Logoपवित्र ग्रंथ

Apamarjana Stotram in Hindi – अपामार्जन स्तोत्रम्: रोगों और पापों का नाशक अमोघ कवच

Apamarjana Stotram in Hindi – अपामार्जन स्तोत्रम्: रोगों और पापों का नाशक अमोघ कवच
॥ अपामार्जन स्तोत्रम् ॥ श्रीदाल्भ्य उवाच । भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः । दुष्टग्रहाभिघातैश्च सर्वकालमुपद्रुताः ॥ १ ॥ आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः । सदा सम्पीड्यमानास्तु तिष्ठन्ति मुनिसत्तम ॥ २ ॥ केन कर्मविपाकेन विषरोगाद्युपद्रवाः । न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ॥ ३ ॥ श्री पुलस्त्य उवाच । व्रतोपवासैर्यैर्विष्णुः नान्यजन्मनि तोषितः, ते नरा मुनिशार्दूल विषरोगादिभागिनः। ॥ ४ ॥ यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् । विषग्रहज्वराणां ते मनुष्या दाल्भ्य भागिनः ॥ ५ ॥ आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति । तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ॥ ६ ॥ नाधीन् प्राप्नोति न व्याधीन्न विषग्रहबन्धनम् । कृत्या स्पर्शभयं वाऽपि तोषिते मधुसूदने ॥ ७ ॥ सर्वदुःखशमस्तस्य सौम्यास्तस्य सदा ग्रहाः । देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः ॥ ८ ॥ यः समः सर्वभूतेषु यथाऽऽत्मनि तथा परे । उपवासादि दानेन तोषिते मधुसूदने ॥ ९ ॥ तोषितास्तत्र जायन्ते नराः पूर्णमनोरथाः । अरोगाः सुखिनो भोगान्भोक्तारो मुनिसत्तम ॥ १० ॥ न तेषां शत्रवो नैव स्पर्शरोगाभिचारिकाः । ग्रहरोगादिकं वाऽपि पापकार्यं न जायते ॥ ११ ॥ अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि च । रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १२ ॥ श्री दाल्भ्य उवाच । अनाराधितगोविन्दा ये नरा दुःखभागिनः । तेषां दुःखाभितप्तानां यत्कर्तव्यं दयालुभिः ॥ १३ ॥ पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने । समदृष्टिभिरीशेशं तन्मह्यं ब्रूह्यशेषतः ॥ १४ ॥ श्रीपुलस्त्य उवाच । श्रोतु कामोसि वै दाल्भ्य शृणुष्व सुसमाहितः । अपामार्जनकं वक्ष्ये न्यासपूर्वमिदं परम् ॥ १५ ॥ ॥ प्रयोग विधि ॥ गृहीत्वा तु समूलाग्रान्कुशान् शुद्धानुपस्कृतान् । मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् ॥ १६ ॥ शरीरे यस्य तिष्ठन्ति कुशाग्रजलबिन्दवः । नश्यन्ति सर्वपापानि गरुडेनेव पन्नगाः ॥ १७ ॥ कुशमूले स्थितो ब्रह्मा कुश मध्ये जनार्दनः । कुशाग्रे शङ्करं विद्यात्त्रयोदेवा व्यवस्थिताः ॥ १८ ॥ विष्णुभक्तो विशेषेण शुचिस्तद्गतमानसः । रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् ॥ १९ ॥ शुभेहनि शुचिर्भूत्वा साधकस्यानुकूलतः । नक्षत्रे च विपज्जन्मवधप्रत्यग्विवर्जिते ॥ २० ॥ वारेऽर्कभौमयोर्मन्त्री शुचौदेशे द्विजोत्तमः । गोचर्ममात्रं भूदेशं गोमयेनोपलिप्य च ॥ २१ ॥ तत्र भारद्वयव्रीहींस्तदर्धं वा तदर्धकम् । निक्षिप्यस्तण्डिलं कृत्वा लिखेत्पद्मं चतुर्दलम् ॥ २२ ॥ सौवर्णं राजतं ताम्रं मृन्मयं वा नवं दृढम् । अव्रणं कलशं शुद्धं स्थापयेत्तण्डुलोपरि ॥ २३ ॥ तत्रोदकं समानीय शुद्धं निर्मलमेव च । एकं शतं कुशान् साग्रान् स्थापयेत्कलशोपरि ॥ २४ ॥ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ २५ ॥ कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धराः । शेषास्तु देवतास्सर्वाः कलशं तु समाश्रिताः ॥ २६ ॥ घटं पुमां सञ्जानीयात्तोयपूर्णं तु विन्यसेत् । रत्नं च विन्यसेद्धीमान् सूत्रं तु गल उच्यते ॥ २७ ॥ वस्त्रं तु त्वक्समाख्यातं नारिकेलं शिरस्तथा । कूर्चं वै केश इत्याहुरित्येकं कुंभलक्षणम् ॥ २८ ॥ दम्ष्ट्रायां वसुधां सशैलनगरारण्यापगां हुङ्कृतौ वागीशं श्वसितेऽनिलं रविविधू बाह्वोस्तु दक्षान्ययोः । कुक्षावष्टवसून् दिशश्श्रवणयोर्दस्रौ दृशोः पादयोः पद्मोत्थं हृदये हरिं पृथगभिध्यायेन्मुखे शङ्करम् ॥ २९ ॥ नारसिंहं समभ्यर्च्य वामनं च प्रयत्नतः । पूजयेत्तत्र कलशमुपचारैः समन्त्रकैः ॥ ३० ॥ वाराहं नारसिंहं च वामनं विष्णुमेव च । आवाह्य तेषु प्रत्येकं कुम्भेष्वेतान् समर्चयेत् ॥ ३१ ॥ अथवैकघटं वापि स्थापयेत्साधकोत्तमः । पिधाय कुंभद्वाराणि विधिना चूतपल्लवैः ॥ ३२ ॥ नारिकेल फलैश्चापि मन्त्रैरेतैर्यथाविधि । मन्त्रैरेतैर्यथालिङ्गं कुर्याद्दिग्बन्धनं ततः ॥ ३३ ॥ वाराहं नारसिंहं च वामनं विष्णुमेव च । ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यसेत् ॥ ३४ ॥ ॥ अथ अपामार्जन न्यासविधिः (कवचं) ॥ पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे । प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे ॥ ३५ ॥ ऐशान्यां रक्षताद्विष्णुः आग्नेय्यां च जनार्दनः । नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥ ३६ ॥ ऊर्ध्वे गोवर्धनोद्धर्ता ह्यधरायां त्रिविक्रमः । एताभ्यो दशदिग्भ्यश्च सर्वतः पातु केशवः ॥ ३७ ॥ एवं कृत्वा तु दिग्बन्धं विष्णुं सर्वत्र संस्मरन् । अव्यग्रचित्तः कुर्वीत न्यासकर्म यथा विधि ॥ ३८ ॥ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् । मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥ ३९ ॥ कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनम् । एवमेवाङ्गुलिन्यासः पश्चादङ्गेषु विन्यसेत् ॥ ४० ॥ शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् । माधवं च ललाटे तु गोविन्दं तु भ्रुवोर्न्यसेत् ॥ ४१ ॥ चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् । त्रिविक्रमं कण्ठमूले वामनं तु कपोलयोः ॥ ४२ ॥ नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्भुधः । उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे ॥ ४३ ॥ दामोदरं दन्तपङ्क्तौ वाराहं चुबुके तथा । जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरम् ॥ ४४ ॥ वैकुण्ठं कण्ठमध्ये तु अनन्तं नासिकोपरि । दक्षिणे तु भुजे विप्रो विन्यसेत् पुरुषोत्तमम् ॥ ४५ ॥ वामे भुजे महायोगं राघवं हृदि विन्यसेत् । कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् ॥ ४६ ॥ वक्षःस्थले माधवं च कक्षयोर्योगशायिनम् । पीताम्बरं स्तनतटे हरिं नाभ्यां तु विन्यसेत् ॥ ४७ ॥ दक्षिणे तु करे देवं ततः सङ्कर्षणं न्यसेत् । वामे रिपुहरं विद्यात्कटिमध्ये जनार्दनम् ॥ ४८ ॥ पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोरपि । वामकुक्षौ वारिजाक्षं दक्षिणे जलशायिनम् ॥ ४९ ॥ स्वयंभुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम् । जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यसेत् ॥ ५० ॥ गुल्फयोर्नारसिंहं च पादयोरमितत्विषम् । अङ्गुलीषु श्रीधरं च पद्माक्षं सर्वसन्धिषु ॥ ५१ ॥ नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतम् । रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥ ५२ ॥ मनोबुद्ध्योरहङ्कारे चित्ते न्यस्य जनार्दनम् । अच्युतानन्त गोविन्दान वातपित्तकफेषु च ॥ ५३ ॥ एवं न्यासविधिं कृत्वा यत्कार्यं द्विजतच्छृणु । पादमूले तु देवस्य शङ्खं चैव तु विन्यसेत् ॥ ५४ ॥ वनमालां हृदि न्यस्य सर्वदेवाभिपूजिताम् । गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः ॥ ५५ ॥ श्रीवत्समुरसि न्यस्य पञ्चाङ्गं कवचं न्यसेत् । आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमम् ॥ ५६ ॥ एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । तनुर्विष्णुमयी तस्य यत्किञ्चिन्न स भाषते ॥ ५७ ॥ अपामार्जनको न्यासः सर्वव्याधिविनाशनः । आत्मनश्च परस्यापि विधिरेष सनातनः ॥ ५८ ॥ वैष्णवेन तु कर्तव्यः सर्वसिद्धिप्रदायकः । विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुण्ठो विदिशोदिशः ॥ ५९ ॥ पातु मां सर्वतो रामो धन्वी चक्री च केशवः । एतत्समस्तं विन्यस्य पश्चान्मन्त्रान् प्रयोजयेत् ॥ ६० ॥ ॥ अथ मूल मन्त्रः ॥ ओं नमो भगवते क्लेशापहर्त्रे नमः । पूजाकाले तु देवस्य जपकाले तथैव च । होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः ॥ ६१ ॥ आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत् । यद्यत्सुखतरं लोके तत्सर्वं प्राप्नुयान्नरः ॥ ६२ ॥ एवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकम् । अभयं सर्वभूतेभ्यो विष्णुलोकं स गच्छति । श्रीविष्णुलोकं स गच्छत्यों नम इति ॥ ६३ ॥ ॥ अथ अपामार्जन न्यासः ॥ अस्य श्रीमदपामार्जन स्तोत्रमहामन्त्रस्य पुलस्त्यो भगवानृषिः अनुष्टुप्छन्दः ओं श्रीवराह-नृसिंह-वामन-विष्णु-सुदर्शन-पाञ्चजन्या देवताः ओं हरामुकस्यदुरितमिति बीजम् ओं अच्युतानन्तगोविन्देति शक्तिः ओं ज्वलत्पावकलोचनेति कीलकम् ओं वज्रायुधनखस्पर्शेति कवचम् श्री-वराह-नृसिंह-वामन-विष्णु-सुदर्शन-पाञ्चजन्य प्रसादसिद्ध्यर्थे सर्वारिष्टपरिहारार्थे जपे विनियोगः । ओं श्रीवराहाय अङ्गुष्ठाभ्यां नमः । ओं श्रीनृसिंहाय तर्जनीभ्यां नमः । ओं श्रीवामनाय मध्यमाभ्यां नमः । ओं श्रीविष्णवे अनामिकाभ्यां नमः । ओं श्रीसुदर्शनाय कनिष्ठिकाभ्यां नमः । ओं श्रीपाञ्चजन्याय करतलकरपृष्ठाभ्यां नमः ॥ ओं वराहाय नृसिंहाय वामनाय महात्मने ज्ञानाय हृदयाय नमः । ओं नमः कमलकिञ्जल्कपीत निर्मलवासने ऐश्वर्याय शिरसे स्वाहा । ओं नमः पुष्करनेत्राय केशवायादिचक्रिणे शक्त्यै शिखायै वषट् । ओं दामोदराय देवाय अनन्ताय महात्मने बलाय कवचाय हुं । ओं काश्यपायातिह्रस्वाय ऋग्वजुस्साममूर्तये तेजसे नेत्राभ्यां वौषट् । ओं नमः परमार्थाय पुरुषाय महात्मने वीर्याय अस्त्राय फट् । ओं भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ अथ अपामार्जन ध्यानम् ॥ अथ ध्यानम् प्रवक्ष्यामि सर्वपापप्रणाशनम् । वराहरूपिणं देवं संस्मरन्नर्चयेज्जपेत् ॥ ६४ ॥ ओं जलौघमग्ना सचराचरा धरा विषाणकोट्याखिल विश्वमूर्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान् प्रसीदतु ॥ ६५ ॥ चञ्चच्चन्द्रार्धदम्ष्ट्रं स्फुरदुरुदशनं विद्युदुद्द्योतजिह्वं गर्जत्पर्जन्यनादं स्फुरितरविरुचं चक्षुरक्षुद्ररौद्रम् । त्रस्ताशाहस्तियूधं ज्वलदनलसटा केसरोद्भासमानं रक्षो रक्ताभिषिक्तं प्रहरतुदुरितं ध्यायतां नारसिंहम् ॥ ६६ ॥ अतिविपुलसुगात्रं रुक्मपात्रस्थमन्नं सुललितदधिखण्डं पाणिना दक्षिणेन । कलशममृतपूर्णं वामहस्ते दधानं तरतिसकलदुःखं वामनं भावयेद्यः ॥ ६७ ॥ विष्णुं भास्वत्किरीटां गदवलयगलाकल्पहारोज्ज्वलाङ्गं श्रोणीभूषासुवक्षो मणिमकुटमहाकुण्डलैर्मण्डिताङ्गम् । हस्तोद्यच्छङ्खचक्राम्बुज गदममलं पीतकौशेयवासं विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ ६८ ॥ शङ्खं चक्रं सचापं परशुमसिमिषून्मूलपाशाङ्कुशाग्नीन् बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदम्ष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं ध्यायेत्षट्कोणसंस्थं सकलरिपुजनप्राणसंहारि चक्रम् ॥ ६९ ॥ कल्पान्तार्क प्रकाशं त्रिभुवनमखिलं तेजसापूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदम्ष्ट्राट्‍टहासम् । शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चाप पाशाङ्कुशान् स्वैः बिभ्राणं दोर्भिरष्टौ मनसि मुररिपुं भावयेच्चक्रसञ्ज्ञम् ॥ ७० ॥ ॥ अथ अपामार्जन मूल मन्त्राः ॥ ओं नमो भगवते श्रीमहावराहाय दम्ष्ट्रोद्धृत विश्वंभराय हिरण्याक्षगर्वसर्वङ्कषाय मम विघ्नान् छिन्धि छिन्धि छेदय छेदय स्वाहा ॥ १ ॥ ओं नमो भगवते श्रीमहानृसिंहाय दम्ष्ट्राकरालवदनाय खरनखराग्रविदारित हिरण्यकशपुवक्षस्स्थलाय ज्वालामालाविभूषणाय मम विघ्नान् संहर संहर हाहाहीहीहूहू हुं फट् स्वाहा ॥ २ ॥ ओं नमो भगवते महामायाय श्रीवामनाय पदत्रयाक्रान्तजगत्त्रयाय ऋग्यजुस्साममूर्तये मम विघ्नान् ध्वंसय ध्वंसय त्रासय त्रासय ओं ह्रां ह्रीं ह्रूं श्रीं क्लीं ठाठाठाठाठा आआआआआ ईईईईई ऊऊऊऊऊ हुं फट् स्वाहा ॥ ३ ॥ ओं नमो भगवते श्रीमहाविष्णवे यक्षरक्षांसि मम विघ्नान् मथ मथ स्वाहा ॥ ४ ॥ ओं नमो भगवते श्रीसुदर्शनाय महाचक्रराजाय मां रक्ष रक्ष मम शत्रून्नाशय नाशय दर दर दारय दारय छिन्दि छिन्धि भिन्धि भिन्धि ज्वल ज्वल ज्वालय ज्वालय सहस्रकिरणान् प्रज्वल प्रज्वल शिखा उत्प्रेषयोत्प्रेषय दहनात्मक चट चट चाटय चाटय गर्जय गर्जय त्रासय त्रासय चूर्णय चूर्णय परप्रयुक्तानां मन्त्राणामष्टोत्तरशतं स्फोटय स्फोटय परशक्तीः पेषय पेषय परमन्त्रान् संहर संहर मां रक्ष रक्ष सहस्रार हुं फट् स्वाहा ॥ ५ ॥ एतान्मन्त्रान् जपेन्मन्त्री उस्पृश्य घटोदकम् । अष्टोत्तरशतं मौनी जपेत्सिद्धिर्भविष्यति ॥ ७१ ॥ ॥ अपामार्जन ध्यानम् ॥ बृहद्धाम बृहद्गात्रं बृहद्दम्ष्ट्रं त्रिलोचनम् । समस्तवेदवेदाङ्गयुक्ताङ्गं भूषणैर्युतम् ॥ ७२ ॥ उद्धृत्यभूमिं पातालाद्धस्ताभ्यां परिगृह्यताम् । आलिङ्ग्यभूमिमुरसामूर्ध्नि जिघ्रन्तमच्युतम् ॥ ७३ ॥ रत्नवैडूर्यमुक्तादिभूषणैरुपशोभितम् । पीताम्बरधरं देवं शुक्लमाल्यानुलेपनम् ॥ ७४ ॥ त्रयस्त्रिम्शादिदेवैश्चस्तूयमानं तु सर्वदा । ऋषिभिस्सनकाद्यैश्च सेव्यमानमहर्निशम् ॥ ७५ ॥ नृत्यन्तीभिश्चाप्सरोभिर्गीयमानं च किन्नरैः । इत्थं ध्यात्वा यथा न्याय्यं जपेन्मन्त्रमतन्द्रितः ॥ ७६ ॥ सौवर्णमण्डपान्तस्स्थं पद्मं ध्यायेत्सकेसरम् । सकर्णीकैर्दलैरिष्टैरष्टभिः परिशोभितम् ॥ ७७ ॥ कलङ्करहितं देवं पूर्णचन्द्रसमप्रभम् । श्रीवत्साङ्कितवक्षस्कं तीक्ष्णदम्ष्टं त्रिलोचनम् ॥ ७८ ॥ जपाकुसुमसङ्काशं रक्तहस्ततलान्वितम् । पद्मासनसमा(सीनं)रूढं योगपट्‍टपरिष्कृतम् ॥ ७९ ॥ पीतवस्त्रपरीताङ्गं शुक्लवस्त्रोत्तरीयकम् । कटिसूत्रेण हैमेन नूपुरेणविराजितम् ॥ ८० ॥ वनमालादिशोभाढ्यं मुक्ताहारोपशोभितम् । पङ्कजास्यं चतुर्बाहुं पद्मपत्रनिभेक्षणम् ॥ ८१ ॥ प्रातस्सूर्यसमप्रख्यकुण्डलाभ्यां विराजितम् । अनेकसूर्यसङ्काशदीप्यन्मकुटमस्तकम् ॥ ८२ ॥ केयूरकान्तिसंस्पर्धिमुद्रिकारत्नशोभितम् । जानूपरिन्यस्तकरद्वन्द्वमुक्तानखाङ्कुरम् ॥ ८३ ॥ जङ्घाभरणसंस्पर्धि सुशोभं कङ्कणत्विषा । चतुर्थीचन्द्रसङ्काश सुदम्ष्ट्रमुखपङ्कजम् ॥ ८४ ॥ मुक्ताफलाभसुमहादन्तावलिविराजितम् । चाम्पेयपुष्पसङ्काश सुनासमुखपङ्कजम् ॥ ८५ ॥ अतिरक्तोष्ठवदनं रक्तास्यमरिभीषणम् । वामाङ्कस्थां श्रियं भक्तां शान्तां दान्तां गरीयसीम् ॥ ८६ ॥ अर्हणीयोरुसम्युक्तां सुनासां शुभलक्षणाम् । सुभ्रूं सुकेशीं सुश्रोणीं सुभुजां सुद्विजाननाम् ॥ ८७ ॥ सुप्रतीकां च सुगतिं चतुर्हस्तां विचिन्तयेत् । दुकूलचेलचार्वङ्गीं हरिणीं सर्वकामदाम् ॥ ८८ ॥ तप्तकाञ्चनसङ्काशां सर्वाभरणभूषिताम् । सुवर्णकलशप्रख्य पीनोन्नतपयोधराम् ॥ ८९ ॥ गृहीत पद्मयुगल बाहुभ्यां च विराजिताम् । गृहीत मातुलुङ्गाख्य जाम्बूनदकरां तथा ॥ ९० ॥ एवं देवीं नृसिंहस्य वामाङ्कोपरि चिन्तयेत् । ॥ पुनर्ध्यानम् ॥ ओं जलौघमग्ना सचराचरा धरा विषाणकोट्याखिल विश्वमूर्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान् प्रसीदतु ॥ चञ्चच्चन्द्रार्धदम्ष्ट्रस्फुरदुरुदशनं विद्युदुद्द्योतजिह्वं गर्जत्पर्जन्यनादं स्फुरितरविरुचं चक्षुरक्षुद्ररौद्रम् । त्रस्ताशाहस्तियूधं ज्वलदनलसटा केसरोंद्भासमानं रक्षोरक्ताभिषिक्तं प्रहरतुदुरितं ध्यायतां नारसिंहम् ॥ अतिविपुलसुगात्रं रुक्मपात्रस्थमन्नं सुललितदधिखण्डं पाणिना दक्षिणेन । कलशममृतपूर्णं वामहस्ते दधानं तरतिसकलदुःखं वामनं भावयेद्यः ॥ विष्णुं भास्वत्किरीटां गदवलयगलाकल्पहारोज्ज्वलाङ्गं श्रोणीभूषासुवक्षो मणिमकुटमहाकुण्डलैर्मण्डिताङ्गम् । हस्तोद्यच्छङ्खचक्राम्बुज गदममलं पीतकौशेयवासं विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ शङ्खं चक्रं सचापं परशुमसिमिषून्मूलपाशाङ्कुशाग्नीन् बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदम्ष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं ध्यायेत्षट्कोणसंस्थं सकलरिपुजनप्राणसंहारि चक्रम् ॥ ओं नमो भगवते श्रीमहावराहाय क्रोडरूपिणे मम विघ्नान् दह दह स्वाहा । ओं नमो भगवते श्रीमहानृसिंहाय करालदम्ष्ट्रवदनाय मम विघ्नान् पच पच स्वाहा । ओं नमो भगवते श्रीमाया वामनाय त्रैलोक्यविक्रान्ताय मम शत्रून् छेदय च्छेदय स्वाहा । ओं नमो भगवते श्रीमहाविष्णवे यक्षरक्षांसि मम विघ्नान् मथ मथ स्वाहा । ओं नमो भगवते श्रीसुदर्शनायाऽसुरान्तकाय मम विघ्नान् हन हन स्वाहा । ॥ अथ अपामार्जन फलप्रार्थनम् ॥ ओं नमः परमार्थाय पुरुषाय महात्मने । अरूपाय विरूपाय व्यापिने परमात्मने ॥ ९२ ॥ निष्कल्मषाय शुद्धाय ध्यानयोगपराय च । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिद्ध्यतु मे वचः ॥ ९३ ॥ नारायणाय शुद्धाय विश्वेशायेश्वराय च । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९४ ॥ अच्युताय च गोविन्द पद्मनाभायसंहृते । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९५ ॥ त्रिविक्रमाय रामाय वैकुण्ठाय हराय च । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९६ ॥ दामोदराय देवाय अनन्ताय महात्मने । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९७ ॥ जनार्दनाय कृष्णाय उपेन्द्र श्रीधराय च । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९८ ॥ हृषीकेशाय कूर्माय माधवायाऽच्युताय च । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९९ ॥ योगीश्वराय गुह्याय गूढाय परमात्मने । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ १०० ॥ भक्तप्रियाय देवाय विष्वक्सेनाय शार्ङ्गिणे । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ १०१ ॥ प्रद्युम्नायाऽनिरुद्धाय पुरुषाय महात्मने । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ १०२ ॥ अथोक्षजाय दक्षाय मत्स्याय मधुहारिणे । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ १०३ ॥ वराहाय नृसिंहाय वामनाय महात्मने । नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ १०४ ॥ वराहेश नृसिंहेश वामनेश त्रिविक्रम । हयग्रीवेश सर्वेश हृषीकेश हराऽशुभम् ॥ १०५ ॥ अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः । अखण्डितानुभावैश्च सर्वदुःखहरो भव ॥ १०६ ॥ हरामुकस्यदुरितं दुष्कृतं दुरुपद्रवम् । मृत्युबन्धार्तिभयदमरिष्टस्य च यत्फलम् ॥ १०७ ॥ पराभिध्यानसहितं प्रयुक्तां चाऽभिचारिकम् । गरस्पर्शमहारोगप्रयुक्तं जरयाऽजर ॥ १०८ ॥ ओं नमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे । नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥ १०९ ॥ नमः कमलकिञ्जल्कदीप्तनिर्मलवाससे । महाहवरिपुस्कन्ध घृष्टचक्राय चक्रिणे ॥ ११० ॥ दम्ष्ट्राग्रेण क्षितिधृते त्रयीमूर्तिमते नमः । महायज्ञवराहाय शेषभोगोपशायिने ॥ १११ ॥ तप्तहाटककेशान्तज्वलत्पावकलोचन । वज्रायुधनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥ ११२ ॥ काश्यपायातिह्रस्वाय ऋग्यजुस्साममूर्तये । तुभ्यं वामनरूपाय क्रमतेगां नमो नमः ॥ ११३ ॥ वराहाशेषदुष्टानि सर्वपापफलानि वै । मर्द मर्द महादम्ष्ट्र मर्द मर्द च तत्फलम् ॥ ११४ ॥ नारसिंह करालस्य दन्तप्रान्तानलोज्ज्वल । भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥ ११५ ॥ ऋग्यजुस्सामरूपाभि-र्वाग्भिर्वामनरूपधृत् । प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः ॥ ११६ ॥ कौबेरं ते मुखं रौद्रं नन्दिनो नन्दमावह । गरं मृत्युभयं घोरं विषं नाशय मे ज्वरम् ॥ ११७ ॥ त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः । समेप्रीतस्सुखं दद्यात्सर्वामयपतिर्ज्वरः ॥ ११८ ॥ आद्यन्तवन्तः कवयः पुराणाः सन्मार्गवन्तो ह्यनुशासितारः । सर्वज्वरान् घ्नन्तु ममाऽनिरुद्ध प्रद्युम्न सङ्कर्षण वासुदेवाः ॥ ११९ ॥ ऐकाहिकं द्व्याहिकं च तथा त्रिदिवस ज्वरम् । चातुर्थिकं तथा त्युग्रं तथैव सतत ज्वरम् ॥ १२० ॥ दोषोत्थं सन्निपातोत्थं तथैवागन्तुक ज्वरम् । शमं नयाशु गोविन्द च्छिन्धिच्छिन्ध्यस्य वेदनाम् ॥ १२१ ॥ नेत्रदुःखं शिरोदुःखं दुःखं चोदरसंभवम् । अतिश्वासमनिश्वासं परितापं च वेपथुम् ॥ १२२ ॥ गुदघ्राणाङ्घ्रिरोगाम्श्च कुक्षिरोगं तथा क्षयम् । कामलादींस्तथारोगा-न्प्रमेहाम्श्चातिदारुणान् ॥ १२३ ॥ भगन्दरातिसाराम्श्च मुखरोगाम्श्च फल्गुनीन् । अश्मरी मूत्रकृच्छ्राम्श्च रोगानन्याम्श्च दारुणान् ॥ १२४ ॥ ये वातप्रभवारोगा ये च पित्तसमुद्भवाः । कफोद्भवाश्च ये रोगाः ये चान्येसान्निपातिकाः ॥ १२५ ॥ आगन्तुकाश्च ये रोगाः लूताविस्फोटकादयः । सर्वे ते प्रशमं यान्तु वासुदेवाऽपमार्जनात् ॥ १२६ ॥ विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन तु । क्षयं गच्छन्त्वशेषास्ते चक्रेणोपहताहरेः ॥ १२७ ॥ अच्युताऽनन्तगोविन्द नामोच्चारण भेषजात् । नश्यन्ति सकलरोगाः सत्यं सत्यं वदाम्यहम् ॥ १२८ ॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥ १२९ ॥ स्थावरं जङ्गमं वापि कृत्रिमं वापि यद्विषम् । दन्तोद्भूतं नखोद्भूतमाकाशप्रभवं विषम् ॥ १३० ॥ लूतादिप्रभवं चैव विषमत्यन्तदुस्सहम् । शमं नयतु तत्सर्वं कीर्तितो मे जनार्दनः ॥ १३१ ॥ ग्रहान् प्रेतग्रहान्भूतां स्तथा वै डाकिनीग्रहान् । वेतालाम्श्च पिशाचाम्श्च गन्धर्वान्यक्षराक्षसान् ॥ १३२ ॥ शाकिनी पूतनाद्याम्श्च तथा वैनायकग्रहान् । मुखमण्डलिकान्क्रूरान् रेवतीन्वृद्धरेवतीन् ॥ १३३ ॥ वृश्चिकाख्यान् ग्रहाम्श्चोग्रांस्तथा मातृगणानपि । बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥ १३४ ॥ वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् । नारसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥ १३५ ॥ सदा करालवदनो नारसिंहो महारवः । ग्रहानशेषान्निश्शेषान्करोतु जगतो हरिः ॥ १३६ ॥ नारसिंह महासिंह ज्वालामालोज्ज्वलानन । ग्रहानशेषान्सर्वेश खादखादाऽग्निलोचन ॥ १३७ ॥ ये रोगा ये महोत्पाताः यद्विषं ये महाग्रहाः । यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ १३८ ॥ शस्त्रक्षतेषु ये रोगाः ज्वालाकर्दमकादयः । यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै । तानि सर्वाणि सर्वात्मन्परमात्मञजनार्दन ॥ १३९ ॥ किञ्चिद्रूपं समास्थाय वासुदेवाशुनाशय । क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभूषणम् ॥ १४० ॥ सर्वदुष्टोपशमनं कुरु देववराऽच्युत । सुदर्शनमहाचक्र गोविन्दस्य वरायुध ॥ १४१ ॥ तीक्ष्णपावकसङ्काश कोटिसूर्यसमप्रभ । त्रैलोक्यरक्षाकर्ता त्वं दुष्टदानवदारण ॥ १४२ ॥ तीक्ष्णधारमहावेग छिन्दि छिन्दि महाज्वरम् । छिन्धि वातं च लूतं च छिन्धि घोरं महद्विषम् ॥ १४३ ॥ क्रिमिदाहश्च शूलश्च विषज्वाला च कर्दमाः । सुदर्शनेन चक्रेण शमं यान्ति न सम्शयः ॥ १४४ ॥ त्रैलोक्यस्याऽभयं कर्तुमाज्ञापय जनार्दन । सर्वदुष्टानि रक्षांसि क्षपयाश्वरिभीषण ॥ १४५ ॥ प्राच्यां प्रतीच्यां दिशि च दक्षिणोत्तरतस्तथा । रक्षां करोतु भगवान् बहुरूपी जनार्दनः ॥ १४६ ॥ व्याघ्रसिंहवराहादिष्वग्नि चोरभयेषु च । रक्षां करोतु भगवान् बहुरूपी जनार्दनः ॥ १४७ ॥ भुव्यन्तरिक्षे च तथा पार्श्वतः पृष्ठतोऽग्रतः । रक्षां करोतु भगवान् नारसिंहः स्वगर्जितैः ॥ १४८ ॥ यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषम् । तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ १४९ ॥ यथा यज्ञेश्वरो विष्णुर्वेदान्तेष्वभिधीयते । तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ १५० ॥ परमात्मा यथा विष्णुर्वेदान्तेष्वपि गीयते । तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ १५१ ॥ यथा विष्णोः स्तुते सद्यः सङ्क्षयं याति पातकम् । तेन सत्येन सकलं यन्मयोक्तं तथाऽस्तु तत् ॥ १५२ ॥ जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १५३ ॥ शान्तिरस्तु शिवं चाऽस्तु प्रणश्यत्वशुभं च यत् । वासुदेवशरीरोत्थैः कुशैः संमार्जितो मया ॥ १५४ ॥ अपामार्जतु गोविन्दो नरो नारायणस्तथा । ममाऽस्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ॥ १५५ ॥ शान्ताः समस्तारोगास्ते ग्रहास्सर्वेविषाणि च । भूतानि च प्रशान्तानि संस्मृते मधुसूदने ॥ १५६ ॥ एतत्समस्तरोगेषु भूतग्रहभयेषु च । अपामार्जनकं शस्त्रं विष्णुनामाभिमन्त्रितम् ॥ १५७ ॥ एते कुशा विष्णुशरीरसंभवा जनार्दनोहं स्वयमेव चागतः । हतं मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः ॥ १५८ ॥ शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु । यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणांभसि ॥ १५९ ॥ स्वास्थ्यमस्तु शिवं चास्तु हृषीकेशस्य कीर्तनात् । यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥ १६० ॥ ॥ अथ अपामार्जन माहात्म्यम् ॥ एतद्रोगादिपीडासु जनानां हितमिच्छता । विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् ॥ १६१ ॥ अनेन सर्वदुःखानि शमं यान्ति न सम्शयः । व्याध्यपस्मार कुष्ठादि पिशाचोरग राक्षसाः ॥ १६२ ॥ तस्य पार्श्वं न गच्छन्ति स्तोत्रमेतत्तु यः पठेत् । यश्च धारयते विद्वान् श्रद्धाभक्तिसमन्वितः ॥ १६३ ॥ ग्रहास्तं नोपसर्पन्ति न रोगेण च पीडितः । धन्यो यशस्यः शत्रुघ्नः स्तवोयं मुनिसत्तम ॥ १-६४ ॥ पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् । एतत् स्तोत्रम् परं पुण्यं सर्वव्याधिविनाशनम् ॥ १६५ ॥ पठतां शृण्वतां चैव जपेदायुष्यवर्धनम् । विनाशाय च रोगाणामपमृत्युजयाय च ॥ १६६ ॥ इदं स्तोत्रम् जपेच्छान्तः कुशैः संमार्जयेच्छुचिः । वाराहं नारसिंहं च वामनं विष्णुमेव च ॥ १६७ ॥ स्मरन् जपेदिदं स्तोत्रम् सर्वदुःखोपशान्तये । सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैवहि ॥ १६८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीदाल्भ्यपुलस्त्यसंवादे श्रीमदपामार्जनस्तोत्रम् सम्पूर्णम् ॥

अपामार्जन स्तोत्रम् — परिचय और आध्यात्मिक पृष्ठभूमि (Introduction)

अपामार्जन स्तोत्रम् (Apamarjana Stotram) सनातन धर्म के महान ग्रंथ 'विष्णु धर्मोत्तर पुराण' से उद्धृत एक अत्यंत प्रभावशाली और सिद्ध पाठ है। इस स्तोत्र की रचना भगवान विष्णु की उन शक्तियों को जागृत करने के लिए की गई है, जो व्यक्ति को शारीरिक रोगों, मानसिक विक्षेपों और बाहरी नकारात्मक बाधाओं से मुक्त करती हैं। "अपामार्जन" शब्द संस्कृत की 'मृज्' धातु से बना है, जिसका अर्थ है— 'पोंछना', 'साफ करना' या 'झाड़ना'। जिस प्रकार एक चिकित्सक शरीर से विष निकालता है, उसी प्रकार यह स्तोत्र आत्मा और शरीर पर जमी पापों और व्याधियों की परत को पोंछ देता है।

यह स्तोत्र महर्षि दाल्भ्य और मुनि पुलस्त्य के बीच हुए दिव्य संवाद के रूप में प्रकट हुआ है। महर्षि दाल्भ्य ने लोक कल्याण की भावना से मुनि पुलस्त्य से प्रश्न किया कि— "हे मुनिवर! इस संसार में प्राणी विष, असाध्य रोगों, दुष्ट ग्रहों की मार और तांत्रिक अभिचार (Black Magic) से सदा पीड़ित रहते हैं। कृपया ऐसा कोई उपाय बताएं जिससे मनुष्य इन दुखों से मुक्त होकर आरोग्य और शांति प्राप्त कर सके।" इसके उत्तर में मुनि पुलस्त्य ने 'अपामार्जन स्तोत्र' का उपदेश दिया।

इस पाठ की सबसे बड़ी विशेषता यह है कि इसमें भगवान विष्णु के वाराह (पृथ्वी उद्धारक), नृसिंह (भय नाशक), वामन (अहंकार नाशक) और सुदर्शन चक्र का आह्वान किया गया है। यह स्तोत्र एक 'आध्यात्मिक एंटीबायोटिक' की तरह कार्य करता है, जो न केवल वर्तमान जन्म के रोगों को ठीक करता है, बल्कि पूर्व जन्मों के संचित कर्मों (प्रारब्ध) के कारण होने वाले कष्टों का भी शमन करता है। श्लोक ४-५ में स्पष्ट कहा गया है कि जो व्यक्ति पिछले जन्मों में भगवान विष्णु की आराधना नहीं करते, वे ही इस जन्म में व्याधियों के पात्र बनते हैं, और यह स्तोत्र उसी कमी को पूरा करता है।

विशिष्ट महत्व और वैज्ञानिक दृष्टिकोण (Significance)

आज के आधुनिक युग में जहाँ तनाव और प्रदूषण जनित बीमारियाँ बढ़ रही हैं, वहां अपामार्जन स्तोत्र का महत्व और भी बढ़ गया है। आध्यात्मिक रूप से, यह स्तोत्र हमारे 'प्राणमय कोष' (Energy Body) को शुद्ध करता है। तांत्रिक ग्रंथों में इसे 'अरिष्ट नाशक' माना गया है। यदि कोई व्यक्ति किसी असाध्य बीमारी से जूझ रहा हो और चिकित्सा के साथ-साथ इस स्तोत्र का पाठ करे, तो उसकी रिकवरी की गति कई गुना बढ़ जाती है।

इस स्तोत्र में 'न्यास' विधि का विस्तृत वर्णन है (श्लोक ३५-६०)। न्यास का अर्थ है— शरीर के विभिन्न अंगों में देवताओं की शक्ति को स्थापित करना। जब हम अङ्गुष्ठाग्रे गोविन्दं' या 'शिखायां केशवं' कहते हैं, तो हम अपनी चेतना को उन विशिष्ट अंगों पर केंद्रित करते हैं, जिससे वहां की सुप्त ऊर्जा जागृत होती है। यह आधुनिक 'विजुअलाइजेशन' और 'सेल्फ-हीलिंग' तकनीकों का एक उन्नत प्राचीन रूप है।

फलश्रुति: अपामार्जन स्तोत्र के लाभ (Benefits)

इस स्तोत्र की फलश्रुति (श्लोक १६१-१६८) और पाठ के बीच में वर्णित लाभ अत्यंत विस्मयकारी हैं:

  • असाध्य रोगों का निवारण: यह कैंसर, टीबी (क्षय रोग), चर्म रोग (लूता-विस्फोटक) और संक्रमण जनित रोगों में दिव्य औषधि की तरह काम करता है। श्लोक १२८ कहता है— "अच्युताऽनन्तगोविन्द नामोच्चारण भेषजात्। नश्यन्ति सकलरोगाः सत्यं सत्यं वदाम्यहम्॥"
  • विष और विषैले जंतुओं से रक्षा: सांप, बिच्छू या किसी भी प्रकार के रासायनिक विष के प्रभाव को कम करने के लिए वाराह और नृसिंह के मन्त्रों का प्रभाव अमोघ है।
  • ग्रह बाधा और वास्तु दोष शांति: नवग्रहों की प्रतिकूलता और पितृ दोष के कारण होने वाली उन्नति में बाधा को यह स्तोत्र जड़ से समाप्त कर देता है।
  • मानसिक संताप और अवसाद (Depression): "क्लेशापहर्त्रे नमः" मंत्र के निरंतर जाप से मानसिक अशांति दूर होती है और साधक को आत्मबल प्राप्त होता है।
  • तंत्र-मंत्र (अभिचार) से सुरक्षा: सुदर्शन चक्र के आह्वान (श्लोक १४१-१४५) से शत्रुओं द्वारा किए गए मूठ, वशीकरण और मारण प्रयोग निष्क्रिय हो जाते हैं।

साधना विधि और विशेष अनुष्ठान (Ritual Method)

अपामार्जन स्तोत्र का पाठ केवल पढ़ना नहीं, बल्कि एक 'मार्जक' क्रिया है। इसकी विशेष विधि निम्नलिखित है:

  • कुशा का उपयोग: श्लोक १६ के अनुसार, हाथ में समूल कुशा (Darbha Grass) लेकर, उसे जल में भिगोकर अपने अंगों पर मार्जन (छिड़कना) करते हुए पाठ करना चाहिए।
  • कलश स्थापना: विशेष रोगों के निवारण के लिए कलश (ताम्र या स्वर्ण) में शुद्ध जल भरकर, उस पर कुशा रखकर १०८ बार पाठ करने के बाद उस जल का सेवन रोगी को कराना चाहिए।
  • नमक का त्याग: साधना काल में सात्विक आहार लें और संभव हो तो लवण (नमक) का त्याग करें।
  • समय: प्रातः काल (सूर्योदय के समय) पूर्व की ओर मुख करके या संध्या के समय उत्तर की ओर मुख करके पाठ करें।
  • विशेष प्रयोग: एकादशी, गुरुवार या अश्विनी नक्षत्र में इसका पाठ १०८ बार करने से 'सिद्ध' हो जाता है।

अक्सर पूछे जाने वाले प्रश्न (FAQ)

1. अपामार्जन स्तोत्र का मुख्य उद्देश्य क्या है?

इसका मुख्य उद्देश्य शारीरिक व्याधियों, मानसिक दुखों, बाहरी नकारात्मक ऊर्जाओं (जैसे भूत-प्रेत, नजर दोष) और पूर्व जन्मों के पापों का 'मार्जक' (सफाई) करना है। यह आरोग्य प्रदायक कवच है।

2. क्या इस स्तोत्र का पाठ घर में किया जा सकता है?

हाँ, घर के मंदिर में भगवान विष्णु की प्रतिमा के सम्मुख इसे पढ़ा जा सकता है। इससे घर की नकारात्मकता दूर होती है और सुख-शांति का वास होता है।

3. 'अपामार्जन' के लिए कुशा का ही उपयोग क्यों किया जाता है?

श्लोक १८ के अनुसार, कुशा के मूल में ब्रह्मा, मध्य में विष्णु और अग्र भाग में शिव का वास है। कुशा विद्युत सुचालक नहीं होती, जिससे मंत्रों की ऊर्जा शरीर में ही संचित रहती है।

4. क्या स्त्रियाँ इस स्तोत्र का पाठ कर सकती हैं?

हाँ, भक्ति मार्ग में कोई प्रतिबंध नहीं है। शुद्धता और श्रद्धा के साथ कोई भी इसका पाठ कर सकता है, विशेषकर परिवार के स्वास्थ्य की मंगलकामना के लिए।

5. असाध्य रोगों में इस पाठ का प्रभाव कब दिखता है?

श्रद्धा और एकाग्रता मुख्य है। आमतौर पर २१ या ४१ दिनों के अनुष्ठान के बाद सकारात्मक परिवर्तन दिखने लगते हैं। श्लोक १२८ इस पर अटूट विश्वास की पुष्टि करता है।

6. क्या केवल सुनने से भी लाभ मिलता है?

जी हाँ, श्लोक १६५ कहता है— "पठतां शृण्वतां चैव..."। श्रद्धापूर्वक श्रवण करने से भी रोगों का नाश होता है, हालाँकि पाठ करने का प्रभाव अधिक तीव्र होता है।

7. इसमें सुदर्शन चक्र का आह्वान क्यों किया गया है?

सुदर्शन चक्र भगवान विष्णु का अमोघ अस्त्र है जो सूक्ष्म बाधाओं को नष्ट करता है। यह ज्वर (Fever) और गुप्त शत्रुओं के विनाश के लिए अनिवार्य माना गया है।

8. क्या यह स्तोत्र बच्चों के 'बालग्रह' दोष को दूर करता है?

हाँ, श्लोक १३४-१३५ में स्पष्ट उल्लेख है कि यह बालग्रह और युवाओं के दोषों को नृसिंह की दिव्य दृष्टि से जलाकर भस्म कर देता है।

9. क्या इसके पाठ के लिए गुरु दीक्षा अनिवार्य है?

सामान्य भक्ति और आरोग्य के लिए इसे बिना दीक्षा के भी किया जा सकता है। लेकिन यदि आप इसे किसी तंत्र प्रयोग को काटने के लिए कर रहे हैं, तो गुरु का मार्गदर्शन उत्तम रहता है।

10. पाठ के दौरान किस रंग के वस्त्र पहनना श्रेष्ठ है?

भगवान विष्णु की साधना में 'पीताम्बर' (पीला वस्त्र) धारण करना सबसे श्रेष्ठ माना गया है, क्योंकि पीला रंग सात्विकता और आरोग्यता का प्रतीक है।