्च प्रचोदयात् । दूरदृष्टिर्दूरगतो दूरश्रवणतर्पितः ॥ ९६ ॥ योगपीठस्थितो विद्वान् नमस्कारितरासभः । नमस्कृतशुनश्चापि वज्रकष्ट्यातिभीषणः ॥ ९७ ॥ ज्वलन्मुखः प्रतीवाणी सखड्गो द्राविडप्रजः । पशुघ्नश्च रसोन्मत्तो रसोर्ध्वमुखरञ्जितः ॥ ९८ ॥ रसप्रियो रसात्मा च रसरूपी रसेश्वरः । रसाधिदैवतो भौमो रसाङ्गो रसभावनः ॥ ९९ ॥ रसोन्मदो रसकरो रसेन्द्रो रसपूजकः । रससिद्धः सिद्धरसो रसद्रव्यो रसोन्मुखः ॥ १०० ॥ रसाङ्कितो रसापूर्णो रसदो रसिको रसी । गन्धकादस्तालकादो गौरःस्फटिकसेवनः ॥ १०१ ॥ कार्यसिद्धः कार्यरुचिर्बहुकार्यो न कार्यवान् । अभेदी जनकर्ता च शङ्खचक्रगदाधरः ॥ १०२ ॥ कृष्णाजिनकिरीटी च श्रीकृष्णाजिनकञ्चुकः । मृगयायी मृगेन्द्रश्च गजरूपी गजेश्वरः ॥ १०३ ॥ दृढव्रतः सत्यवादी कृतज्ञो बलवान्बलः । गुणवान् कार्यवान् दान्तः कृतशोभो दुरासदः ॥ १०४ ॥ सुकालो भूतनिहितः समर्थश्चाण्डनायकः । सम्पूर्णदृष्टिरक्षुब्धो जनैकप्रियदर्शनः ॥ १०५ ॥ नियतात्मा पद्मधरो ब्रह्मवांश्चानसूयकः । उञ्च्छवृत्तिरनीशश्च राजभोगी सुमालिकः ॥ १०६ ॥ सुकुमारो जराहीनो चारघ्नो मञ्जुलेक्षणः । सुपादः स्वङ्गुलीकश्च सुजङ्घः शुभजानुकः ॥ १०७ ॥ शुभोरुः शुभलिङ्गश्च सुनाभो जघनोत्तमः । सुपार्श्वः सुस्तनो नीलः सुवक्षश्च सुजत्रुकः ॥ १०८ ॥ नीलग्रीवो महास्कन्धः सुभुजो दिव्यजङ्घकः । सुहस्तरेखो लक्ष्मीवान् दीर्घपृष्ठो यतिश्चलः ॥ १०९ ॥ उन्मीलितोन्मीलितश्च विशालाक्षश्च शुभ्रकः । शुभमध्यः सुभालश्च सुशिरा नीलरोमकः ॥ ११० ॥ बिम्बोष्ठः शुभ्रदन्तश्च विद्युज्जिह्वः सुतालुकः । दीर्घनासः सुताम्राक्षः सुकपोलः सुकर्णकः ॥ १११ ॥ विशिष्टग्रामणिस्कन्धः शिखिवर्णो विभावसुः । कैलासेशो विचित्रज्ञो वैकुण्ठेन्द्रो विचित्रवान् ॥ ११२ ॥ मनसेन्द्रश्चक्रवालो महेन्द्रो मन्दारधिपः । मलयो विन्ध्यरूपश्च हिमवान् मेरुरूपकः ॥ ११३ ॥ सुवेषो नव्यरूपात्मा मैनाको गन्धमादनः । सिंहाचलश्च वेदाद्रिः श्रीशैलः क्रकचात्मकः ॥ ११४ ॥ नानाचलश्चित्रकूटो दुर्वासो पर्वतात्मजः । यमुनाकृष्णवेणीशो भद्रेशो गौतमीपतिः ॥ ११५ ॥ गोदावरीशो गङ्गात्मा शोणकः कौशिकीपतिः । नर्मदेशस्तु कावेरीताम्रपर्णीश्वरो जटी ॥ ११६ ॥ सरिद्रूपा नदात्मा च समुद्रः सरिदीश्वरः । ह्रादिनीशः पावनीशो नलिनीशः सुचक्षुमान् ॥ ११७ ॥ सीतानदीपतिः सिन्धूरेवेशी मुरलीपतिः । लवणेक्षुः क्षीरनिधिः सुराब्धिः सर्पिरम्बुधिः ॥ ११८ ॥ दयाब्धिशुद्धजलधिस्तत्वरूपी धनाधिपः । भूपालमधुरागज्ञो मालनीरागकोविदः ॥ ११९ ॥ पौण्ड्रक्रियाज्ञः श्रीरागो नानारागार्णवान्तकः । वेदादिरूपो ह्रींरूपो ह्रूंरूपः क्लींविकारकः ॥ १२० ॥ ग्लूंमयः क्लींमयः प्रख्यो हूंमयः क्रौंमयो भटः । धींमयो लुङ्मयो लाङ्गो घंमयः खंमयः खगः ॥ १२१ ॥ खंमयो ञंमयश्चाङ्गो बीजाङ्गो बीजाजंमयः । झङ्करष्टङ्करःष्टङ्गो डङ्करो ढङ्करोऽणुकः ॥ १२२ ॥ तङ्करस्थङ्करस्तुङ्गो द्रांमुद्रारूपकः सुदः । दक्षो दण्डी दानवघ्नो अप्रतिद्वन्द्ववामदः ॥ १२३ ॥ धंरूपो नंस्वरूपश्च पङ्कजाक्षश्च फंमयः । महेन्द्रो मधुभोक्ता च मन्दरेतास्तु भंमयः ॥ १२४ ॥ रंमयो रिङ्करो रङ्गो लङ्करः वंमयः शरः । शङ्करः षण्मुखो हंसः शङ्करः शङ्करोऽक्षयः ॥ १२५ ॥ ओमित्येकाक्षरात्मा च सर्वबीजस्वरूपकः । श्रीकरः श्रीपदः श्रीशः श्रीनिधिः श्रीनिकेतनः ॥ १२६ ॥ पुरुषोत्तमः सुखी योगी दत्तात्रेयो हृदिप्रियः । तत्सम्युतः सदायोगी धीरतन्त्रः सुसाधकः ॥ १२७ ॥ पुरुषोत्तमो यतिश्रेष्ठो दत्तात्रेयः सखीत्ववान् । वसिष्ठवामदेवाभ्यां दत्तः पुरुषः ईरितः ॥ १२८ ॥ ॥ फलश्रुति ॥ यावत्तिष्ठते ह्यस्मिन् तावत्तिष्ठति तत्सुखः । य इदं शृणुयान्नित्यं ब्रह्मसायुज्यतां व्रजेत् ॥ १२९ ॥ भुक्तिमुक्तिकरं तस्य नात्रकार्या विचारणा । आयुष्मत्पुत्रपौत्रांश्च दत्तात्रेयः प्रदर्शयेत् ॥ १३० ॥ धन्यं यशस्यमायुष्यं पुत्रभाग्यविवर्धनम् । करोति लेखनादेव परार्थं वा न संशयः ॥ १३१ ॥ यः करोत्युपदेशं च नामदत्तसहस्रकम् । स च याति च सायुज्यं श्रीमान् श्रीमान् न संशयः ॥ १३२ ॥ पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् । खेचरत्वं कार्यसिद्धिं योगसिद्धिमवाप्नुयात् ॥ १३३ ॥ ब्रह्मराक्षसवेतालैः पिशाचैः कामिनीमुखैः । पीडाकरैः सुखकरैर्ग्रहैर्दुष्टैर्न बाध्यते ॥ १३४ ॥ देवैः पिशाचैर्मुच्येत सकृदुच्चारणेन तु । यस्मिन् देशे स्थितं चैतत्पुस्तकं दत्तनामकम् ॥ १३५ ॥ पञ्चयोजनविस्तारं रक्षणं नात्र संशयः । सर्वबीजसमायुक्तं स्तोत्रं नामसहस्रकम् ॥ १३६ ॥ सर्वमन्त्रस्वरूपं च दत्तात्रेयस्वरूपकम् । एकवारं पठित्वा तु ताम्रपात्रे जलं स्पृशेत् ॥ १३७ ॥ पीत्वा चेत्सर्वरोगैश्च मुच्यते नात्र संशयः । स्त्रीवश्यं पुरुषवश्यं राजवश्यं जयावहम् ॥ १३८ ॥ सम्पत्प्रदं मोक्षकरं पठेन्नित्यमतन्द्रितः । लीयन्तेऽस्मिन्प्रपञ्चार्थान् वैरिशोकादिकारितः ॥ १३९ ॥ पठनात्तु प्रसन्नोऽहं शङ्कराचार्य बुद्धिमान् । भविष्यति न सन्देहः पठितः प्रातरेव माम् ॥ १४० ॥ उपदेक्ष्ये सर्वयोगान् लम्बिकादिबहून्वरान् । दत्तात्रेयस्तु चेत्युक्त्वा स्वप्ने चान्तरधीयत ॥ १४१ ॥ स्वप्नादुत्थाय चाचार्यः विस्मयं परमं गतः । स्वप्नोपदिष्टं तं स्तोत्रं दत्तात्रेयेन योगिना ॥ १४२ ॥ सहस्रनामकं दिव्यं पठित्वा योगवान्भवेत् । ज्ञानयोगयतित्वं च पराकायप्रवेशनम् ॥ १४३ ॥ बहुविद्याखेचरत्वं दीर्घायुस्तत्प्रसादतः । तदारभ्य भुवि श्रेष्ठः प्रसिद्धश्चाभवद्यती ॥ १४४ ॥ ॥ इति श्रीशङ्कराचार्यस्वप्नावस्थायां दत्तात्रेयोपदेशितं सकलपुराणवेदोक्त प्रपञ्चार्थसारवत् स्तोत्रं सम्पूर्णम् ॥

परिचय: श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ का ऐतिहासिक एवं आध्यात्मिक संदर्भ

श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ (Sri Dattatreya Sahasranama Stotram 2) हिंदू धर्मग्रंथों में एक अत्यंत विशिष्ट और गोपनीय स्थान रखता है। इस स्तोत्र की सबसे बड़ी विशेषता इसका प्राकट्य संदर्भ है। स्तोत्र की प्रस्तावना के अनुसार, जगतगुरु आदि शंकराचार्य एक बार भगवान सूर्य (दिवाकर) का ध्यान कर रहे थे और अपने जीवन की साधनाओं के फल पर विचार कर रहे थे। उस समय भगवान दत्तात्रेय ने उन्हें स्वप्न में दर्शन दिए और सूर्य के समान तेजस्वी रूप में प्रकट होकर उन्हें इस "सिद्ध सहस्रनाम" का उपदेश दिया।

भगवान दत्तात्रेय को त्रिगुणात्मक अवतार माना जाता है, जिनमें ब्रह्मा, विष्णु और महेश तीनों की शक्तियाँ समाहित हैं। इस स्तोत्र के १००० नाम केवल शब्दों का समूह नहीं, बल्कि भगवान के उन अनंत रूपों का वर्णन हैं जो उन्होंने समय-समय पर भक्तों के उद्धार के लिए धारण किए। इसमें उन्हें 'परमहंस', 'यतीश्वर', और 'अवधूत' जैसे नामों से संबोधित किया गया है, जो उनकी सर्वोच्च योगिक अवस्था को दर्शाते हैं। आदि शंकराचार्य को प्राप्त यह उपदेश इस बात का प्रमाण है कि ज्ञान मार्ग (शंकराचार्य) और भक्ति-योग मार्ग (दत्तात्रेय) एक ही सत्य के दो पहलू हैं।

दत्त संप्रदाय के भक्तों के लिए यह पाठ 'प्रपञ्चार्थसारवत्' (संसार के सार स्वरूप) माना जाता है। इसमें भगवान के पौराणिक अवतारों जैसे कार्तवीर्यार्जुन के गुरु, परशुराम के मार्गदर्शक और कलियुग के जाग्रत अवतारों की महिमा समाहित है। यह स्तोत्र साधक को मानसिक द्वंद्वों से मुक्त कर उसे 'ब्रह्म सायुज्यता' की ओर ले जाने का सामर्थ्य रखता है।

विशिष्ट दार्शनिक महत्व: योग और अद्वैत का संगम

इस सहस्रनाम का महत्व इसमें निहित 'हंस' और 'सोऽहं' बीज मंत्रों में है। विनियोग और न्यास में स्पष्ट किया गया है कि इसका मूल बीज 'हंसहंसाय विद्महे' है। तंत्र शास्त्र में 'हंस' प्राण और अपान वायु का प्रतीक है, जो साधक को यह बोध कराता है कि परमात्मा उसके भीतर ही श्वास के रूप में विद्यमान है। भगवान दत्तात्रेय स्वयं 'यतिचक्रवर्ती' हैं, और यह स्तोत्र उनके उस स्वरूप को जाग्रत करता है जो द्वैत (संसार) और अद्वैत (परमात्मा) के बीच की कड़ी है।

स्तोत्र में भगवान को 'बीजराज' और 'सर्वमन्त्रस्वरूप' कहा गया है। इसका अर्थ है कि यदि कोई व्यक्ति अन्य कठिन मंत्रों का जाप नहीं कर सकता, तो केवल इस सहस्रनाम का पाठ करने से उसे सभी मंत्रों की सिद्धि प्राप्त हो सकती है। श्लोक १२१-१२६ में जिस प्रकार 'ह्रीं', 'क्लीं', 'ह्रूं' जैसे तांत्रिक बीजाक्षरों का भगवान के नामों के साथ समन्वय किया गया है, वह इसकी तांत्रिक शक्ति को सिद्ध करता है। यह पाठ साधक के मूलाधार से लेकर सहस्रार चक्र तक की शुद्धि करता है।

फलश्रुति: १००० नामों के पाठ के अमोघ लाभ (Benefits)

इस स्तोत्र की फलश्रुति (श्लोक १२९-१४४) स्वयं भगवान दत्तात्रेय द्वारा उद्घोषित है। इसके मुख्य लाभ निम्नलिखित हैं:

  • ब्रह्म सायुज्यता: "य इदं शृणुयान्नित्यं ब्रह्मसायुज्यतां व्रजेत्" (श्लोक १२९) — नित्य सुनने या पढ़ने वाला साधक अंततः परब्रह्म में लीन हो जाता है।
  • समस्त बाधा निवारण: ब्रह्मराक्षस, वेताल, पिशाच और दुष्ट ग्रहों की पीड़ा इस स्तोत्र के प्रभाव से स्वतः ही शांत हो जाती है।
  • पाप मुक्ति: कोटि जन्मों के संचित पापों और विशेषकर गुरु-हत्या या माता-पिता के प्रति किए गए अपराधों का शमन होता है।
  • योग सिद्धि: साधक को लम्बिका योग, खेचरत्व और पर-काया प्रवेश जैसी उच्च कोटि की सिद्धियों की प्राप्ति में गुरु का मार्गदर्शन मिलता है।
  • सर्व व्याधि नाश: श्लोक १३७ के अनुसार, ताम्र पात्र में जल रखकर पाठ करने और उस अभिमंत्रित जल को पीने से सभी असाध्य रोगों से मुक्ति मिलती है।
  • सर्व वशीकरण और ऐश्वर्य: यह पाठ स्त्री, पुरुष और राज-वशीकरण में सहायक है तथा जीवन में अपार धन और यश प्रदान करता है।
  • सुरक्षा कवच: जिस स्थान पर यह पुस्तक रहती है, वहाँ ५ योजन (लगभग ६० किमी) तक भगवान दत्त का सुरक्षा चक्र निर्मित हो जाता है।

सिद्ध पाठ विधि एवं विशेष अनुष्ठान (Ritual Method)

दत्तात्रेय सहस्रनाम एक सिद्ध महामंत्र है। यद्यपि भगवान दत्त केवल शुद्ध भाव के भूखे हैं, किंतु शास्त्रीय विधि से इसका प्रभाव कई गुना बढ़ जाता है।

साधना के नियम

  • शुभ समय: गुरुवार (Thursday) गुरु का प्रिय दिन है। इसके अतिरिक्त मार्गशीर्ष पूर्णिमा (दत्त जयंती) या किसी भी पूर्णिमा पर पाठ करना अत्यंत श्रेष्ठ है।
  • ब्रह्म मुहूर्त: भगवान दत्त ने स्वयं आदि शंकराचार्य से कहा है कि जो प्रातः काल मेरा स्मरण करेगा, मैं उस पर शीघ्र प्रसन्न होऊंगा।
  • आसन और वस्त्र: पीले या श्वेत वस्त्र धारण करें। कुशा या ऊनी आसन का प्रयोग करें। मुख उत्तर या पूर्व की ओर होना चाहिए।
  • दीप और नैवेद्य: घी का दीपक जलाएं। भगवान को गुड़, चने की दाल या केसर युक्त दूध का भोग लगाएं।

विशेष जल-प्रयोग (Healing Ritual)

श्लोक १३७ के अनुसार, पाठ करते समय एक तांबे के पात्र में स्वच्छ जल भरकर सामने रखें। पाठ समाप्त होने पर उस जल को स्पर्श करें और दत्त गुरु का ध्यान करते हुए रोगी को पिलाएं या स्वयं ग्रहण करें। यह जल समस्त रोगों और मानसिक विकारों की अचूक औषधि बन जाता है।

अक्सर पूछे जाने वाले प्रश्न (10+ FAQs)

1. श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ का रचयिता कौन है?

इस स्तोत्र के आदि रचयिता स्वयं भगवान दत्तात्रेय हैं। उन्होंने इसे स्वप्न अवस्था में जगतगुरु आदि शंकराचार्य को उपदिष्ट किया था।

2. क्या इस पाठ के लिए गुरु दीक्षा अनिवार्य है?

सामान्य भक्ति के लिए दीक्षा अनिवार्य नहीं है, लेकिन यदि आप किसी सिद्धि या अनुष्ठान के लिए इसका पाठ कर रहे हैं, तो किसी दत्त सम्प्रदाय के गुरु से मार्गदर्शन लेना उचित रहता है।

3. 'हंस' बीज मंत्र का क्या अर्थ है?

'हंस' मंत्र श्वास-प्रश्वास की स्वाभाविक गति है। 'हं' श्वास के अंदर जाने और 'स' श्वास के बाहर आने की ध्वनि है। यह जीव और ब्रह्म की एकता का प्रतीक है।

4. क्या इस स्तोत्र से पितृ दोष शांत होता है?

जी हाँ। भगवान दत्तात्रेय पितरों के स्वामी माने जाते हैं। सहस्रनाम का पाठ पूर्वजों को तृप्ति प्रदान करता है और परिवार पर उनकी कृपा लाता है।

5. 'ब्रह्मराक्षस' बाधा में यह कैसे उपयोगी है?

श्लोक १३४ के अनुसार, भगवान दत्त का नामोच्चार ही इतनी प्रचंड ऊर्जा उत्पन्न करता है कि ब्रह्मराक्षस और पिशाच जैसी नकारात्मक शक्तियां उस क्षेत्र से दूर भाग जाती हैं।

6. क्या इसे मोबाइल या सीडी पर सुनकर भी लाभ मिलता है?

हाँ, फलश्रुति में 'श्रावितव्यं' (सुनने योग्य) शब्द आया है। इसे सुनने मात्र से भी पुण्य की प्राप्ति होती है, लेकिन स्वयं पाठ करना अधिक फलदायी है।

7. पाठ के लिए सबसे उत्तम माला कौन सी है?

दत्तात्रेय साधना के लिए रुद्राक्ष की माला सर्वोत्तम है। यदि मानसिक जाप करना हो, तो बिना माला के भी किया जा सकता है।

8. 'पर-काया प्रवेश' जैसी सिद्धियां क्या वास्तव में मिलती हैं?

यह स्तोत्र अत्यंत उच्च कोटि के योगियों के लिए है। नियमित और वर्षों की साधना के पश्चात गुरु कृपा से ऐसी सिद्धियों की संभावना शास्त्रों में बताई गई है।

9. क्या स्त्रियाँ इस सहस्रनाम का पाठ कर सकती हैं?

हाँ, भगवान दत्त की भक्ति में कोई भेद नहीं है। शुद्ध चित्त और श्रद्धा रखने वाली कोई भी महिला इसका पाठ कर सकती है।

10. पाठ के दौरान किस खाद्य पदार्थ का दान करना शुभ है?

पाठ के पश्चात ब्राह्मणों या ज़रूरतमंदों को पीले भोजन (जैसे कढ़ी-चावल, बेसन की मिठाई) का दान करना भगवान दत्त को अत्यंत प्रिय है।