Logoपवित्र ग्रंथ

Ishana Stuti – ईशान स्तुतिः

Ishana Stuti – ईशान स्तुतिः
_**( )**_ व्यास उवाच । प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १ ॥ ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् । तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ २ ॥ महादेवं महात्मानमीशानं जटिलं शिवम् । त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ ३ ॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् । जगत्प्रधानमधिकं जगत्प्रीतमधीश्वरम् ॥ ४ ॥ जगद्योनिं जगद्द्वीपं जयिनं जगतो गतिम् । विश्वात्मानां विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ ५ ॥ विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् । शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ ६ ॥ योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् । सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ ७ ॥ लोकत्रयविधातारमेकं लोकत्रयाश्रयम् । सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ८ ॥ ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् । दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ ९ ॥ तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः । वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥ १० ॥ महाकाया महोत्साहा महाकर्णास्तथापरे । अननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ ११ ॥ ईदृशैः स महादेवः पूज्यमानो महेश्वरः । स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ १२ ॥ तस्मिन् घोरे सदा पार्थ सङ्ग्रामे लोमहर्षणे । द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ १३ ॥ कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् । ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ १४ ॥ स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ १५ ॥ गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः । विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ १६ ॥ तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि । ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ १७ ॥ ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ १८ ॥ नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा । रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ १९ ॥ कपर्दिने करालाय हर्यक्ष वरदाय च । याम्यायारक्तकेशाय सद्वृत्ते शङ्कराय च ॥ २० ॥ काम्याय हरिनेत्राय स्थाणवे पुरुषाय च । हरिकेशाय मुण्डाय कनिष्ठाय सुवर्चसे ॥ २१ ॥ भास्कराय सुतीर्थाय देवदेवाय रंहसे । बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥ २२ ॥ उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । गिरिशाय सुशान्ताय पतये चीरवाससे ॥ २३ ॥ हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् । पर्जन्यपतये चैव भूतानां पतये नमः ॥ २४ ॥ वृक्षाणां पतये चैव गवां च पतये तथा । वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥ २५ ॥ श्रुवहस्ताय देवाय धन्विने भार्गवाय च । बहुरूपाय विश्वस्य पतये मुञ्जवाससे ॥ २६ ॥ सहस्रशिरसे चैव सहस्रनयनाय च । सहस्रबाहवे चैव सहस्रचरणाय च ॥ २७ ॥ शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् । उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ २८ ॥ प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् । कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ २९ ॥ वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् । वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ॥ ३० ॥ वृषायुधं वृषशरं वृषभूतं महेश्वरम् । महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥ ३१ ॥ लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् । त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ ३२ ॥ पिनाकिनं खण्डपर्शुं लोकानां पतिमीश्वरम् । [खड्गधरं] प्रपद्ये देवमीशानं शरण्यं चीरवाससम् ॥ ३३ ॥ नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा । सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ ३४ ॥ धनुर्धराय देवय प्रियधन्वाय धन्विने । धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ ३५ ॥ उग्रायुधाय देवय नमः सुरवराय च । नमोऽस्तु बहुरूपाय नमस्ते बहुधन्विने ॥ ३६ ॥ नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै सुधन्विने । नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥ ३७ ॥ वनस्पतीनां पतये नराणां पतये नमः । मातॄणां पतये चैव गणानां पतये नमः ॥ ३८ ॥ गवां च पतये नित्यं यज्ञानां पतये नमः । अपां च पतये नित्यं देवानां पतये नमः ॥ ३९ ॥ पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च । हराय नीलकण्ठाय स्वर्णकेशाय वै नमः ॥ ४० ॥ इति श्रीमहाभारते द्रोणपर्वणि त्र्यधिकद्विशतोऽध्याये ईशान स्तुतिः ॥ इतर पश्यतु ।

ईशान स्तुतिः - परिचय

ईशान स्तुतिः भगवान शिव की स्तुति में गाया जाने वाला एक अद्भुत स्तोत्र है। भक्तजन अपनी मनोकामनाओं की पूर्ति के लिए श्रद्धापूर्वक इसका पाठ करते हैं।

पाठ के लाभ (Benefits)

  • मानसिक शांति: तनाव और चिंता से मुक्ति मिलती है और मन स्थिर होता है।
  • विघ्न नाश: जीवन आने वाली बाधाएं भगवान शिव की कृपा से दूर होती हैं।
  • समृद्धि: घर में सुख-समृद्धि और सकारात्मक ऊर्जा का वास होता है।
  • भक्ति: भगवान शिव के प्रति भक्ति और श्रद्धा दृढ़ होती है।

पाठ विधि (Recitation Method)

  • समय: ब्रह्म मुहूर्त (प्रातःकाल) या संध्या समय (प्रदोष काल) सर्वोत्तम है।
  • शुद्धि: स्नान करके स्वच्छ वस्त्र धारण करें।
  • आसन: पूजा कक्ष में पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  • ध्यान: भगवान शिव के स्वरूप का ध्यान करते हुए पाठ करें।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. ईशान स्तुतिः का पाठ कब करना चाहिए?

इसका पाठ प्रतिदिन किया जा सकता है, विशेषकर सोमवार और मासिक शिवरात्रि के दिन इसका महत्व अधिक है।

2. क्या संस्कृत न जानने वाले भी पाठ कर सकते हैं?

हाँ, आप हिंदी अर्थ समझकर या श्रवण (सुनकर) भी लाभ प्राप्त कर सकते हैं। भाव मुख्य है।

3. ईशान स्तुतिः के पाठ से क्या फल मिलता है?

इसके नियमित पाठ से भगवान शिव की कृपा प्राप्त होती है, भय का नाश होता है और जीवन में शांति आती है।