Logoपवित्र ग्रंथ

Chandi Shatakam (Banabhatta Virachitam) – चण्डीशतकम्

Chandi Shatakam (Banabhatta Virachitam) – चण्डीशतकम्
॥ चण्डीशतकम् (बाणभट्टविरचितम्) ॥ मा भाङ्क्षीर्विभ्रमं भ्रूरधर विधुरता केयमास्यास्य रागं पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून्संहरन्नङ्घ्रिरंहः ॥ १॥ हुङ्कारे न्यक्कृतोदन्वति महति जिते शिञ्जितैर्नूपुरस्य श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि । स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षी- दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु ॥ २॥ जाह्नव्या या न जातानुनयपरहरक्षिप्तया क्षालयन्त्या नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् । तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा पादेनैव क्षिपन्ती महिषमसुरसादाननिष्कार्यमार्या ॥ ३॥ मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निःसृताः किं नु जिह्वाः किं वा कृष्णाङ्घ्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः । प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना देवैर्देव्यास्त्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥ ४॥ दत्ते दर्पात्प्रहारे सपदि पदभरोत्पिष्टदेहावशिष्टां श्लिष्टां श‍ृङ्गस्य कोटिं महिषसुररिपोर्नूपुरग्रन्थिसीम्नि । मुष्याद्वः किल्बिषाणि व्यतिकरविरतावाददानः कुमारो मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥ ५॥ शश्वद्विश्वोपकारप्रकृतिरविकृतिः सास्तु शान्त्यै शिवा वो यस्याः पादोपशल्ये महिषसुररिपुर्दूरदुष्टाशयोऽपि । नाके प्रापत्प्रतिष्ठामसकृदभिमुखो वादयञ्श‍ृङ्गकोट्या हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य ॥ ६॥ निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम् । नाभौ वक्रं प्रविष्टाकृतिविकृति यया पादपातेन कृत्वा दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी श्रिये वः ॥ ७॥ ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्ती । कृष्णं पङ्कं यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः स्वस्थोऽभूत्पादमाप्त्वा ह्रदमिव महिषः सास्तु देवी मुदे वः ॥ ८॥ त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्री- मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु । ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तो जगन्ति पान्तु त्वां पञ्च चण्ड्याश्चरणनखनिभेनापरे लोकपालाः ॥ ९॥ प्रालेयोत्पीडपीन्वांदीव्यन्नखरजनिकृतामातपेनातिपाण्डुः पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः । यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी- न्नो देव्या एव वामश्छलमहिषतनोर्नाकलोकद्विषोऽपि ॥ १०॥ वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु । इत्युत्पन्नाभिमानैर्नखशशिमणिभिर्ज्योत्स्नया स्वांशुमय्या यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये वः ॥ ११॥ रक्ताक्तेऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मि- न्हासो हस्ताग्रसंवाहनमपि तुलिताद्रीन्द्रसारद्विषोऽस्य । त्रासेनैवाद्यः सर्वः प्रणमति कदनेनामुनेति क्षतारिः पादोऽव्याच्चुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः ॥ १२॥ भङ्गो न भ्रूलतायास्तुलितबलतयानास्थमस्थ्नां तु चक्रे न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः । वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे- र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥ १३॥ तिर्यन्नानास्त्रशस्त्रावलि वलति बलं केवलं दानवानां द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य । अस्त्रीसम्भाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः ॥ १४॥ जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा- मद्येन्दोर्द्वौ कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम् । वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारौ पिष्टे नष्टं जहास द्युजनमिति जया सास्तु देवी श्रिये वः ॥ १५॥ शूलप्रोतादुपात्तप्लुतमहि महिषादुत्पतन्त्या स्रवन्त्या वर्त्मन्यारज्यमाने सपदि मखभुजां जातसन्ध्याप्रमोहः । नृत्यन्हासेन मत्वा विजयमहमहं मानयामीतिवादी यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित्पार्वती पातु सा वः ॥ १६॥ नाकौकोनायकाद्यैर्द्युवसतिभिरसिश्यामधामा धरित्रीं रुन्धन्वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः । पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी लेभे लोलेन्द्रनीलोपलशकलतुलां स्तादुमा सा श्रिये वः ॥ १७॥ दुर्वारस्य द्युधाम्नां महिषितवपुषो विद्विषः पातु युष्मा- न्पार्वत्या प्रेतपालस्वपुरुषपरुषः प्रेषितोऽसौ पृषत्कः । यः कृत्वा लक्ष्यभेदं हृतभुवनभयो गां विभिद्य प्रविष्टः पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥ १८॥ वज्रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्रं केशान्बद्ध्वाब्धिपाशैर्धृतधनदगदा प्राक्प्रलीनान्विहस्य । देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्रेपयन्ती ह्रीमत्या हैमवत्या विमतिविहतये तर्जिता स्ताज्जया वः ॥ १९॥ खड्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हेऽपि दण्डः । हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात्कुर्वती पार्वती वः ॥ २०॥ कृत्वेदृक्कर्म लज्जाजननमनशने शक्र मासून्विहासीः- वित्ते(अर्थे)श स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः । जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीन्ब्रुवन्त्या व्रीडां(लज्जां)व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥ २१॥ देयाद्वो वाञ्छितानि च्छलमयमहिषोत्पेषरो(दो)षानुषङ्गा- न्नीतः पातालकुक्षिं हृतभुवन(कृतपरम)भयो भद्रकाल्याः स पादः । यः प्रादक्षिण्यकाङ्क्षावलयितवपुषा वन्द्यमानो मुहूर्तं शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः ॥ २२॥ शूलं तूलं नु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र- श्चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो द्युराष्ट्रम् । पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्पं जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु शान्त्यै शिवा (पार्वती पातु सा)वः ॥ २३॥ शार्ङ्गिन्बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो गोत्रारे हन्म्यहं ते रिपुमम(सु)ररिपुस्त्वेष गोत्रस्य शत्रुः । दैत्या व्यापाद्यतां द्रागज इव महिषो हन्यते मन्महेऽद्ये- त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः ॥ २४॥ स्पर्धावर्धितविन्ध्यदुर्भरभरव्यस्ताद्विहायस्तलं हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी । यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी- र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५॥ तूर्णं तो(रो)षात्तुराषाट्प्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय । देहार्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली कृच्छ्रं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥ २६॥ आस्तां मुग्धेऽर्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन । शूलं प्रागेव लग्नं शिरसि यदबला युध्यसेऽव्याद्विदग्धं सोत्प्रासालापपातैरिति दनुजमुमा निर्दहन्ती दृशा वः ॥ २७॥ वक्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा- मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीरार्धलब्ध्या । जिह्मां हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निर्गता गी- र्गीर्वाणारेर्यये(दृ)च्छामृदुपदमृदितस्याद्रिजा सावताद्वः ॥ २८॥ गाहस्व व्योममार्गं गतमहिषभयैर्ब्रध्न विश्रब्धमश्वैः श‍ृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् । ऐभी त्वङ्गिष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥ २९॥ क्षिप्तो बाणः कृतस्ते त्रिकविनतिततो निर्वलिर्मध्यदेशः प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् । सङ्ग्रामे सन्नताङ्गि व्यथयसि महिषं नैकमन्यानपि त्वं ये युध्यन्तेऽत्र नैवेत्यवतु पतिपरीहासहृष्टा शिवा वः ॥ ३०॥ मेरौ मे रौद्रश‍ृङ्गक्षतवपुषि रुषो नैव नीता नदीनां भर्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि । एतन्नो मृष्यते यन्महिष कलुषिता स्वर्धुनी मूर्ध्नि मान्या शम्भोर्भिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः ॥ ३१॥ सद्यः साधितसाध्यमुद्धृतवती शूलं शिवा पातु वः पादप्रान्तविषक्त एव महिषाकारे सुरद्वेषिणि । दिष्ट्या देव वृषध्वजो यदि भवानेषापि नः स्वामिनी सञ्जाता महिषध्वजेति जयया केलौ कृतेऽर्धस्मिता ॥ ३२॥ विद्राणेन्द्राणि किं त्वं द्रविणददयिते पश्य सङ्ख्यं स्वसख्याः स्वाहे स्वस्था स्वभर्तर्यमृतभु(सृ)जि मुधा रोहिणी रोदितीय । लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यार्तमाश्वासयन्त्यां स्वर्गस्त्रैणं जयायां जयति हतरिपोर्ह्रेपितं हैमवत्या ॥ ३३॥ निर्वाणः किं त्वमेको रणशिरसि शिखिञ्शार्ङ्गधन्वापि विध्यं- स्तत्ते धैर्यं क्व यातं जहिहि जलपते दीनतां त्वं न दीनः । शक्तो नो शत्रुभङ्गे भयपिशुन सुनासीर नासीरधूलि- र्धिग्यासि क्वेति जल्पन्रिपुरवधि यया पार्वती पातु सा वः ॥ ३४॥ नन्दिन्नानन्ददो मे तव मुरजमृदुः सम्प्रहारे प्रहारः किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख त्वं वशीभूत एव । निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि नान्यः कन्याद्रेर्दैत्यमित्थं प्रमथपरिभवे मृद्गती त्रायतां वः ॥ ३५॥ वज्रं मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः । प्रापन्यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो- ऽप्यायूंषीवायुधानि द्युवसतय इति स्तादुमा सा श्रिये वः ॥ ३६॥ दृष्टावासक्तदृष्टिः प्रथममिव तथा सम्मुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु पशुपतौ पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ॥ ३७॥ दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयाभ्युपायो वायो वारीश विष्णो वृषगमन वृषन्किं विषादो वृथैव । बध्नीत ब्रध्नमिश्राः कवचमचकिताश्चित्रभानो दहारी- नेवं देवाञ्जयोक्ते जयति हतरिपोर्ह्रेपितं हैमवत्याः ॥ ३८॥ आ व्योमव्यापिसीम्नां वनमतिगहनं गाहमानो भुजाना- मर्चिर्मोक्षेण मूर्च्छन्दवदहनरुचां लोचनानां त्रयेण । यस्या निर्मज्जमज्जच्चरणभरनतो गां विभिद्य प्रविष्टः पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा सा श्रिये वः ॥ ३९॥ नीते निर्व्याजदीर्घां मघवति मघवद्वज्रलज्जानिदाने निद्रां द्रागेव देवद्विषि मुषितरुषः(भियः)संस्मरन्त्याः स्वभावम् । देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया- स्त्रायन्तां वस्त्रिशूलक्षतकुहरभुवो लोहिताम्भः समुद्राः ॥ ४०॥ काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं पश्चाच्छ्लिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण । पादोत्पिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा ॥ ४१॥ गम्यं नाग्नेर्न चेन्दोः सपदि दिनकृतां द्वादशानामसह्यं शक्रस्याक्ष्णां सहस्रं सह सुरसदसा सादयन्तं प्रसह्य । उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या- द्देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥ ४२॥ दत्त्वा स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् । विश्रान्त्यै पातु युष्मान्क्षणमुपरि धृतं केसरिस्कन्धभित्ते- र्बिभ्रत्तत्केसरालीमलिमुखररणन्नूपुरं पादपद्मम् ॥ ४३॥ कोपेनेवारुणत्वं दधदधिकतरालक्ष्यलाक्षारसश्रीः श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुङ्कारगर्भः । प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः ॥ ४४॥ आहन्तुं नीयमाना भरविधुरभुजस्रंसमानोभयांसं कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि । प्राक्प्राणानस्य नास्यद्गगनमुदपतद्गोचरं या शिलायाः सम्प्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ॥ ४५॥ साम्ना नाम्नाययोनेर्धृतिमकृत हरेर्नापि चक्रेण भेदा- त्सेन्द्रस्यैरावणस्याप्युपरि कलुषितः केवलं दानवृष्ट्या । दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि- र्येनोपायः स पादः सुखयतु भवतः पञ्चमश्चण्डिकायाः ॥ ४६॥ भर्ता कर्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति । मत्वा सव्याजसव्येतरचरणचलानखाङ्गुष्ठकोणाभिमृष्टं सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥ ४७॥ वृद्धोक्षो न क्षमस्ते भवतु भव भवद्वाह एषोऽधुनेति क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य । दन्तज्योत्स्नावितानैरतनुर्न्यक्कृतार्धेन्दुभाभि- र्गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥ ४८॥ प्राक्कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतैः(तेः) सेर्ष्या वोऽवतु चण्डिका चरणयोः स्वं पातयन्ती पतिम् । कुर्वत्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु- र्बाष्पेणाहितकज्जलेन लिखितं स्वं नाम चन्द्रे यया ॥ ४९॥ तुङ्गां श‍ृङ्गाग्रभूमिं श्रितवति मरुतां प्रेतकाये निकाये कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्ककुप्कुञ्जरेषु । स्मित्वा वः संहृतासोर्दशनरुचिकृताकाण्डकैलासभासः पायात्पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥ ५०॥ कृत्वा पातालपङ्कैः क्षयरयमिलितैकार्णवेच्छावगाहं दाहान्नेत्रत्रयाग्नेर्विलयनविगलच्छृङ्गशून्योत्तमाङ्गः । क्रिडाक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका वः ॥ ५१॥ शूले शैलाविकम्पं न निमिषितमिषौ पट्टिशे साट्टहासं प्रासे सोत्प्रासमव्याकुलमिव कुलिशे जातशङ्कं न शङ्कौ । चक्रेऽवक्रं कृपाणे न कृपणमसुरारातिभिः पात्यमाने दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥ ५२॥ चक्रे चक्रस्य नास्त्र्या न च खलु परशोर्न क्षुरप्रस्य नासे- र्यद्वक्त्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि । प्रोतात्प्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्या कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥ ५३॥ हस्तादुत्पत्य यान्त्या गगनमगणिताधैर्यवीर्यावलेपं वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः । दर्पानल्पाट्टहासाद्विगुणतरसिताः सप्तलोकीजनन्या- स्तर्जन्या जन्यदूतो नखरुचिततयस्तर्जयन्त्या जयन्ति ॥ ५४॥ प्रालेयाचलपल्वलैकबिसिनी सार्यास्तु वः श्रेयसे यस्याः पादसरोजसीम्नि महिषक्षोभात्क्षणं विद्रुताः । निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५॥ आप्राप्तेषुरुदासितासिरशनेरारात्कुतः शङ्कत- श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया । मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाङ्गुलीपर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ ५६॥ नष्टानष्ष्टौ गजेन्द्रानवत न वसवः किं दिशो द्राग्गृहीताः शार्ङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् । उत्खाता नेत्रपक्तिर्न तव समरतः पश्य नश्यद्बलं स्वं स्वर्नाथेत्यात्तदर्पं व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ ५७॥ श्रुत्वा शत्रुं दुहित्रा निहतमतिजडोऽप्यागतोऽह्नाय हर्षा- दाश्लिष्यञ्छैलकल्पं महिषमवनिभृद्बान्धवो विन्ध्यबुद्ध्या । यस्याः श्वेतीकृतेऽस्मिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि- र्द्राग्द्राघीयानिवासीदवतमसनिरासाय सा स्तादुमा वः ॥ ५८॥ क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्धौ प्रीयस्वानेन किं ते बिसतनुतनुभिर्भक्षितस्तार्क्ष्य नागैः । अष्टाभिर्दिग्गजेन्द्रः सह न हरिकरी कर्षतीमं हते वो ह्रीमत्या हैमवत्यास्त्रिदशरिपुपतौ पान्त्विति व्याहृतानि ॥ ५९॥ एष प्लोष्टा पुराणां त्रयमसुहृदुरःपाटनोऽयं नृसिंहो हन्ता त्वाष्ट्रं द्युराष्ट्राधिप इति विविधान्युत्सवेच्छाहृतानाम् । विद्राणानां विमर्दे दितितनयमये नाकलोकेश्वराणा- मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती वो हतारिः ॥ ६०॥ शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रोषिते प्रेतकाष्ठां काली कीलालकुल्यात्रयमधिकरयं वीक्ष्य विश्वासितद्यौः । त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा- न्नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥ ६९॥ श‍ृङ्गे पश्योर्ध्वदृष्ट्याधिकतरमतनुः सन्न पुष्पायुधोऽस्मि व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्नयज्ञोऽस्मि येन । त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं पायात्सोत्प्रासमेवं हसितहरमुमा मृद्गती दानवं वः ॥ ६२॥ नन्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं नुवत्या नप्तुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य । जामातुर्मातृमध्योपगमपरिहृते दर्शने शर्म दिश्यात्- नेदीयच्चुम्ब्यमाना महिषवधमहे मेनया मूर्ध्न्युमा वः ॥ ६३॥ भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता बिभ्रती नैव गर्वं शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु । या पार्ष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाशत्रिशूलं नाकौकोलोकमेव स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥ ६४॥ चक्रं शौरेः प्रतीपं प्रतिहतमगमत्प्राग्द्युधाम्नां तु पश्चा- दापच्चापं बलारेर्न परमगुणतां पूस्त्रयप्लोषिणोऽपि । शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥ ६५॥ विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ ६६॥ भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो भग्ने दैत्येन दर्पान्महिषितवपुषा किं विषाणे विषण्णः । इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विषाणे ॥ ६७॥ विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मि- न्सुप्ताः सप्तापि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र । धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसन्ध्यां दधान- स्तस्य ध्वंसात्सुताद्रेरपरदिनपतिः पातु वः पादपातैः ॥ ६८॥ देवारेर्दानिवारेर्द्रुतमिह महिषच्छद्मनः पद्मसद्मा विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः । नाभीतोऽभूत्स्वयम्भूरिव समरभुवि त्वं तु यद्विस्मितास्मी- त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषीविक्रमेऽव्याज्जयायाः ॥ ६९॥ निस्त्रिंशेनोचितं ते विशसनमुरसश्चण्डि कर्मास्य घोरं व्रीडामस्योपरि त्वं कुरु दृढहृदयं मुञ्च शस्त्राण्यमूनि । इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ॥ ७०॥ चक्षुर्दिक्षु क्षिपन्त्याश्चलितकमलिनीचारुकोषाभिताम्रं मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः । चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति त्रुट्यन्तः पीनभागे स्तनवलनभरात्सन्धयः कञ्चुकस्य ॥ ७१॥ बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम् । पार्वत्या महिषासुरव्यतिकरे व्यायामरम्यं वपुः पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पातु वः ॥ ७२॥ चक्रं चक्रायुधस्य क्वणति निपतितं रोमणि ग्रावणीव स्थाणोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्मणा वर्मणेव । यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः पायात्पादेन मृत्युं महिषतनुभृतः कुर्वती पार्वती वः ॥ ७३॥ कृत्वा वक्त्रेन्दुबिम्बं चलदलकलसद्भ्रूलताचापभङ्गं क्षोभव्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः । सन्ध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु ॥ ७४॥ गङ्गासम्पर्कदुष्यत्कमलवनसमुद्धूतधूलीविचित्रो वाञ्छासम्पूर्णभावादधिकतररसं तूर्णमायान्समीपम् । क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी देवारिः कैतवाविष्कृतमहिषवपुः सावतादम्बिका वः ॥ ७५॥ भद्रे भ्रूचापमेतन्नमयसि नु वृथा विस्फुरन्नेत्रबाणं नाहं केलौ रहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी । देवी सोत्प्रासमेवं धृतमहिषतनुं दृप्तमन्तःसकोपं देवारिं पातुयुष्मानतिपरुषपदा निघ्नती भद्रकाली ॥ ७६॥ अन्योन्यासङ्गगाढव्यतिकरदलितभ्रष्टकापालमालां स्वां भोः सन्त्यज्य शम्भौ खुरपुटदलितप्रोल्लसद्धूलिपाण्डुः । भद्रे क्रीडाभिमर्दी तव सविधमहं कामतः प्राप्त ईशो- ऽत्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्वती वः ॥ ७७॥ ज्वालाधाराकरालं ध्वनितकृतभयं यं प्रभेत्तुं न शक्तं चक्रं विष्णोर्दृढास्रिप्रसृतिविहतरयं दैत्यमायाविलासि । क्षुण्णस्तस्यस्थिसारो विबुधरिपुपतेः पादपातेन यस्या रुद्राणी पातु सा वः प्रशमितसकलोपप्लवा निर्विघातम् ॥ ७८॥ गाढावष्टम्भपादप्रबलभरनमत्पूर्वकायोर्ध्वभागं दैत्यं सञ्जातशिक्षं जनमहिषमिव न्यक्कृताग्र्याङ्गभागम् । आरूढा शूलपाणिः कृतविबुधभयं हन्तुकामं सगर्वं देयाद्वश्चन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी ॥ ७९॥ ब्रह्मा योगैकतानो विरहभवभयाद्धूर्जटिः स्त्रीकृतात्मा वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाधिशेते । युद्धक्ष्मामेवमेते विजहतु धिगिमं यस्त्यजत्येष शक्रो दृप्तं दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः ॥ ८०॥ एवं मुग्धे किलासीः करकमलरुचा मा मुहुः केशपाशं सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलब्धे । वैदग्ध्यादेवमन्तः कलुषितवचनं दुष्टदेवारिनाथं देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥ ८१॥ बालोऽद्यापीशजन्मा समरमुडुपभृत्पांसुलीलाविलासी नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः । धिग्यासि क्वेति दृष्टं मृदिततनुमुदं दानवं सस्फुरोक्तं पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या ॥ ८२॥ मूर्ध्नः शूलं ममैतद्विफलमभिमुखं शङ्करोत्खातशूलं सङ्ग्रामाद्दूरमेतद्धृतमरि हरिणा मन्मनः कर्षतीव । गर्वादेवं क्षिपन्तं विबुधजनविभून्दैत्यसेनाधिनाथं शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३॥ भ्राम्यद्धामौर्वदाद्भीमोरुदेहक्षुभितजलचरव्यस्तवीचीन्सकम्पा- न्कृत्वैवाशुप्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः । दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युद्गिरन्तं कन्याद्रेः पातु युष्मांश्चरणभरनतं पिंषती दैत्यनाथम् ॥ ८४॥ मैनामिन्दोऽभिनैषीः श्रितपृथुशिखरां श‍ृङ्गयुग्मस्य पार्श्वं युद्धक्ष्मायां तनुं स्वां रतिमदविलसतत्स्त्रीकटाक्षक्षमेयम् । भानो किं वीक्षितेन क्षितिमहिषतनौ त्वं हि संन्यस्तपादो दर्पादेवं हसन्तं व्यसुमसुरसुमा कुर्वती त्रायतां वः ॥ ८५॥ सङ्ग्रामात्त्रस्तमेतं त्यज निजमहिषं लोकजीवेश मृत्यो स्यातुं शूलाग्रभूमौ गतभयमजयं मत्तमेतं गृहाण । दैत्ये पादेन यस्याश्छालमहिषतनौ शायिते दीर्घनिद्रां भावोत्पत्तौ जयैवं हसति पितृपतिं साम्बिका वः पुनातु ॥ ८६॥ श्रुत्वैतत्कर्म भावादनिभृतरभसं स्थाणुनाभ्येत्य दूरा- च्छ्लिष्टा बाहुप्रसारं श्वसितभरचलत्तारका धूतहस्ता । दैत्ये गीर्वाणशत्रौ भुवनसुखमुषि प्रोषिते प्रेतकाष्ठां गौरी वोऽव्यान्मिलत्सु त्रिदिविषु तमलं लज्जया वारयन्ती ॥ ८७॥ भद्रे स्थाणुस्तवाङ्ध्रिः क्षतमहिषरणव्याजकण्डूतिरेष त्रैलोक्यक्षेमदानात्भुवनभयहरः शङ्करोऽतो हरोऽपि । देवानां नायिकत्वद्गुणकृतवचनोऽतो महादेव एष केलावेवं स्मरारिर्हसति रिपुवधे यां शिवा पातु सा वः ॥ ८८॥ खड्गः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः शत्रोर्भङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः । भावादेवं जयायां नुतिकृति नितरां सन्निधौ देवतानां सव्रीडा भद्रकाली हतरिपुरवताद्वीक्षिता शम्भुना वः ॥ ८९॥ एकेनैवोद्गमेन प्रविलयमसुरं प्रापयामीति पादो यस्याः कान्त्या नखानां हसति सुररिपुं हन्तुमुद्यन्सगर्वम् । विष्णोस्रिः पादपद्मं वलिनियमविधावुद्धृतं कैतवेन क्षिप्रं सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः ॥ ९०॥ खड्गं खट्वाङ्गयुक्तं युवतिरपि विभो ते शरीरार्धलीना हास्यं प्रागेव लब्धं सुरजनसमितौ दुष्कृतेन त्वयैवम् । जाता भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त- र्दर्पादेवं हसन्तं भवमसुरमुमा निन्नती त्रायतां वः ॥ ९१॥ स्थाणौ कण्डूविनोदं नुदति दिनकृतस्तेजसा तापितं नो तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम् । शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेकं रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः ॥ ९२॥ पिंषञ्छैलेन्द्रकल्पं महिषमतिगुरुर्भग्नगीर्वाणगर्वं शम्भोर्जातो लघीयाञ्छ्रमरहितवपुर्दूरमभ्यूह्यपातः । वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोऽङ्घ्रिपद्मो यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः ॥ ९३॥ मार्गं शीतांशुभाजां सरभसमलधुं हन्तुमुद्यन्सुरारिं नेत्रैरुद्वृत्ततारैः सचकितममरैरुन्मुखैर्वीक्ष्यमाणः । यस्या वामो महीयान्मुदितसुरमनाः प्राणहृत्पादपद्मः प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥ ९४॥ मूर्धन्यापातभग्ने मिषमहिषतनुः सन्ननिःशब्दकण्ठः शोणाब्जाताम्रकान्तिः प्रततघनबृहन्मण्डले पादपद्मे । यस्या लेभे सुरारिर्मधुरसनिभृतद्वादशार्धाङ्घ्रिलीलां शर्वाणी पातु सा वस्त्रिभुवनभयहृत्स्वगिभिः स्तूयमाना ॥ ९५॥ पादोत्क्षेपाद्व्रजद्भिर्नखकिरणशतैर्भूषितश्चन्द्रगौरै- र्मूर्धाग्रे चापतद्भिश्चरणतलगतैरंशुभिः शोणशोभः । संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै- र्यस्या देवैः प्रणीतो हविरिव महिषः सावतादम्बिका वः ॥ ९६॥ क्वायं तीक्ष्णोग्रधाराशतनिशितवपुर्वज्ररूपः सुरारिः पादश्चायं सरोजद्युतिरनतिमरुगुर्योषितः क्वेति देव्याः । ध्यायं ध्यायं स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः ॥ ९७॥ वज्रित्वं वज्रपाणेर्दितितनयभिदश्चक्रिणश्चक्रकृत्यं शूलित्वं शूलभर्तुः सुरकटकविभोः शक्तिता षण्मुखस्य । यस्याः पादेन सर्वं कृतममररिपोर्बाधयैतत्सुराणां रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ॥ ९८॥ पङ्गुर्नेता हरीणामसमहरियुतः स्वन्दनश्चैकचक्रो भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे । दर्पाद्भ्राम्यन्रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि- र्यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः ॥ ९९॥ युक्तं तावद्गजानां प्रतिदिशमयनं युद्धभूमेर्दिगीशां हीयेताशागजत्वं सुभटरणकृतां कर्मणा दारुणेन । यद्येष स्थाणुसंज्ञो भयचकितदृशा नश्यतीत्यद्भुतं त- द्दर्षादेवं सन्तं सुररिपुमवतान्निघ्नती पार्वती वः ॥ १००॥ स्रस्ताङ्गः सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः स्थाणुर्दृष्ट्वा सुरारिं क्षणमिह स रुषं स्थाणुरेवोपजातः । तस्य ध्वंसात्सुरारेर्महितवपुषो लब्धमानावकाशः पार्वत्या वामपादः शमयतु दुरितं दारुणं वः सदैव ॥ १०१॥ कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन शूला- ल्लाङ्गूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः । शूले लोलाङ्घ्रिपातैर्ललितकरतलात्प्रच्युते दूरमुर्व्यां सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥ १०२॥ ॥ इति महाकविश्रीबाणभट्टविरचितं चण्डीशतकं सम्पूर्णम् ॥

चण्डीशतकम्: महाकवि बाणभट्ट की ओजस्वी प्रस्तुति (Introduction & Poetic Grandeur)

संस्कृत साहित्य के गगन में महाकवि बाणभट्ट (कादम्बरी और हर्षचरित के रचयिता) ध्रुव तारे के समान चमकते हैं। चण्डीशतकम् उनकी एकमात्र उपलब्ध पद्य (Poetry) रचना मानी जाती है। 102 श्लोकों का यह शतक देवी चण्डी (दुर्गा) द्वारा महिषासुर के वध की कथा को एक नए, अत्यंत नाटकीय और वीर रस से परिपूर्ण दृष्टिकोण से प्रस्तुत करता है।

शैली और भाषा: बाणभट्ट अपनी कठिन और समास-बहुल (Compound-rich) भाषा के लिए प्रसिद्ध हैं। इस शतक में उन्होंने 'स्रग्धरा' जैसे बड़े छंदों का प्रयोग किया है जो युद्ध के वातावरण और देवी के रौद्र रूप का वर्णन करने के लिए सर्वथा उपयुक्त हैं। श्लोकों में प्रयुक्त शब्द-विन्यास ऐसा है मानो साक्षात् युद्धभूमि का कोलाहल सुनाई दे रहा हो।

भक्ति और वीर रस का संगम: यह स्तोत्र केवल देवी की आरती नहीं है, बल्कि एक युद्ध-काव्य (War Poem) है। इसमें महिषासुर की धृष्टता, देवताओं का भय, और अंततः देवी के चरण-प्रहार से असुर का मर्दन—इन सब का इतना सजीव चित्रण है कि पाठक रोमांचित हो उठता है। कवि ने देवी के चरणों (Feet) को ही मुख्य अस्त्र माना है, जिसने महिषासुर को कुचलकर मोक्ष प्रदान किया।

चण्डीशतकम् के प्रमुख प्रसंग और भाव (Key Themes & Emotions)

इस शतक में महिषासुर वध के विभिन्न आयामों को बहुत ही मौलिक और कलात्मक ढंग से उभारा गया है:

  • चरण प्रहार की महिमा: अधिकांश श्लोकों में (जैसे श्लोक 1, 3, 7, 10) देवी के बाएं चरण (Left Foot) की स्तुति की गई है। कवि कहते हैं कि देवी ने त्रिशूल या चक्र का प्रयोग तो बाद में किया, पहले तो अपने कोमल चरण के अँगूठे के नाखून से ही महिषासुर के प्राण हर लिए। यह देवी की असीम शक्ति और शत्रु की तुच्छता को दर्शाता है।
  • महिषासुर का उपहास: बाणभट्ट ने कई श्लोकों में महिषासुर के अहंकार का उपहास किया है। श्लोक 48 में वे कहते हैं—"जब देवी ने महिषासुर को लात मारी, तो उसके दाँत टूटकर बिखर गए, जिससे वह काला भैंसा भी (दाँतों की सफेदी से) 'गौर' (सफेद/सुंदर) दिखने लगा।" यह व्यंग्य और वीर रस का अनूठा मिश्रण है।
  • शिव और अन्य देवताओं की प्रतिक्रिया: श्लोक 12, 32, और 88 में भगवान शिव और अन्य देवताओं की प्रतिक्रियाओं का सुंदर वर्णन है। जब देवी महिषासुर को मारती हैं, तो शिवजी मुस्कुराते हुए (अर्धस्मित) उन्हें देखते हैं, मानो कह रहे हों कि "तुमने तो मेरा काम (संहार) भी खेल-खेल में कर दिया।"
  • अलक्तक (महावर) का रूपक: श्लोक 3 और 12 में कवि कल्पना करते हैं कि देवी के पैरों में जो लालिमा है, वह महावर (Alaktaka) नहीं, बल्कि महिषासुर के रक्त से रंजित होने के कारण है, जो उनकी विजय का प्रतीक है।

फलश्रुति: पाठ से प्राप्त होने वाले लाभ (Benefits of Recitation)

यद्यपि यह एक साहित्यिक कृति है, फिर भी इसे एक सिद्ध स्तोत्र (Mantra-Stotra) माना जाता है। इसके पाठ से साधक को निम्नलिखित लाभ प्राप्त होते हैं:

  • शत्रु और बाधा नाश: जैसे देवी ने महिषासुर को कुचल दिया, वैसे ही इस शतक का पाठ साधक के जीवन में आने वाली बड़ी से बड़ी बाधाओं, शत्रुओं और मुकदमों को नष्ट कर देता है।
  • आत्म-विश्वास और पौरुष: इसके ओजस्वी छंदों का पाठ करने से मन में वीरता, उत्साह और आत्म-विश्वास (Self-confidence) का संचार होता है। भय और अवसाद (Depression) दूर भागते हैं।
  • वाक-सिद्धि और कवित्व शक्ति: बाणभट्ट की यह रचना सरस्वती का प्रसाद है। जो विद्यार्थी या लेखक इसका नित्य पाठ करते हैं, उनकी भाषा शैली परिष्कृत होती है और उन्हें वाक-सिद्धि प्राप्त होती है।
  • पाप नाश और मोक्ष: श्लोक 1 में प्रार्थना की गई है—"मुष्यान् ... अङ्घ्रिरंहः" (देवी का चरण हमारे पापों को हर ले)। इसका पाठ समस्त पापों का शमन कर अंत में मोक्ष का मार्ग प्रशस्त करता है।

पाठ विधि और समय (Ritual Method & Timing)

चण्डीशतकम् का पाठ अत्यंत ऊर्जावान होता है, इसलिए इसे सही विधि से करना चाहिए।

नवरात्रि अनुष्ठान: नवरात्रि (विशेषकर महाष्टमी और महानवमी) के दिनों में इसका पाठ सर्वोत्कृष्ट फल देता है। देवी की मूर्ति के सामने दीपक जलाकर, लाल पुष्प अर्पित करके, वीर आसन या पद्मासन में बैठकर इसका उच्च स्वर में पाठ करें।

शत्रु भय निवारण हेतु: यदि कोई व्यक्ति शत्रुओं या कानूनी पचड़ों से बहुत परेशान हो, तो उसे लगातार 21 दिनों तक सूर्यास्त के समय (गोधूलि वेला) इस शतक का पाठ करना चाहिए।

साहित्यिक स्वाध्याय: संस्कृत प्रेमी और साहित्य के विद्यार्थी इसे काव्य के रूप में भी पढ़ सकते हैं। इसके छंदों का लयात्मक उच्चारण (Chanting) मन को एकाग्र और आनंदित करता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. चण्डीशतकम् के रचयिता कौन हैं?
इसके रचयिता सुप्रसिद्ध संस्कृत गद्यकार बाणभट्ट हैं, जो राजा हर्षवर्धन (7वीं शताब्दी) के दरबारी कवि थे। उन्होंने शाप से मुक्ति पाने के लिए इसकी रचना की थी।
2. इस स्तोत्र का मुख्य विषय क्या है?
इसका मुख्य विषय महिषासुर वध है। इसमें देवी चण्डी के चरणों के प्रहार से महिषासुर के विनाश का अत्यंत विस्तृत और रोमांचक वर्णन है।
3. क्या यह दुर्गा सप्तशती से अलग है?
जी हाँ। दुर्गा सप्तशती मार्कण्डेय पुराण का हिस्सा है, जबकि चण्डीशतकम् एक स्वतंत्र 'खंडकाव्य' या 'शतक' है। दोनों का विषय समान (देवी माहात्म्य) है, पर शैली अलग है।
4. इसमें कौन सा रस प्रधान है?
इसमें वीर रस (Heroism) और रौद्र रस (Fury) की प्रधानता है। इसके साथ ही इसमें अद्भुत और भक्ति रस का भी सुंदर समावेश है।
5. 'स्रग्धरा' छंद की क्या विशेषता है?
स्रग्धरा एक बड़ा छंद है जिसमें प्रत्येक चरण में 21 अक्षर होते हैं। इसकी लय भारी और गंभीर होती है, जो युद्ध और वीरता के वर्णन के लिए बहुत प्रभावशाली मानी जाती है।
6. क्या इसका पाठ कठिन है?
बाणभट्ट की भाषा क्लिष्ट और समास-बहुल होने के कारण इसका उच्चारण थोड़ा कठिन हो सकता है। लेकिन अभ्यास से इसका प्रवाह (Flow) बहुत आनंददायी हो जाता है।
7. बाणभट्ट ने इसकी रचना क्यों की थी?
किंवदंती है कि बाणभट्ट को उनके श्वसुर (मयूरभट्ट) के शाप से कुष्ठ रोग हो गया था। उन्होंने देवी चण्डी को प्रसन्न करने और रोग मुक्त होने के लिए इस शतक की रचना की थी।
8. 'महिषितवपुषं' (श्लोक 74) का क्या अर्थ है?
इसका अर्थ है—'जिसने महिष (भैंसे) का शरीर धारण किया हुआ है'। महिषासुर अपनी माया से रूप बदलता था, लेकिन अंत में देवी ने उसे उसके असली भैंसे के रूप में ही मारा।
9. क्या इस स्तोत्र में केवल महिषासुर का ही वध है?
मुख्यतः महिषासुर वध का ही वर्णन है, लेकिन प्रसंगवश इसमें शुम्भ-निशुम्भ, मधु-कैटभ और अन्य असुरों के विनाश का भी संकेत मिलता है।
10. क्या इसके पाठ से साहित्यिक लाभ भी मिलता है?
अवश्य। यह संस्कृत काव्य का एक उत्कृष्ट नमूना है। इसके अध्ययन से संस्कृत शब्दावली, अलंकार और छंद शास्त्र का गहरा ज्ञान प्राप्त होता है।