Logoपवित्र ग्रंथ

Devi Bhagavatam Skanda 12 Chapter 8 | Manifestation of Para Shakti

Devi Bhagavatam Skanda 12 Chapter 8 | Manifestation of Para Shakti
॥ श्रीमद्देवीभागवते द्वादशस्कन्धे अष्टमोऽध्यायः (पराशक्तेराविर्भाववर्णनम्) ॥ जनमेजय उवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रवतां वर । द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता ॥ १ ॥ सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो । तां विहाय द्विजाः कस्माद्गृह्णीयुश्चान्यदेवताः ॥ २ ॥ दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे । कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥ ३ ॥ दिगम्बरास्तथा बौद्धाश्चार्वाका एवमादयः । दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः ॥ ४ ॥ किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति । बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः ॥ ५ ॥ अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः । न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति ॥ ६ ॥ किमत्र कारणं तस्माद्वद वेदविदां वर । मणिद्वीपस्य महिमा वर्णितो भवता पुरा ॥ ७ ॥ कीदृक्तदस्ति यद्देव्याः परं स्थानं महत्तरम् । तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ ॥ ८ ॥ प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत । सूत उवाच । इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः ॥ ९ ॥ निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः । यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते ॥ १० ॥ व्यास उवाच । सम्यक्पृष्टं त्वया राजन् समये समयोचितम् । बुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे ॥ ११ ॥ पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे । शतवर्षं महाराज महाविस्मयकारकम् ॥ १२ ॥ नानाशस्त्रप्रहरणं नानामायाविचित्रितम् । जगत् क्षयकरं नूनं तेषां युद्धमभून्नृप ॥ १३ ॥ पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि । भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि ॥ १४ ॥ ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् । चक्रुः परस्परं मोहात्साभिमानाः समन्ततः ॥ १५ ॥ जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः । सर्वोत्तमः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥ १६ ॥ सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः । अस्मदग्रे पामराणां दैत्यानां चैव का कथा ॥ १७ ॥ पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः । तेषामनुग्रहं कर्तुं तदैव जगदम्बिका ॥ १८ ॥ प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ १९ ॥ विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् । अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम् ॥ २० ॥ सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति । दैत्यानां चेष्टितं किं वा माया कापि महीयसी ॥ २१ ॥ केनचिन्निर्मिता वाऽथ देवानां स्मयकारिणी । सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम् ॥ २२ ॥ यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि । बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया ॥ २३ ॥ ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः । गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम् ॥ २४ ॥ ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि । सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम् ॥ २५ ॥ वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ । तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ २६ ॥ वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः । अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ २७ ॥ सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति । तदा यक्षः परं तेजस्तदग्रे निदधौ तृणम् ॥ २८ ॥ दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि । तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः ॥ २९ ॥ न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान् प्रति । पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक् ॥ ३० ॥ वृथाऽभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः । ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥ ३१ ॥ त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् । त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥ ३२ ॥ त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि । नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः ॥ ३३ ॥ सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् । साभिमानो जगामाशु यत्र यक्षं विराजते ॥ ३४ ॥ यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया । कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ३५ ॥ ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् । मातरिश्वाऽहमस्मीति वायुरस्मीति चाब्रवीत् ॥ ३६ ॥ वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि । मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत् ॥ ३७ ॥ इति श्रुत्वा वायुवाणीं निजगाद परं महः । तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ ३८ ॥ नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् । श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ ३९ ॥ उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह । लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ ४० ॥ वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् । नैतज्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ ४१ ॥ अलौकिकं भाति यक्षं तेजः परमदारुणम् । ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ ४२ ॥ देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः । तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ ४३ ॥ प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् । अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ ४४ ॥ अतीव लज्जितो जातो वासवो देवराडपि । यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ ४५ ॥ अतः परं न गन्तव्यं मया तु सुरसंसदि । किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ ४६ ॥ देहत्यागो वरस्तस्मान्मानो हि महतां धनम् । माने नष्टे जीवितं तु मृततुल्यं न संशयः ॥ ४७ ॥ इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः । चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ ४८ ॥ तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले । मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ ४९ ॥ ततो जजाप परमं मायाबीजं परात्परम् । लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ ५० ॥ अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ । तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ ५१ ॥ तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् । भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ ५२ ॥ बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् । चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान् ॥ ५३ ॥ दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् । भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ ५४ ॥ त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् । चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम् ॥ ५५ ॥ दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् । प्रसन्नस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ ५६ ॥ रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् । उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ ५७ ॥ निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् । ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥ ५८ ॥ प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः । दण्डवत् प्रणनामाथ पादयोर्जगदीशितुः ॥ ५९ ॥ तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः । उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ ६० ॥ प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने । इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ ६१ ॥ रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् । मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ ६२ ॥ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ ६३ ॥ ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् । द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ ६४ ॥ भागद्वयवती यस्मात् सृजामि सकलं जगत् । तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ ६५ ॥ मायाप्रकृतिसञ्ज्ञस्तु द्वितीयो भाग ईरितः । सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ ६६ ॥ चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता । साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ ६७ ॥ प्रलये सर्वजगतो मदभिन्नैव तिष्ठति । प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ ६८ ॥ रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च । अन्तर्मुखा तु याऽवस्था सा मायेत्यभिधीयते ॥ ६९ ॥ बहिर्मुखा तु या माया तमःशब्देन सोच्यते । बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ ७० ॥ रजोगुणस्तदैव स्यात् सर्गादौ सुरसत्तम । गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ ७१ ॥ रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् । तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ ७२ ॥ स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः । रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ ७३ ॥ साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी । अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम् ॥ ७४ ॥ निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते । निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ ७५ ॥ साऽहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च । प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ ७६ ॥ सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि । ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ ७७ ॥ मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति । इन्द्राग्निमृत्यवस्तद्वत्साऽहं सर्वोत्तमा स्मृता ॥ ७८ ॥ मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा । युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ ७९ ॥ कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् । स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ ८० ॥ तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः । अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ ८१ ॥ अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् । निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ ८२ ॥ अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् । मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ ८३ ॥ व्यास उवाच । इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी । अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ ८४ ॥ ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् । सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ ८५ ॥ त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः । यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ ८६ ॥ एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः । तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ ८७ ॥ न विष्णूपासना नित्या वेदे नोक्ता तु कुत्रचित् । न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ ८८ ॥ गायत्र्युपासना नित्या सर्ववेदैः समीरिता । यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ ८९ ॥ तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि । गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ ९० ॥ कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् । विहाय तां तु गायत्रीं विष्णूपास्तिपरायणाः ॥ ९१ ॥ शिवोपास्तिरतो विप्रो नरकं याति सर्वथा । तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः । देवीपदाम्बुजरता आसन् सर्वे द्विजोत्तमाः ॥ ९२ ॥ ॥ इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नाम अष्टमोऽध्यायः ॥

परिचय - यक्ष उपाख्यान और देवी हैमवती

श्रीमद्देवीभागवत पुराण का यह अध्याय केनोपनिषद की प्रसिद्ध कथा पर आधारित है। इसे 'यक्ष उपाख्यान' भी कहा जाता है। यह कथा हमें सिखाती है कि शक्ति और सामर्थ्य का वास्तविक स्रोत 'अहंकार' नहीं, बल्कि 'पराशक्ति' है।

कथा सार: देवासुर संग्राम में विजय प्राप्त करने के बाद, अग्नि, वायु और इन्द्र आदि देवताओं को अहंकार हो गया। उनके गर्व को चूर करने के लिए देवी ने एक 'यक्ष' का रूप धारण किया। अग्नि एक तिनके को जला न सके और वायु उसे उड़ा न सके।

अंत में, जब इन्द्र का अहंकार टूटा, तो देवी 'उमा हैमवती' (हिमालय पुत्री) के रूप में प्रकट हुईं और देवताओं को आत्मज्ञान दिया। उन्होंने बताया कि यह समस्त ब्रह्मांड उनकी ही माया और शक्ति से संचालित है।

अध्याय का आध्यात्मिक रहस्य

माया और ब्रह्म (Maya & Brahman)

देवी स्पष्ट करती हैं - "रूपं मदीयं ब्रह्मैतत्"। अर्थात देवी ही 'ब्रह्म' हैं और वही अपनी माया शक्ति से जगत का सृजन करती हैं। सगुण और निर्गुण, दोनों एक ही शक्ति के दो पहलू हैं।

शरणागति का महत्व

जब तक अहंकार (Doership) है, तब तक ज्ञान नहीं मिल सकता। इन्द्र को जब अपनी तुच्छता का बोध हुआ और उन्होंने पूर्ण आत्मसमर्पण किया, तभी उन्हें देवी का दर्शन हुआ।

पाठ के लाभ (Benefits)

  • अहंकार नाश: इसके पाठ से मिथ्या अभिमान और मद नष्ट होता है।
  • आत्मज्ञान: साधक को तत्व ज्ञान और ब्रह्म विद्या की प्राप्ति होती है।
  • शक्ति कृपा: माँ पराशक्ति की विशेष अनुकंपा प्राप्त होती है, जो असंभव को संभव बनाती है।
  • भय मुक्ति: जीवन के सभी भय और संकटों से मुक्ति मिलती है।

FAQ - अक्सर पूछे जाने वाले प्रश्न

1. यक्ष (Yaksha) के रूप में कौन प्रकट हुआ?

देवताओं के अभिमान को तोड़ने के लिए स्वयं 'पराशक्ति' (Para Shakti) ने एक अद्भुत और तेजवान 'यक्ष' का रूप धारण किया था, जो कोटि सूर्य के समान तेजस्वी था।

2. देवताओं को किस बात का अभिमान हो गया था?

असुरों पर विजय प्राप्त करने के बाद देवताओं (इन्द्र, अग्नि, वायु आदि) को यह अभिमान हो गया था कि यह जीत उनके अपने बल और पराक्रम से मिली है, जबकि वास्तव में यह शक्ति की कृपा थी।

3. अग्निदेव की परीक्षा कैसे हुई?

यक्ष ने अग्निदेव के सामने एक तिनका (Grass Blade) रखा और कहा - 'इसे जलाओ'। 'सर्वभक्षी' होने का अभिमान करने वाले अग्निदेव अपनी पूरी शक्ति लगाकर भी उस तिनके को जला नहीं पाए।

4. वायुदेव की परीक्षा का क्या परिणाम हुआ?

यक्ष ने वायुदेव से उसी तिनके को उड़ाने के लिए कहा। 'सर्वशक्तिमान' होने का दावा करने वाले वायुदेव अपनी पूरी ताकत से भी उस तिनके को हिला नहीं सके।

5. इन्द्र के साथ क्या हुआ?

जब इन्द्र अभिमान के साथ यक्ष के पास गए, तो यक्ष अंतर्ध्यान हो गए। इन्द्र को अपनी लघुता का अहसास हुआ और उनका अभिमान चूर-चूर हो गया। उन्होंने वहीं गर्व त्यागकर शरण ली।

6. देवी उमा (हैमवती) का प्राकट्य क्यों हुआ?

इन्द्र की सच्ची शरणागति और तपस्या (माया बीज मंत्र जप) से प्रसन्न होकर, उसी तेज पुंज से देवी 'उमा हैमवती' प्रकट हुईं और उन्होंने इन्द्र को आत्मज्ञान (Brahma Vidya) दिया।

7. देवी ने अपने स्वरूप के बारे में क्या बताया?

देवी ने कहा कि वह और ब्रह्म (Brahman) एक ही हैं। माया (प्रकृति) और ब्रह्म (पुरुष) दोनों उनके ही रूप हैं। वे सगुण और निर्गुण दोनों हैं।

8. इस अध्याय का मुख्य उपदेश क्या है?

मुख्य उपदेश यह है कि 'कर्त्तापन' का अभिमान (I did this) अज्ञान है। समस्त शक्तियों का स्रोत 'पराशक्ति' है। जीव तो मात्र कठपुतली (काष्ठपुत्तलिका) के समान है।

9. गायत्री उपासना का क्या महत्व बताया गया?

अध्याय के अंत में कहा गया है कि सतयुग में सभी देवता और ब्राह्मण केवल 'गायत्री' और 'माया बीज' (ह्रीं) की उपासना करते थे। गायत्री के बिना ब्राह्मण का पतन निश्चित है।

10. यक्ष उपाख्यान किस उपनिषद में मिलता है?

यह कथा 'केनोपनिषद' (Kenopanishad) में भी विस्तार से वर्णित है, जहाँ ब्रह्म ने यक्ष रूप धारण कर देवताओं की परीक्षा ली थी।