Logoपवित्र ग्रंथ

उच्छिष्ट गणपति पूजा पद्धति | Uchchishta Ganapati Puja Paddhati

उच्छिष्टगणपतिपूजापद्धतिः

Uchchishta Ganapati Puja Paddhati - Complete Ritual Procedure

पूजा पद्धति में उच्छिष्ट गणपति की विस्तृत आराधना विधि दी गई है। यह एक उच्च कोटि की तांत्रिक प्रक्रिया है जिसमें प्रातः कृत्य से लेकर विसर्जन तक के सभी सोपान वर्णित हैं।

इस पद्धति में आवरण पूजा का विशेष महत्व है, जिसमें देवता के तीन आवरणों और दश दिशाओं की पूजा की जाती है।

⚠️ साधना चेतावनी:

यह वाममार्गी/तांत्रिक पूजा पद्धति है। इसे केवल गुरु के मार्गदर्शन में ही संपन्न करें।

श्रीगणेशाय नमः

श्रीगणेशाय नमः ॥ अथ श्रीमदुच्छिष्टगणपतिपूजापद्धतिः ॥

पूर्वकृत्यम् (Prerequisites)

पुरश्चरणात्प्राक्तृतीयादिवसे क्षौरादिकं विधाय ततः प्रायश्चित्ताङ्गभूतविष्णुपूजां विष्णुतर्पणं विष्णुश्राद्धं होमं चान्द्रायणादि व्रतं च कुर्यात् । व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् । यदि सर्वकर्माशक्तस्ततः प्रायश्चित्ताङ्गभूतपञ्चगव्यप्राशनं कुर्यात् ।

तत्र मन्त्रः ।

यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥ १॥

इति पठित्वा प्रणवेन पञ्चगव्यं पिबेत् ।

गायत्री जप एवं संकल्प

तद्दिने उपवासं कृत्वा अशक्तश्चेत्पयःपानं हविष्यान्ने नैकभक्तव्रतं कृत्वा ततः पुरश्चरणात्पूर्वदिने स्वदेहशुद्ध्यर्थं पुरश्चरणाधिकारप्राप्त्यर्थं चायुतगायत्रीजपं कुर्यात् ॥

संकल्प: देशकालौ सङ्कीर्त्यज्ञाताज्ञातपापक्षयार्थं करिष्यमाणोच्छिष्टगणेशपुरश्चरणाधिकारार्थममुकमन्त्रेण सिद्ध्यर्थं च गायत्र्ययुतजपमहं करिष्ये इति सङ्कल्प्य गायत्र्ययुतं जपेत् ।

ततः गायत्र्या आचार्यऋषिं विश्वामित्रं तर्पयामि १ गायत्रीछन्दस्तर्पयामि २ सवितारं देवतां तर्पयामि ३ इति तर्पणं कृत्वा ततोस्यां रात्रौ देवतोपास्तिं शुभाशुभस्वप्नं विचारयेत् ॥

स्वप्न विचार

स्नानादिकं कृत्वा हरिपादाम्बुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत् ॥

तत्र मन्त्रः

ॐ भगवन्देवदेवेश शूलभृद्वृषवाहन । इष्टानिष्टं समाचक्ष्व मम सुप्तस्य शाश्वत ॥ १॥

ॐ नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने । वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २॥

स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः । क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ३॥

इति मन्त्रेणाष्टोत्तरशतवारं शिवं प्रार्थ्य निद्रां कुर्यात् ॥ ततः स्वप्नं दृष्टं निशि प्रातर्गुरवे विनिवेदयेत् । अथवा स्वयं स्वप्नं विचारयेत् ।

प्रातः कृत्य (Morning Rites)

ततश्चन्द्रतारादिबलान्विते सुमुहूर्ते विविक्ते देशेजपस्थानं प्रकल्प्य पुरश्चरणदिवसे ब्राह्मे मुहूर्ते चोत्थाय प्रातःस्मरणं कुर्यात् ॥

गणेशप्रातःस्मरणम्

ॐ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूर्णपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- -माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥

प्रातर्नमामि चतुराननवन्द्यमान- -मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥

प्रातर्भजाम्यभयदं खलुभक्तशोक- -दावानलं गणविभुं वरकुञ्जरास्यम् । अज्ञानकाननविनाशनहव्यवाह- -मुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥

श्लोकत्रयमिदं पुण्यं सदासाम्राज्यदायकम् । प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥

भूमि प्रार्थना एवं शौच

इति स्मरणं कृत्वा भूमिं प्रार्थयेत् । तत्र मन्त्रः ।

समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १॥

इति भूमिं सम्प्रार्थ्य श्वासानुसारेण भूमौ पादं दत्त्वा बहिर्व्रजेत् ॥

शौचक्रिया: ततोग्रामाद्बहिर्नैरृत्यकोणे जनवर्जिते उत्तराभिमुखः अनुपानत्को वस्त्रेण शिरः प्रावृत्य मलमोचनं कृत्वामृत्तिकया जलेन च यथासङ्ख्यं शौचं कृत्वाहस्तौ पादौ प्रक्षाल्य गण्डूषं कृत्वा दन्तधावनं च कुर्यात् ॥

आम्रचम्पकापामार्गद्यन्यतमं द्वादशाङ्गुलं दन्तकाष्ठं गृहीत्वा प्रार्थयेत् ।

आयुर्बलंयशोवर्चः प्रजापशुधनानि च । श्रियं प्रज्ञा च मेधां च त्वं नो देहि वनस्पते ॥ १॥

इति सम्प्रार्थ्य ॐ ह्रीं तडित्स्वाहा इति मन्त्रेण काष्ठं छित्त्वा ॐ क्लीं कामदेवाय सर्वजनप्रियाय नमः इत्यनेन दन्तान् संशोध्य ऐँ इति बीजेन जिह्वामुल्लिख्य दन्तकाष्ठं क्षालयित्वा नैरृत्ये शुद्धदेशे निक्षिपेत् । मूलेन मखं प्रक्षाल्याचम्य स्नानं कुर्यात् ॥

स्नान प्रयोग

ततः तीर्थस्नानं मङ्गलस्नानं च सर्वदेवोपयोगिपद्धतिमार्गेण कृत्वा गृहस्नानं कुर्यात् ।

मंत्र:

गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १॥

ॐ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥ २॥

ब्रह्माण्डोदरतीर्थानि करैःस्पृष्ठानि ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ ३॥

ऋतं च सत्यमिति मन्त्रेणाभिमन्त्र्य स्नानं कुर्य्यात् ॥ एवं स्नानं कृत्वा शुष्कं शुभ्रं रक्तं वा कार्पासवस्त्रं परिधाय सूर्यायार्घ्यं दद्यात् ॥ सूर्य अर्घ्य मंत्र:

एहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥

इत्यर्घ्यं दत्त्वा स्नानवस्त्रं परिपीड्य आचम्य पञ्चत्रिपुड्रं कृत्वा रुद्राक्षमालां धारयेत् ॥

विघ्न निवारण

ततो जपस्थाने गत्वा नित्यनैमित्तिकं समाप्य अश्वत्थोदुम्बरप्लक्षानामन्यतमान् वितस्तिमात्रान् दश कीलान् ॥

ॐ नमः सुदर्शनायास्त्राय फट् इति मन्त्रेणाष्टोत्तरशताभिमन्त्रितान् ॥

ॐ ये चात्र विघ्नकर्तारो भुवि दिव्यन्तरिक्षगाः । विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥ १॥

मयैतत्कीलितं क्षेत्रं परित्यज्य विदूरतः । अपसर्पन्तु ते सर्वेनिर्विघ्नं सिद्धिरस्तु मे ॥ २॥

इति मन्त्रद्वयेन दशदिक्षु दश कीलान् निखनेत् ॥

ततस्तेषु ॐ सुदर्शनायास्त्राय फट् इति मन्त्रेण प्रत्येकं कीलकान् सम्पूज्य तद्बाह्ये भूतबलिं दद्यात् ॥

भूतबलि

ये रौद्रारौद्रकर्माणो रौद्रस्थाननिवासिनः । मातरोप्युग्ररूपाश्च गणाधिपतयश्च ये ॥ १॥

विघ्नभूताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः । ते सर्वे प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ २॥

इति मन्त्रद्वयेन दशदिक्षु बाह्ये माषभक्तबलिं दद्यात् ॥ इति भूतेभ्यो बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्याचामेत् ॥

आसन शुद्धि

ॐ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरःशुचिः ॥ १॥

इति मन्त्रेण मण्डपान्तरं प्रोक्ष्य तत्र तावत् आसनभूमौ कूर्मशोधनं कार्यम् ॥ यत्र जपकर्ता एक एव तदा कूर्ममुखे उपविश्य जपं तत्रैव दीपस्थानं च कुर्यात् ॥

कूर्म पूजन: यत्र बहवः जापकास्तत्र कूर्ममुखोपरि दीपमेव स्थापयेत् ॥ एवं कूर्मशोधनं विधाय तत्रासनाधो जलादिना त्रिकोणं कृत्वा तत्र ॥ ॐ कूर्माय नमः ॥ ॐ ह्रीं आधारशक्तिकमलासनाय नमः ॥ ॐ पृथिव्यै नमः ॥

इति गन्धाक्षतपुष्पैः सम्पूज्य तपदुरिकुशासनं तदुपरि मृगाजिनं तदुपरि कम्बलाद्यासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेण: १. ॐ अनन्तासनाय नमः । २. ॐ विमलासनाय नमः । ३. ॐ पद्मासनाय नमः । इति मन्त्रत्रयेण त्रीन् दर्भान् प्रत्येकं निदध्यात् ॥

आसन शोधन मंत्र:

एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वा उपविश्य आसनशोधनं कुर्यात् ॥ तत्र मन्त्रः ॥ पृथ्वीति मन्त्रस्य मेरुपृष्ठऋषिः । कूर्मो देवता । सुतलञ्छन्दः । आसने विनियोगः ॥


ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुनाधृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

इति मन्त्रेण आसनं प्रोक्ष्य ॥

संकल्प एवं षडङ्गन्यास

ततो मूलमन्त्रेण शिखां बद्धा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीमदुच्छिष्टगणपतिदेवताप्रीतये अमुकमन्त्रसिद्धये अमुकसङ्ख्याजपं तत्तद्दशांशहोमतर्पणमार्जनब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये ॥ इति सङ्कलप्य भूतशुद्धिं प्राणप्रतिष्ठामन्तर्मातृकाबहिर्मातृका- सृष्टिस्थितिसंहारमातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेण कृत्वा गणेशकलामातृकान्यासं च कुर्यात् ॥

विनियोगः ॐ अस्य विघ्नेशादिकलामातृकान्यासस्य गणकऋषिः । निचृद्गायत्री छन्दः । विनायको देवता । हलो बीजानि । स्वराः शक्तयः । सर्वेष्टसिद्धये न्यासे विनियोगः ॥

न्यास:

ॐ गाँ हृदयाय नमः । ॐ गीँ शिरसे स्वाहा । ॐ गूँ शिखायै वषट् । ॐ गैँ कवचाय हुँ । ॐ गौँ नेत्रत्रयाय वौषट् । ॐ गः अस्त्राय फट् ।

एवं षडङ्गन्यासं कृत्वा गजाननं ध्यायेत् ॥

ध्यानम्:

गुणाङ्कुशवराभीतिपाणिरक्ताब्जहस्तया । प्रिययालिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ॥ १॥

मातृका न्यास (Matrika Nyasa)

ॐ अँ विघ्नेशह्रीभ्यां नमः ललाटे । १। ॐ आँ विघ्नराजश्रीभ्यां नमः मुखवृत्ते । २। ॐ इँ विनायकपुष्टिभ्यां नमः दक्षिणनेत्रे । ३। ॐ ईँ शिवोत्तमशान्तिभ्यां नमः वामनेत्रे । ४। ॐ उँ विघ्नकृत्स्वस्तिभ्यां नमः दक्षिणकर्णे । ५। ॐ ऊँ विघ्नहर्तृसरस्वतीभ्यां नमः वामकर्णे । ६। ॐ ऋँ गणस्वाहाभ्यां नमः दक्षिणनासापुटे । ७। ॐ ॠँ एकदन्तसुमेधाभ्यां नमः वामनासापुटे । ८। ॐ ऌँ द्विदन्तकान्तिभ्यां नमः दक्षिणगण्डे । ९। ॐ ॡँ गजवक्त्रकामिनीभ्यां नमः वामगण्डे । १०। ॐ एँ निरञ्जनमोहिनीभ्यां नमः ऊर्ध्वोष्ठे । ११। ॐ ऐं कपर्दिनटीभ्यां नमः अधरोष्ठे । १२। ॐ ओं दीर्घजिह्वपार्वतीभ्यां नमः ऊर्ध्वदन्तपङ्क्तौ । १३। ॐ औं शङ्कुकर्णज्वालिनीभ्यां नमः अधोदन्तपङ्क्तौ । १४। ॐ अँ वृषभध्वजनन्दाभ्यां नमः शिरसि । १५। ॐ अः गणेशसुरेशीभ्यां नमः मुखे । १६।

ॐ कँ गजेन्द्रकामरूपिणीभ्यां नमः दक्षिणबाहुमूले । १७। ॐ खँ शूर्पकर्णोमाभ्यां नमः दक्षिणकूर्परे । १८। ॐ गँ त्रिलोचनतेजोवतीभ्यां नमः दक्षिणमणिबन्धे । १९। ॐ घँ लम्बोदरसत्याभ्यां नमः दक्षाङ्गुलिमूले । २०। ॐ ङँ महानन्दविघ्नेशीभ्यां नमः दक्षाङ्गुल्यग्रे । २१। ॐ चँ चतुर्मूर्तिस्वरूपिणीभ्यां नमः वामबाहुमूले । २२। ॐ छँ सदाशिवकामदाभ्यां नमः वामकूर्परे । २३। ॐ जँ आमोदमदजिह्वाभ्यां नमः वाममणिबन्धे । २४। ॐ झँ दुर्मुखभूतिभ्यां नमः वामाङ्गुलिमूले । २५। ॐ ञँ सुमुखभौतिकाभ्या नमः वामाङ्गुल्यग्रे । २६। ॐ टँ प्रमोदसिताभ्यां नमः दक्षपादमूले । २७। ॐ ठँ एकपादरमाभ्यां नमः दक्षिणजानुनि । २८। ॐ डँ द्विजिह्वमहिषीभ्यां नमः दक्षिणगुल्फे । २९। ॐ ढँ शूरभञ्जनीभ्यां नमः दक्षिणपादाङ्गुलिमूले । ३०। ॐ णँ वीरविकरणाभ्यां नमः दक्षिणपादाङ्गुल्यग्रे । ३१।

ॐ तँ षण्मुखभृकुटीभ्यां नमः वामपादमूले । ३२। ॐ थँ वरदलज्जाभ्यां नमः वामजानुनि । ३३। ॐ दँ वामदेवदीर्घ घोणाभ्यां नमः वामगुल्फे । ३४। ॐ धँ वक्रतुण्डधनुर्धराभ्यां नमः वामपादाङ्गुलिमूले । ३५। ॐ नँ द्विरदयामिनीभ्यां नमः वामपादाङ्गुल्यग्रे । ३६। ॐ पँ सेनानीरात्रिभ्यां नमः दक्षिणपार्श्वे । ३७। ॐ फँ कामान्धग्रामणीभ्यां नमः वामपार्श्वे । ३८। ॐ बँ मत्तशशिप्रभाभ्यां नमः पृष्ठे । ३९। ॐ भँ विमत्तलोललोचनाभ्यां नमः नाभौ । ४०। ॐ मँ मत्तवाहनचञ्चलाभ्यां नमः जठरे । ४१। ॐ यँ त्वगात्मभ्यां जटिदीप्तिभ्यां हृदि । ४२। ॐ रँ असृगात्मभ्यां मुण्डिसुभगाभ्यां नमः दक्षांसे । ४३। ॐ लँ मांसात्मभ्यां खडिदुर्भगाभ्यां नमः ककुदि । ४४। ॐ वँ मेदात्मभ्यां नमः वरेण्यशिवाभ्यां नमः वामासे । ४५।

ॐ शँ अस्थ्यात्मभ्यां वृषकेतनभगाभ्यां नमः हृदयादिदक्षहस्तान्तम् । ४६। ॐ षँ मज्जात्मभ्यां भक्तिप्रियभगिनीभ्यां नमः हृदयादिवामहस्तान्तम् । ४७। ॐ सँ शुक्रात्मभ्यां गणेशभोगिनीभ्यां नमः हृदयादिदक्षपादान्तम् । ४८। ॐ हँ प्राणात्मभ्यां मेघनादसुभगाभ्यां नमः हृदयादिवामपादान्तम् । ४९। ॐ ळँ शक्त्यात्मभ्यां व्याप्तिकालरात्रिभ्यां नमः जठरे । ५०। ॐ क्षँ परमात्मभ्यां गणेश्वरकालिकाभ्यां नमः मुखे । ५१॥

इति सर्वगणेशमन्त्राङ्गभूतविघ्नेशादिकलामातृकान्यासः ॥ एवं कलान्यासं कृत्वा प्रयोगोक्तन्यासादिकं कुर्य्यात् ॥

पीठ पूजन (Peetha Puja)

ततः पीठादौ रचिते सर्वतोभद्रमण्डले गणेशमण्डले वा मण्डूकादिपरतत्त्वान्तपीठदेवताः स्थापयेत् ॥ तथा च ॥

पुष्पाक्षतानादाय स्ववामभागे श्रीगुरुभ्यो नमः । १। दक्षिणे गणपतये नमः । २। मध्ये स्वेष्टदेवतायै नमः । ३। इति नत्वा पीठमध्ये:

ॐ मँ मण्डूकाय नमः । ४। ॐ कँ कालाग्निरुद्राय नमः । ५। ॐ आँ आधारशक्तये नमः । ६। ॐ कूँ कूर्माय नमः । ७। ॐ अँ अनन्ताय नमः । ८। ॐ पृँ पृथिव्यै नमः । ९। ॐ क्षीं क्षीरसागराय नमः । १०। ॐ रँ रत्नद्वीपाय नमः । ११। ॐ रँ रत्नमण्डपाय नमः । १२। ॐ कँ कल्पवृक्षायै नमः । १३। ॐ रँ रत्नवेदिकायै नमः । १४। ॐ रँ रत्नसिंहासनाय नमः । १५।

इत्युपर्युपरि सम्पूज्य ॥

दिशा पूजन: आग्नेय्यां ॐ धँ धर्म्माय नमः । १६। नैरृत्यां ॐ ज्ञाँ ज्ञानाय नमः । १७। वायव्ये ॐ वैं वैराग्याय नमः । १८। ऐशान्ये ॐ ऐं ऐश्वर्याय नमः । १९। पूर्वे ॐ अँ अधर्माय नमः । २०। दक्षिणे ॐ अँ अज्ञानाय नमः । २१। पश्चिमे ॐ अँ अवैराग्याय नमः । २२। उत्तरे ॐ अँ अनैश्वर्याय नमः । २३। इति पूजयेत् ॥

ततः पुनः पीठमध्ये ॥

ॐ आँ आनन्दकन्दाय नमः । २४। ॐ सँ संविन्नालाय नमः । २५। ॐ सँ सर्वतत्त्वकमलासनाय नमः । २६। ॐ प्रँ प्रकृतिमयपत्रेभ्यो नमः । २७। ॐ विं विकारमयकेसरेभ्यो नमः । २८। ॐ पँ पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः । २९। ॐ अँ अर्कमण्डलाय द्वादशकलात्मने नमः । ३०। ॐ सोँ सोममण्डलाय षोडशकलात्मने नमः । ३१। ॐ वँ वह्निमण्डलाय दशकलात्मने नमः । ३२। ॐ सँ सत्त्वाय नमः । ३३। ॐ रँ रजसे नमः । ३४। ॐ तँ तमसे नमः । ३५। ॐ आँ आत्मने नमः । ३६। ॐ पँ परमात्मने नमः । ३७। ॐ अँ अन्तरात्मने नमः । ३८। ॐ ह्रीं ज्ञानात्मने नमः । ३९। ॐ मँ मायातत्त्वाय नमः । ४०। ॐ कँ कलातत्त्वाय नमः । ४१। ॐ विं विद्यातत्त्वाय नमः । ४२। ॐ पँ परतत्त्वाय नमः । ४३।

एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत्: तद्यथा ।

पूर्वे ॐ तीव्रायै नमः । १। आग्नेय्यां ॐ चालिन्यै नमः । २। दक्षिणे ॐ नन्दायै नमः । ३। नैरृत्ये ॐ भोगदायै नमः । ४। पश्चिमे ॐ कामरूपिण्यै नमः । ५। वायव्ये ॐ उग्रायै नमः । ६। उत्तरे ॐ तेजोवत्यै नमः । ७। ऐशान्ये ॐ सत्यायै नमः । ८। पीठमध्ये ॐ विघ्ननाशिन्यै नमः । ९।

इति पीठशक्तीः सम्पूज्य पात्रासादनं कुर्यात् ॥

पात्रासादन एवं कलश स्थापन

अथ पात्रासादनप्रयोगः ॥ तत्र पात्रासादनं सर्वदेवोपयोगिपद्धतिमार्गेण सविस्तरं कृत्वा अशक्तश्चेत्साधारणं कुर्यात् ॥ तत्र क्रमः ॥ तत्रादौ गन्धाक्षतादिपूजोपकरणानिस्वदक्षिणपार्श्वे संस्थाप्य जलार्थं बृहत्पात्रं व्यजनं छत्रादर्शचामराणि वामपार्श्वे स्थापयित्वा कलशस्थापनं कुर्यात् ॥

अथ कलशस्थापनप्रयोगः ॥ स्ववामभागे त्रिकोणमण्डलं कृत्वा जलेन प्रोक्ष्य त्रिकोणान्तर्मायां विलिख्य ॥ ॐ ह्रीं आधारशक्तयै नमः । इति सम्पूज्य ततो मूलेन नमः । इति त्रिपदाधारं प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य तत्र सुदर्शनायास्त्राय फट् इति मन्त्रेण कलशं प्रक्षाल्य आधारोपरि हस्तद्वयेन संस्थाप्य रक्तवस्त्रमाल्यादिना भूषयित्वा मूलेन नमः । इति जलेनापूर्य ॥

ॐ भूर्भुवः स्वः वरुण इहागच्छ इहतिष्ठ ॥

इति वरुणमावाह्य स्वेष्टदेवं ध्यात्वा गन्धपुष्पैः सम्पूजयेत् ॥ इति कलशस्थापनम् ॥

अथ शङ्खस्थापनप्रयोगः ॥ स्वदक्षिणे कलशोक्तविध्यनुसारेणाधारं संस्थाप्य ॐ सुदर्शनायास्त्राय फट् ॥ इति शङ्खं प्रक्षाल्य आधारोपरि संस्थाप्य मूलेन नमः इति जलेनापूर्य ॥ प्रणवेन गन्धादिभिः सम्पूज्याभिमन्त्रयेत् ॥

ॐ शङ्खादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता । पृष्ठे प्रजापतिश्चैवमग्रे गङ्गा सरस्वती ॥ १॥

त्रैलोक्ये तानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं प्रपूजयेत् ॥

इत्यभिमन्त्र्य प्रार्थयेत् ॥

ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ २॥

पाञ्चजन्याय विद्महे पावमानाय धीमहि । तन्नः शङ्खः प्रचोदयात् ॥

इति प्रार्थ्य शङ्खमुद्रां प्रदर्शयेत् । इति शङ्खस्थापनम् ॥

घण्टास्थापनप्रयोगः । स्ववामभागे घण्टां संस्थाप्य ।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । घण्टानादं प्रकुर्वीत पश्चाद्घण्टां प्रपूजेत् ॥ १॥

ॐ भूर्भुवः स्वः गरुडाय नमः आवाहयामि । सर्वोपचारार्थं गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥ इत्यावाह्य ॥

ॐ जगद्ध्वनिमन्त्रमातः स्वाहा ॥ इति मन्त्रेण घण्टास्थितगरुडं घण्टां च सम्पूज्य प्रणम्य गरुडमुद्रां प्रदर्शयेत् ॥

इति घण्टास्थापनम् ॥ ततः शङ्खात्पूर्वादिप्रादक्षिण्येन पाद्यार्घ्याचमनीयमधुपर्कस्नानार्थं पञ्चपात्राणि अशक्तश्चेत्तर्हि एकमेव पात्रं संस्थाप्य सामान्यविधिना पूजयेत् ॥ एवं पूजापात्राणि सम्पाद्य ॥

प्राण प्रतिष्ठा

प्रयोगोक्ते यन्त्रे मूर्तौ वा अग्न्युत्तारणपूर्वकं प्राणान्प्रतिष्ठापयेत् ॥ प्राणप्रतिष्ठाम् । आचम्य देशकालौ सङ्कीर्त्य ममेत्यादिअमुकगणपतिर्देवतानूतनयन्त्रे (मूर्तौ वा) प्राणप्रतिष्ठां करिष्ये ॥ इति सङ्कल्प्य ॥ अस्य श्रीप्राणप्रतिष्टामन्त्रस्य ब्रह्मविष्णुमहेश्वराऋषयः । ऋग्यजुःसामानिच्छन्दांसि । क्रियामयवपुःप्राणाख्या देवता । आँ बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । अस्मिन्नूतनयन्त्रे अस्यां (नूतनमूर्तौ वा) प्राणप्रतिष्ठापने विनियोगः । इति जलं क्षिपेत् ॥ करेणाच्छाद्य ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँसः सोऽहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) प्राणा इह प्राणाः ॥ १॥

पुनः ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँसः सोऽहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) जीव इह स्थितः ॥ २॥

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँसः सोऽहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) सर्वेन्द्रियाणीह स्थितानि ॥ ३॥

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँसः सोऽहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ४॥

इति प्राणान्प्रतिष्ठाप्य गर्भाधानादिपञ्चदशसंस्कारसिद्धये पञ्चदशप्रणवावृत्तीः कृत्वा । अनेन श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) गर्भाधानादिपञ्चदशसंस्कारान्सम्पादयामि इति वदेत् ॥

एवं प्राणप्रतिष्ठाप्रयोगः ॥

आवाहनम्

तत आवाहनादिपूजां कुर्यात् । तद्यथा ॥ अथावाहनम् । अक्षतानादाय

देवेश भक्तिसुलभ परिवारसमन्वित । यावत्त्वां पूजयिष्यामि तावद्देव इहावह ॥ १॥

आगच्छ भगवन्देव स्थाने चात्र स्थितोभव । यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥ २॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिर्देवतामावाहयामि । इत्यावाहनम् ॥ १॥

तवेयं महिमामूर्तिस्तस्यां त्वां सर्वग प्रभो । भक्तिस्नेहसमाकृष्टदीपवत्स्थापयाम्यहम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह तिष्ठ । इति स्थापनम् ॥ २॥

अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो । सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सन्निधेहि । इति सन्निधापनम् ॥ ३॥

आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे । आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सन्निरुध्य । इति सन्निरोधनम् ॥ ४॥

अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च । यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सम्मुखो भव । इति सम्मुखीकरणम् ॥ ५॥

अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरातिगद्युते । स्वतेजःपञ्जरेणाशु वेष्टितो भव सर्वतः ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव अवगुण्ठितो भवः । इत्यवगुण्ठनम् ॥ ६॥

यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च ते ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः सुस्वागतं समर्पयामि । इति सुस्वागतम् ॥ ७॥

देवदेव महाराजप्रियेश्वर प्रजापते । आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥ १॥

अपराधो भवत्येव सेवकस्य पदेपदे । कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ २॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः आसनं समर्पयामि । इत्यासनम् ॥ ८॥

ततः प्रार्थयेत् ॥ तत्र मन्त्रः ॥

स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः । प्राकृतं त्वं च दृष्वा मां बालवत्परिपालय ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः प्रार्थनां समर्पयामि नमस्करोमि । इति प्रार्थना ॥ ९॥

उपचार पूजा (Upachara Puja)

अथ पाद्यादिपूजाप्रयोगः ॥

यद्भक्तिलेशशसम्पर्कात्परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः पाद्यं समर्पयामि । इति पाद्यम् ॥ १०॥

तापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्त तवार्घ्यं कल्पयाम्यहम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः इदमर्घ्यं समर्पयामि । इत्यर्घ्यः ॥ ११॥

वेदानामपि देवाय वेदानां देवतात्मने । आचामं कल्पयामीश शुद्धानां शुद्धि हेतवे ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः आचमनीयं समर्पयामि । इत्याचमनम् ॥ १२॥

इत्याचमनं दत्त्वा मधुपर्कपञ्चामृतस्नानादि च सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् ॥ अशक्तश्चेज्जलस्नानं मधुस्नानं शुद्दोदकस्नानं च कुर्यात् ॥ तद्यथा ॥

गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्वमे ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः जलस्नानं समर्पयामि । इति जलस्नानम् ॥ १३॥

तरुपुष्पसद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः मधुस्नानं समर्पयामि ॥ इति मधुस्नानम् ॥१४॥

गङ्गासरस्वतीरेवापयोष्णी नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः शुद्धोदकस्नानं समर्पयामि । इति शुद्धोदकस्नानम् ॥ १५॥ एवं स्नानं समर्पयाचमनं दद्यात् ॥

ततः ।

सर्वभूषादिकेसाम्ये लोकलज्जानिवारणे । मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः रक्तवस्त्रं समर्पयामि । इति रक्तवस्त्रम् ॥ १६॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः यज्ञोपवीतं समर्पयामि । इति यज्ञोपवीतम् ॥ १७॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः गन्धं समर्पयामि ॥ अङ्गुष्ठौ कनिष्ठामूललग्नौ गन्धमुद्रा । इति गन्धम् ॥ १८॥

अक्षताश्च सुरश्रेष्ट कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः अक्षतान्समर्पयामि । सर्वाङ्गुलीभिर्दद्यात् । इत्यक्षतान् ॥ १९॥

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः रक्तपुष्पं समर्पयामि ॥ तर्जन्यावङ्गुष्ठमूललग्ने पुष्पमुद्रा । इति पुष्पम् ॥ २०॥

(पुष्पं पत्रं फलं देवेन च दद्यादधोमुखम् । पुष्पाञ्जलौ न तद्दोषस्तधा पर्य्युषितस्य च ॥) एवं पुष्पान्तं पूजयित्वा प्रयोगोक्तावरणपूजां च कृत्वा धूपादिपूजनं कुर्यात् ॥

धूप एवं दीप

धूपादिपूजाप्रयोगः । फडिति धूपपात्रं सम्प्रोक्ष्य नम इति गन्धपुष्पाभ्यां सम्पूज्य पुरतो निधाय रं इति वह्निबीजेन उपरि अग्निं संस्थाप्य तदुपरि दशाङ्गं दत्त्वा घण्टां च नादयन् ॥

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः धूपं समर्पयामि ॥ इति पठित्वा देवस्य वामभागे धूपपात्रं संस्थाप्य तर्जनीमूलयोरङ्गुष्ठयोगो धूपमुद्रा तां प्रदर्शयेत् । इति धूपम् ॥ २१॥

ततो दीपपात्रं गोघृतेनापूर्य वर्णाक्षरतन्तुभिर्वर्तिं निक्षिप्य प्रणवेन प्रज्वाल्य घण्टां वादयन् मन्त्रं पठेत् ॥

सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगह्यताम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः दीपं समर्पयामि ॥ इति पठित्वा देवस्य दक्षिणभागे निधाय मध्यमे अङ्गुष्ठलग्ने दीपमुद्रा तां प्रदर्शयेत् । इति दीपम् ॥ २२॥

नैवेद्यम् (Naivedya)

अथ नैवेद्यम् ॥ देवस्याग्रे जलेन चतुरस्रं मण्डलं कृत्वा स्वर्णादिनिर्मितं भोजनपात्रं संस्थाप्य तन्मध्ये मोदकं गुडमिश्रितपायसं वा निधाय ॐ यं इति वायुबीजेन द्वादशवाराभिमन्त्रिताऽर्घजलेन सम्प्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तद्दृशं वामं नैवेद्येनाच्छाद्य ॐ यं इति वायुबीजं षोडशधा सञ्जप्य वायुना तद्गतदोषान् संशोष्य दक्षिणकरतले ॐ रं इत्यग्निबीजं विचिन्त्य तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य ॐ रं इति वह्निबीजेन षोडशवारं सञ्जप्य तदुत्पन्नाग्निना तद्दोषं दग्ध्वा वामकरतले ॐ वं इति अमृतबीजं विचिन्त्य तत्पृष्ठलग्ने दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्श्य ॥

पुनः ॐ वं इति सुधाबीजं षोडशवारं जपित्वा तदुत्थामृतधारया प्लावितं विभाव्य मूलमन्त्रेण प्रोक्ष्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टधाभिमन्त्र्य गन्धपुष्पाभ्यां सम्पूज्य वामाङ्गुष्ठेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिणकरेण जलं गृहीत्वा -

सत्पात्रसिद्धिं सुहविर्विविधानेकभक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवः स्वः साङ्गाय सपरिवाराय श्रीमदुच्छिष्टगणपतये नमः नैवेद्यं समर्पयामि इति जलमुत्सृज्य अनामामूलयोरङ्गुष्ठयोगे नैवेद्यमुद्रा तां प्रदर्शयेत् । इति नैवेद्यम् ॥ २३॥

अथान्तःपटम् ॥

ब्रह्मेशाद्यैः सरसमभितः सोपविष्टैः समन्ता- -च्छिञ्जद्वालव्यजनैकरैर्वीज्यमानः सखीभिः । नर्मक्रीडाप्रहसनपरान्पङ्क्तिभोक्तॄन्हसन्वै भुङ्क्ते पात्रे कनकघटिते षड्रसाञ्छ्रीगणेशः ॥ १॥

शालीभक्तं सुपक्वं शिशिरकरसितं पायसापूपसूपं लेह्यं पेयं च चोष्यं सितममृतफलं घारिकाद्यं सुखाद्यम् । आज्यं प्राज्यं सभोज्यं नयनरुचिकरं राजिकैलामरीच- -स्वादीयः शाकराजीपरिकरममृताहारजोषं जुषस्व ॥ २॥

इत्यन्तःपटम् ॥ २४॥

नमस्ते देवदेवेश सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः जलं समर्पयामि । इति जलम् ॥ २५॥

पुनर्गण्डूषार्थं जलं दत्त्वा मूलेन शुद्धाचमनं च दद्यात् ॥

अथ ताम्बूलम् ॥

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिभिर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः ताम्बूलं समर्पयामि । इति ताम्बूलम् ॥ २६॥

अथ फलम् ॥

इदं फलं मया देव स्थापितं पुरतस्त्व । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः फलं समर्पयामि । इति फलम् ॥ २७॥

आरती एवं पुष्पांजलि

शक्तश्चेत् क्षेत्रादिदक्षिणापर्यन्तं सर्वदेवोपयोगिपद्धतिमार्गेण दत्त्वा आरात्रिकं कुर्य्यात् ॥ अथ कर्पूररात्रिकम् ॥

कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् । आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः कर्पूरारात्रिकं समर्पयामि । इति पठित्वा मूलेन देवोपरि नेत्रादिपादपर्यन्तं नववारं त्रिवारं वा भ्रामयेत् घण्टां च नादयेत् । इति कर्पूरारात्रिकम् ॥ २८॥

अथ प्रदक्षिणा ॥

यानि कानि च पापानि जन्मान्तरकृतानि वै । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदेपदे ॥ १॥

इति मन्त्रेण तिस्रः प्रदक्षिणा दद्यात् ॥ मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः प्रदक्षिणां समर्पयामि । इति प्रदक्षिणा ॥ २९॥

अथ पुष्पाञ्जलिः ॥

नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिं मया दत्तं गृहाण परमेश्वर ॥ १॥

मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः पुष्पाञ्जलिं समर्पयामि । इति पुष्पाञ्जलिः ॥ ३०॥

अथ साष्टाङ्गप्रणामः । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहाणर्वात् ॥ इति वदन् साष्टाङ्गप्रणामे नाम निवेदयेत् ॥ ३१॥

क्षमा प्रार्थना

तत्स्तुतिपाठेन देवं स्तुत्वा बद्धाञ्जलिपूर्वकं क्षमापयेत् ॥

ज्ञानतोऽज्ञानतो वाथ यन्मया क्रियतेऽशिवम् । मम कृत्यमिदं सर्वमिति देव क्षमस्वमे ॥ १॥

अपराधसहस्राणि क्रियन्तेऽहनिर्शं मया । दासोऽहमिति मां मत्त्वा क्षमस्व परमेश्वर ॥ २॥

अपराधो भवत्येव सेवकस्य पदेपदे । कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ ३॥

भूमौस्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जाता पराधानां त्वमेव शरणं शिव ॥ ४॥

इति बद्धाञ्जलि पूर्वकं क्षमापनम् ॥ ३२॥

अथ प्रार्थना

यदुक्तं यदि भावेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥ १॥

इति प्रार्थ्य देवस्य दक्षिणकरे किञ्चिज्जलं दद्यात् । इति प्रार्थना ॥ ३३॥

जप संकल्प एवं समर्पण

ततः पश्चात्सर्वदेवोपयोगिपद्धतिमार्गेण मालायाः संस्कारान् कुर्यात् ॥ अशक्तश्चेत्साधारणसंस्कारं कुर्यात् ॥ तथा च जपमालामानीय क्वचित्पात्रे वामहस्तेनाच्छाद्य मूलेनार्घ्योदकेनाभ्युक्ष्य

ॐ मालेमाले महामाये सर्वशक्ति स्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मात्त्वं सिद्धिदा भव ॥ १॥

इत्यनेन गन्धपुष्पाभ्यां सम्पूज्य ततो देवतानिवेदितमोदकं ताम्बूलं वा स्वयं भुङ्क्ता पुनः अविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा ॥ इति मन्त्रेण दक्षिणहस्ते मालामादाय हृदये धारयन् स्वेष्टदेवतां ध्यात्वा मध्यमाङ्गुलिमध्यपर्वाणि संस्थाप्य ज्येष्ठाग्रेण भ्रामयित्वा एकाग्रचित्तो मन्त्रार्थं स्मरन् यथाशक्ति मूलमन्त्रं जपेत् ॥

जपान्ते -

ॐ त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम । शुभं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ॥ १॥

ॐ ह्रीं सिद्ध्यै नमः ॥ इति मालां शिरसि निधाय गोमुखीं रहसि स्थापयेत् ॥ नाशुचिः स्पर्शयेत् । नान्यस्मै दद्यात् । अशुचिस्थाने न निधापयेत् । स्वयोनिद्गुप्तां कुर्यात् ।

ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमन्त्रस्य ऋष्यादिन्यासं करन्यासं हृदयादिषडङ्गन्यासं च कृत्वा पञ्चोपचारैः सम्पूज्य पुष्पाञ्जलिं दद्यात् । ततः अर्घ्योदकेन चुलुकमादाय -

ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्म्त्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वसि स्थितिः ॥ १॥

ॐ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तितुर्यावस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा ॥

मां मदीयं च सकलं श्रीमदुच्छिष्टगणपतिदेवतायै समर्पयामि नमः ॥

ॐ तत्सदिति ब्रह्मार्पणं भवतु ॥

इति देवदक्षिणकरे जपसमर्पण जलं दत्त्वा कृताञ्जलिपूर्वकं क्षमापनं कुर्यात् ॥

अथ क्षमापनम्

आवाहनं न जानामि न जानामि विसर्जनम् । पूजाभागं न जानामि त्वं गतिः परमेश्वर ॥ १॥

कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम । अन्तश्चरसि भूतानामिष्टस्त्वं परमेश्वर ॥ २॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ ३॥

शतयोनि सहस्राणां सहस्रेषु व्रजाम्यहम् । तेषु चेष्टाचला भक्तिरच्युतास्तु सदा त्वयि ॥ ४॥

गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ ५॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ ६॥

यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्य तां देव प्रसीद परमेश्वर ॥ ७॥

देवो दाता च भोक्ता च देवरूपमिदं जगत् । देवं जपति सर्वत्रयो देवः सोऽहमेव हि ॥ ८॥

क्षमस्व देवदेवेश क्षम्यते भुवनेश्वर । तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे ॥ ९॥

इति कृताञ्जलिः प्रार्थयित्वा ततः शङ्खमुद्धृत्य देवोपरि भ्रामयित्वा ॥

साधु वासाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं कृपया देव गृहाणाराधनं मम ॥ १॥

इत्युच्चरन्देवस्य दक्षिणहस्ते किञ्चिज्जलं दत्त्वा प्राग्वदर्घ्यं देवशिरसि दत्त्वा शङ्खं यथास्थाने निवेश्य मूलेन देवोच्छिष्टनैवेद्यादिकं शिरसि धृत्वा देवभक्तेषु विभज्य स्वयं भुक्त्वा बलीत्यादिकं गतसारनैवेद्यं च तदुच्छिष्टभोजिने इति निवेदयेत् ॥

अथ विसर्जनम्

गच्छगच्छ परस्थाने स्वस्थाने परमेश्वर । यं हि ब्रह्मादयो देवा न विदुःपरमं पदम् ॥ १॥

इत्यक्षतान्निक्षिप्य देवंस्वहृदयमध्ये स्थापयेत् ॥ तद्यथा -

तिष्ठ तिष्ठ परस्थाने स्वस्थाने परमेश्वर । यत्र ब्रह्मादयोदेवाः सर्वे तिष्ठन्ति मे हृदि ॥ १॥

इति देवं हृदये संस्थाप्य मानसोपचारैः सम्पूज्य स्वात्मानं देवरूपं भावयन् यथासुखं विहरेत् ॥ अयं सर्वगणपतिपूजाक्रमः साधारणः ॥ इति श्रीमदुच्छिष्टगणपत्युपासनापञ्चरत्ने श्रीमदुच्छिष्टगणपतिपूजापद्धति निरूपणं नाम द्वितीय रत्नम् ॥ २॥

पूजा का फल (Benefits)

शास्त्रों में इस विधि से की गई पूजा का महान फल बताया गया है:

  • शीघ्र सिद्धि - मंत्र और मनोरथ शीघ्र सिद्ध होते हैं
  • विघ्न नाश - बड़े से बड़े संकट और बाधाएं दूर होती हैं
  • ग्रह शांति - नवग्रह जनित दोष शांत होते हैं
  • ऐश्वर्य प्राप्ति - लक्ष्मी की कृपा और सुख-संपत्ति प्राप्त होती है

सामान्य प्रश्न (FAQ)

उच्छिष्ट गणपति की पूजा कब करनी चाहिए?

तांत्रिक पूजा के लिए कृष्ण चतुर्थी से शुक्ल चतुर्थी तक का समय विशेष माना गया है। नित्य पूजा भी की जा सकती है।

क्या इसमें दीक्षा आवश्यक है?

हां, यह एक तांत्रिक पद्धति है जिसमें न्यास और आवरण पूजा का विधान है, अतः गुरु दीक्षा अनिवार्य है।

आवरण पूजा का क्या महत्व है?

आवरण पूजा में देवता के परिवार और शक्तियों की पूजा होती है, जिससे मुख्य देवता की कृपा और सिद्धि शीघ्र प्राप्त होती है।

।। ॐ महालक्ष्म्यै नमः ।।