Logoपवित्र ग्रंथ

Sri Dakshina Kali Trishati Stotram – श्री दक्षिणकालिका त्रिशती स्तोत्रम्

Sri Dakshina Kali Trishati Stotram – श्री दक्षिणकालिका त्रिशती स्तोत्रम्
॥ श्री गणेशाय नमः ॥ ॥ श्री दक्षिणकालिका त्रिशती स्तोत्रम् ॥ (श्री काली तंत्र) ॥ विनियोग ॥ अस्य श्रीसर्वमङ्गलविद्याया नाम श्रीदक्षिणकालिका त्रिशतीस्तोत्र महामन्त्रस्य श्रीकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणकालिका देवता ह्रीं बीजं हूं शक्तिः क्रीं कीलकं श्रीदक्षिणकालिका प्रसादसिद्ध्यर्थे जपे विनियोगः । ॥ ऋष्यादि न्यास ॥ श्रीकालभैरवर्षये नमः शिरसि । अनुष्टुप् छन्दसे नमो मुखे । श्रीदक्षिणकालिकायै देवतायै नमो हृदि । ह्रीं बीजाय नमो गुह्ये । हूं शक्तये नमः पादयोः । क्रीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गे । ॥ करन्यास ॥ क्रां अङ्गुष्ठाभ्यां नमः । क्रीं तर्जनीभ्यां नमः । क्रूं मध्यमाभ्यां नमः । क्रैं अनामिकाभ्यां नमः । क्रौं कनिष्ठिकाभ्यां नमः । क्रः करतल करपृष्ठाभ्यां नमः । ॥ हृदयादि न्यास ॥ क्रां हृदयाय नमः । क्रीं शिरसे स्वाहा । क्रूं शिखायै वषट् । क्रैं कवचाय हुम् । क्रौं नेत्रत्रयाय वौषट् । क्रः अस्त्राय फट् । ॥ ध्यानम् ॥ शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् । मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ १ ॥ श्यामाङ्गीं दिग्वसनां शवशिवहृदयस्थां सदा लोलजिह्वां दोर्दण्डैः क्लुप्तकाञ्चीं विकसितवदनां भीमदंष्ट्रां त्रिनेत्राम् । मुण्डस्रग्भूषणां हस्तविधृतवरदाभीतिनिस्त्रिंशमुण्डां ध्यायेत्प्रेम्णा महाकालरतिपरसुखीं दक्षिणां कालिकां ताम् ॥ २ ॥ ॥ पञ्चोपचार पूजा ॥ लं पृथिव्यात्मने गन्धं कल्पयामि नमः । हं आकाशात्मने पुष्पाणि कल्पयामि नमः । यं वाय्वात्मने धूपं कल्पयामि नमः । रं अग्न्यात्मने दीपं कल्पयामि नमः । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि नमः । सं सर्वात्मने सर्वोपचारान् कल्पयामि नमः । ॥ अथ स्तोत्रम् ॥ ॥ क्रीं बीज (1-10) ॥ क्रीङ्कारी क्रीम्पदाकारा क्रीङ्कारमन्त्रपूरणा । क्रींमती क्रीम्पदावासा क्रीम्बीजजपतोषिणी ॥ १ ॥ क्रीङ्कारसत्त्वा क्रीमात्मा क्रीम्भूषा क्रींमनुस्वराट् । क्रीङ्कारगर्भा क्रींसञ्ज्ञा क्रीङ्कारध्येयरूपिणी ॥ २ ॥ क्रीङ्कारात्तमनुप्रौढा क्रीङ्कारचक्रपूजिता । क्रीङ्कारललनानन्दा क्रीङ्कारालापतोषिणी ॥ ३ ॥ क्रीङ्कलानादबिन्दुस्था क्रीङ्कारचक्रवासिनी । क्रीङ्कारलक्ष्मीः क्रींशक्तिः क्रीङ्कारमनुमण्डिता ॥ ४ ॥ क्रीङ्कारानन्दसर्वस्वा क्रीञ्ज्ञेयलक्ष्यमात्रगा । क्रीङ्कारबिन्दुपीठस्था क्रीङ्कारनादमोदिनी ॥ ५ ॥ क्रीन्तत्त्वज्ञानविज्ञेया क्रीङ्कारयज्ञपालिनी । क्रीङ्कारलक्षणानन्दा क्रीङ्कारलयलालसा ॥ ६ ॥ क्रींमेरुमध्यगास्थाना क्रीङ्काराद्यवरार्णभूः । क्रीङ्कारवरिवस्याढ्या क्रीङ्कारगानलोलुपा ॥ ७ ॥ क्रीङ्कारनादसम्पन्ना क्रीङ्कारैकाक्षरात्मिका । क्रीमादिगुणवर्गात्तत्रितयाद्याहुतिप्रिया ॥ ८ ॥ क्रीङ्क्लिन्नरमणानन्दमहाकालवराङ्गना । क्रींलास्यताण्डवानन्दा क्रीङ्कारभोगमोक्षदा ॥ ९ ॥ क्रीङ्कारयोगिनीसाध्योपास्तिसर्वस्वगोचरा । क्रीङ्कारमातृकासिद्धविद्याराज्ञीकलेवरा ॥ १० ॥ ॥ हूं बीज (11-17) ॥ हूङ्कारमन्त्रा हूङ्गर्भा हूङ्कारनादगोचरा । हूङ्काररूपा हूङ्कारज्ञेया हूङ्कारमातृका ॥ ११ ॥ हूम्फट्कारमहानादमयी हूङ्कारशालिनी । हूङ्कारजपसम्मोदा हूङ्कारजापवाक्प्रदा ॥ १२ ॥ हूङ्कारहोमसम्प्रीता हूङ्कारतन्त्रवाहिनी । हूङ्कारतत्त्वविज्ञानज्ञातृज्ञेयस्वरूपिणी ॥ १३ ॥ हूङ्कारजापजाड्यघ्नी हूङ्कारजीवनाडिका । हूङ्कारमूलमन्त्रात्मा हूङ्कारपारमार्थिका ॥ १४ ॥ हूङ्कारघोषणाह्लादा हूङ्कारैकपरायणा । हूङ्कारबीजसङ्क्लुप्ता हूङ्कारवरदायिनी ॥ १५ ॥ हूङ्कारद्योतनज्योतिर्हूङ्कारनीलभारती । हूङ्कारालम्बनाधारा हूङ्कारयोगसौख्यदा ॥ १६ ॥ हूङ्कारझङ्कृताकारा हूङ्काराञ्चितवाग्झरी । हूङ्कारचण्डीपारीणानन्दझिल्लीस्वरूपिणी ॥ १७ ॥ ॥ ह्रीं बीज (18-24) ॥ ह्रीङ्कारमन्त्रगायत्री ह्रीङ्कारसार्वकामिकी । ह्रीङ्कारसामसर्वस्वा ह्रीङ्कारराजयोगिनी ॥ १८ ॥ ह्रीङ्कारज्योतिरुद्दामा ह्रीङ्कारमूलकारणा । ह्रीङ्कारोत्तसपर्याढ्या ह्रीङ्कारतन्त्रमातृका ॥ १९ ॥ ह्रीञ्जहल्लक्षणाभृङ्गी ह्रीङ्कारहंसनादिनी । ह्रीङ्कारतारिणीविद्या ह्रीङ्कारभुवनेश्वरी ॥ २० ॥ ह्रीङ्कारकालिकामूर्तिर्ह्रीङ्कारनादसुन्दरी । ह्रीङ्कारज्ञानविज्ञाना ह्रीङ्कारकालमोहिनी ॥ २१ ॥ ह्रीङ्कारकामपीठस्था ह्रीङ्कारसंस्कृताखिला । ह्रीङ्कारविश्वसम्भारा ह्रीङ्कारामृतसागरा ॥ २२ ॥ ह्रीङ्कारमन्त्रसन्नद्धा ह्रीङ्काररसपूर्णगा । ह्रीङ्कारमायाविर्भावा ह्रीङ्कारसरसीरुहा ॥ २३ ॥ ह्रीङ्कारकलनाधारा ह्रीङ्कारवेदमातृका । ह्रीङ्कारज्ञानमन्दारा ह्रीङ्कारराजहंसिनी ॥ २४ ॥ ॥ दक्षिण-क्षिति (25-35) ॥ दन्तुरा दक्षयज्ञघ्नी दया दक्षिणकालिका । दक्षिणाचारसुप्रीता दंशभीरुबलिप्रिया ॥ २५ ॥ दक्षिणाभिमुखी दक्षा दत्रोत्सेकप्रदायिका । दर्पघ्नी दर्शकुह्वष्टमीयाम्याराधनप्रिया ॥ २६ ॥ दर्शनप्रतिभूर्दम्भहन्त्री दक्षिणतल्लजा । क्षित्यादितत्त्वसम्भाव्या क्षित्युत्तमगतिप्रदा ॥ २७ ॥ क्षिप्रप्रसादिता क्षिप्रा क्षितिवर्धनसंस्थिता । क्षिप्रागङ्गादिनद्यम्भःप्रवाहवासतोषिणी ॥ २८ ॥ क्षितिजाहर्निशोपासाजपपारायणप्रिया । क्षिद्रादिग्रहनक्षत्रज्योतीरूपप्रकाशिका ॥ २९ ॥ क्षितीशादिजनाराध्या क्षिप्रताण्डवकारिणी । क्षिपाप्रणयनुन्नात्मप्रेरिताखिलयोगिनी ॥ ३० ॥ क्षितिप्रतिष्ठिताराध्या क्षितिदेवादिपूजिता । क्षितिवृत्तिसुसम्पन्नोपासकप्रियदेवता ॥ ३१ ॥ णेकाररूपिणी नेत्री नेत्रान्तानुग्रहप्रदा । नेत्रसारस्वतोन्मेषा नेजिताखिलसेवका ॥ ३२ ॥ णेकारज्योतिराभासा नेत्रत्रयविराजिता । नेत्राञ्जनसवर्णाङ्गी नेत्रबिन्दूज्ज्वलत्प्रभा ॥ ३३ ॥ णेकारपर्वतेन्द्राग्रसमुद्यदमृतद्युतिः । नेत्रातीतप्रकाशार्चिरशेषजनमोहिनी ॥ ३४ ॥ णेकारमूलमन्त्रार्थरहस्यज्ञानदायिनी । णेकारजपसुप्रीता नेत्रानन्दस्वरूपिणी ॥ ३५ ॥ ॥ काली-लिङ्ग-केलि (36-46) ॥ काली कालशवारूढा कारुण्यामृतसागरा । कान्तारपीठसंस्थाना कालभैरवपूजिता ॥ ३६ ॥ काशीकाश्मीरकाम्पिल्यकाञ्चीकैलासवासिनी । कामाक्षी कालिका कान्ता काष्ठाम्बरसुशोभना ॥ ३७ ॥ कालहृन्नटनानन्दा कामाख्यादिस्वरूपिणी । काव्यामृतरसानन्दा कामकोटिविलासिनी ॥ ३८ ॥ लिङ्गमूर्तिसुसम्पृक्ता लिष्टाङ्गचन्द्रशेखरा । लिम्पाकनादसन्तुष्टा लिङ्गिताष्टकलेवरा ॥ ३९ ॥ लिकारमन्त्रसंसिद्धा लिगुलालनशालिनी । लिक्षामात्राणुसूक्ष्माभा लिङ्गिलिङ्गप्रदीपिनी ॥ ४० ॥ लिखिताक्षरविन्यासा लिप्तकालाङ्गशोभना । लिङ्गोपहितसूक्ष्मार्थद्योतनज्ञानदायिनी ॥ ४१ ॥ लिपिलेख्यप्रमाणादिलक्षितात्मस्वरूपिणी । लिकाराञ्चितमन्त्रप्रजापजीवनवर्धनी ॥ ४२ ॥ लिङ्गकेष्टाशषड्वक्त्रप्रियसूनुमतल्लिका । केलिहासप्रियस्वान्ता केवलानन्दरूपिणी ॥ ४३ ॥ केदारादिस्थलावासा केकिनर्तनलोलुपा । केनाद्युपनिषत्सारा केतुमालादिवर्षपा ॥ ४४ ॥ केरलीयमतान्तस्था केन्द्रबिन्दुत्वगोचरा । केनात्याद्युज्ज्वलक्रीडारसभावज्ञलालसा ॥ ४५ ॥ केयूरनूपुरस्थानमणिबन्धाहिभूषिता । केनारमालिकाभूषा केशवादिसमर्चिता ॥ ४६ ॥ ॥ क्रीं विस्तार (47-64) ॥ केशकालाभ्रसौन्दर्या केवलात्मविलासिनी । क्रीङ्कारभवनोद्युक्ता क्रीङ्कारैकपरायणा ॥ ४७ ॥ क्रींमुक्तिदानमन्दारा क्रीम्योगिनीविलासिनी । क्रीङ्कारसमयाचारतत्परप्राणधारिणी ॥ ४८ ॥ क्रीञ्जपासक्तहृद्देशवासिनी क्रींमनोहरा । क्रीङ्कारमन्त्रालङ्कारा क्रीञ्चतुर्वर्गदायिका ॥ ४९ ॥ क्रीङ्कौलमार्गसम्पन्नपुरश्चरणदोहदा । क्रीङ्कारमन्त्रकूपारोत्पन्नपीयूषशेवधिः ॥ ५० ॥ क्रीङ्काराद्यन्तहूंह्रीम्फट्स्वाहादिपरिवर्तनी । क्रीङ्कारामृतमाधुर्यरसज्ञारसनाग्रगा ॥ ५१ ॥ क्रीञ्जापदिव्यराजीवभ्रमरी क्रींहुताशनी । क्रीङ्कारहोमकुण्डाग्निजिह्वाप्रत्यक्षरूपिणी ॥ ५२ ॥ क्रींसम्पुटार्चनाधारणानन्दस्वान्तलासिनी । क्रीङ्कारसुमनोग्रन्थमालिकाप्रियधारिणी ॥ ५३ ॥ क्रीङ्कारैकाक्षरीमन्त्रस्वाधीनप्राणवल्लभा । क्रीङ्कारबीजसन्धानजपध्यानवशंवदा ॥ ५४ ॥ क्रीङ्कारोज्जृम्भनादान्तमन्त्रमात्रस्वतन्त्रगा । क्रीङ्कारोन्नतविद्याङ्गशाक्ताचाराभिनन्दिनी ॥ ५५ ॥ क्रींरन्ध्रगुह्यभावज्ञयोगिनीपरतन्त्रगा । क्रीङ्कालीतारिणीसुन्दर्यादिविद्यास्वरूपिणी ॥ ५६ ॥ क्रीङ्कारपञ्चभूतात्मप्रापञ्चिककुटुम्बिनी । क्रीङ्कारोर्व्यादिनिश्शेषतत्त्वकूटविजृम्भिणी ॥ ५७ ॥ क्रीङ्कारमन्त्रशक्तिप्रविन्यस्तकृत्यपञ्चका । क्रींनिर्वर्तितविश्वाण्डकल्पप्रलयसाक्षिणी ॥ ५८ ॥ क्रीङ्कारविद्युच्छक्तिप्रणुन्नसर्वजगत्क्रिया । क्रीङ्कारमात्रसत्यादिसर्वलोकप्रचालिनी ॥ ५९ ॥ क्रीङ्कारयोगसंलीनदहराकाशभासिनी । क्रींसंलग्नपरःकोटिसङ्ख्यामन्त्रजपप्रिया ॥ ६० ॥ क्रीङ्कारबिन्दुषट्कोणनवकोणप्रतिष्ठिता । क्रीङ्कारवृत्तपद्माष्टदलभूपुरनिष्ठिता ॥ ६१ ॥ क्रीङ्कारजापभक्तौघनित्यनिस्सीमहर्षदा । क्रीन्त्रिपञ्चारचक्रस्था क्रीङ्काल्युग्रादिसेविता ॥ ६२ ॥ क्रीङ्कारजापहृद्व्योमचन्द्रिका क्रीङ्करालिका । क्रीङ्कारब्रह्मरन्ध्रस्थब्रह्मज्ञेयस्वरूपिणी ॥ ६३ ॥ क्रीम्ब्राह्मीनारसिंह्यादियोगिन्यावृतसुन्दरी । क्रीङ्कारसाधकौन्नत्यसामोदसिद्धिदायिनी ॥ ६४ ॥ ॥ हूं-ह्रीं विस्तार (65-84) ॥ हूङ्कारतारा हूम्बीजजपतत्परमोक्षदा । हून्त्रैविद्यधराम्नायान्वीक्षिक्यादिप्रदायिका ॥ ६५ ॥ हूंविद्यासाधनामात्रचतुर्वर्गफलप्रदा । हूञ्जापकत्रयस्त्रिंशत्कोटिदेवप्रपूजिता ॥ ६६ ॥ हूङ्कारबीजसम्पन्ना हूङ्कारोत्तारणाम्बिका । हूम्फट्कारसुधामूर्तिर्हूम्फट्स्वाहास्वरूपिणी ॥ ६७ ॥ हूङ्कारबीजगूढात्मविज्ञानवैभवाम्बिका । हूङ्कारश्रुतिशीर्षोक्तवेदान्ततत्त्वरूपिणी ॥ ६८ ॥ हूङ्कारबिन्दुनादान्तचन्द्रार्धव्यापिकोन्मनी । हूङ्काराज्ञासहस्रारजाग्रत्स्वप्नसुषुप्तिगा ॥ ६९ ॥ हूम्प्राग्दक्षिणपाश्चात्योत्तरान्वयचतुष्कगा । हूंवह्निसूर्यसोमाख्यकुण्डलिन्यात्तशक्तिका ॥ ७० ॥ हूङ्कारेच्छाक्रियाज्ञानशक्तित्रितयरूपिणी । हूंरसास्थिवसामांसासृङ्मज्जाशुक्रनिष्ठिता ॥ ७१ ॥ हूङ्कारवननीलांशुमेघनादानुलासिनी । हूङ्कारजपसानन्दपुरश्चरणकामदा ॥ ७२ ॥ हूङ्कारकलनाकालनैर्गुण्यनिष्क्रियात्मिका । हूङ्कारब्रह्मविद्यादिगुरूत्तमस्वरूपिणी ॥ ७३ ॥ हूङ्कारस्फोटनानन्दशब्दब्रह्मस्वरूपिणी । हूङ्कारशाक्ततन्त्रादिपरमेष्ठिगुरूत्तमा ॥ ७४ ॥ हूङ्कारवेदमन्त्रोक्तमहाविद्याप्रबोधिनी । हूङ्कारस्थूलसूक्ष्मात्परब्रह्मस्वरूपिणी ॥ ७५ ॥ हूङ्कारनिर्गुणब्रह्मचित्स्वरूपप्रकाशिका । हूंनिर्विकारकालात्मा हूंशुद्धसत्त्वभूमिका ॥ ७६ ॥ ह्रीमष्टभैरवाराध्या ह्रीम्बीजादिमनुप्रिया । ह्रीञ्जयाद्यङ्कपीठाख्यशक्त्याराध्यपदाम्बुजा ॥ ७७ ॥ ह्रींमहत्सिंहधूम्रादिभैरव्यर्चितपादुका । ह्रीञ्जपाकरवीरार्कपुष्पहोमार्चनप्रिया ॥ ७८ ॥ ह्रीङ्कारनैगमाकारा ह्रींसर्वदेवरूपिणी । ह्रीङ्कूर्चकालिकाकूटवाक्प्रसिद्धिप्रदायिका ॥ ७९ ॥ ह्रीङ्कारबीजसम्पन्नविद्याराज्ञीसमाधिगा । ह्रीङ्कारसच्चिदानन्दपरब्रह्मस्वरूपिणी ॥ ८० ॥ ह्रींहृल्लेखाख्यमन्त्रात्मा ह्रीङ्कृष्णरक्तमानिनी । ह्रीम्पिण्डकर्तरीबीजमालादिमन्त्ररूपिणी ॥ ८१ ॥ ह्रींनिर्वाणमयी ह्रीङ्कारमहाकालमोहिनी । ह्रींमती ह्रीम्पराह्लादा ह्रीं ह्रीङ्कारगुणावृता ॥ ८२ ॥ ह्रीमादिसर्वमन्त्रस्था ह्रीङ्कारज्वलितप्रभा । ह्रीङ्कारोर्जितपूजेष्टा ह्रीङ्कारमातृकाम्बिका ॥ ८३ ॥ ह्रीङ्कारध्यानयोगेष्टा ह्रीङ्कारमन्त्रवेगिनी । ह्रीमाद्यन्तविहीनस्वरूपिणी ह्रीम्परात्परा ॥ ८४ ॥ ॥ स्वाहा-हा (85-93) ॥ ह्रीम्भद्रात्मजरोचिष्णुहस्ताब्जवरवर्णिनी । स्वाहाकारात्तहोमेष्टा स्वाहा स्वाधीनवल्लभा ॥ ८५ ॥ स्वान्तप्रसादनैर्मल्यवरदानाभिवर्षिणी । स्वाधिष्ठानादिपद्मस्था स्वाराज्यसिद्धिदायिका ॥ ८६ ॥ स्वाध्यायतत्परप्रीता स्वामिनी स्वादलोलुपा । स्वाच्छन्द्यरमणक्लिन्ना स्वाद्वीफलरसप्रिया ॥ ८७ ॥ स्वास्थ्यलीनजपप्रीता स्वातन्त्र्यचरितार्थका । स्वादिष्ठचषकास्वादप्रेमोल्लासितमानसा ॥ ८८ ॥ हायनाद्यनिबद्धात्मा हाटकाद्रिप्रदायिनी । हारीकृतनृमुण्डालिर्हानिवृद्ध्यादिकारणा ॥ ८९ ॥ हानदानादिगाम्भीर्यदायिनी हारिरूपिणी । हारहारादिमाधुर्यमदिरापानलोलुपा ॥ ९० ॥ हाटकेशादितीर्थस्थकालकालप्रियङ्करी । हाहाहूह्वादिगन्धर्वगानश्रवणलालसा ॥ ९१ ॥ हारिकण्ठस्वरस्थाय्यालापनादिरसात्मिका । हार्दस्यन्दिकटाक्षप्रपालितोपासकावली ॥ ९२ ॥ हालाहलाशनप्रेमफलिनी हावशालिनी । हासप्रकाशवदनाम्भोरुहानन्दिताखिला ॥ ९३ ॥ ॥ फलश्रुति ॥ विद्याराज्ञीवर्णमालाक्रमकल्पितनामकम् । कालीसान्निद्ध्यसम्पन्नं विद्यागूढार्थसम्पुटम् ॥ १ ॥ एतद्यः परया भक्त्या त्रिशतीस्तोत्रमुत्तमम् । सर्वमङ्गलविद्याख्यं त्रिशतीसङ्ख्यया जपेत् ॥ २ ॥ विश्वं कालीमयं पश्यन् कालोभावसमाहितः । पूजाहोमजपध्यानक्रमसम्भृतसाधनः ॥ ३ ॥ गुरुविद्याकालिकात्मतन्मयत्वपरिष्कृतः । शुचिस्सौशील्यवान् योगी समाध्यानन्दतत्परः ॥ ४ ॥ विद्यातादात्म्यसंसिद्धगुप्ततत्त्वज्ञमन्त्रिणः । तस्याऽसाध्यं क्वचिन्नास्ति सर्वमङ्गलमाप्नुयात् ॥ ५ ॥ वर्णगूढार्थभावं यो ध्यायन् मन्त्रं जपेत् सदा । क्रीं स्वाहा दक्षिणे चैव कालिके कालिकादलम् ॥ ६ ॥ कालभागस्तु हूङ्कारो ह्रीङ्कालकालिकांशकः । षट्कोणं नवकोणं च कालिकाचक्रमीरितम् ॥ ७ ॥ शेषं तु कालचक्रं हि कालीकालमयं समम् । गूढं विजानतः काली विहरेद्धृदि सर्वदा ॥ ८ ॥ सौभाग्यदायिनी माता प्रेमभक्तिवशंवदा । योगिनीमानसोल्लासा श्रीमहाकालरञ्जनी ॥ ९ ॥ शृङ्गारलोलासम्मुग्धा लालित्यमत्तकाशिनी । असमानदयाशीला भक्तलालनलोलुपा ॥ १० ॥ नैव यच्छेदभक्ताय गोपनीयमिमं स्तवम् । यस्तु मोहवशाद्यच्छेत् पापिष्ठस्स भवेद्धृवम् ॥ ११ ॥ पारायणात् प्रेमभक्त्या लभते क्षेममुत्तमम् । कालीमयः पुण्यमूर्तिश्चिरञ्जीवी च मोक्षभाक् ॥ १२ ॥ ॥ इति श्रीकालीतन्त्रे श्रीसर्वमङ्गलविद्या नाम श्री दक्षिणकालिका त्रिशती स्तोत्रम् सम्पूर्णम् ॥

परिचय

श्री दक्षिणकालिका त्रिशती स्तोत्रम् काली तंत्र से उद्धृत एक अति गोपनीय एवं शक्तिशाली स्तोत्र है। इसे "सर्वमंगल विद्या" भी कहा जाता है क्योंकि इसके पाठ से सर्व प्रकार का मंगल प्राप्त होता है।
यह स्तोत्र 93 श्लोकों में विभाजित है जिसमें देवी के नाम छन्दोबद्ध रूप में प्रस्तुत हैं। त्रिशती नामावली में जहाँ प्रत्येक नाम अलग-अलग है, वहीं इस स्तोत्र में नाम श्लोक रूप में संयोजित हैं।
विशेष तत्त्व:
  • ऋषि: श्री कालभैरव - साक्षात् शिव जी ने इस स्तोत्र का प्रकाश किया
  • छन्द: अनुष्टुप् - चार पंक्तियों में 32 अक्षर
  • देवता: श्री दक्षिणकालिका - सौम्य काली
  • बीज: ह्रीं - माया बीज
  • शक्ति: हूं - वज्र बीज
  • कीलक: क्रीं - काली बीज

स्तोत्र और नामावली में अंतर

विषयत्रिशती स्तोत्रम्त्रिशती नामावली
स्वरूपछन्दोबद्ध श्लोकनाम सूची
श्लोक/नाम93 श्लोक308 नाम
न्याससम्पूर्ण न्यास विधिसरल विधि
पाठ समय25-30 मिनट15-20 मिनट
उपयुक्तसाधकों हेतुसभी भक्तों हेतु

पाठ फल

फलश्रुति के अनुसार इस स्तोत्र के पाठ से:
  • सर्वमंगल प्राप्ति: जीवन में सभी प्रकार का शुभ
  • असाध्य कार्य सिद्धि: कोई भी कार्य असंभव नहीं रहता
  • काली सान्निध्य: माँ काली सदा हृदय में विराजमान
  • चिरञ्जीवी: दीर्घायु प्राप्ति
  • मोक्ष प्राप्ति: अंत में परम मुक्ति

गोपनीयता: फलश्रुति में स्पष्ट कहा गया है कि यह स्तोत्र अभक्त को नहीं देना चाहिए। जो मोहवश ऐसा करता है वह पापी होता है।

FAQ

1. स्तोत्रम् और नामावली में कौन पढ़ें?

यदि आप न्यास विधि जानते हैं तो स्तोत्रम् पढ़ें। सरल पाठ के लिए नामावली उचित है।

2. क्या दोनों एक साथ पढ़ सकते हैं?

हाँ, पहले स्तोत्रम् फिर नामावली पढ़ सकते हैं। यह अधिक फलदायी है।

3. सर्वमंगल विद्या का क्या अर्थ है?

इस स्तोत्र का दूसरा नाम "सर्वमंगल विद्या" है क्योंकि इससे सर्व प्रकार का मंगल प्राप्त होता है।

4. त्रिशती संख्या से जप का क्या अर्थ है?

फलश्रुति में कहा है "त्रिशतीसङ्ख्यया जपेत्" - अर्थात् 300 बार या 3 बार पूर्ण पाठ करें।

5. ध्यान श्लोक का क्या महत्व है?

ध्यान श्लोक में देवी का स्वरूप वर्णित है - शव पर विराजमान, चार भुजा, खड्ग-मुण्ड धारिणी। पाठ से पूर्व इसका ध्यान आवश्यक है।