उच्छिष्ट गणपति मन्त्र प्रयोग
Uchchishta Ganapati Mantra Prayoga
उच्छिष्टगणपतिपटलम् उच्छिष्ट गणपति पञ्चाङ्ग का प्रथम और सबसे महत्वपूर्ण अंग है। इसमें भगवान उच्छिष्ट गणपति के विभिन्न सिद्ध मन्त्रों (नवार्ण, द्वादशाक्षर, सप्तत्रिंशदक्षर आदि) का विस्तृत विधान, न्यास, ध्यान और प्रयोग वर्णित हैं।
यह उच्छिष्ट गणपति पञ्चाङ्ग का आधारभूत ग्रंथ है।
विशेष चेतावनी
⚠️ सुरक्षा निर्देश: ये अत्यंत शक्तिशाली तांत्रिक मन्त्र हैं। इनका अनुष्ठान केवल योग्य गुरु से दीक्षा प्राप्त करने के बाद ही करें।
१.१ उच्छिष्ट गणपति नवार्ण मन्त्र :
तत्रादौ श्रीमदुच्छिष्टगणपतिपटलं प्रारभ्यते । श्रीमहादेव उवाच । हस्तिपदं समुच्चार्य पिशाचीतिपदं ततः । देवराजं सनेत्रं च कान्तमीशस्वरान्वितम् । वह्निजायावधिर्मन्त्रस्ताराद्यः सर्वकामदः । प्रणवस्थाने गमिति केचित् ॥
नवार्ण मन्त्र (9 अक्षर)
विनियोग एवं न्यास :
अस्य विधानम् -
विनियोगः ॐ अस्य श्रीमदुच्छिष्टगणेशनवार्णमन्त्रस्य कङ्कोलऋषिः । विराड्छन्दः । उच्छिष्टगणपतिर्देवता । अखिलाप्तये जपे विनियोगः ॥
ऋष्यादि न्यास: ॐ कङ्कोलर्षये नमः शिरसि । ॐ विराट्छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
करन्यास: ॐ हस्ति अङ्गुष्ठाभ्यां नमः । ॐ पिशाचि तर्जनीभ्यां नमः । ॐ लिखे मध्यमाभ्यां नमः । ॐ स्वाहा अनामिकाभ्यां नमः । ॐ हस्ति पिशाचि लिखे कनिष्ठिकाभ्यां नमः । ॐ हस्ति पिशाचि लिखे स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
हृदयादि न्यास: ॐ हस्ति हृदयाय नमः । ॐ पिशाचि शिरसि स्वाहा । ॐ लिखे शिखायै वषट् । ॐ स्वाहा कवचाय हुं । ॐ हस्तिपिशाचि लिखे स्वाहा अस्त्राय फट् । इति हृदयादिपञ्चाङ्गन्यासः ॥
ध्यानम् :
एवं न्यासं कृत्वा ध्यायेत् ॥
अथ ध्यानम् - चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ । करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥ १॥
इति ध्यायेत् ॥
१.२ यन्त्र और आवरण पूजा :
ततः पीठादौ रचिते सर्वतोभद्रमण्डले गणेशमण्डले वा मण्डूकादिपरतत्त्वान्तपीठदेवताः पद्धतिमार्गेण संस्थाप्य ॐ मं मण्डूकादिपरतत्त्वान्तपीठदेवताभ्यो नमः । इति सम्पूज्य नव पीठशक्तीः पूजयेत् ॥
तद्यथा । पूर्वादिक्रमेण ॐ तीव्रायै नमः । १। ॐ चालिन्यै नमः । २। ॐ नन्दायै नमः । ३। ॐ भोगदायै नमः । ४। ॐ कामरूपिण्यै नमः । ५। ॐ उग्रायै नमः । ६। ॐ तेजोवत्यै नमः । ७। ॐ सत्यायै नमः । ८। ॐ विघ्ननाशिन्यै नमः । ९। इति पूजयेत् ॥
ततः स्वर्णादिनिर्मितं यन्त्रं मूर्तिं वा ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारां च दत्त्वा स्वच्छवस्त्रेणाशोष्य ॥
ॐ ह्रीं सर्वशक्ति कमलासनाय नमः । इति मन्त्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य पद्धतिमार्गेण प्रतिष्ठां च कृत्वा मूलेन मूर्त्तिं प्रकल्प्य पाद्यादिपुष्पान्तैरूपचारैः सम्पूज्य देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥
यन्त्र पूजा क्रम :
१.२ उच्छिष्टगणपतिनवार्णयन्त्रम् । तत्र क्रमः ॥
पुष्पाञ्जलिमादाय "ॐ संविन्मयः परो देव परामृतरसप्रिय । अनुज्ञां देहि गणप परिवारार्चनाय मे ॥ १॥" इति पठित्वा पुष्पाञ्जलिं गणेशोपरि दत्त्वा पूजितस्तर्पितोऽस्तु इति वदेत् । इत्याज्ञां गृहीत्वा षट्कोणे षडङ्गानि पूजयेत् । (तन्त्रान्तरे तु ॐ हस्ति पिशाचि लिखे स्वाहा गँ हस्ति पिशाचि लिखे स्वाहा नवार्णभेदेन दशाक्षरीमन्त्रः ॥ तन्त्र प्रणवस्थान गँ बीजं वदेत् । इति पुस्तकान्तरे ।)
तथा च । अग्निकोणे: ॐ गां हस्ति हृदयाय नमः (१) हृदयश्रीपादुकां पूजयामि तर्पयामि नमः ॥ नैरृत्ये: ॐ गीं पिशाचि शिरसि स्वाहा (२) शिरःश्रीपादुकां पूजयामि तर्पयामि नमः ॥ वायव्ये: ॐ गूं लिखे शिखायै वषट् (३) शिखाश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ऐशान्ये: ॐ गैं स्वाहा कवचाय हुं (४) कवचश्रीपादुकां पूजयामि तर्पयामि नमः ॥ मध्ये: ॐ गौं हस्ति पिशाचि लिखे स्वाहा नेत्रत्रयाय वौषट् (५) नेत्रत्रयश्रीपादुकां पूजयामि तर्पयामि नमः ॥ दिक्षु: ॐ गः हस्ति पिशाचि लिखे स्वाहा अस्त्राय फट् (६) अस्त्रश्रीपादुकां पूजयामि तर्पयामि नमः । इति पूजयेत् ॥
आवरण पूजा (Avarana Puja)
ततः पुष्पाञ्जलिमादाय मूलं पठित्वा । "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १॥" इति पुष्पाञ्जलिं दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु । इति वदेत् ॥
इति प्रथमावरणम् ॥ १॥
तथोऽष्टदले पूज्यपूजकयोरन्तरालं प्राची तदनुसारेण अन्या दिशः प्रकल्प्य दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा प्राच्यादिक्रमेण अष्टसु दिक्षु ॥
प्राच्यां: ॐ ब्राह्म्यै (७) नमः ब्राह्मीश्रीपादुकां पूजयामि तर्पयामि नमः १॥
आग्नेय्यां: ॐ माहेश्वर्यै (८) नमः माहेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः २॥
दक्षिणे: ॐ कौमार्यै (९) नमः कौमारीश्रीपादुकां पूजयामि तर्पयामि नमः ३॥
नैरृत्ये: ॐ वैष्णव्यै (१०) नमः वैष्णवीश्रीपादुकां पूजयामि तर्पयामि नमः ४॥
पश्चिमे: ॐ वाराह्यै (११) नमः वाराहीश्रीपादुकां पूजयामि तर्पयामि नमः ५॥
वायव्ये: ॐ इन्द्राण्यै (१२) नमः इन्द्राणीश्रीपादुकां पूजयामि तर्पयामि नमः ६॥
उत्तरे: ॐ चामुण्डायै (१३) नमः चामुण्डाश्रीपादुकां पूजयामि तर्पयामि नमः ७॥
ऐशान्ये: ॐ महालक्ष्म्यै (१४) नमः महालक्ष्मीश्रीपादुकां पूजयामि तर्पयामि नमः ८॥
इत्यष्टौ शक्तीः पूजयेत् ॥
ततः पुष्पाञ्जलिमादाय मूलं पठित्वा "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ १॥" इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ।
इति द्वितीयावरणम् ॥ २॥
ततः अष्टदलाद्बहिः चतुरस्राभ्यन्तरे प्राच्यां: ॐ वक्रतुण्डाय (१५) नमः वक्रतुण्डश्रीपादुकां पूजयामि तर्पयामि नमः १॥
आग्नेय्यां: ॐ एकदंष्ट्राय (१६) नमः एकदंष्ट्रश्रीपादुकां पूजयामि तर्पयामि नमः २॥
दक्षिणे: ॐ लम्बोदराय (१७) नमः लम्बोदरश्रीपादुकां पूजयामि तर्पयामि नमः ३॥
नैरृत्ये: ॐ विकटाय (१८) नमः विकटश्रीपादुकां पूजयामि तर्पयामि नमः ४॥
पश्चिमे: ॐ धूम्रवर्णाय (१९) नमः धूम्रवर्णश्रीपादुकां पूजयामि तर्पयामि नमः ५॥
वायव्ये: ॐ विघ्नराजाय (२०) नमः विघ्नराजश्रीपादुकां पूजयामि तर्पयामि नमः ६॥
उत्तरे: ॐ गजाननाय (२१) नमः गजाननश्रीपादुकां पूजयामि तर्पयामि नमः ७॥
ऐशान्ये: ॐ विनायकाय (२२) नमः विनायकश्रीपादुकां पूजयामि तर्पयामि नमः ८॥
प्राच्येशानयोर्मध्ये: ॐ गणपतये (२३) नमः गणपतिश्रीपादुकां पूजयामि तर्पयामि नमः ९॥
पश्चिमनैरृत्योर्मध्ये: ॐ हस्तिदन्ताय (२४) नमः हस्तिदन्तश्रीपादुकां पूजयामि तर्पयामि नमः १०॥
इति पूजयेत् ॥
ततः पुष्पाञ्जलिमादाय मूलं पठित्वा "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ १॥" इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ।
इति तृतीयावरणम् ॥ ३॥
भूपुराद्बहिः पूर्वादिक्रमेण पूर्वे: ॐ लं इन्द्राय (२५) नमः इन्द्रश्रीपादुकां पूजयामि तर्पयामि नमः १॥
आग्नेय्यां: ॐ रं अग्नये (२६) नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमः २॥
दक्षिणे: ॐ मं यमाय (२७) नमः यमश्रीपादुकां पूजयामि तर्पयामि नमः ३॥
नैरृत्ये: ॐ क्षं निरृतये (२८) नमः निरृतिश्रीपादुकां पूजयामि तर्पयामि नमः ४॥
पश्चिमे: ॐ वं वरुणाय (२९) नमः वरुणश्रीपादुकां पूजयामि तर्पयामि नमः ५॥
वायव्ये: ॐ यं वायव्ये (३०) नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमः ६॥
उत्तरे: ॐ कुं कुबेराय (३१) नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमः ७॥
ऐशान्ये: ॐ हं ईशानाय (३२) नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः ८॥
इन्द्रेशानयोर्मध्ये: ॐ आँ ब्रह्मणे (३३) नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः ९॥
वरुणनैरृतयोर्मध्ये: ॐ ह्रीं अनन्ताय (३४) नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमः १०॥
इति दशदिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य "ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ १॥" इत्युक्ता पुष्पाञ्जलिं च तत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितस्तर्पिताः सन्तु इति वदेत् ।
इति चतुर्थावरणम् ॥ ४॥
ततः पूर्वादिक्रमेण तत्तत्समीपे ॐ वं वज्राय (३५) नमः १॥
ॐ शं शक्तये (३६) नमः २॥
ॐ दं दण्डाय (३७) नमः ३॥
ॐ खं खड्गाय (३८) नमः ४॥
ॐ पाँ पाशाय (३९) नमः ५॥
ॐ अं अङ्कुशाय (४०) नमः ६॥
ॐ गं गदायै (४१) नमः ७॥
ॐ त्रिं त्रिशूलाय (४२) नमः ८॥
ॐ पं पद्माय (४३) नमः ९॥
ॐ चं चक्राय (४४) नमः १०॥
इत्यस्त्राणि पूजयेत् ॥
ततः पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्य्य "अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ १॥" इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ।
इति पञ्चमावरणम् ॥ ५॥
बलिदान एवं समापन
इत्यावरणपूजां कृत्वा धूपादिनमस्कारान्तं सम्पूज्य पिशितं वा फलं मोदकं वा गुडपायसं वा बलिं दद्यात् ॥
तत्र मन्त्रः । ॐ गँ हँ क्लौं ग्लौं उच्छिष्टगणेशाय महायक्षायायं बलिः ॥
इति मन्त्रेण निवेदयेत् । ततोदेवतानिवेदितं मोदकं ताम्बूलं वा स्वयं भुक्त्वा उच्छिष्टमुखेन जपं कुर्य्यात् ॥
पुरश्चरण विधि: अस्य पुरश्चरणमेकलक्षजपः । तद्दशांशतस्तिलहोमः । तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् ॥
एवं कृते मन्त्रः सिद्धो भवति । एवं सिद्धे मन्त्रे मन्त्री प्रयोगान्याधयेत् ॥
काम्य प्रयोग
तथा च । लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः । एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥ १॥
स्वाङ्गुष्ठप्रतिमां कृत्वा कपिना (रक्तचन्दनेन) सितभानुना (श्वेतार्केन) । गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ॥ २॥
प्रतिष्ठाप्य विधानेन मधुना स्नापयेच्च ताम् । आरभ्य कृष्णभूतादिं यावच्छुक्ला चतुर्दशी ॥ ३॥
सगुडं पायसं तस्मै निवेद्य प्रजपेन्मनुम् । सहस्रं प्रत्यहं तावज्जुहुयात्सघृतैस्तिलैः ॥ ४॥
गणेशोऽहमिति ध्यायन्नुच्छिष्टेनावृतो रहः । पक्षाद्राज्यमवाप्नोति नृपजोऽन्योऽपि वा नरः ॥ ५॥
कुलालमृत्स्नाप्रतिमा पूजितैवं सुराज्यदा । वल्मीकमृत्कृता लाभमेवमिष्टान्प्रयच्छति ॥ ६॥
गौडी सौभाग्यदा सैवं लावणीक्षोभयेदरीम् । निम्बजा नाशयेच्छत्रून्प्रतिमैवं समर्चिता ॥ ७॥
मध्वक्तैर्होमतो (घृतमधुशर्कराक्तैः) लाजैर्वशयेदखिलं जगत् । सुप्तोधिशय्यमुच्छिष्टो जपञ्छत्रून्वशं नयेत् ॥ ८॥
कटुतैलान्वितै राजीपुष्पैर्विद्वेषयेदरीन् । द्यूते विवादे समरे जप्तोऽयं जयमावहेत् ॥ ९॥
कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामयात् । लेभाते राज्यमनरिं वानरेशबि(वि)भीषणौ ॥ १०॥
रक्तवस्त्राङ्गरागाढ्यस्ताम्बूलं निस्वदञ्जपेत् । यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ॥ ११॥
पिशितं वा फलं वापि तेनतेन बलिं हरेत् ॥
१.३ रुद्रयामल तन्त्र प्रयोग :
कृष्णां चतुर्थीमारभ्य यावच्छुक्ला चतुर्थिका ॥ सहस्रं प्रजपेन्नित्यं योषिन्नियमपूर्वकम् ॥
स्नापयेन्मधुना नित्यं नैवेद्यं गुडपायसम् । भुक्तोच्छिष्टो जपेन्नित्यं गाणेशोऽयं सदा प्रियः ॥ १२॥
श्वेतार्केणाकृतिं कृत्वा रक्तचन्दनकेन वा । अङ्गुष्ठमात्रां संस्थाप्य द्विजाग्निगुरुसन्निधौ ॥ १॥
जप्त्वा षोडशसाहस्रं सिद्धमन्त्रो भवेद्ध्रुवम् । सदोच्छिष्टोगणेशानो यक्षराजेनधीमता ॥ १४॥
आराधितः सोपहारैः सम्यगिष्टफलप्रदः । एवं कृत्वा व्यवस्थां तु स धनेश्वरतां गतः ॥ १५॥ अपामार्गसमिद्धोमैः सौभाग्यं लभते ध्रुवम् । अष्टोत्तरशतैर्मन्त्री एतन्मन्त्राभिमन्त्रितैः ॥ १६॥
कीशाश्वास्थिसमुद्भूतं कीलं मन्त्राभिमन्त्रितम् । निखनेन्मन्दिरे यस्य भवेदुच्चाटनं परम् ॥ १७॥
मनुष्यास्थिसमुद्भूतं कीलं मन्त्राभिमन्त्रितम् । निखनेन्मन्दिरे यस्य मरणं तस्य निश्चितम् ॥ १८॥
उद्धृते तु भवेत्स्वास्थ्यमिति सर्वस्य निश्चितम् । यद्यन्नाम्ना जपेन्मन्त्रं सहस्रं स वशी भवेत् ॥ १९॥
पञ्चसाहस्रहोमेन उद्धरेच्चवरां स्त्रियम् । सहस्रदशहोमेन राजा सद्यो वशी भवेत् ॥ २०॥
लक्षजाप्येन राजानो द्विलक्षाद्राजपङ्क्त्यः । दशलक्षेण तद्राष्ट्रं वश्यं तस्य च सर्वथा ॥ २१॥
अणिमादिमहासिद्धिः कोटिजाप्यान्न संशयः । खेचरत्वं भवेन्नित्यं सर्वज्ञत्वं च जायते ॥ २२॥
मन्त्रं लिखित्वा शिरसि कण्ठे वा धारयेद्धृदि । सौभाग्यं सर्वरक्षा च भवेत्तत्र सुनिश्चितम् ॥ २३॥
सारभूतमिदं मन्त्रं न देयं यस्य कस्यचित् । गुह्यं सर्वागमेष्वेवं हितबुद्ध्या प्रकाशितम् ॥ २४॥
नतिथिर्न च नक्षत्रं नोपवासो विधीयते । यथेष्टं चिन्तयेन्मन्त्रं सर्वकामफलप्रदम् ॥ २५॥
इत्युच्छिष्टगणपतिनवार्णमन्त्रप्रयोगः ॥ १॥
१.४ द्वादशाक्षर मन्त्र विधान :
द्वादशाक्षर मन्त्र (12 अक्षर)
विनियोग (12 अक्षर): अस्य श्रीद्वादशाक्षरोच्छिष्टगणेशमन्त्रस्य मनुरृषिः विराट् छन्दः । उच्छिष्टगणपतिर्देवता । गँ बीजम् । ह्रीं शक्तिः । स्वाहा कीलकम् । अखिलाप्तये जपे विनियोगः ॥
ऋष्यादि न्यास: ॐ मनुऋषये नमः शिरसि । ॐ विराट्छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिदेवतायै नमः हृदि । ॐ गँ बीजाय नमः गुह्ये । ॐ स्वाहाशक्तये नमः पादयोः । ॐ ह्रीं कीलकाय नमः नाभौ । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
करन्यास: ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ गँ तर्जनीभ्यां नमः । ॐ हस्ति मध्यमाभ्यां नमः । ॐ पिशाचि अनामिकाभ्यां नमः । ॐ लिखे कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
हृदयादि न्यास: ॐ ह्रीं हृदयाय नमः । ॐ गँ शिरसे स्वाहा । ॐ हस्ति शिखायै वषट् । ॐ पिशाचि कवचाय हुं । ॐ लिखे नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् ।
एवं न्यासं कुर्य्यात् ॥ अन्यत्सर्वं पूर्ववत् ॥ इति द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥
१.५ एकोनविंशत्यक्षर मन्त्र प्रयोग (Mantra Mahodadhi) :
एकोनविंशत्यक्षर मन्त्र (19 अक्षर)
(मन्त्रमहोदधौ) मन्त्रो यथा ॥
विनियोग (19 अक्षर): अस्य श्रीमदेकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रस्य कङ्कोलऋषिः । विराट्छन्दः । उच्छिष्टगणपतिर्देवता । अखिलाप्तये जपे विनियोगः ॥
ऋष्यादिन्यास: ॐ कङ्कोलऋषये नमः शिरसे । ॐ विराट्छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
करन्यास: ॐ नमः अङ्गुष्ठाभ्यां नमः । ॐ उच्छिष्टगणेशाय तर्जनीभ्यां नमः । ॐ हस्ति मध्यमाभ्यां नमः । ॐ पिशाचि अनामिकाभ्यां नमः । ॐ लिखे कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
हृदयादि न्यास: ॐ नमः हृदयाय नमः । ॐ उच्छिष्टगणेशाय शिरसे स्वाहा । ॐ हस्ति शिखायै वषट् । ॐ पिशाचि कवचाय हुं । ॐ लिखे नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥
एवं न्यासं कुर्य्यात् । अन्यत्सर्वं पूर्ववत् । इत्येकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥ ३॥
१.६ सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ।
सप्तत्रिंशदक्षर मन्त्र (37 अक्षर)
अस्य विधानम् ।
विनियोग (37 अक्षर): अस्य श्रीसप्तत्रिंशाक्षरोच्छिष्टगणेशमन्त्रस्य गणकऋषिः । गायत्री छन्दः । उच्छिष्टगणपतिर्देवता । गँ बीजम् । ह्रीं शक्तिः । आँ क्रों कीलकम् । ममाभीष्ठसिद्धये जपे विनियोगः ॥
ऋष्यादि न्यास: ॐ गणकर्षये नमः शिरसि । ॐ गायत्री छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ गँ बीजाय नमो गुह्ये । ॐ ह्रीं शक्तये नमः पादयोः । ॐ आँ क्रों कीलकाय नमो नाभौ । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
करन्यास: ॐ नमो भगवते एकदंष्ट्राय अङ्गुष्ठाभ्यां नमः । ॐ हस्तिमुखाय तर्जनीभ्यां नमः । ॐ लम्बोदराय मध्यमाभ्यां नमः । ॐ उच्छिष्टमहात्मने अनामिकाभ्यां नमः । ॐ आँ क्रों ह्रीं गँ कनिष्ठिकाभ्यां नमः । ॐ घे घे स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
हृदयादि न्यास: ॐ नमो भगवते एकदंष्ट्राय हृदयाय नमः । ॐ हस्तिमुखाय शिरसे स्वाहा । ॐ लम्बोदराय शिखायै वषट् । ॐ उच्छिष्टमहात्मने कवचाय हुं । ॐ आँ क्रों ह्रीं गँ नेत्रत्रयाय वौषट् । ॐ घे घे स्वाहा अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥
एवं न्यासं कृत्वा ध्यायेत् ॥
ध्यानम्: ॐ शरान्धनुः पाशासृणी स्वहस्तैर्दधानमारक्तसरोरुहस्थम् । विवस्त्रपत्न्यां सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥ १॥
एवं ध्यात्वा पूर्वोक्तपीठपूजां विधाय पूर्वोक्ता वरणपूजां च कृत्वा जपं कुर्य्यात् ॥
पुरश्चरण विधि: अस्य पुरश्चरणमेकलक्षजपः । तद्दशांशतो घृतहोमः । तत्तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् । एवं कृते मन्त्रः सिद्धो भवति ॥
सिद्धे मन्त्रे मन्त्री प्रयोगान् साधयेत् ॥
काम्य प्रयोग:तथा च । लक्षं जपेद्धृतैर्हुत्वा तद्दशांशं प्रपूजयेत् । पूर्वोक्तपीठे स्वाभीष्टसिद्धये पूर्ववद्विभुम् ॥ १॥
कृष्णाष्टम्यादि भूतान्त यावत्तावज्जपेन्मनुम् । प्रत्यहं साष्टसाहस्रं जुहुयात्तद्दशांशतः ॥ २॥
तर्पयेदपि मन्त्रोऽयं सिद्धिमेवं प्रयच्छति । धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ॥ ३॥
मूर्तिं कुर्याद्गणेशस्य शुभाहे निम्बदारुणा । प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ॥ ४॥
यं ध्यात्वा दासवत्सोऽपि वश्यो भवति निश्चितम् । नदीजलं समादाय सप्तविंशतिसङ्ख्यया ॥ ५॥
मन्त्रयित्वा मुखं तेन प्रक्षाल्येशसभां व्रजेत् । पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ॥ ६॥
चतुःसहस्रं धत्तूरपुष्पाणिमनुनार्पयेत् । गणेशाय नृपादीनां जनानां वश्यताकृते ॥ ७॥
सुन्दरीवामपादस्य रेणुमादाय तत्र तु । संस्थाप्य गणनाथस्य प्रतिमां प्रजपेन्मनुम् ॥ ८॥
तां ध्यात्वा रविसाहस्रं सा समायातिदूरतः । श्वेताकेणाथ निम्बेन कृत्वा मूर्तिं धृतांशुकाम् ॥ ९॥
चतुर्थां पूजयेद्रात्रौ रक्तैः कुसुमचन्दनैः । जपत्वा सहस्रं तां मूर्तिं क्षिपेद्रात्रौ सरित्तटे ॥ १०॥
स्वेष्टं कार्यं समाचष्टे स्वप्ने तस्य गणाधिपः । सहस्रं निम्बकाष्ठानां होमादुच्चाटयेदरीन् ॥ ११॥
वजिणासमिधा होमाद्रिपुर्यमपुरं व्रजेत् । वानरस्यास्थि सञ्जप्तं क्षिप्तमुच्चाटयेद्गृहे ॥ १२॥
जप्तं नरास्थि कन्याया गृहे क्षिप्तं तदाप्तिकृत् । कुलालस्य मृदा स्त्रीणां वामपादस्य रेणुना ॥ १३॥
कृत्वा पुत्तलिकां तस्या हृदि स्त्रीनाम संलिखेत् । निखनेन्मन्त्र सञ्जप्तैर्न्निम्ब काष्ठैः क्षिताविमाम् ॥ १४॥
सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुखं भवेत् । शत्रोरेवं कृता सा तु लशुनेन समाचिता ॥ १५॥
शरावान्तगता सम्यक्पूजिता द्वारि विद्विषः । निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥ १६॥
विषमे समनुप्राप्ते सितार्कारिष्टदारुजम् । गणपं पूजितं सम्यक्कुसुमै रक्तचन्दनैः ॥ १७॥
मद्यभाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले । तत्रोपविश्य प्रजेन्मन्त्री नक्तं दिवा मनुम् ॥ १८॥
सप्ताहमध्ये नश्यन्ति सर्वे घोरा उपद्रवाः । शत्रवो वश्यतां यान्ति वर्द्धन्ते धनसम्पदः ॥ १९॥
दुष्टस्त्रीवामपादस्य रजसा निजदेहजैः । मलैर्मूत्रपुरीषाद्यैः कुम्भकारमृदापि च ॥ २०॥
एतैः कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् । सम्पूज्य निखनेद्भूमौ हस्तार्द्धे पूरिते पुनः ॥ २१॥
संस्थाप्य वह्निं जुहुयात्कुसुमैर्हयमारजैः (करवीरोद्भवैः) । सहस्रं सा भवेद्दासी तन्वा च मनसा धनैः ॥ २२॥
एवमादिप्रयोगांस्तु नवार्णेनापि साधयेत् । परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥ २३॥
इति सप्तत्रिंशदक्षरमन्त्रप्रयोगः ॥
१.७ प्रकारान्तरेणैकाधिकचत्वारिंशदक्षरभेदो रुद्रयामले :
(रुद्रयामले) मन्त्रो यथा ॥
एकाधिकचत्वारिंशदक्षर मन्त्र (41 अक्षर)
विनियोग: अस्य श्रीमदुच्छिष्टमहागणपतिमन्त्रस्य मतङ्गभगवानृषिः । गायत्री छन्दः । उच्छिष्टमहागणपतिर्देवता । गँ बीजम् । स्वाहा शक्तिः । ह्रीं कीलकम् । ममाभीष्टसिद्धये जपे विनियोगः । इति विनियोगं कुर्यात् ॥
अन्यत्सर्वं पूर्ववत् ॥
१.८ मन्त्रमहोदद्धौ द्वात्रिंशदक्षरमन्त्रभेदः :
(मन्त्रमहोदधौ) मन्त्रो यथा ।
द्वात्रिंशदक्षर मन्त्र (32 अक्षर)
विनियोग: अस्य श्रीमदुच्छिष्टगणपतिमन्त्रस्य गणकऋषिः । गायत्री छन्दः । उच्छिष्टगणपतिर्देवता । ममाभीष्टसिद्धये जपे विनियोगः ॥
ऋष्यादि न्यास: ॐ गणकऋषये नमः शिरसि । ॐ गायत्रीछन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
करन्यास: ॐ हस्तिमुखाय अङ्गुष्ठाभ्यां नमः । ॐ लम्बोदराय तर्जनीभ्यां नमः । ॐ उच्छिष्टमहात्मने मध्यमाभ्यां नमः । ॐ आँ क्रों ह्रीं क्लीं ह्रीं हुँ अनामिकाभ्यां नमः । ॐ घे घे उच्छिष्टाय कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
एवमेव हृदयादिषडङ्गन्यासं च कुर्यात् ॥
अन्यत्सर्वं पूर्ववत् ॥
तथा च ॥
द्वात्रिंशदक्षरो मन्त्रो यजनं पूर्ववत्स्मृतम् । उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधयेत् ॥ १॥
सिद्धादिचक्रमासादेः प्राप्तास्ते सिद्धिदा गुरोः । मनवोमी सदा गोप्या न प्रकाश्या यतः कुतः । परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥ २॥
इति ॥
१.९ एकत्रिंशदक्षरमन्त्रभेदः :
अथैकत्रिंशदक्षरमन्त्रभेदः ॥
एकत्रिंशदक्षर मन्त्र (31 अक्षर)
विधानम्: अस्य विधानम् ॥
कटुनिम्बमूलस्य पर्वमानाङ्गणेशप्रतिमां कृत्वा कृष्णाष्टमी- मारभ्यामावास्यापर्यन्तं पञ्चशतसङ्ख्याकं जपं प्रतिदिनं कुर्यात् ॥
स्वयमुच्छिष्टमुखे भूत्वा गणेशाग्रे स्थाल्यां रक्तचन्दनाक्षतपुष्पाणि धृत्वा समभ्यर्च्य स्वेच्छिष्टमुखेन जपः कर्तव्यः ॥
एवं दिनसप्तकं कृत्वाष्टमे दिवसे स्वयमुच्छिष्टमुखो भूत्वैवपञ्चखाद्येन पञ्चशतं जुहुयात् । ततोभिलषितं ददाति महिमा भवति ॥ १॥
अभिलषितबालाचित्रोपरिगणेशं संस्थाप्य प्रत्यहमष्टोत्तरशतं जपेत् । दिनत्रयादाकर्षयति । तं गणेशं तत्कपाले संस्थाप्य सा पुनर्गच्छति । पुनरानयनायाष्टोत्तरशतं जपेत् । यदि सा पुनर्नायाति तर्हि ॥ २॥
तं गणेशमुच्छिष्टमुखाग्रे निधायाष्टोत्तरशतं जपेत् । राजा वशी भवति ॥ ३॥
तं गणेशं नद्यां नीत्वा प्रक्षाल्य स्वमुखाद्वारचतुष्टयं प्रक्षाल्य तस्मात् पतितं किञ्चिदुदकं भाण्डे निक्षिपेत् । तदुदकं ये पिबन्ति ते सर्वे वश्या भवन्ति ॥ ४॥
तं गणेशं द्वारे तरुवरशाखायां निक्षिप्य सम्पूज्याष्टोत्तरशतं जपेत् । गृहे ह्यखण्डितमन्नं भवति ॥ ५॥
तं गणेशं ताम्रे रौप्ये वा निक्षिप्य कटिबन्धनात्स्त्रियो वश्या भवन्ति । शत्रुगणः स्तम्भीभवति ॥ ६॥
तं गणेशं करतले धृत्वा कनकपुष्पैरर्चयेत् पश्चात्करेण करवालं दृत्वा दशशतं जपति तदा सङ्ग्रामे जयो भवति ॥ ७॥
तं गणेशमत्रोपरि संस्थाप्याष्टोत्तरशतं जपेत् । उदरपूरणार्थमन्नप्राप्तिर्भवति ॥ ८॥
तं गणेशं पाणौ प्रक्षाल्य तदुदकपानाच्छत्रुनामग्रहणाद्रिपुनाशः स्यात् ॥ १॥
इत्येकाधिकत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ।
इति श्रीमदुच्छिष्टगणपत्युपासनापञ्चरत्ने श्रीमदुच्छिष्टगणपतिपटलनिरूपणन्नाम प्रथमं रत्नम् ॥ १॥
मन्त्र सिद्धि के लाभ
शास्त्रों के अनुसार इन मन्त्रों की सिद्धि से:
- सर्वार्थ सिद्धि - धर्म, अर्थ, काम और मोक्ष की प्राप्ति
- राज वशीकरण - राजा और समाज में सम्मान
- शत्रु शमन - शत्रुओं और विघ्नों का नाश
- धन प्राप्ति - कुबेर के समान ऐश्वर्य की प्राप्ति
