Logoपवित्र ग्रंथ

श्री वाराही षोडशोपचार पूजा

श्री वाराही षोडशोपचार पूजा

श्री वाराही षोडशोपचार पूजा

माँ वाराही का विस्तृत पूजन विधान

माँ वाराही, सप्तमातृकाओं में प्रमुख और शक्ति, साहस तथा विजय की दात्री हैं। यह विस्तृत 16-चरणीय पूजा विधि (षोडशोपचार) साधक को माँ की विशेष कृपा, शत्रु बाधा से मुक्ति और सर्वार्थ सिद्धि प्रदान करती है।

पूजन पूर्व तैयारी (Preliminary Steps)

पूजा प्रारम्भ करने से पूर्व निम्नलिखित सम्पन्न करें:

  1. पूर्वाङ्ग (Purvangam): शुद्धिकरण और प्राथमिक पूजा।
  2. हरिद्रा गणपति पूजा: विघ्नों के नाश के लिए हल्दी के गणपति का पूजन।
1. पुनः सङ्कल्पम् (Sankalpam) हाथ में अक्षत और जल लेकर निम्न मंत्र से संकल्प लें: पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री वाराही मातृका देवता अनुग्रह प्रसाद सिद्धिद्वारा सर्वशत्रुबाधा शान्त्यर्थं, मम सर्वारिष्ट निवृत्त्यर्थं, सर्वकार्य सिद्ध्यर्थं, श्री वाराही देवता प्रीत्यर्थं श्रीसूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥ 2. प्राणप्रतिष्ठा (Prana Pratishtha) मूर्ति या यंत्र में प्राण प्रतिष्ठा हेतु निम्न मंत्र बोलें: ॐ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥ अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ॥ आवाहिता भव स्थापिता भव । सुप्रसन्नो भव वरदा भव । स्थिरासनं कुरु प्रसीद प्रसीद । नमस्तेऽस्तु महादेवि वरदे विश्वरक्षिणी । सान्निध्यं कुरु मे देवि जगन्मातः कृपापरे ॥ अस्मिन् बिम्बे श्रीवाराही देवतामावाहयामि स्थापयामि पूजयामि । 1. ध्यानम् (Dhyanam) माँ वाराही के स्वरूप का ध्यान करें: मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्भासितां कोलास्यां शशिशेखरामचलया दंष्ट्रातले शोभिताम् । बिभ्राणां स्वकराम्बुजैरसिलतां चर्माऽसि पाशं सृणिं वाराहीमनुचिन्तयेद्धयवरारूढां शुभालङ्कृतिम् ॥ १ विद्युद्रोचिर्हस्तपद्मैर्दधाना पाशं शक्तिं मुद्गरं चाङ्कुशं च । नेत्रोद्भूतैर्वीतिहोत्रैस्त्रिनेत्रा वाराही नः शत्रुवर्गं क्षिणोतु ॥ २ ॐ श्रीवाराही देव्यै नमः ध्यायामि । 2. आवाहनम् (Avahanam) माँ का आवाहन करें: हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ आगच्छ वरदे देवि दैत्यदर्पनिषूदिनी । पूजां गृहाण सुमुखी नमस्ते शङ्करप्रिये ॥ ॐ श्रीवाराही देव्यै नमः आवाहयामि । 3. आसनम् (Asanam) आसन (seat) प्रदान करें: तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । मातः स्वर्णमयं दिव्यमानसं प्रतिगृह्यताम् ॥ ॐ श्रीवाराही देव्यै नमः नवरत्न खचित सुवर्णसिंहासनं समर्पयामि । 4. पाद्यम् (Padyam) पाँव धोने के लिए जल अर्पित करें: अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृतम् । तोयमेतत्सुखं स्पर्श पाद्यर्थं प्रतिगृह्यताम् ॥ ॐ श्रीवाराही देव्यै नमः पादयोः पाद्यं समर्पयामि । 5. अर्घ्यम् (Arghyam) हाथ धोने के लिए जल अर्पित करें: कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥ ॐ श्रीवाराही देव्यै नमः हस्तयोः अर्घ्यं समर्पयामि । 6. आचमनीयम् (Achamaniyam) आचमन के लिए जल अर्पित करें: चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ आचम्यतां त्वया देवि भक्तिर्मे ह्यचलां कुरु । ईप्सितां मे वरं देहि परत्र च परां गतिम् ॥ ॐ श्रीवाराही देव्यै नमः मुखे आचमनीयं समर्पयामि । 7. मधुपर्कम् (Madhuparkam) मधु और दही का मिश्रण अर्पित करें: कापिलं दधि कुन्देन्दुधवलं मधुसंयुतम् । स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥ ॐ श्रीवाराही देव्यै नमः मधुपर्कं समर्पयामि । 8. पञ्चामृत स्नानम् (Panchamrita Snanam) पाँच अमृत तत्वों से स्नान कराएं: पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करादि समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ श्रीवाराही देव्यै नमः पञ्चामृतस्नानं समर्पयामि । 9. स्नानम् (Snanam) शुद्ध जल से स्नान कराएं: आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ जाह्नवी तोयमानीतं शुभं कर्पूरसंयुतम् । स्नापयामि सुरश्रेष्ठे त्वां पुत्रादि फलप्रदान् ॥ ॐ श्रीवाराही देव्यै नमः शुद्धोदकस्नानं समर्पयामि । स्नानानन्तरं शुद्धाचमनीयं समर्पयामि । 10. वस्त्रम् (Vastram) वस्त्र अर्पित करें: उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ वस्त्रं च सोमदेवत्यं लज्जायास्तु निवारणम् । मया निवेदितं भक्त्या गृहाण परमेश्वरी ॥ ॐ श्रीवाराही देव्यै नमः वस्त्रयुग्मं समर्पयामि । 11. आभरणम् (Abharanam) आभूषण अर्पित करें: क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ स्वभाव सुन्दराङ्गार्थे नानाशक्त्याश्रिते शिवे । भूषणानि विचित्राणि कल्पयाम्यमरार्चिते ॥ ॐ श्रीवाराही देव्यै नमः आभरणानि समर्पयामि । 12. गन्धम् (Gandham) चन्दन/इत्र अर्पित करें: गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोर्पह्वये श्रियम् ॥ परमानन्द सौभाग्य परिपूर्ण दिगन्तरे । गृहाण परमं गन्धं कृपया परमेश्वरि ॥ ॐ श्रीवाराही देव्यै नमः गन्धं समर्पयामि । 13. कुङ्कुमम् (Kumkumam) कुंकुम अर्पित करें: कुङ्कुमं कान्तिदं दिव्यं कामिनी कामसम्भवम् । कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि ॥ ॐ श्रीवाराही देव्यै नमः कुङ्कुमं समर्पयामि । 14. कज्जलम् (Kajjalam) कजल (Kajal) अर्पित करें: चक्षुभ्यां कज्जलं रम्यं सुभगे शक्तिकारिके । कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥ ॐ श्रीवाराही देव्यै नमः कज्जलं समर्पयामि । 15. सौभाग्य सूत्रम् (Saubhagya Sutram) मंगलसूत्र/धागा अर्पित करें: सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुते । कण्ठे गृहाण देवेशि सौभाग्यं देहि मे सदा ॥ ॐ श्रीवाराही देव्यै नमः सौभाग्य सूत्रं समर्पयामि । 16. हरिद्राचूर्णम् (Haridra Churnam) हल्दी चूर्ण अर्पित करें: स्वर्णाभममलं रम्यं पवित्रं शुभवर्धनम् । लक्ष्मीकरं च ते देवी हरिद्राचूर्णमर्पये ॥ ॐ श्रीवाराही देव्यै नमः हरिद्राचूर्णं समर्पयामि । 17. अक्षतान् (Akshatan) अक्षत (चावल) अर्पित करें: रञ्जिता कुङ्कुमौघेन अक्षताश्चापि शोभनाः । ममैषां देवि दानेन प्रसन्नाभवमीश्वरी ॥ ॐ श्रीवाराही देव्यै नमः अक्षतान् समर्पयामि । 18. पुष्पमाला एवं पुष्पाणि (Flowers) पुष्पमाला और फूल अर्पित करें: मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ मन्दार पारिजातादि पाटली केतकानि च । जाती चम्पक पुष्पाणि गृहाण परमेश्वरी ॥ सुरभिं पुष्पनिचयैर्ग्रथितं शुभमालिकाम् । ददामि तव शोभार्थं गृहाण परमेश्वरि ॥ ॐ श्रीवाराही देव्यै नमः पुष्पमालां पुष्पाणि च समर्पयामि । अङ्ग पूजा (Anga Puja)
निम्न मंत्रों से देवी के विभिन्न अंगों पर पुष्प/अक्षत अर्पित करें: सर्वदेवता पूज्यमानपादश्रियै नमः – पादौ पूजयामि । किरिचक्ररथारूढायै नमः – गुल्फौ पूजयामि । क्रियाशक्तिस्वरूपिण्यै नमः – जानुनी पूजयामि । कर्मप्रेरणरूपायै नमः – कटिं पूजयामि । कर्मफलदात्र्यै नमः – हृदयं पूजयामि । भक्तारिशमन्यै नमः – स्तनौ पूजयामि । हलमुसलाद्यायुधधारिण्यै नमः – बाहून् पूजयामि । निग्रहानुग्रहदक्षायै नमः – कण्ठं पूजयामि । कोलास्यायै नमः – मुखं पूजयामि । जगद्वर्तनकारणायै नमः – नासिकां पूजयामि । भक्तानुग्रहशीलिन्यै नमः – नेत्रे पूजयामि । इच्छाशक्तिरूपिण्यै नमः – कर्णौ पूजयामि । चन्द्रशेखरायै नमः – शिरः पूजयामि । शुभालङ्कृतये नमः – सर्वाण्यङ्गानि पूजयामि ।
शक्ति पूजा (Shakti Puja)
ॐ उच्चाटनी शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ उच्चाटनेशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ शोषणी शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ शोषणेशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ मारणे शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ मारणेशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ भीषणी शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ भीषणेशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ त्रासनी शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ त्रासनेशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ कम्पनी शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ कम्पनेशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ आज्ञाविवर्तिनी शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ आज्ञाविवर्तिनीशि शक्ति सेवितायै श्री वाराही देव्यै नमः । ॐ वस्तुजातेश्वरी शक्ति सेवितायै श्री वाराही देव्यै नमः ॐ सर्वसम्पादनीश्वरी शक्ति सेवितायै श्री वाराही देव्यै नमः । षोडशशक्ति सेवितायै श्री वाराही देव्यै नमः ।
अष्टोत्तरशतनाम पूजा (Ashtottara Shatanam Puja) उत्तराङ्ग पूजा (Uttarangam)
धूपम् (Dhupam) कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ दशाङ्ग गुग्गुलं धूपं चन्दनागरु संयुतम् । समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥ ॐ श्रीवाराही देव्यै नमः धूपमाघ्रापयामि । दीपम् (Deepam) आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥ घृतवर्तिसमायुक्तं महातेज महोज्ज्वलम् । दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥ ॐ श्रीवाराही देव्यै नमः दीपं दर्शयामि । नैवेद्यम् (Naivedyam) आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । नैवेद्यं गृह्यतां देवि भक्तिर्मेह्यचलां कुरु ॥ ॐ श्रीवाराही देव्यै नमः नैवेद्यं समर्पयामि । ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अमृतोपस्तरणमसि । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । मध्ये मध्ये पानीयं समर्पयामि । अमृतापिधानमसि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ऋतुफलम् (Rituphalam) द्राक्षा खर्जूर कदली पनसाम्रकपित्यकम् । नारिकेलेक्षुजम्ब्वादि फलानि प्रतिगृह्यताम् ॥ ॐ श्रीवाराही देव्यै नमः ऋतुफलं समर्पयामि । ताम्बूलम् (Tambulam) आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ एलालवङ्ग कस्तूरी कर्पूरैः सुष्ठुवासिताम् । वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥ ॐ श्रीवाराही देव्यै नमः ताम्बूलं समर्पयामि । नीराजनम् (Nirajanam/Aarti) तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम् । चन्द्रार्कवह्नि सदृशं महादेवि नमोऽस्तु ते ॥ ॐ श्रीवाराही देव्यै नमः नीराजनं समर्पयामि । मन्त्रपुष्पम् (Mantra Pushpam) पुष्पांजलि अर्पित करें: ॐ ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि ऐं ग्लौं ऐं अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः ऐं ग्लौं ऐं सर्वदुष्ट प्रदुष्टानां सर्वेषां सर्व वाक् चित्त चक्षुर्मुख गति जिह्वा स्तम्भनं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ऐं ठः ठः ठः ठः हुं फट् स्वाहा ॥ ॐ श्रीवाराही देव्यै नमः मन्त्रपुष्पं समर्पयामि । प्रदक्षिणा (Pradakshina) यानिकानि च पापानि जन्मान्तरकृतानि च तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे । पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव । त्राहि मां कृपया देवी शरणागतवत्सले । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरी । ॐ श्रीवाराही देव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि । साष्टाङ्ग नमस्कारम् (Sashtanga Namaskaram) नमः सर्वहितार्थायै जगदाधार हेतवे । साष्टाङ्गोऽयं प्रणामस्तु प्रयत्नेन मया कृतः ॥ ॐ श्रीवाराही देव्यै नमः साष्टाङ्ग नमस्कारान् समर्पयामि । प्रार्थना (Prarthana) नमस्ते देवि देवेशि नमस्ते ईप्सितप्रदे । नमस्ते जगतां धात्रि नमस्ते भक्तवत्सले ॥ रसं रूपं च गन्धं च शब्दं स्पर्शं च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥ ॐ श्रीवाराही देव्यै नमः प्रार्थना नमस्कारान् समर्पयामि । सर्वोपचाराः (Sarvopachara) ॐ श्री वाराही देव्यै नमः छत्रं आच्छादयामि । ॐ श्री वाराही देव्यै नमः चामरैर्वीजयामि । ॐ श्री वाराही देव्यै नमः नृत्यं दर्शयामि । ॐ श्री वाराही देव्यै नमः गीतं श्रावयामि । ॐ श्री वाराही देव्यै नमः आन्दोलिकान्ना रोहयामि । ॐ श्री वाराही देव्यै नमः अश्वानारोहयामि । ॐ श्री वाराही देव्यै नमः गजानारोहयामि । यद्यद्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् । देवभूपा़र्ह भोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥ ॐ श्री वाराही देव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि । क्षमा प्रार्थना (Kshama Prarthana) अपराध सहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं परात्परे । यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥ अनया मया कृतेन श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री वाराही देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥ तीर्थप्रसाद ग्रहणम् (Teertha Prasada Grahanam) अकालमृत्युहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं मातृपादोदकं शुभम् ॥ ॐ श्रीवाराही देव्यै नमः प्रसादं शिरसा गृह्णामि । विसर्जनम् (Visarjanam) इदं पूजा मया देवि यथाशक्त्युपपादिताम् । रक्षार्थं त्वं समादाय व्रजस्थानमनुत्तमम् ॥ ॐ श्रीवाराही देव्यै नमः यथास्थानमुद्वासयामि । ॐ शान्तिः शान्तिः शान्तिः ॥

इस पूजा के लाभ (Benefits)

श्री वाराही देवी की षोडशोपचार पूजा (Shodasopachara Puja) कलयुग में शीघ्र फलदायी मानी गयी है।

  • शत्रु नाश (Protection from Enemies): यह पूजा कोर्ट-कचहरी, मुकदमे और ज्ञात-अज्ञात शत्रुओं से रक्षा करती है।
  • तंत्र बाधा निवारण: काले जादू, बुरी नजर और नकारात्मक शक्तियों को दूर करने के लिए यह 'रामबाण' उपाय है।
  • धन और समृद्धि: वाराही देवी 'भूमि' की अधिष्ठात्री हैं, अतः जमीन-जायदाद और रियल एस्टेट के कार्यों में सफलता मिलती है।
  • शीघ्र फल: रात्रि के समय की गई यह पूजा तत्काल परिणाम देती है।

पूजा का शुभ मुहूर्त (Best Time)

  • तिथि: कृष्ण पक्ष की पंचमी, अष्टमी, और अमावस्या तिथियां सर्वोत्तम हैं।
  • समय: माँ वाराही 'रात्रि देवी' हैं, अतः सूर्यास्त के बाद (गोधूलि बेला) या मध्यरात्रि की पूजा सर्वश्रेष्ठ फल देती है।
  • दिन: शुक्रवार और मंगलवार विशेष शुभ माने जाते हैं।

क्या हम घर पर वाराही पूजा कर सकते हैं?

हाँ, आप घर पर सात्विक विधि से यह पूजा कर सकते हैं। माँ वाराही अत्यंत दयालु हैं और भक्त की सच्ची भावना देखती हैं।

माँ वाराही को क्या भोग (नैवेद्य) पसंद है?

माँ को 'जमीन के नीचे उगने वाली' कंद-मूल जैसे **शकरकंद (Sweet Potato)**, **अरबी**, और **अनार** अत्यंत प्रिय हैं। इसके अलावा गुड़ का पानी (Panakam) और उड़द दाल के बड़े भी चढ़ाए जाते हैं।

यह पूजा कितनी बार करनी चाहिए?

किसी विशेष मनोकामना के लिए 11 या 21 मंगलवार/शुक्रवार तक लगातार यह पूजा करने से कार्य अवश्य सिद्ध होता है।

।। ॐ महालक्ष्म्यै नमः ।।